| |
|

This overlay will guide you through the buttons:

॥ अथ श्री दुर्गा सहस्रनामस्तोत्रम् ॥
॥ अथ श्री-दुर्गा-सहस्रनामस्तोत्रम् ॥
.. atha śrī-durgā-sahasranāmastotram ..
नारद उवाच -
कुमार गुणगम्भीर देवसेनापते प्रभो ।सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ 1॥
कुमार गुण-गम्भीर देव-सेनापते प्रभो ।सर्व-अभीष्ट-प्रदम् पुंसाम् सर्व-पाप-प्रणाशनम् ॥ १॥
kumāra guṇa-gambhīra deva-senāpate prabho .sarva-abhīṣṭa-pradam puṃsām sarva-pāpa-praṇāśanam .. 1..
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ 1॥गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।
सर्व-अभीष्ट-प्रदम् पुंसाम् सर्व-पाप-प्रणाशनम् ॥ १॥गुह्यात् गुह्यतरम् स्तोत्रम् भक्ति-वर्धकम् अञ्जसा ।
sarva-abhīṣṭa-pradam puṃsām sarva-pāpa-praṇāśanam .. 1..guhyāt guhyataram stotram bhakti-vardhakam añjasā .
स्कन्द उवाच -
शृणु नारद देवर्षे लोकानुग्रहकाम्यया ।यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ 3॥
शृणु नारद देव-ऋषे लोक-अनुग्रह-काम्यया ।यत् पृच्छसि परम् पुण्यम् तत् ते वक्ष्यामि कौतुकात् ॥ ३॥
śṛṇu nārada deva-ṛṣe loka-anugraha-kāmyayā .yat pṛcchasi param puṇyam tat te vakṣyāmi kautukāt .. 3..
माता मे लोकजननी हिमवन्नगसत्तमात् ।मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ 4॥
माता मे लोक-जननी हिमवत्-नग-सत्तमात् ।मेनायाम् ब्रह्म-वादिन्याम् प्रादुर्भूता हरप्रिया ॥ ४॥
mātā me loka-jananī himavat-naga-sattamāt .menāyām brahma-vādinyām prādurbhūtā harapriyā .. 4..
महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ।स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ 5॥
महता तपसा आराध्य शङ्करम् लोक-शङ्करम् ।स्वम् एव वल्लभम् भेजे कला इव हि कला-निधिम् ॥ ५॥
mahatā tapasā ārādhya śaṅkaram loka-śaṅkaram .svam eva vallabham bheje kalā iva hi kalā-nidhim .. 5..
नगानामधिराजस्तु हिमवान् विरहातुरः ।स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ 6॥
नगानाम् अधिराजः तु हिमवान् विरह-आतुरः ।स्व-सुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ ६॥
nagānām adhirājaḥ tu himavān viraha-āturaḥ .sva-sutāyāḥ parikṣīṇe vasiṣṭhena prabodhitaḥ .. 6..
त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ 7॥
त्रिलोक-जननी सा इयम् प्रसन्ना त्वयि पुण्यतः ।प्रादुर्भूता सुता-त्वेन तद्-वियोगम् शुभम् त्यज ॥ ७॥
triloka-jananī sā iyam prasannā tvayi puṇyataḥ .prādurbhūtā sutā-tvena tad-viyogam śubham tyaja .. 7..
बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ।सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ 8॥
बहु-रूपा च दुर्गा इयम् बहु-नाम्नी सनातनी ।सनातनस्य जाया सा पुत्री-मोहम् त्यज अधुना ॥ ८॥
bahu-rūpā ca durgā iyam bahu-nāmnī sanātanī .sanātanasya jāyā sā putrī-moham tyaja adhunā .. 8..
इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ 9॥
इति प्रबोधितः शैलः ताम् तुष्टाव पराम् शिवाम् ।तदा प्रसन्ना सा दुर्गा पितरम् प्राह नन्दिनी ॥ ९॥
iti prabodhitaḥ śailaḥ tām tuṣṭāva parām śivām .tadā prasannā sā durgā pitaram prāha nandinī .. 9..
मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ।तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ 10॥
मद्-प्रसादात् परम् स्तोत्रम् हृदये प्रतिभासताम् ।तेन नाम्नाम् सहस्रेण पूजयन् कामम् आप्नुहि ॥ १०॥
mad-prasādāt param stotram hṛdaye pratibhāsatām .tena nāmnām sahasreṇa pūjayan kāmam āpnuhi .. 10..
इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा ।नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ 11॥
इति उक्त्वा अन्तर्हितायाम् तु हृदये स्फुरितम् तदा ।नाम्नाम् सहस्रम् दुर्गायाः पृच्छते मे यत् उक्तवान् ॥ ११॥
iti uktvā antarhitāyām tu hṛdaye sphuritam tadā .nāmnām sahasram durgāyāḥ pṛcchate me yat uktavān .. 11..
मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् ।सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ॥ 12॥
मङ्गलानाम् मङ्गलम् तत् दुर्गा-नाम सहस्रकम् ।सर्व-अभीष्ट-प्रदाम् पुंसाम् ब्रवीमि अखिल-काम-दम् ॥ १२॥
maṅgalānām maṅgalam tat durgā-nāma sahasrakam .sarva-abhīṣṭa-pradām puṃsām bravīmi akhila-kāma-dam .. 12..
दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ 13॥
दुर्गा-देवी समाख्याता हिमवान् ऋषिः उच्यते ।छन्दः-नुष्टुभ् जपः देव्याः प्रीतये क्रियते सदा ॥ १३॥
durgā-devī samākhyātā himavān ṛṣiḥ ucyate .chandaḥ-nuṣṭubh japaḥ devyāḥ prītaye kriyate sadā .. 13..
अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुप् छन्दः ।
अस्य श्री-दुर्गा-स्तोत्र-महा-मन्त्रस्य । हिमवान् ऋषिः । अनुष्टुभ् छन्दः ।
asya śrī-durgā-stotra-mahā-mantrasya . himavān ṛṣiḥ . anuṣṭubh chandaḥ .
दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । ।
दुर्गा-भगवती देवता । श्री-दुर्गा-प्रसाद-सिद्धि-अर्थे जपे विनियोगः । ।
durgā-bhagavatī devatā . śrī-durgā-prasāda-siddhi-arthe jape viniyogaḥ . .
श्रीभगवत्यै दुर्गायै नमः ।
श्री-भगवत्यै दुर्गायै नमः ।
śrī-bhagavatyai durgāyai namaḥ .
देवीध्यानम्
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखांशङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तींध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
ओम् ह्रीं काल-अभ्र-आभाम् कटाक्षैः अरि-कुल-भय-दाम् मौलि-बद्ध-इन्दु-रेखाम् शङ्खम् चक्रम् कृपाणम् त्रि-शिखम् अपि करैः उद्वहन्तीम् त्रिनेत्राम् ।सिंह-स्कन्ध-अधिरूढाम् त्रिभुवनम् अखिलम् तेजसा पूरयन्तीम् ध्यायेत् दुर्गाम् जय-आख्याम् त्रिदश-परिवृताम् सेविताम् सिद्धि-कामैः ॥
om hrīṃ kāla-abhra-ābhām kaṭākṣaiḥ ari-kula-bhaya-dām mauli-baddha-indu-rekhām śaṅkham cakram kṛpāṇam tri-śikham api karaiḥ udvahantīm trinetrām .siṃha-skandha-adhirūḍhām tribhuvanam akhilam tejasā pūrayantīm dhyāyet durgām jaya-ākhyām tridaśa-parivṛtām sevitām siddhi-kāmaiḥ ..
