| |
|

This overlay will guide you through the buttons:

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1 ॥
ओम् शुक्ल-अम्बर-धरम् विष्णुम् शशि-वर्णम् चतुर्भुजम् । प्रसन्न-वदनम् ध्यायेत् सर्व-विघ्न-उपशान्तये ॥ १ ॥
om śukla-ambara-dharam viṣṇum śaśi-varṇam caturbhujam . prasanna-vadanam dhyāyet sarva-vighna-upaśāntaye .. 1 ..
यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ 2 ॥
यस्य द्विरद-वक्त्र-आद्याः पारिषद्याः परस् शतम् । विघ्नम् निघ्नन्ति सततम् विष्वक्सेनम् तम् आश्रये ॥ २ ॥
yasya dvirada-vaktra-ādyāḥ pāriṣadyāḥ paras śatam . vighnam nighnanti satatam viṣvaksenam tam āśraye .. 2 ..
Purva Pithika/ पूर्व पीठिका
व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ 3 ॥
व्यासम् वसिष्ठ नप्तारम् शक्तेः पौत्रम् अकल्मषम् । पराशर-आत्मजम् वन्दे शुक-तातम् तपः-निधिम् ॥ ३ ॥
vyāsam vasiṣṭha naptāram śakteḥ pautram akalmaṣam . parāśara-ātmajam vande śuka-tātam tapaḥ-nidhim .. 3 ..
व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 4 ॥
व्यासाय विष्णु-रूपाय व्यास-रूपाय विष्णवे । नमः वै ब्रह्म-निधये वासिष्ठाय नमः नमः ॥ ४ ॥
vyāsāya viṣṇu-rūpāya vyāsa-rūpāya viṣṇave . namaḥ vai brahma-nidhaye vāsiṣṭhāya namaḥ namaḥ .. 4 ..
अविकाराय शुद्धाय नित्याय परमात्मने । सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ॥ 5 ॥
अविकाराय शुद्धाय नित्याय परमात्मने । सदा एक-रूप-रूपाय विष्णवे सर्व-जिष्णवे ॥ ५ ॥
avikārāya śuddhāya nityāya paramātmane . sadā eka-rūpa-rūpāya viṣṇave sarva-jiṣṇave .. 5 ..
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ 6 ॥
यस्य स्मरण-मात्रेण जन्म-संसार-बन्धनात् । विमुच्यते नमः तस्मै विष्णवे प्रभविष्णवे ॥ ६ ॥
yasya smaraṇa-mātreṇa janma-saṃsāra-bandhanāt . vimucyate namaḥ tasmai viṣṇave prabhaviṣṇave .. 6 ..
ॐ नमो विष्णवे प्रभविष्णवे ।
ओम् नमः विष्णवे प्रभविष्णवे ।
om namaḥ viṣṇave prabhaviṣṇave .
Shri Vaishampayana Uvacha/ श्री वैशम्पायन उवाच
श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्य भाषत ॥ 7 ॥
श्रुत्वा धर्माः नशेषेण पावनानि च सर्वशस् । युधिष्ठिरः शान्तनवम् पुनर् एव अभ्य भाषत ॥ ७ ॥
śrutvā dharmāḥ naśeṣeṇa pāvanāni ca sarvaśas . yudhiṣṭhiraḥ śāntanavam punar eva abhya bhāṣata .. 7 ..
Yudhisthira Uvacha/ युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाऽप्येकं परायणंस्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ 8 ॥
किम् एकम् दैवतम् लोके किम् वा अपि एकम् परायणम् स्तुवन्तः कम् कम् अर्चन्तः प्राप्नुयुः मानवाः शुभम् ॥ ८ ॥
kim ekam daivatam loke kim vā api ekam parāyaṇam stuvantaḥ kam kam arcantaḥ prāpnuyuḥ mānavāḥ śubham .. 8 ..
को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसार बन्धनात् ॥ 9 ॥
कः धर्मः सर्व-धर्माणाम् भवतः परमः मतः । किम् जपन् मुच्यते जन्तुः जन्म-संसार बन्धनात् ॥ ९ ॥
kaḥ dharmaḥ sarva-dharmāṇām bhavataḥ paramaḥ mataḥ . kim japan mucyate jantuḥ janma-saṃsāra bandhanāt .. 9 ..
Shri Bhishma Uvacha/ श्री भीष्म उवाच
जगत्प्रभुं देवदेव मनन्तं पुरुषोत्तमम् । स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ॥ 10 ॥
जगत्प्रभुम् देवदेव मनन्तम् पुरुषोत्तमम् । स्तुवन् नाम सहस्रेण पुरुषः सतत-उत्थितः ॥ १० ॥
jagatprabhum devadeva manantam puruṣottamam . stuvan nāma sahasreṇa puruṣaḥ satata-utthitaḥ .. 10 ..
