| |
|

This overlay will guide you through the buttons:

Shri Shiva Strotams
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ 1 ॥
चाम्पेय-गौर-अर्ध-शरीरकायै कर्पूर-गौर-अर्ध-शरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥
cāmpeya-gaura-ardha-śarīrakāyai karpūra-gaura-ardha-śarīrakāya . dhammillakāyai ca jaṭādharāya namaḥ śivāyai ca namaḥ śivāya .. 1 ..
Shri Shiva Strotams
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥
कस्तूरिका-कुङ्कुम-चर्चितायै चिता-रजः-पुञ्ज विचर्चिताय । कृत-स्मरायै विकृत-स्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥
kastūrikā-kuṅkuma-carcitāyai citā-rajaḥ-puñja vicarcitāya . kṛta-smarāyai vikṛta-smarāya namaḥ śivāyai ca namaḥ śivāya .. 2 ..
Shri Shiva Strotams
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥
झणत्-क्वणत्-कङ्कण-नूपुरायै पाद-अब्ज-राजत्-फणि-नूपुराय । हेम-अङ्गदायै भुजग-अङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥
jhaṇat-kvaṇat-kaṅkaṇa-nūpurāyai pāda-abja-rājat-phaṇi-nūpurāya . hema-aṅgadāyai bhujaga-aṅgadāya namaḥ śivāyai ca namaḥ śivāya .. 3 ..
Shri Shiva Strotams
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥
विशाल-नीलोत्पल-लोचनायै विकासि-पङ्केरुह-लोचनाय । सम-ईक्षणायै विषम-ईक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥
viśāla-nīlotpala-locanāyai vikāsi-paṅkeruha-locanāya . sama-īkṣaṇāyai viṣama-īkṣaṇāya namaḥ śivāyai ca namaḥ śivāya .. 4 ..
Shri Shiva Strotams
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥
मन्दार-माला-कलित-अलकायै कपाल-माला-अङ्कित-कन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५ ॥
mandāra-mālā-kalita-alakāyai kapāla-mālā-aṅkita-kandharāya . divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya .. 5 ..
Shri Shiva Strotams
अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥
अम्भोधर-श्यामल-कुन्तलायै तटित्-प्रभा-ताम्र-जटा-धराय । निरीश्वरायै निखिल-ईश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥
ambhodhara-śyāmala-kuntalāyai taṭit-prabhā-tāmra-jaṭā-dharāya . nirīśvarāyai nikhila-īśvarāya namaḥ śivāyai ca namaḥ śivāya .. 6 ..
Shri Shiva Strotams
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ 7 ॥
समस्त-संहारक-ताण्डवाय । जगत्-जनन्यै जगत्-एक-पित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥
samasta-saṃhāraka-tāṇḍavāya . jagat-jananyai jagat-eka-pitre namaḥ śivāyai ca namaḥ śivāya .. 7 ..
Shri Shiva Strotams
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ 8 ॥
प्रदीप्त-रत्न-उज्ज्वल-कुण्डलायै स्फुरत्-महा-पन्नग-भूषणाय । शिव-अन्वितायै च शिव-अन्विताय नमः शिवायै च नमः शिवाय ॥ ८ ॥
pradīpta-ratna-ujjvala-kuṇḍalāyai sphurat-mahā-pannaga-bhūṣaṇāya . śiva-anvitāyai ca śiva-anvitāya namaḥ śivāyai ca namaḥ śivāya .. 8 ..
Shri Shiva Strotams
एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥
एतत् पठेत् अष्टकम् इष्ट-दम् भक्त्या स मान्यः भुवि दीर्घ-जीवी । प्राप्नोति सौभाग्यम् अनन्त-कालम् भूयात् सदा तस्य समस्त-सिद्धिः ॥
etat paṭhet aṣṭakam iṣṭa-dam bhaktyā sa mānyaḥ bhuvi dīrgha-jīvī . prāpnoti saubhāgyam ananta-kālam bhūyāt sadā tasya samasta-siddhiḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In