| |
|

This overlay will guide you through the buttons:

ज्ञाति-सामन्त-धनिकाः क्रमेण भूमि-परिग्रहान्क्रेतुं अभ्याभवेयुः ॥ ०३.९.०१ ॥
ज्ञाति-सामन्त-धनिकाः क्रमेण भूमि-परिग्रहान् क्रेतुम् अभ्याभवेयुः ॥ ०३।९।०१ ॥
jñāti-sāmanta-dhanikāḥ krameṇa bhūmi-parigrahān kretum abhyābhaveyuḥ .. 03.9.01 ..
ततोअन्ये बाह्याः ॥ ०३.९.०२ ॥
ततस् अन्ये बाह्याः ॥ ०३।९।०२ ॥
tatas anye bāhyāḥ .. 03.9.02 ..
सामन्त-चत्वारिंशत्-कुल्येषु गृह-प्रतिमुखे वेश्म श्रावयेयुः । सामन्त-ग्राम-वृद्धेषु क्षेत्रं आरामं सेतु-बन्धं तटाकं आधारं वा मर्यादासु यथा-सेतु-भोगं "अनेनार्घेण कः क्रेता" इति ॥ ०३.९.०३ ॥
सामन्त-चत्वारिंशत्-कुल्येषु गृह-प्रतिमुखे वेश्म श्रावयेयुः । सामन्त-ग्राम-वृद्धेषु क्षेत्रम् आरामम् सेतु-बन्धम् तटाकम् आधारम् वा मर्यादासु यथा सेतु-भोगम् "अनेन अर्घेण कः क्रेता" इति ॥ ०३।९।०३ ॥
sāmanta-catvāriṃśat-kulyeṣu gṛha-pratimukhe veśma śrāvayeyuḥ . sāmanta-grāma-vṛddheṣu kṣetram ārāmam setu-bandham taṭākam ādhāram vā maryādāsu yathā setu-bhogam "anena argheṇa kaḥ kretā" iti .. 03.9.03 ..
त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत ॥ ०३.९.०४ ॥
त्रिस् आघुषितम् अव्याहतम् क्रेता क्रेतुम् लभेत ॥ ०३।९।०४ ॥
tris āghuṣitam avyāhatam kretā kretum labheta .. 03.9.04 ..
स्पर्धया वा मूल्य-वर्धने मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ॥ ०३.९.०५ ॥
स्पर्धया वा मूल्य-वर्धने मूल्य-वृद्धिः स शुल्का कोशम् गच्छेत् ॥ ०३।९।०५ ॥
spardhayā vā mūlya-vardhane mūlya-vṛddhiḥ sa śulkā kośam gacchet .. 03.9.05 ..
विक्रय-प्रतिक्रोष्टा शुल्कं दद्यात् ॥ ०३.९.०६ ॥
विक्रय-प्रतिक्रोष्टा शुल्कम् दद्यात् ॥ ०३।९।०६ ॥
vikraya-pratikroṣṭā śulkam dadyāt .. 03.9.06 ..
अस्वामि-प्रतिक्रोशे चतुर्-विंशति-पणो दण्डः ॥ ०३.९.०७ ॥
अस्वामि-प्रतिक्रोशे चतुर्-विंशति-पणः दण्डः ॥ ०३।९।०७ ॥
asvāmi-pratikrośe catur-viṃśati-paṇaḥ daṇḍaḥ .. 03.9.07 ..
सप्त-रात्रादूर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ॥ ०३.९.०८ ॥
सप्त-रात्रात् ऊर्ध्वम् अन् अभिसरतः प्रतिक्रुष्टः विक्रीणीत ॥ ०३।९।०८ ॥
sapta-rātrāt ūrdhvam an abhisarataḥ pratikruṣṭaḥ vikrīṇīta .. 03.9.08 ..
