| |
|

This overlay will guide you through the buttons:

धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने । पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः । रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥
धाता कृतस्थली हेतिः वासुकी रथकृत् मुने । पुलस्त्यः तुम्बुरुः इति मधु-मासम् नयन्ति अमी ॥ धाता शुभस्य मे दाता भूयस् भूयस् अपि भूयसः । ॥
dhātā kṛtasthalī hetiḥ vāsukī rathakṛt mune . pulastyaḥ tumburuḥ iti madhu-māsam nayanti amī .. dhātā śubhasya me dātā bhūyas bhūyas api bhūyasaḥ . ..
अर्यमा पुलहोऽथौजाः प्रहेति पुञ्जिकस्थली । नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ मेरुशृङ्गान्तरचरः कमलाकरबान्धवः । अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥
अर्यमा पुलहः अथ ओजाः प्रहा इति पुञ्जिकस्थली । नारदः कच्छनीरः च नयन्ति एते स्म माधवम् ॥ । अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥
aryamā pulahaḥ atha ojāḥ prahā iti puñjikasthalī . nāradaḥ kacchanīraḥ ca nayanti ete sma mādhavam .. . aryamā tu sadā bhūtyai bhūyasyai praṇatasya me ..
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः । रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ निशानिवारणपटुः उदयाद्रिकृताश्रयः । मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥
मित्रः अत्रिः पौरुषेयः अथ तक्षकः मेनका हहः । रथ-स्वनः इति हि एते शुक्र-मासम् नयन्ति अमी ॥ । मित्रः अस्तु मम मोदाय तमः-स्तोम-विनाशनः ॥
mitraḥ atriḥ pauruṣeyaḥ atha takṣakaḥ menakā hahaḥ . ratha-svanaḥ iti hi ete śukra-māsam nayanti amī .. . mitraḥ astu mama modāya tamaḥ-stoma-vināśanaḥ ..
वसिष्ठो ह्यरुणो रम्भा सहजन्यस्तथा हुहुः । शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ सूर्यस्यन्दनमारूढ अर्चिर्माली प्रतापवान् । कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥
वसिष्ठः हि अरुणः रम्भा सहजन्यः तथा हुहुः । शुक्रः चित्रस्वनः च एव शुचि-मासम् नयन्ति अमी ॥ सूर्य-स्यन्दनम् आरूढः अर्चिः-माली प्रतापवान् । काल-भूतः कामरूपः हि अरुणः सेव्यते मया ॥
vasiṣṭhaḥ hi aruṇaḥ rambhā sahajanyaḥ tathā huhuḥ . śukraḥ citrasvanaḥ ca eva śuci-māsam nayanti amī .. sūrya-syandanam ārūḍhaḥ arciḥ-mālī pratāpavān . kāla-bhūtaḥ kāmarūpaḥ hi aruṇaḥ sevyate mayā ..
इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाऽङ्गिराः । प्रम्लोचा राक्षसोवर्यो नभोमासं नयन्त्यमी ॥ सहस्ररश्मिसंवीतं इन्द्रं वरदमाश्रये । शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥
इन्द्रः विश्वावसुः श्रोता एलापत्रः तथा अङ्गिराः । प्रम्लोचाः राक्षस-वर्यः नभः-मासम् नयन्ति अमी ॥ सहस्ररश्मि-संवीतम् इन्द्रम् वर-दम् आश्रये । शिरसा प्रणमामि अद्य श्रेयः वृद्धि-प्रदायकम् ॥
indraḥ viśvāvasuḥ śrotā elāpatraḥ tathā aṅgirāḥ . pramlocāḥ rākṣasa-varyaḥ nabhaḥ-māsam nayanti amī .. sahasraraśmi-saṃvītam indram vara-dam āśraye . śirasā praṇamāmi adya śreyaḥ vṛddhi-pradāyakam ..
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः । अनुम्लोचाः शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् । नभोग्रहमहादीपं विवस्वन्तं नमाम्यहम् ॥
विवस्वान् उग्रसेनः च व्याघ्रः आसारणः भृगुः । अनुम्लोचाः शङ्खपालः नभस्य-आख्यम् नयन्ति अमी ॥ जगत्-निर्माण-कर्तारम् सर्व-दिश्-व्याप्त-तेजसम् । नभोग्रह-महा-दीपम् विवस्वन्तम् नमामि अहम् ॥
vivasvān ugrasenaḥ ca vyāghraḥ āsāraṇaḥ bhṛguḥ . anumlocāḥ śaṅkhapālaḥ nabhasya-ākhyam nayanti amī .. jagat-nirmāṇa-kartāram sarva-diś-vyāpta-tejasam . nabhograha-mahā-dīpam vivasvantam namāmi aham ..
त्वष्टा ऋचीकतनयः कम्बलाख्यस्तिलोत्तमा । ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषम्भरा ॥ त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः । नानाशिल्पकरो नानाधातुरूपः प्रभाकरः ।
त्वष्टा ऋचीक-तनयः कम्बल-आख्यः तिलोत्तमा । ब्रह्मापेतः अथ शतजित् धृतराष्ट्रः इषम्भरा ॥ त्वष्टा शुभाय मे भूयात् शिष्ट-आवलि-निषेवितः । नाना शिल्प-करः नाना धातु-रूपः प्रभा-करः ।
tvaṣṭā ṛcīka-tanayaḥ kambala-ākhyaḥ tilottamā . brahmāpetaḥ atha śatajit dhṛtarāṣṭraḥ iṣambharā .. tvaṣṭā śubhāya me bhūyāt śiṣṭa-āvali-niṣevitaḥ . nānā śilpa-karaḥ nānā dhātu-rūpaḥ prabhā-karaḥ .