श्री जयदुर्गायै नमः ।
श्री-जयदुर्गायै नमः ।
śrī-jayadurgāyai namaḥ .
Strotam / स्तोत्रम्
ॐ शिवाथोमा रमा शक्तिरनन्ता निष्कलाऽमला ।शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ 1॥
ओम् शिवा अथ उमा रमा शक्तिः अनन्ता निष्कला अमला ।शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ १॥
om śivā atha umā ramā śaktiḥ anantā niṣkalā amalā .śāntā māheśvarī nityā śāśvatā paramā kṣamā .. 1..
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ।अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ 2॥
अचिन्त्या केवल-अनन्ता शिव-आत्मा परम-आत्मिका ।अनादिः अव्यया शुद्धा सर्वज्ञा सर्वगा अचला ॥ २॥
acintyā kevala-anantā śiva-ātmā parama-ātmikā .anādiḥ avyayā śuddhā sarvajñā sarvagā acalā .. 2..
एकानेकविभागस्था मायातीता सुनिर्मला ।महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ 3॥
एक-अनेक-विभाग-स्था माया-अतीता सु निर्मला ।महा-माहेश्वरी सत्या महादेवी निरञ्जना ॥ ३॥
eka-aneka-vibhāga-sthā māyā-atītā su nirmalā .mahā-māheśvarī satyā mahādevī nirañjanā .. 3..
काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ।सर्वा सर्वात्मिका विश्वा ज्योतीरूपाक्षरामृता ॥ 4॥
काष्ठा सर्व-अन्तर-स्था अपि चिच्छक्तिः च अत्रि-लालिता ।सर्वा सर्व-आत्मिका विश्वा ज्योतीः-रूपा अक्षर-अमृता ॥ ४॥
kāṣṭhā sarva-antara-sthā api cicchaktiḥ ca atri-lālitā .sarvā sarva-ātmikā viśvā jyotīḥ-rūpā akṣara-amṛtā .. 4..
शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ॥ 5॥
शान्ता प्रतिष्ठा सर्व-ईशा निवृत्तिः अमृत-प्रदा । ॥ ५॥
śāntā pratiṣṭhā sarva-īśā nivṛttiḥ amṛta-pradā . .. 5..
अनादिनिधनाऽमोघा कारणात्मकलाकुला ।ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ 6॥
अनादिनिधना अमोघा कारण-आत्म-कला-आकुला ।ऋतु-प्रथम-जा अनाभिः अमृत-आत्म-समाश्रया ॥ ६॥
anādinidhanā amoghā kāraṇa-ātma-kalā-ākulā .ṛtu-prathama-jā anābhiḥ amṛta-ātma-samāśrayā .. 6..
प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ 7॥
prāṇeśvarapriyā namyā mahāmahiṣaghātinī |prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 7||
prāṇeśvarapriyā namyā mahāmahiṣaghātinī |prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 7||
सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ 8॥
।सर्व-कार्य-नियन्त्री च सर्व-भूत-ईश्वर-ईश्वरा ॥ ८॥
.sarva-kārya-niyantrī ca sarva-bhūta-īśvara-īśvarā .. 8..
अङ्गदादिधरा चैव तथा मुकुटधारिणी ।सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ॥ 9॥
अङ्गद-आदि-धरा च एव तथा मुकुट-धारिणी ।सनातनी महानन्दा आकाश-योनिः तथा इच्यते ॥ ९॥
aṅgada-ādi-dharā ca eva tathā mukuṭa-dhāriṇī .sanātanī mahānandā ākāśa-yoniḥ tathā icyate .. 9..
चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ।महामाया सदुष्पारा मूलप्रकृतिरीशिका ॥ 10॥
चित्-प्रकाश-स्वरूपा च महा-योग-ईश्वर-ईश्वरी ।महामाया स दुष्पारा मूलप्रकृतिः ईशिका ॥ १०॥
cit-prakāśa-svarūpā ca mahā-yoga-īśvara-īśvarī .mahāmāyā sa duṣpārā mūlaprakṛtiḥ īśikā .. 10..
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ 11॥
सर्व ।संसार-पारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ ११॥
sarva .saṃsāra-pārā durvārā durnirīkṣā durāsadā .. 11..
प्राणशक्तिश्च सेव्या च योगिनी परमाकला ।महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ 12॥
प्राणशक्तिः च सेव्या च योगिनी परमा कला ।महा-विभूतिः दुर्दर्शा मूलप्रकृति-सम्भवा ॥ १२॥
prāṇaśaktiḥ ca sevyā ca yoginī paramā kalā .mahā-vibhūtiḥ durdarśā mūlaprakṛti-sambhavā .. 12..
अनाद्यनन्तविभवा परार्था पुरुषारणिः ।सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ 13॥
अनादि-अनन्त-विभवा पर-अर्था पुरुष-अरणिः ।सर्ग-स्थिति-अन्त-कृत् च एव सु दुर्वाच्या दुरत्यया ॥ १३॥
anādi-ananta-vibhavā para-arthā puruṣa-araṇiḥ .sarga-sthiti-anta-kṛt ca eva su durvācyā duratyayā .. 13..
शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ।प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ 14॥
śabdagamyā śabdamāyā śabdākhyānandavigrahā |pradhānapuruṣātītā pradhānapuruṣātmikā || 14||
śabdagamyā śabdamāyā śabdākhyānandavigrahā |pradhānapuruṣātītā pradhānapuruṣātmikā || 14||
पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।पूतान्तरस्था कूटस्था महापुरुषसञ्ज्ञिता ॥ 15॥
पुराणी चित्-मया पुंसाम् इष्ट-दा पुष्टि-रूपिणी ।पूत-अन्तर-स्था कूटस्था महापुरुष-सञ्ज्ञिता ॥ १५॥
purāṇī cit-mayā puṃsām iṣṭa-dā puṣṭi-rūpiṇī .pūta-antara-sthā kūṭasthā mahāpuruṣa-sañjñitā .. 15..
जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ 16॥
सर्व । ॥ १६॥
sarva . .. 16..
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ॥ 17॥
क्षेत्रज्ञा अचिन्त्य-शक्तिः तु प्रोच्यते अव्यक्त-लक्षणा । ॥ १७॥
kṣetrajñā acintya-śaktiḥ tu procyate avyakta-lakṣaṇā . .. 17..
प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ 18॥
प्रीतिः च प्रकृतिः च एव गुहावासा तथा उच्यते ।महामाया नग-उत्पन्ना तामसी च ध्रुवा तथा ॥ १८॥
prītiḥ ca prakṛtiḥ ca eva guhāvāsā tathā ucyate .mahāmāyā naga-utpannā tāmasī ca dhruvā tathā .. 18..
व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ 19॥
व्यक्ता अव्यक्त-आत्मिका कृष्णा रक्ता शुक्ला हि अकारणा ।प्रोच्यते कार्य-जननी नित्य-प्रसव-धर्मिणी ॥ १९॥
vyaktā avyakta-ātmikā kṛṣṇā raktā śuklā hi akāraṇā .procyate kārya-jananī nitya-prasava-dharmiṇī .. 19..
सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ 20॥
सर्ग-प्रलय-मुक्ता च सृष्टि-स्थिति-अन्त-धर्मिणी ।ब्रह्म-गर्भा चतुर्विंश-स्वरूपा पद्म-वासिनी ॥ २०॥
sarga-pralaya-muktā ca sṛṣṭi-sthiti-anta-dharmiṇī .brahma-garbhā caturviṃśa-svarūpā padma-vāsinī .. 20..
अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ।महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ॥ 21॥
।महालक्ष्मी समुद्भाव-भावित-आत्मा-महेश्वरी ॥ २१॥
.mahālakṣmī samudbhāva-bhāvita-ātmā-maheśvarī .. 21..
महाविमानमध्यस्था महानिद्रा सकौतुका ।सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ 22॥
महा-विमान-मध्य-स्था महा-निद्रा स कौतुका ।सर्व-अर्थ-धारिणी सूक्ष्मा हि अविद्धा परम-अर्थ-दा ॥ २२॥
mahā-vimāna-madhya-sthā mahā-nidrā sa kautukā .sarva-artha-dhāriṇī sūkṣmā hi aviddhā parama-artha-dā .. 22..
अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ।अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ 23॥
तथा ।अनेक-अनेक-हस्ता च काल-त्रय-विवर्जिता ॥ २३॥
tathā .aneka-aneka-hastā ca kāla-traya-vivarjitā .. 23..
ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसञ्ज्ञिता ॥ 24॥
ब्रह्म-जन्मा हर-प्रीता मतिः ब्रह्म-शिव-आत्मिका ।ब्रह्म-ईश-विष्णु-सम्पूज्या ब्रह्म-आख्या ब्रह्म-सञ्ज्ञिता ॥ २४॥
brahma-janmā hara-prītā matiḥ brahma-śiva-ātmikā .brahma-īśa-viṣṇu-sampūjyā brahma-ākhyā brahma-sañjñitā .. 24..
व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ 25॥
व्यक्ता प्रथम-जा ब्राह्मी महारात्रीः प्रकीर्तिता ।ज्ञान-स्वरूपा वैराग्य-रूपा हि ऐश्वर्य-रूपिणी ॥ २५॥
vyaktā prathama-jā brāhmī mahārātrīḥ prakīrtitā .jñāna-svarūpā vairāgya-rūpā hi aiśvarya-rūpiṇī .. 25..
धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ 26॥
।अपाम् योनिः स्वयम्भूता मानसी तत्त्व-सम्भवा ॥ २६॥
.apām yoniḥ svayambhūtā mānasī tattva-sambhavā .. 26..
ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ।भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ 27॥
ईश्वरस्य प्रिया प्रोक्ता शङ्कर-अर्ध-शरीरिणी ।भवानी च एव रुद्राणी महालक्ष्मीः तथा अम्बिका ॥ २७॥
īśvarasya priyā proktā śaṅkara-ardha-śarīriṇī .bhavānī ca eva rudrāṇī mahālakṣmīḥ tathā ambikā .. 27..
महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ।सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ 28॥
महेश्वर-समुत्पन्ना भुक्ति-मुक्ति-प्रदायिनी । ॥ २८॥
maheśvara-samutpannā bhukti-mukti-pradāyinī . .. 28..
महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ।ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥ 29॥
।ईश्वर-अर्धासन-गता माहेश्वर-पतिव्रता ॥ २९॥
.īśvara-ardhāsana-gatā māheśvara-pativratā .. 29..
संसारशोषिणी चैव पार्वती हिमवत्सुता ।परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ 30॥
संसार-शोषिणी च एव पार्वती हिमवत्-सुता ।परमानन्द-दात्री च गुण-अग्र्या योग-दा तथा ॥ ३०॥
saṃsāra-śoṣiṇī ca eva pārvatī himavat-sutā .paramānanda-dātrī ca guṇa-agryā yoga-dā tathā .. 30..
ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ 31॥
ज्ञान-मूर्तिः च सावित्री लक्ष्मीः श्रीः कमला तथा ।अनन्त-गुण-गम्भीरा हि उरः-नील-मणि-प्रभा ॥ ३१॥
jñāna-mūrtiḥ ca sāvitrī lakṣmīḥ śrīḥ kamalā tathā .ananta-guṇa-gambhīrā hi uraḥ-nīla-maṇi-prabhā .. 31..
सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ।सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ 32॥
sarojanilayā gaṅgā yogidhyeyā'surārdinī |sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 32||
sarojanilayā gaṅgā yogidhyeyā'surārdinī |sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 32||
वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ 33॥
सर्व ।वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ३३॥
sarva .vāgīśvarī brahmavidyā mahāvidyā suśobhanā .. 33..
ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ 34॥
ग्राह्य-विद्या वेद-विद्या धर्म-विद्या आत्म-भाविता ।स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ ३४॥
grāhya-vidyā veda-vidyā dharma-vidyā ātma-bhāvitā .svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ .. 34..
सुनीतिः सङ्कृतिश्चैव कीर्तिता नरवाहिनी ।पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ॥ 35॥
सुनीतिः सङ्कृतिः च एव कीर्तिता नरवाहिनी ।पूजा-विभाविनी सौम्या भोग्य-भाज् भोग-दायिनी ॥ ३५॥
sunītiḥ saṅkṛtiḥ ca eva kīrtitā naravāhinī .pūjā-vibhāvinī saumyā bhogya-bhāj bhoga-dāyinī .. 35..
शोभावती शाङ्करी च लोला मालाविभूषिता ।परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ॥ 36॥
शोभावती शाङ्करी च लोला माला-विभूषिता ।परमेष्ठि-प्रिया च एव त्रिलोकी-सुन्दरी माता ॥ ३६॥
śobhāvatī śāṅkarī ca lolā mālā-vibhūṣitā .parameṣṭhi-priyā ca eva trilokī-sundarī mātā .. 36..
नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ।महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ 37॥
nandā sandhyā kāmadhātrī mahādevī susāttvikā |mahāmahiṣadarpaghnī padmamālā'ghahāriṇī || 37||
nandā sandhyā kāmadhātrī mahādevī susāttvikā |mahāmahiṣadarpaghnī padmamālā'ghahāriṇī || 37||
विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।पिताम्बरधरा दिव्यविभूषण विभूषिता ॥ 38॥
विचित्र-मुकुटा रामा काम-दाता प्रकीर्तिता ।दिव्य-विभूषण-विभूषिता ॥ ३८॥
vicitra-mukuṭā rāmā kāma-dātā prakīrtitā .divya-vibhūṣaṇa-vibhūṣitā .. 38..
दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ 39॥
दिव्य-आख्या सोमवदना जगत्-संसृष्टि-वर्जिता । ॥ ३९॥
divya-ākhyā somavadanā jagat-saṃsṛṣṭi-varjitā . .. 39..
आदित्यवर्णा कौमारी मयूरवरवाहिनी ।पद्मासनगता गौरी महाकाली सुरार्चिता ॥ 40॥
।पद्मासन-गता गौरी महाकाली सुर-अर्चिता ॥ ४०॥
.padmāsana-gatā gaurī mahākālī sura-arcitā .. 40..
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ 41॥
अदितिः नियता रौद्री पद्मगर्भा विवाहना । ॥ ४१॥
aditiḥ niyatā raudrī padmagarbhā vivāhanā . .. 41..
महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ।भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ 42॥
महाफला अनवद्याङ्गी कामरूपा सरित्-वरा । ॥ ४२॥
mahāphalā anavadyāṅgī kāmarūpā sarit-varā . .. 42..
कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ 43॥
।बहुरूपा सुरूपा च विरूपा रूप-वर्जिता ॥ ४३॥
.bahurūpā surūpā ca virūpā rūpa-varjitā .. 43..