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ 11 ॥
तम् एव च अर्चयत् नित्यम् भक्त्या पुरुषम् अव्ययम् । ध्यायन् स्तुवन् नमस्यन् च यजमानः तम् एव च ॥ ११ ॥
tam eva ca arcayat nityam bhaktyā puruṣam avyayam . dhyāyan stuvan namasyan ca yajamānaḥ tam eva ca .. 11 ..
अनादि निधनं विष्णुं सर्वलोक महेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगो भवेत् ॥ 12 ॥
अनादि-निधनम् विष्णुम् सर्व-लोक-महेश्वरम् । लोक-अध्यक्षम् स्तुवन् नित्यम् दुःख-अतिगः भवेत् ॥ १२ ॥
anādi-nidhanam viṣṇum sarva-loka-maheśvaram . loka-adhyakṣam stuvan nityam duḥkha-atigaḥ bhavet .. 12 ..
ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनम् । लोकनाथं महद्भूतं सर्वभूत भवोद्भवम्॥ 13 ॥
ब्रह्मण्यम् सर्व-धर्म-ज्ञम् लोकानाम् कीर्ति-वर्धनम् । लोकनाथम् महत् भूतम् सर्व-भूत भवोद्भवम्॥ १३ ॥
brahmaṇyam sarva-dharma-jñam lokānām kīrti-vardhanam . lokanātham mahat bhūtam sarva-bhūta bhavodbhavam.. 13 ..
एष मे सर्व धर्माणां धर्मोऽधिक तमोमतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ 14 ॥
एष मे सर्व-धर्माणाम् धर्मः अधिक तमः-मतः । यद्-भक्त्या पुण्डरीकाक्षम् स्तवैः अर्चेत् नरः सदा ॥ १४ ॥
eṣa me sarva-dharmāṇām dharmaḥ adhika tamaḥ-mataḥ . yad-bhaktyā puṇḍarīkākṣam stavaiḥ arcet naraḥ sadā .. 14 ..
परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् । 15 ॥
परमम् यः महत् तेजः परमम् यः महत् तपः । परमम् यः महत् ब्रह्म परमम् यः परायणम् । १५ ॥
paramam yaḥ mahat tejaḥ paramam yaḥ mahat tapaḥ . paramam yaḥ mahat brahma paramam yaḥ parāyaṇam . 15 ..
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ 16 ॥
पवित्राणाम् पवित्रम् यः मङ्गलानाम् च मङ्गलम् । दैवतम् देवतानाम् च भूतानाम् यः अव्ययः पिता ॥ १६ ॥
pavitrāṇām pavitram yaḥ maṅgalānām ca maṅgalam . daivatam devatānām ca bhūtānām yaḥ avyayaḥ pitā .. 16 ..
यतः सर्वाणि भूतानि भवन्त्यादि युगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ 17 ॥
यतस् सर्वाणि भूतानि भवन्ति आदि युग-आगमे । यस्मिन् च प्रलयम् यान्ति पुनर् एव युग-क्षये ॥ १७ ॥
yatas sarvāṇi bhūtāni bhavanti ādi yuga-āgame . yasmin ca pralayam yānti punar eva yuga-kṣaye .. 17 ..
तस्य लोक प्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ॥ 18 ॥
तस्य लोक-प्रधानस्य जगन्नाथस्य भूपते । विष्णोः नाम सहस्रम् मे श्रुणु पाप भय-अपहम् ॥ १८ ॥
tasya loka-pradhānasya jagannāthasya bhūpate . viṣṇoḥ nāma sahasram me śruṇu pāpa bhaya-apaham .. 18 ..
यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ 19 ॥
यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९ ॥
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ . ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye .. 19 ..
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ 20 ॥
ऋषिः नाम्नाम् सहस्रस्य वेदव्यासः महा-मुनिः ॥छन्दः अनुष्टुभ् तथा देवः भगवान् देवकी-सुतः ॥ २० ॥
ṛṣiḥ nāmnām sahasrasya vedavyāsaḥ mahā-muniḥ ..chandaḥ anuṣṭubh tathā devaḥ bhagavān devakī-sutaḥ .. 20 ..
अमृतां शूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ 21 ॥
अमृताम् बीजम् शक्तिः देवकि-नन्दनः । त्रि-सामा हृदयम् तस्य शान्ति-अर्थे विनियुज्यते ॥ २१ ॥
amṛtām bījam śaktiḥ devaki-nandanaḥ . tri-sāmā hṛdayam tasya śānti-arthe viniyujyate .. 21 ..
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ 22 ॥
विष्णुम् जिष्णुम् महाविष्णुम् प्रभविष्णुम् महेश्वरम् ॥अनेक-रूप दैत्य-अन्तम् नमामि पुरुषोत्तमम् ॥ २२ ॥
viṣṇum jiṣṇum mahāviṣṇum prabhaviṣṇum maheśvaram ..aneka-rūpa daitya-antam namāmi puruṣottamam .. 22 ..
