| |
|

This overlay will guide you through the buttons:

Shri Rama Strotam
ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्री सीताराम चन्द्रोदेवता अनुष्टुप् छन्दः सीता शक्तिः श्रीमद् हनुमान् कीलकम् श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥
ओम् अस्य श्री रामरक्षा स्तोत्र-मन्त्रस्य बुध-कौशिकः ऋषिः श्री-सीताराम-चन्द्रोदेवता अनुष्टुभ् छन्दः सीता शक्तिः श्रीमत् हनुमान् कीलकम् श्री-रामचन्द्र-प्रीति-अर्थे रामरक्षा-स्तोत्र-जपे विनियोगः ॥
om asya śrī rāmarakṣā stotra-mantrasya budha-kauśikaḥ ṛṣiḥ śrī-sītārāma-candrodevatā anuṣṭubh chandaḥ sītā śaktiḥ śrīmat hanumān kīlakam śrī-rāmacandra-prīti-arthe rāmarakṣā-stotra-jape viniyogaḥ ..
ध्यानम्/ Dhyanam
ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं पीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम् । वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं नानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम् ॥
ध्यायेत् आजानु बाहुम् बद्ध-पद्मासन-स्थम् पीतम् वासः-वसानम् नव-कमल-नेत्रम् प्रसन्नम् । वाम-अङ्क-आरूढ सीता-मुख कमल-मिलत्-लोचनम् नीरद-आभम् नाना अलङ्कार दीप्तम् दधतम् उरु जटा-मण्डलम् रामचन्द्रम् ॥
dhyāyet ājānu bāhum baddha-padmāsana-stham pītam vāsaḥ-vasānam nava-kamala-netram prasannam . vāma-aṅka-ārūḍha sītā-mukha kamala-milat-locanam nīrada-ābham nānā alaṅkāra dīptam dadhatam uru jaṭā-maṇḍalam rāmacandram ..
Shri Rama Strotams
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातक नाशनम् ॥ 1 ॥
चरितम् रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकम् अक्षरम् पुंसाम् महापातक नाशनम् ॥ १ ॥
caritam raghunāthasya śatakoṭi pravistaram . ekaikam akṣaram puṃsām mahāpātaka nāśanam .. 1 ..
Shri Rama Strotams
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् । जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् ॥ 2 ॥
ध्यात्वा नीलोत्पल श्यामम् रामम् राजीव-लोचनम् । जानकी-लक्ष्मण-उपेतम् जटा-मुकुट-मण्डितम् ॥ २ ॥
dhyātvā nīlotpala śyāmam rāmam rājīva-locanam . jānakī-lakṣmaṇa-upetam jaṭā-mukuṭa-maṇḍitam .. 2 ..
Shri Rama Strotams
सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम् । स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ॥ 3 ॥
स असि-तूण धनुः-बाण पाणिम् नक्तम् चर अन्तकम् । स्व-लीलया जगत्-त्रातु मा आविर्भूतम् अजम् विभुम् ॥ ३ ॥
sa asi-tūṇa dhanuḥ-bāṇa pāṇim naktam cara antakam . sva-līlayā jagat-trātu mā āvirbhūtam ajam vibhum .. 3 ..
Shri Rama Strotams
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु फालं (भालं) दशरथात्मजः ॥ 4 ॥
रामरक्षाम् पठेत् प्राज्ञः पाप-घ्नीम् सर्व-काम-दाम् । शिरः मे राघवः पातु फालम् (दशरथ-आत्मजः ॥ ४ ॥
rāmarakṣām paṭhet prājñaḥ pāpa-ghnīm sarva-kāma-dām . śiraḥ me rāghavaḥ pātu phālam (daśaratha-ātmajaḥ .. 4 ..
Shri Rama Strotams
कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ 5 ॥
कौसल्येयः विश्वामित्र-प्रियः शृती । घ्राणम् पातु मख-त्राता मुखम् सौमित्रि-वत्सलः ॥ ५ ॥
kausalyeyaḥ viśvāmitra-priyaḥ śṛtī . ghrāṇam pātu makha-trātā mukham saumitri-vatsalaḥ .. 5 ..