भक्तार्तिशमना भव्या भवभावविनाशिनी ।सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ 44॥
।सर्व ॥ ४४॥
.sarva .. 44..
पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ।दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ 45॥
।दीक्षा विद्याधरी दीप्ता महा-इन्द्र-आहितपातिनी ॥ ४५॥
.dīkṣā vidyādharī dīptā mahā-indra-āhitapātinī .. 45..
सर्वदेवमया दक्षा समुद्रान्तरवासिनी ।अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ 46॥
सर्व-देव-मया दक्षा समुद्र-अन्तर-वासिनी ।अकलङ्का निराधारा नित्य-सिद्धा निरामया ॥ ४६॥
sarva-deva-mayā dakṣā samudra-antara-vāsinī .akalaṅkā nirādhārā nitya-siddhā nirāmayā .. 46..
कामधेनुबृहद्गर्भा धीमती मौननाशिनी ।निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ 47॥
kāmadhenubṛhadgarbhā dhīmatī maunanāśinī |niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47||
kāmadhenubṛhadgarbhā dhīmatī maunanāśinī |niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47||
ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ 48॥
ज्वाला-माला सहस्र-आढ्या देवदेवी मनः-मया ।सुभगा सु विशुद्धा च वसुदेव-समुद्भवा ॥ ४८॥
jvālā-mālā sahasra-āḍhyā devadevī manaḥ-mayā .subhagā su viśuddhā ca vasudeva-samudbhavā .. 48..
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ 49॥
।ज्ञान-ज्ञेया पर-अतीता वेदान्त-विषया मतिः ॥ ४९॥
.jñāna-jñeyā para-atītā vedānta-viṣayā matiḥ .. 49..
दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।योगमाया विभागज्ञा महामोहा गरीयसी ॥ 50॥
सर्व ।योगमाया विभाग-ज्ञा महामोहा गरीयसी ॥ ५०॥
sarva .yogamāyā vibhāga-jñā mahāmohā garīyasī .. 50..
सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियादितिः ।बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ 51॥
।बीज-अङ्कुर-समुद्भूता महा-शक्तिः महामतिः ॥ ५१॥
.bīja-aṅkura-samudbhūtā mahā-śaktiḥ mahāmatiḥ .. 51..
ख्यातिः प्रज्ञावती सञ्ज्ञा महाभोगीन्द्रशायिनी ।हीङ्कृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ 52॥
ख्यातिः प्रज्ञावती सञ्ज्ञा महा-भोगीन्द्र-शायिनी ।हीङ्कृतिः शङ्करी शान्तिः गन्धर्व-गण-सेविता ॥ ५२॥
khyātiḥ prajñāvatī sañjñā mahā-bhogīndra-śāyinī .hīṅkṛtiḥ śaṅkarī śāntiḥ gandharva-gaṇa-sevitā .. 52..
वैश्वानरी महाशूला देवसेना भवप्रिया ।महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ 53॥
vaiśvānarī mahāśūlā devasenā bhavapriyā |mahārātrī parānandā śacī duḥsvapnanāśinī || 53||
vaiśvānarī mahāśūlā devasenā bhavapriyā |mahārātrī parānandā śacī duḥsvapnanāśinī || 53||
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ 54॥
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।गुहा अम्बिका गण-उत्पन्ना महा-पीठा मरुत्-सुता ॥ ५४॥
īḍyā jayā jagaddhātrī durvijñeyā surūpiṇī .guhā ambikā gaṇa-utpannā mahā-pīṭhā marut-sutā .. 54..
हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ 55॥
।जगन्माता जगन्मृत्युः जरातीता च बुद्धिदा ॥ ५५॥
.jaganmātā jaganmṛtyuḥ jarātītā ca buddhidā .. 55..
सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ 56॥
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |daityahantrī sveṣṭadātrī maṅgalaikasuvigrahā || 56||
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |daityahantrī sveṣṭadātrī maṅgalaikasuvigrahā || 56||
पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः ॥ 57॥
पुरुष-अन्तर्गता च एव समाधि-स्था तपस्विनी ।दिविस्थिता त्रिनेत्रा च सर्व-इन्द्रिय-मनाधृतिः ॥ ५७॥
puruṣa-antargatā ca eva samādhi-sthā tapasvinī .divisthitā trinetrā ca sarva-indriya-manādhṛtiḥ .. 57..
सर्वभूतहृदिस्था च तथा संसारतारिणी ।वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥ 58॥
सर्व-भूत-हृदिस्था च तथा संसार-तारिणी ।वेद्या ब्रह्म-विवेद्या च महालीला प्रकीर्तिता ॥ ५८॥
sarva-bhūta-hṛdisthā ca tathā saṃsāra-tāriṇī .vedyā brahma-vivedyā ca mahālīlā prakīrtitā .. 58..
ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।हिरण्मयी महादात्री संसारपरिवर्तिका ॥ 59॥
brāhmaṇibṛhatī brāhmī brahmabhūtā'ghahāriṇī |hiraṇmayī mahādātrī saṃsāraparivartikā || 59||
brāhmaṇibṛhatī brāhmī brahmabhūtā'ghahāriṇī |hiraṇmayī mahādātrī saṃsāraparivartikā || 59||
सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥ 60॥
सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।उन्मूलिनी सर्व-सभा सर्व-प्रत्यय-साक्षिणी ॥ ६०॥
sumālinī surūpā ca bhāsvinī dhāriṇī tathā .unmūlinī sarva-sabhā sarva-pratyaya-sākṣiṇī .. 60..
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ 61॥
सु सौम्या चन्द्र-वदना ताण्डव-आसक्त-मानसा । ॥ ६१॥
su saumyā candra-vadanā tāṇḍava-āsakta-mānasā . .. 61..
जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।विमानस्था विशोका च शोकनाशिन्यनाहता ॥ 62॥
जगत् त्रयी जगन्मूर्तिः त्रिमूर्तिः अमृत-आश्रया ।विमान-स्था विशोका च शोक-नाशिनी अनाहता ॥ ६२॥
jagat trayī jaganmūrtiḥ trimūrtiḥ amṛta-āśrayā .vimāna-sthā viśokā ca śoka-nāśinī anāhatā .. 62..
हेमकुण्डलिनी काली पद्मवासा सनातनी ।सदाकीर्तिः सर्वभूतशया देवी सताम्प्रिया ॥ 63॥
।सर्व ॥ ६३॥
.sarva .. 63..
ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ।व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥ 64॥
ब्रह्म-मूर्ति-कला च एव कृत्तिका कञ्जमालिनी । ॥ ६४॥
brahma-mūrti-kalā ca eva kṛttikā kañjamālinī . .. 64..
क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ।अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ 65॥
।अभिन्ना भिन्न-संस्थाना वशिनी वंश-धारिणी ॥ ६५॥
.abhinnā bhinna-saṃsthānā vaśinī vaṃśa-dhāriṇī .. 65..
गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ।भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ 66॥
गुह्य-शक्तिः गुह्य-तत्त्वा सर्वदा सर्वतोमुखी ।भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ ६६॥
guhya-śaktiḥ guhya-tattvā sarvadā sarvatomukhī .bhaginī ca nirādhārā nirāhārā prakīrtitā .. 66..
निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ।स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ 67॥
niraṅkuśapadodbhūtā cakrahastā viśodhikā |sragviṇī padmasambhedakāriṇī parikīrtitā || 67||
niraṅkuśapadodbhūtā cakrahastā viśodhikā |sragviṇī padmasambhedakāriṇī parikīrtitā || 67||
परावरविधानज्ञा महापुरुषपूर्वजा ।परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ 68॥
।परावर-ज्ञा विद्या च विद्युज्जिह्वा जित-आश्रया ॥ ६८॥
.parāvara-jñā vidyā ca vidyujjihvā jita-āśrayā .. 68..
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ॥ 69॥
vidyāmayī sahasrākṣī sahasravadanātmajā |sahasraraśmiḥsatvasthā maheśvarapadāśrayā || 69||
vidyāmayī sahasrākṣī sahasravadanātmajā |sahasraraśmiḥsatvasthā maheśvarapadāśrayā || 69||
ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।महाश्रया महामन्त्रा महादेवमनोरमा ॥ 70॥
ज्वालिनी सत्-मया व्याप्ता चित्-मया पद्म-भेदिका ।महा-आश्रया महा-मन्त्रा महादेव-मनोरमा ॥ ७०॥
jvālinī sat-mayā vyāptā cit-mayā padma-bhedikā .mahā-āśrayā mahā-mantrā mahādeva-manoramā .. 70..
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।विश्वेश्वरी भगवती सकला कालहारिणी ॥ 71॥
vyomalakṣmīḥ siṃharathā cekitānā'mitaprabhā |viśveśvarī bhagavatī sakalā kālahāriṇī || 71||
vyomalakṣmīḥ siṃharathā cekitānā'mitaprabhā |viśveśvarī bhagavatī sakalā kālahāriṇī || 71||
सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ।प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ 72॥
सर्व-वेद्या सर्व-भद्रा गुह्या दूढा गुहा-अरणी ।प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ ७२॥
sarva-vedyā sarva-bhadrā guhyā dūḍhā guhā-araṇī .pralayā yogadhātrī ca gaṅgā viśveśvarī tathā .. 72..
कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ।पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ 73॥
।पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ ७३॥
.puṇyadā kālakeśā ca bhokttrī puṣkariṇī tathā .. 73..
सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ 74॥
।पञ्च-ब्रह्म-समुत्पन्ना परमार्था अर्थ-विग्रहा ॥ ७४॥
.pañca-brahma-samutpannā paramārthā artha-vigrahā .. 74..
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।मनोहरा महोरस्का तामसी वेदरूपिणी ॥ 75॥
वर्ण-उदया भानु-मूर्तिः वाच् विज्ञेया मनोजवा ।मनोहरा महा-उरस्का तामसी वेद-रूपिणी ॥ ७५॥
varṇa-udayā bhānu-mūrtiḥ vāc vijñeyā manojavā .manoharā mahā-uraskā tāmasī veda-rūpiṇī .. 75..
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ 76॥
।योगेश्वर-ईश्वरी माया महा-शक्तिः महा-मयी ॥ ७६॥
.yogeśvara-īśvarī māyā mahā-śaktiḥ mahā-mayī .. 76..
विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ।सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ 77॥
विश्व-अन्तःस्था वियत्-मूर्तिः भार्गवी सुरसुन्दरी । ॥ ७७॥
viśva-antaḥsthā viyat-mūrtiḥ bhārgavī surasundarī . .. 77..
भारती परमानन्दा परावरविभेदिका ।सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ 78॥
bhāratī paramānandā parāvaravibhedikā |sarvapraharaṇopetā kāmyā kāmeśvareśvarī || 78||
bhāratī paramānandā parāvaravibhedikā |sarvapraharaṇopetā kāmyā kāmeśvareśvarī || 78||
अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ।कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ 79॥
anantānandavibhavā hṛllekhā kanakaprabhā |kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79||
anantānandavibhavā hṛllekhā kanakaprabhā |kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79||
त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ 80॥
।सु दुर्लभा धनाध्यक्षा धन्या पिङ्गल-लोचना ॥ ८०॥
.su durlabhā dhanādhyakṣā dhanyā piṅgala-locanā .. 80..
शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ।इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ 81॥
शान्ता प्रभास्वरूपा च पङ्कज-आयत-लोचना ।च ॥ ८१॥
śāntā prabhāsvarūpā ca paṅkaja-āyata-locanā .ca .. 81..
गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ।दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ 82॥
गिरिजा च सु गूढा च नित्य-पुष्टा निरन्तरा । ॥ ८२॥
girijā ca su gūḍhā ca nitya-puṣṭā nirantarā . .. 82..
हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ।मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ 83॥
हिरण्यवर्णा जगती जगत्-यन्त्र-प्रवर्तका ।मन्दर-अद्रि-निवासा च शारदा स्वर्ण-मालिनी ॥ ८३॥
hiraṇyavarṇā jagatī jagat-yantra-pravartakā .mandara-adri-nivāsā ca śāradā svarṇa-mālinī .. 83..
रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ 84॥
ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |padmānandā padmanibhā nityapuṣṭā kṛtodbhavā || 84||
ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |padmānandā padmanibhā nityapuṣṭā kṛtodbhavā || 84||
नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ 85॥
।महा-इन्द्र-भगिनी सत्या सत्य-भाषा सु कोमला ॥ ८५॥
.mahā-indra-bhaginī satyā satya-bhāṣā su komalā .. 85..
वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ।वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ 86॥
वामा च पञ्चतपसाम् वर-दात्री प्रकीर्तिता ।वाच्य-वर्ण-ईश्वरी विद्या दुर्जया दुरतिक्रमा ॥ ८६॥
vāmā ca pañcatapasām vara-dātrī prakīrtitā .vācya-varṇa-īśvarī vidyā durjayā duratikramā .. 86..
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ 87॥
कालरात्रिः महावेगा वीरभद्रप्रिया हिता । ॥ ८७॥
kālarātriḥ mahāvegā vīrabhadrapriyā hitā . .. 87..
कराला पिङ्गलाकारा कामभेत्त्री महामनाः ।यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ 88॥
कराला पिङ्गल-आकारा काम-भेत्त्री महामनाः ।यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ ८८॥
karālā piṅgala-ākārā kāma-bhettrī mahāmanāḥ .yaśasvinī yaśodā ca ṣaḍadhvaparivartikā .. 88..
शङ्खिनी पद्मिनी सङ्ख्या साङ्ख्ययोगप्रवर्तिका ।चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ 89॥
śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā |caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89||
śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā |caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89||
शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ 90॥
।खग-आरूढा महा-ऐश्वर्या सुपद्म-निलया तथा ॥ ९०॥
.khaga-ārūḍhā mahā-aiśvaryā supadma-nilayā tathā .. 90..
विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ 91॥
विरक्ता गरुड-स्था च जगती-हृद्-गुहा-आश्रया । ॥ ९१॥
viraktā garuḍa-sthā ca jagatī-hṛd-guhā-āśrayā . .. 91..
जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ।सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ 92॥
।सर्व-विज्ञान-दात्री च अनल्प-कल्मष-हारिणी ॥ ९२॥
.sarva-vijñāna-dātrī ca analpa-kalmaṣa-hāriṇī .. 92..
सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ 93॥
।सत्-वृता लोक-संव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ ९३॥
.sat-vṛtā loka-saṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī .. 93..
विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ॥ 94॥
विश्व-अमर-ईश्वरा च एव भुक्ति-मुक्ति-प्रदायिनी ।शिव-आधृता लोहित-अक्षी सर्प-माला-विभूषणा ॥ ९४॥
viśva-amara-īśvarā ca eva bhukti-mukti-pradāyinī .śiva-ādhṛtā lohita-akṣī sarpa-mālā-vibhūṣaṇā .. 94..