Purvanyasaha/ पूर्वन्यासः
अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य ॥श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः, क्षोभणो देव इति परमोमन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणि रक्षोभ्य इति नेत्रम् । त्रिसामासामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुस्सुदर्शनः काल इति दिग्बन्धः ॥श्रीविश्वरूप इति ध्यानम् । श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे पारायणे विनियोगः ।
अस्य श्री-विष्णोः दिव्य-सहस्रनाम-स्तोत्र-महा-मन्त्रस्य ॥श्री वेदव्यासः भगवान् ऋषिः । अनुष्टुभ् छन्दः । श्री-महाविष्णुः परमात्मा श्रीमत्-नारायणः देवता । अमृत-अंशु-उद्भवः भानुः इति बीजम् । देवकीनन्दनः स्रष्टा इति शक्तिः । उद्भवः, क्षोभणः देवः इति परमः मन्त्रः । शङ्खभृत् नन्दकी चक्री इति कीलकम् । शार्ङ्गधन्वा गदा-धरः इति अस्त्रम् । रथाङ्ग-पाणि रक्षोभ्यः इति नेत्रम् । त्रि-साम-साम-गः साम इति कवचम् । आनन्दम् पर-ब्रह्म इति योनिः । ऋतुः सुदर्शनः कालः इति दिग्बन्धः ॥श्री-विश्वरूपः इति ध्यानम् । श्री-महाविष्णु-प्रीति-अर्थे सहस्रनाम-जपे पारायणे विनियोगः ।
asya śrī-viṣṇoḥ divya-sahasranāma-stotra-mahā-mantrasya ..śrī vedavyāsaḥ bhagavān ṛṣiḥ . anuṣṭubh chandaḥ . śrī-mahāviṣṇuḥ paramātmā śrīmat-nārāyaṇaḥ devatā . amṛta-aṃśu-udbhavaḥ bhānuḥ iti bījam . devakīnandanaḥ sraṣṭā iti śaktiḥ . udbhavaḥ, kṣobhaṇaḥ devaḥ iti paramaḥ mantraḥ . śaṅkhabhṛt nandakī cakrī iti kīlakam . śārṅgadhanvā gadā-dharaḥ iti astram . rathāṅga-pāṇi rakṣobhyaḥ iti netram . tri-sāma-sāma-gaḥ sāma iti kavacam . ānandam para-brahma iti yoniḥ . ṛtuḥ sudarśanaḥ kālaḥ iti digbandhaḥ ..śrī-viśvarūpaḥ iti dhyānam . śrī-mahāviṣṇu-prīti-arthe sahasranāma-jape pārāyaṇe viniyogaḥ .
Karanyasaha/ करन्यासः
विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः
विश्वम् विष्णुः वषट्कारः इति अङ्गुष्ठाभ्याम् नमः
viśvam viṣṇuḥ vaṣaṭkāraḥ iti aṅguṣṭhābhyām namaḥ
अमृतां शूद्भवो भानुरिति तर्जनीभ्यां नमः
अमृताम् शूद्भवः भानुः इति तर्जनीभ्याम् नमः
amṛtām śūdbhavaḥ bhānuḥ iti tarjanībhyām namaḥ
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मेति मध्यमाभ्यां नमः
ब्रह्मण्यः ब्रह्म-कृत् ब्रह्म इति मध्यमाभ्याम् नमः
brahmaṇyaḥ brahma-kṛt brahma iti madhyamābhyām namaḥ
सुवर्णबिन्दु रक्षोभ्य इति अनामिकाभ्यां नमः
सुवर्ण-बिन्दु रक्षोभ्यः इति अनामिकाभ्याम् नमः
suvarṇa-bindu rakṣobhyaḥ iti anāmikābhyām namaḥ
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः
निमिषः अनिमिषः स्रग्वी इति कनिष्ठिकाभ्याम् नमः
nimiṣaḥ animiṣaḥ sragvī iti kaniṣṭhikābhyām namaḥ
रथाङ्गपाणि रक्षोभ्य इति करतल करपृष्ठाभ्यां नमः
रथाङ्ग-पाणि रक्षोभ्यः इति कर-तल-कर-पृष्ठाभ्याम् नमः
rathāṅga-pāṇi rakṣobhyaḥ iti kara-tala-kara-pṛṣṭhābhyām namaḥ
Anganyasaha/ अङ्गन्यासः
सुव्रतः सुमुखः सूक्ष्म इति ज्ञानाय हृदयाय नमः
सुव्रतः सुमुखः सूक्ष्मः इति ज्ञानाय हृदयाय नमः
suvrataḥ sumukhaḥ sūkṣmaḥ iti jñānāya hṛdayāya namaḥ
सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसे स्वाहा
सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसे स्वाहा