Shri Rama Strotams
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ 6 ॥
जिह्वाम् विद्या-निधिः पातु कण्ठम् भरत-वन्दितः । स्कन्धौ दिव्य-आयुधः पातु भुजौ भग्न-ईश-कार्मुकः ॥ ६ ॥
jihvām vidyā-nidhiḥ pātu kaṇṭham bharata-vanditaḥ . skandhau divya-āyudhaḥ pātu bhujau bhagna-īśa-kārmukaḥ .. 6 ..
Shri Rama Strotams
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ 7 ॥
करौ सीतापतिः पातु हृदयम् जामदग्न्यजित् । मध्यम् पातु खर-ध्वंसी नाभिम् जाम्बवत्-आश्रयः ॥ ७ ॥
karau sītāpatiḥ pātu hṛdayam jāmadagnyajit . madhyam pātu khara-dhvaṃsī nābhim jāmbavat-āśrayaḥ .. 7 ..
Shri Rama Strotams
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ॥ 8 ॥
पातु । ऊरू रघूत्तमः पातु रक्षःकुल-विनाश-कृत् ॥ ८ ॥
pātu . ūrū raghūttamaḥ pātu rakṣaḥkula-vināśa-kṛt .. 8 ..
Shri Rama Strotams
जानुनी सेतुकृत्-पातु जङ्घे दशमुखान्तकः । पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ 9 ॥
जानुनी सेतुकृत् पातु जङ्घे दशमुख-अन्तकः । पादौ विभीषण-श्री-दः पातु रामः अखिलम् वपुः ॥ ९ ॥
jānunī setukṛt pātu jaṅghe daśamukha-antakaḥ . pādau vibhīṣaṇa-śrī-daḥ pātu rāmaḥ akhilam vapuḥ .. 9 ..
Shri Rama Strotams
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ 10 ॥
एताम् राम-बल-उपेताम् रक्षाम् यः सु कृती पठेत् । स चिर-आयुः सुखी पुत्री विजयी विनयी भवेत् ॥ १० ॥
etām rāma-bala-upetām rakṣām yaḥ su kṛtī paṭhet . sa cira-āyuḥ sukhī putrī vijayī vinayī bhavet .. 10 ..
Shri Rama Strotams
पाताल-भूतल-व्योम-चारिण-श्चद्म-चारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ 11 ॥
पाताल-भूतल-व्योम-चारिणः चद्म-चारिणः । न द्रष्टुम् अपि शक्ताः ते रक्षितम् राम-नामभिः ॥ ११ ॥
pātāla-bhūtala-vyoma-cāriṇaḥ cadma-cāriṇaḥ . na draṣṭum api śaktāḥ te rakṣitam rāma-nāmabhiḥ .. 11 ..
Shri Rama Strotams
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ 12 ॥
राम इति रामभद्र इति रामचन्द्र इति वा स्मरन् । नरः न लिप्यते पापैः भुक्तिम् मुक्तिम् च विन्दति ॥ १२ ॥
rāma iti rāmabhadra iti rāmacandra iti vā smaran . naraḥ na lipyate pāpaiḥ bhuktim muktim ca vindati .. 12 ..
Shri Rama Strotams
जगज्जैत्रैक मन्त्रेण रामनाम्नाभि रक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ 13 ॥
जगत् जैत्र-एक-मन्त्रेण राम-नाम्ना अभि रक्षितम् । यः कण्ठे धारयेत् तस्य कर-स्थाः सर्व-सिद्धयः ॥ १३ ॥
jagat jaitra-eka-mantreṇa rāma-nāmnā abhi rakṣitam . yaḥ kaṇṭhe dhārayet tasya kara-sthāḥ sarva-siddhayaḥ .. 13 ..
Shri Rama Strotams
वज्रपञ्जर नामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ 14 ॥
वज्रपञ्जर नाम इदम् यः राम-कवचम् स्मरेत् । अव्याहत-आज्ञः सर्वत्र लभते जय-मङ्गलम् ॥ १४ ॥
vajrapañjara nāma idam yaḥ rāma-kavacam smaret . avyāhata-ājñaḥ sarvatra labhate jaya-maṅgalam .. 14 ..
Shri Rama Strotams
आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः ॥ 15 ॥
आदिष्टवान् यथा स्वप्ने राम-रक्षाम् इमाम् हरः । तथा लिखितवान् प्रातर् प्रबुद्धौ बुध-कौशिकः ॥ १५ ॥
ādiṣṭavān yathā svapne rāma-rakṣām imām haraḥ . tathā likhitavān prātar prabuddhau budha-kauśikaḥ .. 15 ..