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ 95॥
।अशेष-ध्येय-मूर्तिः च देवतानाम् च देवता ॥ ९५॥
.aśeṣa-dhyeya-mūrtiḥ ca devatānām ca devatā .. 95..
वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ।सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ 96॥
वरा अम्बिका गिरेः पुत्री निशुम्भ-विनिपातिनी ।सुवर्णा स्वर्ण-लसिता अनन्त-वर्णा सदा आधृता ॥ ९६॥
varā ambikā gireḥ putrī niśumbha-vinipātinī .suvarṇā svarṇa-lasitā ananta-varṇā sadā ādhṛtā .. 96..
शाङ्करी शान्तहृदया अहोरात्रविधायिका ।विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ 97॥
शाङ्करी शान्त-हृदया अहोरात्र-विधायिका ।विश्व-गोप्त्री गूढ-रूपा गुण-पूर्णा च गार्ग्य-जा ॥ ९७॥
śāṅkarī śānta-hṛdayā ahorātra-vidhāyikā .viśva-goptrī gūḍha-rūpā guṇa-pūrṇā ca gārgya-jā .. 97..
गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ।सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ 98॥
।सर्व-पाप-विनिर्मुक्ता सर्व-बन्ध-विवर्जिता ॥ ९८॥
.sarva-pāpa-vinirmuktā sarva-bandha-vivarjitā .. 98..
साङ्ख्ययोगसमाख्याता अप्रमेया मुनीडिता ।विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ 99॥
साङ्ख्य-योग-समाख्याता अप्रमेया मुनि-इडिता ।विशुद्ध-सुकुल-उद्भूता बिन्दु-नाद-समादृता ॥ ९९॥
sāṅkhya-yoga-samākhyātā aprameyā muni-iḍitā .viśuddha-sukula-udbhūtā bindu-nāda-samādṛtā .. 99..
शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ।वनमालाविराजन्ती अनन्तशयनादृता ॥ 100॥
शम्भु-वाम-अङ्क-गा च एव शशि-तुल्य-निभ-आनना । ॥ १००॥
śambhu-vāma-aṅka-gā ca eva śaśi-tulya-nibha-ānanā . .. 100..
नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ 101॥
naranārāyaṇodbhūtā nārasiṃhī prakīrtitā |daityapramāthinī śaṅkhacakrapadmagadādharā || 101||
naranārāyaṇodbhūtā nārasiṃhī prakīrtitā |daityapramāthinī śaṅkhacakrapadmagadādharā || 101||
सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ।सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ 102॥
सङ्कर्षण-समुत्पन्ना अम्बिका सत्-जन-आश्रया ।सुवृता सुन्दरी च एव धर्म-काम-अर्थ-दायिनी ॥ १०२॥
saṅkarṣaṇa-samutpannā ambikā sat-jana-āśrayā .suvṛtā sundarī ca eva dharma-kāma-artha-dāyinī .. 102..
मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ 103॥
।महा-विभूति-दा आराध्या सरोज-निलया असमा ॥ १०३॥
.mahā-vibhūti-dā ārādhyā saroja-nilayā asamā .. 103..
अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ।सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ 104॥
अष्टादश-भुजा अनादिः नीलोत्पल-दल-अक्षिणी ।सर्व-शक्ति-समारूढा धर्म-अधर्म-विवर्जिता ॥ १०४॥
aṣṭādaśa-bhujā anādiḥ nīlotpala-dala-akṣiṇī .sarva-śakti-samārūḍhā dharma-adharma-vivarjitā .. 104..
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ 105॥
वैराग्य-ज्ञान-निरता निरालोका निरिन्द्रिया । ॥ १०५॥
vairāgya-jñāna-niratā nirālokā nirindriyā . .. 105..
ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ।मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ 106॥
ज्ञानेश्वरी पीतचेला वेद-वेदाङ्ग-पारगा ।मनस्विनी मन्युमाता महा-मन्यु-समुद्भवा ॥ १०६॥
jñāneśvarī pītacelā veda-vedāṅga-pāragā .manasvinī manyumātā mahā-manyu-samudbhavā .. 106..
अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ 107॥
अमन्युः अमृत-आस्वादा पुरन्दर-परिष्टुता ।अशोच्या भिन्नविषया हिरण्य-रजत-प्रिया ॥ १०७॥
amanyuḥ amṛta-āsvādā purandara-pariṣṭutā .aśocyā bhinnaviṣayā hiraṇya-rajata-priyā .. 107..
हिरण्यजननी भीमा हेमाभरणभूषिता ।विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ 108॥
हिरण्यजननी भीमा हेम-आभरण-भूषिता ।विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोम-फल-प्रदा ॥ १०८॥
hiraṇyajananī bhīmā hema-ābharaṇa-bhūṣitā .vibhrājamānā durjñeyā jyotiṣṭoma-phala-pradā .. 108..
महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ 109॥
महानिद्रा-समुत्पत्तिः अनिद्रा सत्यदेवता ।दीर्घा ककुद्मिनी पिङ्ग-जटा-धारा मनोज्ञ-धीः ॥ १०९॥
mahānidrā-samutpattiḥ anidrā satyadevatā .dīrghā kakudminī piṅga-jaṭā-dhārā manojña-dhīḥ .. 109..
महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ 110॥
महा-आश्रया रमा उत्पन्ना तमः-पारे प्रतिष्ठिता ।त्रि-तत्त्व-माता त्रिविधा सु सूक्ष्मा पद्म-संश्रया ॥ ११०॥
mahā-āśrayā ramā utpannā tamaḥ-pāre pratiṣṭhitā .tri-tattva-mātā trividhā su sūkṣmā padma-saṃśrayā .. 110..
शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ।चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ 111॥
शान्ति-अतीत-कला-अतीत-विकारा श्वेत-चेलिका । ॥ १११॥
śānti-atīta-kalā-atīta-vikārā śveta-celikā . .. 111..
काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ 112॥
।त्रयी-मूर्तिः क्रिया-मूर्तिः चतुर्वर्गा च दर्शिनी ॥ ११२॥
.trayī-mūrtiḥ kriyā-mūrtiḥ caturvargā ca darśinī .. 112..
नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ।कौशिकी ललिता लीला परावरविभाविनी ॥ 113॥
।कौशिकी ललिता लीला परावर-विभाविनी ॥ ११३॥
.kauśikī lalitā līlā parāvara-vibhāvinī .. 113..
वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना ।सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ 114॥
वरेण्या अद्भुत-महात्म्या वडवा वाम-लोचना । ॥ ११४॥
vareṇyā adbhuta-mahātmyā vaḍavā vāma-locanā . .. 114..
जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ 115॥
jayādiśaktijananī śakticakrapravartikā |triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115||
jayādiśaktijananī śakticakrapravartikā |triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115||
सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ।सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ 116॥
सु धौत-कर्मणा आराध्या युगान्त-दहन-आत्मिका । ॥ ११६॥
su dhauta-karmaṇā ārādhyā yugānta-dahana-ātmikā . .. 116..
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ 117॥
ऐन्द्री त्रैलोक्य-नमिता वैष्णवी परमेश्वरी । ॥ ११७॥
aindrī trailokya-namitā vaiṣṇavī parameśvarī . .. 117..
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ॥ 118॥
।वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ॥ ११८॥
.vṛṣādhīśā parātmā ca vindhyā parvatavāsinī .. 118..