प्रतिक्रुष्ट-अतिक्रमे वास्तुनि द्विशतो दण्डः । अन्यत्र चतुर्-विंशति-पणो दण्डः इति वास्तु-विक्रयः । ॥ ०३.९.०९ ॥
प्रतिक्रुष्ट-अतिक्रमे वास्तुनि द्विशतः दण्डः । अन्यत्र चतुर्-विंशति-पणः दण्डः इति वास्तु-विक्रयः । ॥ ०३।९।०९ ॥
pratikruṣṭa-atikrame vāstuni dviśataḥ daṇḍaḥ . anyatra catur-viṃśati-paṇaḥ daṇḍaḥ iti vāstu-vikrayaḥ . .. 03.9.09 ..
सीम-विवादं ग्रामयोरुभयोः सामन्ता पञ्च-ग्रामी दश-ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात् ॥ ०३.९.१० ॥
सीम-विवादम् ग्रामयोः उभयोः सामन्ता पञ्च-ग्रामी दश-ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैः वा कुर्यात् ॥ ०३।९।१० ॥
sīma-vivādam grāmayoḥ ubhayoḥ sāmantā pañca-grāmī daśa-grāmī vā setubhiḥ sthāvaraiḥ kṛtrimaiḥ vā kuryāt .. 03.9.10 ..
कर्षक-गो-पालक-वृद्धाः पूर्व-भुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीम-सेतून्विपरीत-वेषाः सीमानं नयेयुः ॥ ०३.९.११ ॥
कर्षक-गो-पालक-वृद्धाः पूर्व-भुक्तिकाः वा बाह्याः सेतूनाम् अभिज्ञाः बहवः एकः वा निर्दिश्य सीम-सेतून् विपरीत-वेषाः सीमानम् नयेयुः ॥ ०३।९।११ ॥
karṣaka-go-pālaka-vṛddhāḥ pūrva-bhuktikāḥ vā bāhyāḥ setūnām abhijñāḥ bahavaḥ ekaḥ vā nirdiśya sīma-setūn viparīta-veṣāḥ sīmānam nayeyuḥ .. 03.9.11 ..
उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः । ॥ ०३.९.१२ ॥
उद्दिष्टानाम् सेतूनाम् अ दर्शने सहस्रम् दण्डः । ॥ ०३।९।१२ ॥
uddiṣṭānām setūnām a darśane sahasram daṇḍaḥ . .. 03.9.12 ..
तदेव नीते सीम-अपहारिणां सेतुच्-छिदां च कुर्यात् ॥ ०३.९.१३ ॥
तत् एव नीते सीम-अपहारिणाम् सेतु-छिदाम् च कुर्यात् ॥ ०३।९।१३ ॥
tat eva nīte sīma-apahāriṇām setu-chidām ca kuryāt .. 03.9.13 ..
प्रनष्ट-सेतु-भोगं वा सीमानं राजा यथा-उपकारं विभजेत् इति सीम-विवादः । ॥ ०३.९.१४ ॥
प्रनष्ट-सेतु-भोगम् वा सीमानम् राजा यथा उपकारम् विभजेत् इति सीम-विवादः । ॥ ०३।९।१४ ॥
pranaṣṭa-setu-bhogam vā sīmānam rājā yathā upakāram vibhajet iti sīma-vivādaḥ . .. 03.9.14 ..
क्षेत्र-विवादं सामन्त-ग्राम-वृद्धाः कुर्युः ॥ ०३.९.१५ ॥
क्षेत्र-विवादम् सामन्त-ग्राम-वृद्धाः कुर्युः ॥ ०३।९।१५ ॥
kṣetra-vivādam sāmanta-grāma-vṛddhāḥ kuryuḥ .. 03.9.15 ..
तेषां द्वैधी-भावे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ॥ ०३.९.१६ ॥
तेषाम् द्वैधी-भावे यतस् बहवः शुचयः अनुमताः वा ततस् नियच्छेयुः मध्यम् वा गृह्णीयुः ॥ ०३।९।१६ ॥
teṣām dvaidhī-bhāve yatas bahavaḥ śucayaḥ anumatāḥ vā tatas niyaccheyuḥ madhyam vā gṛhṇīyuḥ .. 03.9.16 ..