Shri Rama Strotams
आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ 16 ॥
आरामः कल्पवृक्षाणाम् विरामः सकल-आपदाम् । अभिरामः त्रि-लोकानाम् रामः श्रीमान् स नः प्रभुः ॥ १६ ॥
ārāmaḥ kalpavṛkṣāṇām virāmaḥ sakala-āpadām . abhirāmaḥ tri-lokānām rāmaḥ śrīmān sa naḥ prabhuḥ .. 16 ..
Shri Rama Strotams
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 17 ॥
तरुणौ रूप-सम्पन्नौ सुकुमारौ महा-बलौ । चीर-कृष्ण-अजिन-अम्बरौ ॥ १७ ॥
taruṇau rūpa-sampannau sukumārau mahā-balau . cīra-kṛṣṇa-ajina-ambarau .. 17 ..
Shri Rama Strotams
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ 18 ॥
फल-मूल-आशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्य एतौ भ्रातरौ राम-लक्ष्मणौ ॥ १८ ॥
phala-mūla-āśinau dāntau tāpasau brahmacāriṇau . putrau daśarathasya etau bhrātarau rāma-lakṣmaṇau .. 18 ..
Shri Rama Strotams
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुल निहन्तारौ त्रायेतां नो रघूत्तमौ ॥ 19 ॥
शरण्यौ सर्व-सत्त्वानाम् श्रेष्ठौ सर्व-धनुष्मताम् । रक्षः-कुल निहन्तारौ त्रायेताम् नः रघु-उत्तमौ ॥ १९ ॥
śaraṇyau sarva-sattvānām śreṣṭhau sarva-dhanuṣmatām . rakṣaḥ-kula nihantārau trāyetām naḥ raghu-uttamau .. 19 ..
Shri Rama Strotams
आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषङ्ग सङ्गिनौ । रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छताम् ॥ 20 ॥
आत्त सज्य-धनुषा विषुस्पृशा वक्षय आशुग-निषङ्ग-सङ्गिनौ । रक्षणाय मम राम-लक्षणौ अग्रतस् पथि सदा एव गच्छताम् ॥ २० ॥
ātta sajya-dhanuṣā viṣuspṛśā vakṣaya āśuga-niṣaṅga-saṅginau . rakṣaṇāya mama rāma-lakṣaṇau agratas pathi sadā eva gacchatām .. 20 ..
Shri Rama Strotams
सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ॥ 21 ॥
सन्नद्धः कवची खड्गी चाप-बाण-धरः युवा । गच्छन् मनोरथान् नः च (मनोरथः अस्माकम् रामः पातु स लक्ष्मणः ॥ २१ ॥
sannaddhaḥ kavacī khaḍgī cāpa-bāṇa-dharaḥ yuvā . gacchan manorathān naḥ ca (manorathaḥ asmākam rāmaḥ pātu sa lakṣmaṇaḥ .. 21 ..
Shri Rama Strotams
रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली । काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ 22 ॥
रामः दाशरथि लक्ष्मण-अनुचरः बली । काकुत्सः पुरुषः पूर्णः कौसल्येयः रघूत्तमः ॥ २२ ॥
rāmaḥ dāśarathi lakṣmaṇa-anucaraḥ balī . kākutsaḥ puruṣaḥ pūrṇaḥ kausalyeyaḥ raghūttamaḥ .. 22 ..
Shri Rama Strotams
वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥ 23 ॥
वेदान्त-वेद्यः यज्ञेशः पुराण पुरुषोत्तमः । जानकीवल्लभः श्रीमान् अप्रमेय-पराक्रमः ॥ २३ ॥
vedānta-vedyaḥ yajñeśaḥ purāṇa puruṣottamaḥ . jānakīvallabhaḥ śrīmān aprameya-parākramaḥ .. 23 ..
Shri Rama Strotams
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ 24 ॥
इति एतानि जपेत् नित्यम् मद्-भक्तः श्रद्धया अन्वितः । अश्वमेध-अधिकम् पुण्यम् सम्प्राप्नोति न संशयः ॥ २४ ॥
iti etāni japet nityam mad-bhaktaḥ śraddhayā anvitaḥ . aśvamedha-adhikam puṇyam samprāpnoti na saṃśayaḥ .. 24 ..