हिमवन्मेरुनिलया कैलासपुरवासिनी ।चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ 119॥
हिमवत्-मेरु-निलया कैलास-पुर-वासिनी । ॥ ११९॥
himavat-meru-nilayā kailāsa-pura-vāsinī . .. 119..
व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ 120॥
व्रत-स्नाता धर्म-शीला सिंहासन-निवासिनी ।वीरभद्र-आदृता वीरा महाकाल-समुद्भवा ॥ १२०॥
vrata-snātā dharma-śīlā siṃhāsana-nivāsinī .vīrabhadra-ādṛtā vīrā mahākāla-samudbhavā .. 120..
विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ 121॥
।श्रद्धा-आत्मिका पावनी च मोहिनी अचल-आत्मिका ॥ १२१॥
.śraddhā-ātmikā pāvanī ca mohinī acala-ātmikā .. 121..
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।मनीषिणी सुधावाणी वीणावादनतत्परा ॥ 122॥
महा-अद्भुता वारिज-अक्षी सिंहवाहन-गामिनी । ॥ १२२॥
mahā-adbhutā vārija-akṣī siṃhavāhana-gāminī . .. 122..
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ 123॥
श्वेतवाह-निषेव्या च लसत्-मतिः अरुन्धती ।हिरण्याक्षी तथा च एव महानन्दप्रदायिनी ॥ १२३॥
śvetavāha-niṣevyā ca lasat-matiḥ arundhatī .hiraṇyākṣī tathā ca eva mahānandapradāyinī .. 123..
वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ।परावरा वरारोहा सहस्रनयनार्चिता ॥ 124॥
वसु-प्रभा सुमाल्य-आप्त-कन्धरा पङ्कज-आनना ।परावरा वरारोहा सहस्रनयन-अर्चिता ॥ १२४॥
vasu-prabhā sumālya-āpta-kandharā paṅkaja-ānanā .parāvarā varārohā sahasranayana-arcitā .. 124..
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ 125॥
śrīrūpā śrīmatī śreṣṭhā śivanāmnī śivapriyā |śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125||
śrīrūpā śrīmatī śreṣṭhā śivanāmnī śivapriyā |śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125||
श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्रारातिसूदनी ।रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ॥ 126॥
श्री-कला-अनन्त-दृष्टिः च हि अक्षुद्र-अराति-सूदनी ।च ॥ १२६॥
śrī-kalā-ananta-dṛṣṭiḥ ca hi akṣudra-arāti-sūdanī .ca .. 126..
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ॥ 127॥
siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī |sukīrtisahitācchinnasaṃśayā rasavedinī || 127||
siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī |sukīrtisahitācchinnasaṃśayā rasavedinī || 127||
गुणाभिरामा नागारिवाहना निर्जरार्चिता ।नित्योदिता स्वयञ्ज्योतिः स्वर्णकाया प्रकीर्तिता ॥ 128॥
गुण-अभिरामा नाग-अरि-वाहना निर्जर-अर्चिता । ॥ १२८॥
guṇa-abhirāmā nāga-ari-vāhanā nirjara-arcitā . .. 128..
वज्रदण्डाङ्किता चैव तथामृतसञ्जीविनी ।वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ 129॥
वज्र-दण्ड-अङ्किता च एव तथा अमृतसञ्जीविनी । ॥ १२९॥
vajra-daṇḍa-aṅkitā ca eva tathā amṛtasañjīvinī . .. 129..
माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ 130॥
माङ्गल्या मङ्गल-आत्मा च मालिनी माल्य-धारिणी ।गन्धर्वी तरुणी चान्द्री खड्ग-आयुध-धरा तथा ॥ १३०॥
māṅgalyā maṅgala-ātmā ca mālinī mālya-dhāriṇī .gandharvī taruṇī cāndrī khaḍga-āyudha-dharā tathā .. 130..
सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ।एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ 131॥
।एक-अनङ्गा च शास्त्र-अर्थ-कुशला धर्म-चारिणी ॥ १३१॥
.eka-anaṅgā ca śāstra-artha-kuśalā dharma-cāriṇī .. 131..
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ 132॥
धर्म-सर्व-स्व-वाहा च धर्म-अधर्म-विनिश्चया ।धर्म-शक्तिः धर्म-मया धार्मिकानाम् शिव-प्रदा ॥ १३२॥
dharma-sarva-sva-vāhā ca dharma-adharma-viniścayā .dharma-śaktiḥ dharma-mayā dhārmikānām śiva-pradā .. 132..
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ 133॥
विधर्मा विश्व-धर्म-ज्ञा धर्म-अर्थ-अन्तर-विग्रहा । ॥ १३३॥
vidharmā viśva-dharma-jñā dharma-artha-antara-vigrahā . .. 133..
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।कपालिनी शाकलिनी कलाकलितविग्रहा ॥ 134॥
।कपालिनी शाकलिनी कला-कलित-विग्रहा ॥ १३४॥
.kapālinī śākalinī kalā-kalita-vigrahā .. 134..
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।कंसप्राणहरा चैव युगधर्मधरा तथा ॥ 135॥
सर्व-शक्ति-विमुक्ता च कर्णिकार-धरा अक्षरा।कंस-प्राण-हरा च एव युग-धर्म-धरा तथा ॥ १३५॥
sarva-śakti-vimuktā ca karṇikāra-dharā akṣarā.kaṃsa-prāṇa-harā ca eva yuga-dharma-dharā tathā .. 135..
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ 136॥
।स्वर्ग-अपवर्ग-दात्री च तथा प्रत्यक्ष-देवता ॥ १३६॥
.svarga-apavarga-dātrī ca tathā pratyakṣa-devatā .. 136..
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ 137॥
आदित्या दिव्य-गन्धा च दिवाकर-निभ-प्रभा ।पद्मासन-गता प्रोक्ता खड्ग-बाण-शर-आसना ॥ १३७॥
ādityā divya-gandhā ca divākara-nibha-prabhā .padmāsana-gatā proktā khaḍga-bāṇa-śara-āsanā .. 137..
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।शतरूपा शतावर्ता वितता रासमोदिनी ॥ 138॥
शिष्टा विशिष्टा शिष्ट-इष्टा शिष्ट-श्रेष्ठ-प्रपूजिता ।शतरूपा शतावर्ता वितता रासमोदिनी ॥ १३८॥
śiṣṭā viśiṣṭā śiṣṭa-iṣṭā śiṣṭa-śreṣṭha-prapūjitā .śatarūpā śatāvartā vitatā rāsamodinī .. 138..
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा ॥ 139॥
।सूर्य-अन्तर-स्थिता च एव सत्-प्रतिष्ठत-विग्रहा ॥ १३९॥
.sūrya-antara-sthitā ca eva sat-pratiṣṭhata-vigrahā .. 139..
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ 140॥
निवृत्ता प्रोच्यते ज्ञान-पारगा पर्वत-आत्मजा ।कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ १४०॥
nivṛttā procyate jñāna-pāragā parvata-ātmajā .kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā .. 140..
दाक्षायणी सती चैव भवानी सर्वमङ्गला ।धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ 141॥
दाक्षायणी सती च एव भवानी सर्व-मङ्गला ।च ॥ १४१॥
dākṣāyaṇī satī ca eva bhavānī sarva-maṅgalā .ca .. 141..