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirase svāhā
सहस्रार्चिः सप्तजिह्व इति शक्त्यै शिखायै वषट्
सहस्र-अर्चिः सप्त-जिह्वः इति शक्त्यै शिखायै वषट्
sahasra-arciḥ sapta-jihvaḥ iti śaktyai śikhāyai vaṣaṭ
त्रिसामा सामगस्सामेति बलाय कवचाय हुं
त्रि-सामा साम-गः साम इति बलाय कवचाय हुम्
tri-sāmā sāma-gaḥ sāma iti balāya kavacāya hum
रथाङ्गपाणि रक्षोभ्य इति नेत्राभ्यां वौषट्
रथाङ्ग-पाणि रक्षोभ्यः इति नेत्राभ्याम् वौषट्
rathāṅga-pāṇi rakṣobhyaḥ iti netrābhyām vauṣaṭ
शाङ्गधन्वा गदाधर इति वीर्याय अस्त्रायफट्
शाङ्गधन्वा गदाधरः इति वीर्याय अस्त्राय फट्
śāṅgadhanvā gadādharaḥ iti vīryāya astrāya phaṭ
ऋतुः सुदर्शनः काल इति दिग्भन्धः
ऋतुः सुदर्शनः कालः इति दिग्भन्धः
ṛtuḥ sudarśanaḥ kālaḥ iti digbhandhaḥ
Dhyanam/ ध्यानम्
क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकतेमौक्तिकानां मालाक्लुप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ 1 ॥
क्षीरोधन्वत्-प्रदेशे माला-क्लुप्त-आसन-स्थः स्फटिक-मणि-निभैः मौक्तिकैः मण्डित-अङ्गः । शुभ्रैः अभ्रैः अदभ्रैः उपरि विरचितैः मुक्त-पीयूष-वर्षैः आनन्दी नः पुनीयात् अरि-नलिन-गदा शङ्खपाणिः मुकुन्दः ॥ १ ॥
kṣīrodhanvat-pradeśe mālā-klupta-āsana-sthaḥ sphaṭika-maṇi-nibhaiḥ mauktikaiḥ maṇḍita-aṅgaḥ . śubhraiḥ abhraiḥ adabhraiḥ upari viracitaiḥ mukta-pīyūṣa-varṣaiḥ ānandī naḥ punīyāt ari-nalina-gadā śaṅkhapāṇiḥ mukundaḥ .. 1 ..
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावाशाः शिरोद्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुर नरखगगोभोगिगन्धर्वदैत्यैः चित्रं रं रम्यते तं त्रिभुवन वपुशं विष्णुमीशं नमामि ॥ 2 ॥
भूः पादौ यस्य नाभिः वियत्-असुः अनिलः चन्द्र सूर्यौ च नेत्रे कर्णौ आशाः शिरः-द्यौः मुखम् अपि दहनः यस्य वास्तेयम् अब्धिः । अन्तर् स्थम् यस्य विश्वम् सुर नर-खग-गो भोगि-गन्धर्व-दैत्यैः चित्रम् रं रम्यते तम् त्रिभुवन वपुशम् विष्णुम् ईशम् नमामि ॥ २ ॥
bhūḥ pādau yasya nābhiḥ viyat-asuḥ anilaḥ candra sūryau ca netre karṇau āśāḥ śiraḥ-dyauḥ mukham api dahanaḥ yasya vāsteyam abdhiḥ . antar stham yasya viśvam sura nara-khaga-go bhogi-gandharva-daityaiḥ citram raṃ ramyate tam tribhuvana vapuśam viṣṇum īśam namāmi .. 2 ..
ॐ नमो भगवते वासुदेवाय ! शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिहृर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ 3 ॥
ओम् नमः भगवते वासुदेवाय ! शान्त-आकारम् भुजग-शयनम् पद्मनाभम् सुरेशम् विश्व-आधारम् गगन-सदृशम् मेघ-वर्णम् शुभ-अङ्गम् । वन्दे भव-भय-हरम् सर्वलोक ॥ ३ ॥
om namaḥ bhagavate vāsudevāya ! śānta-ākāram bhujaga-śayanam padmanābham sureśam viśva-ādhāram gagana-sadṛśam megha-varṇam śubha-aṅgam . vande bhava-bhaya-haram sarvaloka .. 3 ..
मेघश्यामं पीतकौशेयवासं श्रीवत्साकं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ 4 ॥
मेघ-श्यामम् पीत-कौशेय-वासम् श्रीवत् साकम् कौस्तुभ-उद्भासित-अङ्गम् । पुण्य-उपेतम् पुण्डरीक-आयत-अक्षम् विष्णुम् वन्दे सर्वलोक-एक-नाथम् ॥ ४ ॥
megha-śyāmam pīta-kauśeya-vāsam śrīvat sākam kaustubha-udbhāsita-aṅgam . puṇya-upetam puṇḍarīka-āyata-akṣam viṣṇum vande sarvaloka-eka-nātham .. 4 ..