Shri Rama Strotams
रामं दूर्वादल श्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नाभि-र्दिव्यै-र्नते संसारिणो नराः ॥ 25 ॥
रामम् श्यामम् पद्म-अक्षम् पीत-वाससम् । स्तुवन्ति नाभिः दिव्यैः नते संसारिणः नराः ॥ २५ ॥
rāmam śyāmam padma-akṣam pīta-vāsasam . stuvanti nābhiḥ divyaiḥ nate saṃsāriṇaḥ narāḥ .. 25 ..
Shri Rama Strotams
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरम् काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ॥ 26 ॥
रामम् लक्ष्मण पूर्वजम् रघु-वरम् सीता-पतिम् सुन्दरम् काकुत्स्थम् करुणा-अर्णवम् गुण-निधिम् विप्र-प्रियम् धार्मिकम् । राज-इन्द्रम् सत्य-सन्धम् दशरथ-तनयम् श्यामलम् शान्त-मूर्तिम् वन्दे लोक-अभिरामम् रघु-कुल-तिलकम् राघवम् रावण-अरिम् ॥ २६ ॥
rāmam lakṣmaṇa pūrvajam raghu-varam sītā-patim sundaram kākutstham karuṇā-arṇavam guṇa-nidhim vipra-priyam dhārmikam . rāja-indram satya-sandham daśaratha-tanayam śyāmalam śānta-mūrtim vande loka-abhirāmam raghu-kula-tilakam rāghavam rāvaṇa-arim .. 26 ..
Shri Rama Strotams
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 27 ॥
रामाय रामभद्राय रामचन्द्राय वेधसे । रघु-नाथाय नाथाय सीतायाः पतये नमः ॥ २७ ॥
rāmāya rāmabhadrāya rāmacandrāya vedhase . raghu-nāthāya nāthāya sītāyāḥ pataye namaḥ .. 27 ..
Shri Rama Strotams
श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥ 28 ॥
श्री-राम राम रघुनन्दन राम राम श्री-राम राम भरताग्रज राम राम । श्री-राम राम रण-कर्कश राम राम श्री-राम राम शरणम् भव राम राम ॥ २८ ॥
śrī-rāma rāma raghunandana rāma rāma śrī-rāma rāma bharatāgraja rāma rāma . śrī-rāma rāma raṇa-karkaśa rāma rāma śrī-rāma rāma śaraṇam bhava rāma rāma .. 28 ..
Shri Rama Strotams
श्रीराम चन्द्र चरणौ मनसा स्मरामि श्रीराम चन्द्र चरणौ वचसा गृह्णामि । श्रीराम चन्द्र चरणौ शिरसा नमामि श्रीराम चन्द्र चरणौ शरणं प्रपद्ये ॥ 29 ॥
श्रीराम-चन्द्र-चरणौ मनसा स्मरामि श्रीराम-चन्द्र-चरणौ वचसा गृह्णामि । श्रीराम-चन्द्र-चरणौ शिरसा नमामि श्री-राम-चन्द्र-चरणौ शरणम् प्रपद्ये ॥ २९ ॥
śrīrāma-candra-caraṇau manasā smarāmi śrīrāma-candra-caraṇau vacasā gṛhṇāmi . śrīrāma-candra-caraṇau śirasā namāmi śrī-rāma-candra-caraṇau śaraṇam prapadye .. 29 ..
Shri Rama Strotams
माता रामो मत्-पिता रामचन्द्रः स्वामी रामो मत्-सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुः नान्यं जाने नैव जाने न जाने ॥ 30 ॥
माता रामः मद्-पिता रामचन्द्रः । सर्व-स्वम् मे रामचन्द्रः दयालुः न अन्यम् जाने न एव जाने न जाने ॥ ३० ॥
mātā rāmaḥ mad-pitā rāmacandraḥ . sarva-svam me rāmacandraḥ dayāluḥ na anyam jāne na eva jāne na jāne .. 30 ..