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् । विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ भानुमण्डलमध्यस्थं वेदत्रयनिषेवितम् । गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥
विष्णुः अश्वतरः रम्भा सूर्यवर्चाः च सत्यजित् । विश्वामित्रः मख-अपेतः ऊर्ज-मासम् नयन्ति अमी ॥ भानु-मण्डल-मध्य-स्थम् वेद-त्रय-निषेवितम् । गायत्री-प्रतिपाद्यम् तम् विष्णुम् भक्त्या नमामि अहम् ॥
viṣṇuḥ aśvataraḥ rambhā sūryavarcāḥ ca satyajit . viśvāmitraḥ makha-apetaḥ ūrja-māsam nayanti amī .. bhānu-maṇḍala-madhya-stham veda-traya-niṣevitam . gāyatrī-pratipādyam tam viṣṇum bhaktyā namāmi aham ..
अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी । विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥ सदा विद्रावणरतो जगन्मङ्गलदीपकः । मुनीन्द्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥
अथ अंशुः कश्यपः तार्क्ष्यः ऋतसेनः तथा उर्वशी । विद्युच्छत्रुः महाशङ्खः सहस्-उमासम् नयन्ति अमी ॥ । मुनि-इन्द्र-निवह-स्तुत्यः भूति-दः अंशुः भवेत् मम ॥
atha aṃśuḥ kaśyapaḥ tārkṣyaḥ ṛtasenaḥ tathā urvaśī . vidyucchatruḥ mahāśaṅkhaḥ sahas-umāsam nayanti amī .. . muni-indra-nivaha-stutyaḥ bhūti-daḥ aṃśuḥ bhavet mama ..
भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पञ्चमः । कर्कोटकः पूर्वचित्तिः पौषमासं नयन्त्यमी ॥ तिथि मास ऋतूनां च वत्सराऽयनयोरपि । घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥
भगः स्फूर्जः अरिष्टनेमिः ऊर्णः आयुः च पञ्चमः । कर्कोटकः पूर्वचित्तिः पौष-मासम् नयन्ति अमी ॥ तिथि मासः ऋतूनाम् च वत्सर-अयनयोः अपि । घटिकानाम् च यः कर्ता भगः भाग्य-प्रदः अस्तु मे ॥
bhagaḥ sphūrjaḥ ariṣṭanemiḥ ūrṇaḥ āyuḥ ca pañcamaḥ . karkoṭakaḥ pūrvacittiḥ pauṣa-māsam nayanti amī .. tithi māsaḥ ṛtūnām ca vatsara-ayanayoḥ api . ghaṭikānām ca yaḥ kartā bhagaḥ bhāgya-pradaḥ astu me ..
पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा । घृताची गौतमश्चेति तपोमासं नयन्त्यमी । । पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् । सहस्रकरसंवीतः समस्ताशान्तरान्तरः ॥
पूषा धनञ्जयः वातः सुषेणः सुरुचिः तथा । घृताची गौतमः च इति तपः-मासम् नयन्ति अमी । । पूषा तोषाय मे भूयात् सर्व-पाप-अ अपनोदनात् । ॥
pūṣā dhanañjayaḥ vātaḥ suṣeṇaḥ suruciḥ tathā . ghṛtācī gautamaḥ ca iti tapaḥ-māsam nayanti amī . . pūṣā toṣāya me bhūyāt sarva-pāpa-a apanodanāt . ..
क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्वश्चैरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ प्रपञ्चं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः । जगदानन्दजनकः पर्जन्यः पूज्यते मया ॥
क्रतुः वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्वः च ऐरावतः च एव तपस्य-आख्यम् नयन्ति अमी ॥ प्रपञ्चम् प्रतपन् भूयस् वृष्टिभिः मादयन् पुनर् । जगत्-आनन्द-जनकः पर्जन्यः पूज्यते मया ॥
kratuḥ vārcā bharadvājaḥ parjanyaḥ senajit tathā . viśvaḥ ca airāvataḥ ca eva tapasya-ākhyam nayanti amī .. prapañcam pratapan bhūyas vṛṣṭibhiḥ mādayan punar . jagat-ānanda-janakaḥ parjanyaḥ pūjyate mayā ..
ध्यायेस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
ध्यायेः सदा सवितृ-मण्डल-मध्य-वर्ती नारायणः सरसिज-आसन सन्निविष्टः । केयूरवान् मकर-कुण्डलवान् किरीटी हारी हिरण्मय-वपूः धृत-शङ्ख-चक्रः ॥
dhyāyeḥ sadā savitṛ-maṇḍala-madhya-vartī nārāyaṇaḥ sarasija-āsana sanniviṣṭaḥ . keyūravān makara-kuṇḍalavān kirīṭī hārī hiraṇmaya-vapūḥ dhṛta-śaṅkha-cakraḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In