नमः समस्त भूतानां आदि भूताय भूभृते । अनेकरूप रूपाय विष्णवे प्रभविष्णवे ॥ 5॥
नमः समस्त-भूतानाम् आदि-भूताय भूभृते । अनेक-रूप-रूपाय विष्णवे प्रभविष्णवे ॥ ५॥
namaḥ samasta-bhūtānām ādi-bhūtāya bhūbhṛte . aneka-rūpa-rūpāya viṣṇave prabhaviṣṇave .. 5..
सशङ्खचक्रं सकिरीटकुण्डलंसपीतवस्त्रं सरसीरुहेक्षणम् । सहार वक्षःस्थल शोभि कौस्तुभंनमामि विष्णुं शिरसा चतुर्भुजम् । 6॥
स शङ्ख-चक्रम् स किरीट-कुण्डलं-स पीत-वस्त्रम् सरसीरुह-ईक्षणम् । सहार-वक्षःस्थल-शोभि कौस्तुभंनमामि विष्णुम् शिरसा चतुर्भुजम् । ६॥
sa śaṅkha-cakram sa kirīṭa-kuṇḍalaṃ-sa pīta-vastram sarasīruha-īkṣaṇam . sahāra-vakṣaḥsthala-śobhi kaustubhaṃnamāmi viṣṇum śirasā caturbhujam . 6..
छायायां पारिजातस्य हेमसिंहासनोपरिआसीनमम्बुदश्याममायताक्षमलङ्कृतम् ॥ 7 ॥
छायायाम् पारिजातस्य हेम-सिंहासन-उपरि आसीनम् अम्बुद-श्यामम् आयत-अक्षम् अलङ्कृतम् ॥ ७ ॥
chāyāyām pārijātasya hema-siṃhāsana-upari āsīnam ambuda-śyāmam āyata-akṣam alaṅkṛtam .. 7 ..
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम्रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ 8 ॥
चन्द्र-आननम् चतुर्-बाहुम् श्रीवत्स-अङ्कित वक्षसम् रुक्मिणी सत्यभामाभ्याम् सहितम् कृष्णम् आश्रये ॥ ८ ॥
candra-ānanam catur-bāhum śrīvatsa-aṅkita vakṣasam rukmiṇī satyabhāmābhyām sahitam kṛṣṇam āśraye .. 8 ..
Pancha Puja/ पञ्चपूज
लं - पृथिव्यात्मने गन्थं समर्पयामि
लं पृथिवी-आत्मने गन्थम् समर्पयामि
laṃ pṛthivī-ātmane gantham samarpayāmi
हं - आकाशात्मने पुष्पैः पूजयामि
हं आकाश-आत्मने पुष्पैः पूजयामि
haṃ ākāśa-ātmane puṣpaiḥ pūjayāmi
यं - वाय्वात्मने धूपमाघ्रापयामि
यम् वायु-आत्मने धूपम् आघ्रापयामि
yam vāyu-ātmane dhūpam āghrāpayāmi
रं - अग्न्यात्मने दीपं दर्शयामि
रं अग्नि-आत्मने दीपम् दर्शयामि
raṃ agni-ātmane dīpam darśayāmi
वं - अमृतात्मने नैवेद्यं निवेदयामि
वं अमृत-आत्मने नैवेद्यम् निवेदयामि
vaṃ amṛta-ātmane naivedyam nivedayāmi
सं - सर्वात्मने सर्वोपचार पूजा नमस्कारान् समर्पयामि
सं -सर्व-उपचार-पूजा-नमस्कारान् समर्पयामि
saṃ -sarva-upacāra-pūjā-namaskārān samarpayāmi
हरिः ओम्
हरिः ओम्
hariḥ om
Strotam / स्तोत्रम्
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ 1 ॥
विश्वम् विष्णुः वषट्कारः भूत-भव्य-भवत्-प्रभुः । ॥ १ ॥
viśvam viṣṇuḥ vaṣaṭkāraḥ bhūta-bhavya-bhavat-prabhuḥ . .. 1 ..
पूतात्मा परमात्मा च मुक्तानां परमागतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ 2 ॥
पूत-आत्मा परमात्मा च मुक्तानाम् परमा आगतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञः अक्षरः एव च ॥ २ ॥
pūta-ātmā paramātmā ca muktānām paramā āgatiḥ . avyayaḥ puruṣaḥ sākṣī kṣetrajñaḥ akṣaraḥ eva ca .. 2 ..
योगो योगविदां नेता प्रधान पुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ 3 ॥
योगः योग-विदाम् नेता प्रधान पुरुष-ईश्वरः । नारसिंह-वपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥
yogaḥ yoga-vidām netā pradhāna puruṣa-īśvaraḥ . nārasiṃha-vapuḥ śrīmān keśavaḥ puruṣottamaḥ .. 3 ..