तद्-उभय-परा-उक्तं वास्तु राजा हरेत् । प्रनष्ट-स्वामिकं च ॥ ०३.९.१७ ॥
तद्-उभय-परा-उक्तम् वास्तु राजा हरेत् । प्रनष्ट-स्वामिकम् च ॥ ०३।९।१७ ॥
tad-ubhaya-parā-uktam vāstu rājā haret . pranaṣṭa-svāmikam ca .. 03.9.17 ..
यथा-उपकारं वा विभजेत् ॥ ०३.९.१८ ॥
यथा उपकारम् वा विभजेत् ॥ ०३।९।१८ ॥
yathā upakāram vā vibhajet .. 03.9.18 ..
प्रसह्य-आदाने वास्तुनि स्तेय-दण्डः ॥ ०३.९.१९ ॥
प्रसह्य आदाने वास्तुनि स्तेय-दण्डः ॥ ०३।९।१९ ॥
prasahya ādāne vāstuni steya-daṇḍaḥ .. 03.9.19 ..
कारण-आदाने प्रयासं आजीवं च परिसंख्याय बन्धं दद्यात् इति क्षेत्र-विवादः । ॥ ०३.९.२० ॥
कारण-आदाने प्रयासम् आजीवम् च परिसंख्याय बन्धम् दद्यात् इति क्षेत्र-विवादः । ॥ ०३।९।२० ॥
kāraṇa-ādāne prayāsam ājīvam ca parisaṃkhyāya bandham dadyāt iti kṣetra-vivādaḥ . .. 03.9.20 ..
मर्यादा-अपहरणे पूर्वः साहस-दण्डः ॥ ०३.९.२१ ॥
मर्यादा-अपहरणे पूर्वः साहस-दण्डः ॥ ०३।९।२१ ॥
maryādā-apaharaṇe pūrvaḥ sāhasa-daṇḍaḥ .. 03.9.21 ..
मर्यादा-भेदे चतुर्-विंशति-पणः ॥ ०३.९.२२ ॥
मर्यादा-भेदे चतुर्-विंशति-पणः ॥ ०३।९।२२ ॥
maryādā-bhede catur-viṃśati-paṇaḥ .. 03.9.22 ..
तेन तपो-वन-विवीत-महा-पथ-श्मशान-देव-कुल-यजन-पुण्य-स्थान-विवादा व्याख्याताः इति मर्यादा-स्थापनं । ॥ ०३.९.२३ ॥
तेन तपः-वन-विवीत-महा-पथ-श्मशान-देव-कुल-यजन-पुण्य-स्थान-विवादाः व्याख्याताः इति मर्यादा-स्थापनम् । ॥ ०३।९।२३ ॥
tena tapaḥ-vana-vivīta-mahā-patha-śmaśāna-deva-kula-yajana-puṇya-sthāna-vivādāḥ vyākhyātāḥ iti maryādā-sthāpanam . .. 03.9.23 ..
सर्व एव विवादाः सामन्त-प्रत्ययाः ॥ ०३.९.२४ ॥
सर्वे एव विवादाः सामन्त-प्रत्ययाः ॥ ०३।९।२४ ॥
sarve eva vivādāḥ sāmanta-pratyayāḥ .. 03.9.24 ..
विवीत-स्थल-केदार-षण्ड-खल-वेश्म-वाहन-कोष्ठानां पूर्वं-पूर्वं आबाधं सहेत ॥ ०३.९.२५ ॥
विवीत-स्थल-केदार-षण्ड-खल-वेश्म-वाहन-कोष्ठानाम् पूर्वम् पूर्वम् आबाधम् सहेत ॥ ०३।९।२५ ॥
vivīta-sthala-kedāra-ṣaṇḍa-khala-veśma-vāhana-koṣṭhānām pūrvam pūrvam ābādham saheta .. 03.9.25 ..
