| |
|

This overlay will guide you through the buttons:

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि । स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥१॥
इति मतिः उपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि । स्व-सुखम् उपगते क्वचिद् विहर्तुम् प्रकृतिम् उपेयुषि यद्-भव-प्रवाहः ॥१॥
iti matiḥ upakalpitā vitṛṣṇā bhagavati sātvata puṅgave vibhūmni . sva-sukham upagate kvacid vihartum prakṛtim upeyuṣi yad-bhava-pravāhaḥ ..1..
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥२ ॥
त्रिभुवन-कमनम् तमाल-वर्णम् रवि-कर-गौर-वर-अम्बरम् दधाने । वपुः-अलक-कुल-आवृत-आनन-अब्जम् विजय-सखे रतिः अस्तु मे अनवद्या ॥२ ॥
tribhuvana-kamanam tamāla-varṇam ravi-kara-gaura-vara-ambaram dadhāne . vapuḥ-alaka-kula-āvṛta-ānana-abjam vijaya-sakhe ratiḥ astu me anavadyā ..2 ..
युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंकृतास्ये । मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥३॥
युधि तुरग-रजः-विधूम्र-विष्वक्-कच-लुलित-श्रम-वारि-अलंकृत-आस्ये । मम निशित-शरैः विभिद्यमान-त्वचि विलसत्-कवचे अस्तु कृष्णः आत्मा ॥३॥
yudhi turaga-rajaḥ-vidhūmra-viṣvak-kaca-lulita-śrama-vāri-alaṃkṛta-āsye . mama niśita-śaraiḥ vibhidyamāna-tvaci vilasat-kavace astu kṛṣṇaḥ ātmā ..3..
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थ सखे रतिर्ममास्तु ॥४॥
सपदि सखि-वचः निशम्य मध्ये निज-परयोः बलयोः रथम् निवेश्य । स्थितवति पर-सैनिक-आयुः अक्ष्णा हृतवति पार्थ सखे रतिः मम अस्तु ॥४॥
sapadi sakhi-vacaḥ niśamya madhye nija-parayoḥ balayoḥ ratham niveśya . sthitavati para-sainika-āyuḥ akṣṇā hṛtavati pārtha sakhe ratiḥ mama astu ..4..
व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या। कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु ॥५॥
व्यवहित पृथना-मुखम् निरीक्ष्य स्व-जन-वधात् विमुखस्य दोष-बुद्ध्या। कुमतिम् अहरत् आत्म-विद्यया यः चरण-रतिः परमस्य तस्य मे अस्तु ॥५॥
vyavahita pṛthanā-mukham nirīkṣya sva-jana-vadhāt vimukhasya doṣa-buddhyā. kumatim aharat ātma-vidyayā yaḥ caraṇa-ratiḥ paramasya tasya me astu ..5..
स्वनिगममपहाय मत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थः । धृतरथचरणोऽभ्ययाच्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ॥६॥
स्व-निगमम् अपहाय मद्-प्रतिज्ञाः मृतम् अधिकर्तुम् अवप्लुतः रथ-स्थः । धृतरथ-चरणः अभ्ययात् चलत्गुः हरिः इव हन्तुम् इभम् गत-उत्तरीयः ॥६॥
sva-nigamam apahāya mad-pratijñāḥ mṛtam adhikartum avaplutaḥ ratha-sthaḥ . dhṛtaratha-caraṇaḥ abhyayāt calatguḥ hariḥ iva hantum ibham gata-uttarīyaḥ ..6..
शितविशिखहतोविशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥७॥
शित-विशिख-हतः विशीर्ण-दंशः क्षतज-परिप्लुतः आततायिनः मे । प्रसभम् अभिससार मद्-वध-अर्थम् स भवतु मे भगवान् गतिः मुकुन्दः ॥७॥
śita-viśikha-hataḥ viśīrṇa-daṃśaḥ kṣataja-pariplutaḥ ātatāyinaḥ me . prasabham abhisasāra mad-vadha-artham sa bhavatu me bhagavān gatiḥ mukundaḥ ..7..
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये। भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हताः गताः सरूपम् ॥८॥
विजय-रथकुटुम्बे आत्त-तोत्रे धृत-हय-रश्मिनि तद्-श्रिया ईक्षणीये। भगवति रतिः अस्तु मे मुमूर्षोः यम् इह निरीक्ष्य हताः गताः सरूपम् ॥८॥
vijaya-rathakuṭumbe ātta-totre dhṛta-haya-raśmini tad-śriyā īkṣaṇīye. bhagavati ratiḥ astu me mumūrṣoḥ yam iha nirīkṣya hatāḥ gatāḥ sarūpam ..8..
ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥९॥
ललित-गति-विलास-वल्गु-हास-प्रणय-निरीक्षण-कल्पित-ऊरु-मानाः । कृतम् अनुकृतवत्यः उन्मद-अन्धाः प्रकृतिम् अगन् किल यस्य गोप-वध्वः ॥९॥
lalita-gati-vilāsa-valgu-hāsa-praṇaya-nirīkṣaṇa-kalpita-ūru-mānāḥ . kṛtam anukṛtavatyaḥ unmada-andhāḥ prakṛtim agan kila yasya gopa-vadhvaḥ ..9..
मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम दृशि गोचर एष आविरात्मा ॥१०॥
मुनि-गण-नृप-वर्य-संकुले अन्तर् सदसि युधिष्ठिर-राजसूये एषाम् । अर्हणम् उपपेदे ईक्षणीयः मम दृशि गोचरः एषः आविस् आत्मा ॥१०॥
muni-gaṇa-nṛpa-varya-saṃkule antar sadasi yudhiṣṭhira-rājasūye eṣām . arhaṇam upapede īkṣaṇīyaḥ mama dṛśi gocaraḥ eṣaḥ āvis ātmā ..10..
तमिममहमजं शरीरभाजां हृदिहृदि धिष्टितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥११॥
तम् इमम् अहम् अजम् शरीर-भाजाम् हृदि हृदि धिष्टितम् आत्म-कल्पितानाम् । प्रतिदृशम् इव ना एकधा अर्कम् एकम् समधिगतः अस्मि विधूत-भेद-मोहः ॥११॥
tam imam aham ajam śarīra-bhājām hṛdi hṛdi dhiṣṭitam ātma-kalpitānām . pratidṛśam iva nā ekadhā arkam ekam samadhigataḥ asmi vidhūta-bheda-mohaḥ ..11..
॥इति श्रीमद्भागवत महापुराण भीष्म स्तुति सम्पूर्णम्॥
॥इति श्रीमत्-भागवत-महापुराण-भीष्म-स्तुति-सम्पूर्णम्॥
..iti śrīmat-bhāgavata-mahāpurāṇa-bhīṣma-stuti-sampūrṇam..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In