योगनिद्रा योगभद्रा समुद्रतनया तथा ।देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ 142॥
योगनिद्रा योगभद्रा समुद्रतनया तथा । ॥ १४२॥
yoganidrā yogabhadrā samudratanayā tathā . .. 142..
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ 143॥
।अर्जुन-अभीष्ट-दात्री च पाण्डव-प्रिय-कारिणी ॥ १४३॥
.arjuna-abhīṣṭa-dātrī ca pāṇḍava-priya-kāriṇī .. 143..
कुमारलालनासक्ता हरबाहूपधानिका ।विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ 144॥
kumāralālanāsaktā harabāhūpadhānikā |vighneśajananī bhaktavighnastomaprahāriṇī || 144||
kumāralālanāsaktā harabāhūpadhānikā |vighneśajananī bhaktavighnastomaprahāriṇī || 144||
सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ।अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ 145॥
सुस्मिता इन्दुमुखी नम्या जया-प्रिय-सखी तथा ।अन् आदि-निधना प्रेष्ठा चित्र-माल्य-अनुलेपना ॥ १४५॥
susmitā indumukhī namyā jayā-priya-sakhī tathā .an ādi-nidhanā preṣṭhā citra-mālya-anulepanā .. 145..
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ 146॥
।कृत्या-प्रहारिणी च एव मारण-उच्चाटनी तथा ॥ १४६॥
.kṛtyā-prahāriṇī ca eva māraṇa-uccāṭanī tathā .. 146..
सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ।षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ 147॥
।षष्-वैरि-निग्रह-करी वैरि-विद्राविणी तथा ॥ १४७॥
.ṣaṣ-vairi-nigraha-karī vairi-vidrāviṇī tathā .. 147..
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ 148॥
भूतसेव्या भूतदात्री भूत-पीडा-विमर्दिका । ॥ १४८॥
bhūtasevyā bhūtadātrī bhūta-pīḍā-vimardikā . .. 148..
वामदेवस्तुता चैव कामदा सोमशेखरा ।दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ 149॥
वामदेव-स्तुता च एव कामदा सोमशेखरा । ॥ १४९॥
vāmadeva-stutā ca eva kāmadā somaśekharā . .. 149..
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ।वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ 150॥
च ।व्योमगा भूमिगा च एव मुनि-पूज्य-पद-अम्बुजा ।वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ १५०॥
ca .vyomagā bhūmigā ca eva muni-pūjya-pada-ambujā .vanadurgā ca durbodhā mahādurgā prakīrtitā .. 150..
फलश्रुतिः
इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ 1॥
इति इदम् कीर्ति-दम् भद्र दुर्गा-नाम-सहस्रकम् ।त्रिसन्ध्यम् यः पठेत् नित्यम् तस्य लक्ष्मीः स्थिरा भवेत् ॥ १॥
iti idam kīrti-dam bhadra durgā-nāma-sahasrakam .trisandhyam yaḥ paṭhet nityam tasya lakṣmīḥ sthirā bhavet .. 1..
ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ 2॥
ग्रह-भूत-पिशाच-आदि-पीडा नश्यति असंशयम् ।बालग्रह-आदि-पीडायाः शान्तिः भवति कीर्तनात् ॥ २॥
graha-bhūta-piśāca-ādi-pīḍā naśyati asaṃśayam .bālagraha-ādi-pīḍāyāḥ śāntiḥ bhavati kīrtanāt .. 2..
मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ 3॥
पठताम् दः ।व्यवहारे च जय-दम् शत्रु-बाधा-निवारकम् ॥ ३॥
paṭhatām daḥ .vyavahāre ca jaya-dam śatru-bādhā-nivārakam .. 3..
दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ।आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ 4॥
दम्पत्योः कलहे प्राप्ते मिथस् प्रेम-अभिवर्धकम् । ॥ ४॥
dampatyoḥ kalahe prāpte mithas prema-abhivardhakam . .. 4..
विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ।शुभदं शुभकार्येषु पठतां शृणुतामपि ॥ 5॥
विद्या-अभिवर्धकम् नित्यम् पठताम् अर्थ-साधकम् ।शुभ-दम् शुभ-कार्येषु पठताम् शृणुताम् अपि ॥ ५॥
vidyā-abhivardhakam nityam paṭhatām artha-sādhakam .śubha-dam śubha-kāryeṣu paṭhatām śṛṇutām api .. 5..
यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ 6॥
यः पूजयति दुर्गाम् ताम् दुर्गा-नाम-सहस्रकैः ।पुष्पैः कुङ्कुम-सम्मिश्रैः स तु यत् काङ्क्षते हृदि ॥ ६॥
yaḥ pūjayati durgām tām durgā-nāma-sahasrakaiḥ .puṣpaiḥ kuṅkuma-sammiśraiḥ sa tu yat kāṅkṣate hṛdi .. 6..
तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ 7॥
तत् सर्वम् समवाप्नोति न अस्ति न अस्ति अत्र संशयः ।यद्-मुखे ध्रियते नित्यम् दुर्गा-नाम-सहस्रकम् ॥ ७॥
tat sarvam samavāpnoti na asti na asti atra saṃśayaḥ .yad-mukhe dhriyate nityam durgā-nāma-sahasrakam .. 7..
किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ।दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ 8॥
किम् तस्य इतर-मन्त्र-ओघैः कार्यम् धन्यतमस्य हि ।दुर्गा-नाम-सहस्रस्य पुस्तकम् यत् गृहे भवेत् ॥ ८॥
kim tasya itara-mantra-oghaiḥ kāryam dhanyatamasya hi .durgā-nāma-sahasrasya pustakam yat gṛhe bhavet .. 8..
न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ।तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ 9॥
न तत्र ग्रह-भूत-आदि-बाधा स्यात् मङ्गल-आस्पदे ।तद्-गृहम् पुण्य-दम् क्षेत्रम् देवी-सान्निध्य-कारकम् ॥ ९॥
na tatra graha-bhūta-ādi-bādhā syāt maṅgala-āspade .tad-gṛham puṇya-dam kṣetram devī-sānnidhya-kārakam .. 9..
एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ।देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ 10॥
एतस्य स्तोत्र-मुख्यस्य पाठकः श्रेष्ठ-मन्त्र-विद् ।देवतायाः प्रसादेन सर्व-पूज्यः सुखी भवेत् ॥ १०॥
etasya stotra-mukhyasya pāṭhakaḥ śreṣṭha-mantra-vid .devatāyāḥ prasādena sarva-pūjyaḥ sukhī bhavet .. 10..
इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ।गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ 11॥
इति एतत् नग-राजेन कीर्तितम् मुनि-सत्तम ।गुह्यात् गुह्यतरम् स्तोत्रम् त्वयि स्नेहात् प्रकीर्तितम् ॥ ११॥
iti etat naga-rājena kīrtitam muni-sattama .guhyāt guhyataram stotram tvayi snehāt prakīrtitam .. 11..
भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ।हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ 12॥ ॥
भक्ताय केवलम् कीर्त्यताम् इदम् ।हृदि धारय नित्यम् त्वम् देवी-अनुग्रह-साधकम् ॥ १२॥ ॥
bhaktāya kevalam kīrtyatām idam .hṛdi dhāraya nityam tvam devī-anugraha-sādhakam .. 12.. ..
इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥
इति श्री-स्कान्दपुराणे स्कन्द-नारद-संवादे दुर्गा-सहस्रनाम-स्तोत्रम् सम्पूर्णम् ॥
iti śrī-skāndapurāṇe skanda-nārada-saṃvāde durgā-sahasranāma-stotram sampūrṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In