ब्रह्म-सोम-अरण्य-देव-यजन-पुण्य-स्थान-वर्जाः स्थल-प्रदेशाः ॥ ०३.९.२६ ॥
ब्रह्म-सोम-अरण्य-देव-यजन-पुण्य-स्थान-वर्जाः स्थल-प्रदेशाः ॥ ०३।९।२६ ॥
brahma-soma-araṇya-deva-yajana-puṇya-sthāna-varjāḥ sthala-pradeśāḥ .. 03.9.26 ..
आधार-परिवाह-केदार-उपभोगैः पर-क्षेत्र-कृष्ट-बीज-हिंसायां यथा-उपघातं मूल्यं दद्युः ॥ ०३.९.२७ ॥
आधार-परिवाह-केदार-उपभोगैः पर-क्षेत्र-कृष्ट-बीज-हिंसायाम् यथा उपघातम् मूल्यम् दद्युः ॥ ०३।९।२७ ॥
ādhāra-parivāha-kedāra-upabhogaiḥ para-kṣetra-kṛṣṭa-bīja-hiṃsāyām yathā upaghātam mūlyam dadyuḥ .. 03.9.27 ..
केदार-आराम-सेतु-बन्धानां परस्पर-हिंसायां हिंसा-द्वि-गुणो दण्डः ॥ ०३.९.२८ ॥
केदार-आराम-सेतु-बन्धानाम् परस्पर-हिंसायाम् हिंसा-द्वि-गुणः दण्डः ॥ ०३।९।२८ ॥
kedāra-ārāma-setu-bandhānām paraspara-hiṃsāyām hiṃsā-dvi-guṇaḥ daṇḍaḥ .. 03.9.28 ..
पश्चान्-निविष्टं अधर-तटाकं नौपरि-तटाकस्य केदारं उदकेनऽप्लावयेत् ॥ ०३.९.२९ ॥
पश्चात् निविष्टम् अधर-तटाकम् न औपरि-तटाकस्य केदारम् उदकेन अ प्लावयेत् ॥ ०३।९।२९ ॥
paścāt niviṣṭam adhara-taṭākam na aupari-taṭākasya kedāram udakena a plāvayet .. 03.9.29 ..
उपरि-निविष्टं नाधर-तटाकस्य पूर-आस्रावं वारयेद् । अन्यत्र त्रि-वर्ष-उपरत-कर्मणः ॥ ०३.९.३० ॥
उपरि निविष्टम् न अधर-तटाकस्य पूर-आस्रावम् वारयेत् । अन्यत्र त्रि-वर्ष-उपरत-कर्मणः ॥ ०३।९।३० ॥
upari niviṣṭam na adhara-taṭākasya pūra-āsrāvam vārayet . anyatra tri-varṣa-uparata-karmaṇaḥ .. 03.9.30 ..
तस्यातिक्रमे पूर्वः साहस-दण्डः । तटाक-वामनं च ॥ ०३.९.३१ ॥
तस्य अतिक्रमे पूर्वः साहस-दण्डः । तटाक-वामनम् च ॥ ०३।९।३१ ॥
tasya atikrame pūrvaḥ sāhasa-daṇḍaḥ . taṭāka-vāmanam ca .. 03.9.31 ..
पञ्च-वर्ष-उपरत-कर्मणः सेतु-बन्धस्य स्वाम्यं लुप्येत । अन्यत्रऽपद्भ्यः ॥ ०३.९.३२ ॥
पञ्च-वर्ष-उपरत-कर्मणः सेतु-बन्धस्य स्वाम्यम् लुप्येत । अन्यत्र अ पद्भ्यः ॥ ०३।९।३२ ॥
pañca-varṣa-uparata-karmaṇaḥ setu-bandhasya svāmyam lupyeta . anyatra a padbhyaḥ .. 03.9.32 ..