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ 4 ॥
सर्वः शर्वः शिवः स्थाणुः भूतादिः निधिः अव्ययः । सम्भवः भावनः भर्ता प्रभवः प्रभुः ईश्वरः ॥ ४ ॥
sarvaḥ śarvaḥ śivaḥ sthāṇuḥ bhūtādiḥ nidhiḥ avyayaḥ . sambhavaḥ bhāvanaḥ bhartā prabhavaḥ prabhuḥ īśvaraḥ .. 4 ..
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ 5 ॥
। अन् आदि-निधनः धाता विधाता धातुः उत्तमः ॥ ५ ॥
. an ādi-nidhanaḥ dhātā vidhātā dhātuḥ uttamaḥ .. 5 ..
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ 6 ॥
अप्रमेयः हृषीकेशः पद्मनाभः अमरप्रभुः । विश्वकर्मा मनुः त्वष्टा स्थविष्ठः स्थविरः ध्रुवः ॥ ६ ॥
aprameyaḥ hṛṣīkeśaḥ padmanābhaḥ amaraprabhuḥ . viśvakarmā manuḥ tvaṣṭā sthaviṣṭhaḥ sthaviraḥ dhruvaḥ .. 6 ..
अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ 7 ॥
अग्राह्यः कृष्णः लोहित-अक्षः प्रतर्दनः । प्रभूतः त्रिककुभ् धाम पवित्रम् मङ्गलम् परम् ॥ ७ ॥
agrāhyaḥ kṛṣṇaḥ lohita-akṣaḥ pratardanaḥ . prabhūtaḥ trikakubh dhāma pavitram maṅgalam param .. 7 ..
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ 8 ॥
ईशानः प्राण-दः प्राणः ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भः भू-गर्भः माधवः मधुसूदनः ॥ ८ ॥
īśānaḥ prāṇa-daḥ prāṇaḥ jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ . hiraṇyagarbhaḥ bhū-garbhaḥ mādhavaḥ madhusūdanaḥ .. 8 ..
ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ 9 ॥
ईश्वरः विक्रमी-धन्वी मेधावी विक्रमः क्रमः । अनुत्तमः दुराधर्षः कृतज्ञः कृतिः आत्मवान्॥ ९ ॥
īśvaraḥ vikramī-dhanvī medhāvī vikramaḥ kramaḥ . anuttamaḥ durādharṣaḥ kṛtajñaḥ kṛtiḥ ātmavān.. 9 ..
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहस्संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ 10 ॥
सुरेशः शरणम् शर्म विश्वरेताः प्रजा-भवः । अहर् संवत्सरः व्यालः प्रत्ययः सर्व-दर्शनः ॥ १० ॥
sureśaḥ śaraṇam śarma viśvaretāḥ prajā-bhavaḥ . ahar saṃvatsaraḥ vyālaḥ pratyayaḥ sarva-darśanaḥ .. 10 ..
अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ 11 ॥
अजः सर्व-ईश्वरः सिद्धः सिद्धिः सर्व-आदिः अच्युतः । वृषाकपिः अमेय-आत्मा सर्व-योग-विनिस्सृतः ॥ ११ ॥
ajaḥ sarva-īśvaraḥ siddhaḥ siddhiḥ sarva-ādiḥ acyutaḥ . vṛṣākapiḥ ameya-ātmā sarva-yoga-vinissṛtaḥ .. 11 ..
वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ 12 ॥
वसुः वसुमनाः सत्यः सम-आत्मा सम्मितः समः । ॥ १२ ॥
vasuḥ vasumanāḥ satyaḥ sama-ātmā sammitaḥ samaḥ . .. 12 ..
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ 13 ॥
रुद्रः बहु-शिराः बभ्रुः विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वत-स्थाणुः वरारोहः महा-तपाः ॥ १३ ॥
rudraḥ bahu-śirāḥ babhruḥ viśvayoniḥ śuciśravāḥ . amṛtaḥ śāśvata-sthāṇuḥ varārohaḥ mahā-tapāḥ .. 13 ..
सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ 14 ॥
सर्वगः विष्वक्सेनः जनार्दनः । ॥ १४ ॥
sarvagaḥ viṣvaksenaḥ janārdanaḥ . .. 14 ..
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ 15 ॥
लोक-अध्यक्षः सुराध्यक्षः धर्म-अध्यक्षः कृताकृतः । चतुर्-आत्मा चतुर्-व्यूहः चतुर्दंष्ट्रः चतुर्भुजः ॥ १५ ॥
loka-adhyakṣaḥ surādhyakṣaḥ dharma-adhyakṣaḥ kṛtākṛtaḥ . catur-ātmā catur-vyūhaḥ caturdaṃṣṭraḥ caturbhujaḥ .. 15 ..
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ 16 ॥
भ्राजिष्णुः भोजनम् भोक्ता सहिष्णुः जगदादिजः । अनघः विजयः जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥
bhrājiṣṇuḥ bhojanam bhoktā sahiṣṇuḥ jagadādijaḥ . anaghaḥ vijayaḥ jetā viśvayoniḥ punarvasuḥ .. 16 ..