Shri Rama Strotams
दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ 31 ॥
दक्षिणे लक्ष्मणः यस्य वामे च (तु जनकात्मजा । पुरतस् मारुतिः यस्य तम् वन्दे रघुनन्दनम् ॥ ३१ ॥
dakṣiṇe lakṣmaṇaḥ yasya vāme ca (tu janakātmajā . puratas mārutiḥ yasya tam vande raghunandanam .. 31 ..
Shri Rama Strotams
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरण्यं प्रपद्ये ॥ 32 ॥
लोक-अभिरामम् रण-रङ्ग-धीरम् । कारुण्य-रूपम् करुणा-आकरम् तम् श्री-रामचन्द्रम् शरण्यम् प्रपद्ये ॥ ३२ ॥
loka-abhirāmam raṇa-raṅga-dhīram . kāruṇya-rūpam karuṇā-ākaram tam śrī-rāmacandram śaraṇyam prapadye .. 32 ..
Shri Rama Strotams
मनोजवं मारुत तुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्टम् । वातात्मजं वानरयूथ मुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ 33 ॥
मनोजवम् मारुत-तुल्य-वेगम् जित-इन्द्रियम् बुद्धिमताम् वरिष्टम् । वातात्मजम् वानर-यूथ मुख्यम् श्री-राम-दूतम् शरणम् प्रपद्ये ॥ ३३ ॥
manojavam māruta-tulya-vegam jita-indriyam buddhimatām variṣṭam . vātātmajam vānara-yūtha mukhyam śrī-rāma-dūtam śaraṇam prapadye .. 33 ..
Shri Rama Strotams
कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्यकविता शाखां वन्दे वाल्मीकि कोकिलम् ॥ 34 ॥
कूजन्तम् राम-राम-इति मधुरम् मधुर-अक्षरम् । शाखाम् वन्दे वाल्मीकि कोकिलम् ॥ ३४ ॥
kūjantam rāma-rāma-iti madhuram madhura-akṣaram . śākhām vande vālmīki kokilam .. 34 ..
Shri Rama Strotams
आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम् ॥ 35 ॥
आपदाम् अपहर्तारम् दातारम् सर्व-सम्पदाम् । लोक-अभिरामम् श्रीरामम् भूयस् भूयस् नमामि अहम् ॥ ३५ ॥
āpadām apahartāram dātāram sarva-sampadām . loka-abhirāmam śrīrāmam bhūyas bhūyas namāmi aham .. 35 ..
Shri Rama Strotams
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ 36 ॥
भर्जनम् भव-बीजानाम् अर्जनम् सुख-सम्पदाम् । तर्जनम् यमदूतानाम् राम राम इति गर्जनम् ॥ ३६ ॥
bharjanam bhava-bījānām arjanam sukha-sampadām . tarjanam yamadūtānām rāma rāma iti garjanam .. 36 ..
Shri Rama Strotams
रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ 37 ॥
रामः राज-मणिः सदा विजयते रामम् रमेशम् भजे रामेण अभिहता निशाचर-चमूः रामाय तस्मै नमः । रामात् ना अस्ति परायणम् परतरम् रामस्य दासः अस्मि अहम् रामे चित्त-लयः सदा भवतु मे भो राम माम् उद्धर ॥ ३७ ॥
rāmaḥ rāja-maṇiḥ sadā vijayate rāmam rameśam bhaje rāmeṇa abhihatā niśācara-camūḥ rāmāya tasmai namaḥ . rāmāt nā asti parāyaṇam parataram rāmasya dāsaḥ asmi aham rāme citta-layaḥ sadā bhavatu me bho rāma mām uddhara .. 37 ..
Shri Rama Strotams
श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ 38 ॥
श्री-राम राम राम इति रमे रामे मनोरमे । सहस्रनाम तद्-तुल्यम् राम नाम वरानने ॥ ३८ ॥
śrī-rāma rāma rāma iti rame rāme manorame . sahasranāma tad-tulyam rāma nāma varānane .. 38 ..
Shri Rama Strotams
इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं सम्पूर्णम् । श्रीराम जयराम जयजयराम ।
इति श्री-बुध-कौशिक-मुनि विरचितम् श्री-राम रक्षा-स्तोत्रम् सम्पूर्णम् । श्री-राम जय-राम जयजयराम ।
iti śrī-budha-kauśika-muni viracitam śrī-rāma rakṣā-stotram sampūrṇam . śrī-rāma jaya-rāma jayajayarāma .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In