तटाक-सेतु-बन्धानां नव-प्रवर्तने पाञ्चवर्षिकः परिहारः । भग्न-उत्सृष्टानां चातुर्वर्षिकः । समुपारूढानां त्रैवर्षिकः । स्थलस्य द्वैवर्षिकः ॥ ०३.९.३३ ॥
तटाक-सेतु-बन्धानाम् नव-प्रवर्तने पाञ्चवर्षिकः परिहारः । भग्न-उत्सृष्टानाम् चातुर्वर्षिकः । समुपारूढानाम् त्रैवर्षिकः । स्थलस्य द्वैवर्षिकः ॥ ०३।९।३३ ॥
taṭāka-setu-bandhānām nava-pravartane pāñcavarṣikaḥ parihāraḥ . bhagna-utsṛṣṭānām cāturvarṣikaḥ . samupārūḍhānām traivarṣikaḥ . sthalasya dvaivarṣikaḥ .. 03.9.33 ..
स्व-आत्म-आधाने विक्रये च ॥ ०३.९.३४ ॥
स्व-आत्म-आधाने विक्रये च ॥ ०३।९।३४ ॥
sva-ātma-ādhāne vikraye ca .. 03.9.34 ..
खात-प्रावृत्तिं अनदी-निबन्ध-आयतन-तटाक-केदार-आराम-षण्ड-वापानां सस्य-वर्ण-भाग-उत्तरिकं अन्येभ्यो वा यथा-उपकारं दद्युः ॥ ०३.९.३५ ॥
खात-प्रावृत्तिम् अ नदी-निबन्ध-आयतन-तटाक-केदार-आराम-षण्ड-वापानाम् सस्य-वर्ण-भाग-उत्तरिकम् अन्येभ्यः वा यथा उपकारम् दद्युः ॥ ०३।९।३५ ॥
khāta-prāvṛttim a nadī-nibandha-āyatana-taṭāka-kedāra-ārāma-ṣaṇḍa-vāpānām sasya-varṇa-bhāga-uttarikam anyebhyaḥ vā yathā upakāram dadyuḥ .. 03.9.35 ..
प्रक्रय-अवक्रय-अधिभाग-भोगनिषृष्ट-उपभोक्तारश्चएषां प्रतिकुर्युः ॥ ०३.९.३६ ॥
प्रक्रय-अवक्रय-अधिभाग-भोग-निषृष्ट-उपभोक्तारः च एषाम् प्रतिकुर्युः ॥ ०३।९।३६ ॥
prakraya-avakraya-adhibhāga-bhoga-niṣṛṣṭa-upabhoktāraḥ ca eṣām pratikuryuḥ .. 03.9.36 ..
अर्पतीकारे हीन-द्वि-गुणो दण्डः ॥ ०३.९.३७ ॥
अर्पतीकारे हीन-द्वि-गुणः दण्डः ॥ ०३।९।३७ ॥
arpatīkāre hīna-dvi-guṇaḥ daṇḍaḥ .. 03.9.37 ..
सेतुभ्यो मुञ्चतस्तोयं अवारे षट्-पणो दमः । ॥ ०३.९.३८अ ब ॥
सेतुभ्यः मुञ्चतः तोयम् अवारे षष्-पणः दमः । ॥ ०३।९।३८अ ब ॥
setubhyaḥ muñcataḥ toyam avāre ṣaṣ-paṇaḥ damaḥ . .. 03.9.38a ba ..
वारे वा तोयं अन्येषां प्रमादेनौपरुन्धतः ॥ ०३.९.३८च्द् ॥
वारे वा तोयम् अन्येषाम् प्रमादेन औपरुन्धतः ॥ ०३।९।३८च् ॥
vāre vā toyam anyeṣām pramādena auparundhataḥ .. 03.9.38c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In