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ 17 ॥
उपेन्द्रः वामनः प्रांशुः अमोघः शुचिः ऊर्जितः । अति इन्द्रः सङ्ग्रहः सर्गः धृत-आत्मा नियमः यमः ॥ १७ ॥
upendraḥ vāmanaḥ prāṃśuḥ amoghaḥ śuciḥ ūrjitaḥ . ati indraḥ saṅgrahaḥ sargaḥ dhṛta-ātmā niyamaḥ yamaḥ .. 17 ..
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ 18 ॥
वेद्यः वैद्यः सदायोगी वीर-हा माधवः मधुः । ॥ १८ ॥
vedyaḥ vaidyaḥ sadāyogī vīra-hā mādhavaḥ madhuḥ . .. 18 ..
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ 19 ॥
। अनिर्देश्य-वपुः श्रीमान् अमेय-आत्मा महा-अद्रि-धृक् ॥ १९ ॥
. anirdeśya-vapuḥ śrīmān ameya-ātmā mahā-adri-dhṛk .. 19 ..
महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ 20 ॥
maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ | aniruddhaḥ surānando govindo govidāṃ patiḥ || 20 ||
maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ | aniruddhaḥ surānando govindo govidāṃ patiḥ || 20 ||
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ 21 ॥
मरीचिः दमनः हंसः सुपर्णः भुजग-उत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१ ॥
marīciḥ damanaḥ haṃsaḥ suparṇaḥ bhujaga-uttamaḥ . hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ .. 21 ..
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 22 ॥
अमृत्युः सर्व-दृश् सिंहः सन्धाता सन्धिमान् स्थिरः । अजः दुर्मर्षणः शास्ता विश्रुत-आत्मा सुरारि-हा ॥ २२ ॥
amṛtyuḥ sarva-dṛś siṃhaḥ sandhātā sandhimān sthiraḥ . ajaḥ durmarṣaṇaḥ śāstā viśruta-ātmā surāri-hā .. 22 ..
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ 23 ॥
गुरुः गुरुतमः धाम सत्यः सत्य-पराक्रमः । निमिषः अनिमिषः स्रग्वी वाचस्पतिः उदार-धीः ॥ २३ ॥
guruḥ gurutamaḥ dhāma satyaḥ satya-parākramaḥ . nimiṣaḥ animiṣaḥ sragvī vācaspatiḥ udāra-dhīḥ .. 23 ..
अग्रणीग्रामणीः श्रीमान् न्यायो नेता समीरणःसहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ 24 ॥
अग्रणी-ग्रामणीः श्रीमान् न्यायः नेता समीरणः सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपाद् ॥ २४ ॥
agraṇī-grāmaṇīḥ śrīmān nyāyaḥ netā samīraṇaḥ sahasra-mūrdhā viśvātmā sahasrākṣaḥ sahasrapād .. 24 ..
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ 25 ॥
आवर्तनः निवृत्त-आत्मा संवृतः सम्प्रमर्दनः । अहर् संवर्तकः वह्निः अनिलः धरणीधरः ॥ २५ ॥
āvartanaḥ nivṛtta-ātmā saṃvṛtaḥ sampramardanaḥ . ahar saṃvartakaḥ vahniḥ anilaḥ dharaṇīdharaḥ .. 25 ..
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ 26 ॥
। सत्कर्ता सत्कृतः साधुः जह्नुः नारायणः नरः ॥ २६ ॥
. satkartā satkṛtaḥ sādhuḥ jahnuḥ nārāyaṇaḥ naraḥ .. 26 ..
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धि साधनः ॥ 27 ॥
असङ्ख्येयः अप्रमेयात्मा विशिष्टः शिष्ट-कृत् शुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धि-दः सिद्धि-साधनः ॥ २७ ॥
asaṅkhyeyaḥ aprameyātmā viśiṣṭaḥ śiṣṭa-kṛt śuciḥ . siddhārthaḥ siddhasaṅkalpaḥ siddhi-daḥ siddhi-sādhanaḥ .. 27 ..
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 28 ॥
वृषाही वृषभः विष्णुः वृषपर्वा वृषोदरः । वर्धनः वर्धमानः च विविक्तः श्रुतिसागरः ॥ २८ ॥
vṛṣāhī vṛṣabhaḥ viṣṇuḥ vṛṣaparvā vṛṣodaraḥ . vardhanaḥ vardhamānaḥ ca viviktaḥ śrutisāgaraḥ .. 28 ..
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ 29 ॥
सु भुजः दुर्धरः वाग्मी महा-इन्द्रः वसु-दः वसुः । न एक-रूपः बृहत्-रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥
su bhujaḥ durdharaḥ vāgmī mahā-indraḥ vasu-daḥ vasuḥ . na eka-rūpaḥ bṛhat-rūpaḥ śipiviṣṭaḥ prakāśanaḥ .. 29 ..
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्दः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ 30 ॥
ओजः-तेजः-द्युति-धरः प्रकाश-आत्मा प्रतापनः । स्पष्ट-अक्षरः मन्त्रः चन्द्र-अंशुः भास्कर-द्युतिः ॥ ३० ॥
ojaḥ-tejaḥ-dyuti-dharaḥ prakāśa-ātmā pratāpanaḥ . spaṣṭa-akṣaraḥ mantraḥ candra-aṃśuḥ bhāskara-dyutiḥ .. 30 ..
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 31 ॥
। औषधम् जगतः सेतुः सत्य-धर्म-पराक्रमः ॥ ३१ ॥
. auṣadham jagataḥ setuḥ satya-dharma-parākramaḥ .. 31 ..
भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ 32 ॥
भूत-भव्य-भवत्-नाथः पवनः पावनः अनलः । ॥ ३२ ॥
bhūta-bhavya-bhavat-nāthaḥ pavanaḥ pāvanaḥ analaḥ . .. 32 ..
युगादि कृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ 33 ॥
युग-आदि कृत् युग-आवर्तः न एक-मायः महा-अशनः । अदृश्यः व्यक्त-रूपः च सहस्रजित् अनन्तजित् ॥ ३३ ॥
yuga-ādi kṛt yuga-āvartaḥ na eka-māyaḥ mahā-aśanaḥ . adṛśyaḥ vyakta-rūpaḥ ca sahasrajit anantajit .. 33 ..
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ 34 ॥
इष्टः अ विशिष्टः शिष्ट-इष्टः शिखण्डी नहुषः वृषः । ॥ ३४ ॥
iṣṭaḥ a viśiṣṭaḥ śiṣṭa-iṣṭaḥ śikhaṇḍī nahuṣaḥ vṛṣaḥ . .. 34 ..
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ 35 ॥
। अपात् निधिः अधिष्ठानम् अप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥
. apāt nidhiḥ adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ .. 35 ..
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्धरः ॥ 36 ॥
। वासुदेवः बृहद्भानुः आदिदेवः पुरन्धरः ॥ ३६ ॥
. vāsudevaḥ bṛhadbhānuḥ ādidevaḥ purandharaḥ .. 36 ..
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 37 ॥
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ | anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 37 ||
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ | anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 37 ||
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ 38 ॥
पद्मनाभः अरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्धिः ऋद्धः वृद्ध-आत्मा महा-अक्षः गरुडध्वजः ॥ ३८ ॥
padmanābhaḥ aravindākṣaḥ padmagarbhaḥ śarīrabhṛt . mahardhiḥ ṛddhaḥ vṛddha-ātmā mahā-akṣaḥ garuḍadhvajaḥ .. 38 ..
अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ 39 ॥
अतुलः शरभः भीमः समयज्ञः हविः हरिः । सर्व-लक्षण-लक्षण्यः लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥
atulaḥ śarabhaḥ bhīmaḥ samayajñaḥ haviḥ hariḥ . sarva-lakṣaṇa-lakṣaṇyaḥ lakṣmīvān samitiñjayaḥ .. 39 ..
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ 40 ॥
विक्षरः रोहितः मार्गः हेतुः दामोदरः सहः । महीधरः महाभागः वेगवान् अमित-अशनः ॥ ४० ॥
vikṣaraḥ rohitaḥ mārgaḥ hetuḥ dāmodaraḥ sahaḥ . mahīdharaḥ mahābhāgaḥ vegavān amita-aśanaḥ .. 40 ..
उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ 41 ॥
उद्भवः, । करणम् कारणम् कर्ता विकर्ता गहनः गुहः ॥ ४१ ॥
udbhavaḥ, . karaṇam kāraṇam kartā vikartā gahanaḥ guhaḥ .. 41 ..
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ॥ 42 ॥
। परर्धिः परम-स्पष्टः तुष्टः पुष्टः शुभ-ईक्षणः ॥ ४२ ॥
. parardhiḥ parama-spaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubha-īkṣaṇaḥ .. 42 ..
रामो विरामो विरजो मार्गोनेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः ॥ 43 ॥
। वीरः शक्तिमताम् श्रेष्ठः धर्म-उधर्म विद्-उत्तमः ॥ ४३ ॥
. vīraḥ śaktimatām śreṣṭhaḥ dharma-udharma vid-uttamaḥ .. 43 ..
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 44 ॥
। हिरण्यगर्भः शत्रुघ्नः व्याप्तः वायुः अधोक्षजः ॥ ४४ ॥
. hiraṇyagarbhaḥ śatrughnaḥ vyāptaḥ vāyuḥ adhokṣajaḥ .. 44 ..
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 45 ॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरः दक्षः विश्रामः विश्व-दक्षिणः ॥ ४५ ॥
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ . ugraḥ saṃvatsaraḥ dakṣaḥ viśrāmaḥ viśva-dakṣiṇaḥ .. 45 ..
विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ 46 ॥
विस्तारः स्थावर स्थाणुः प्रमाणम् बीजम् अव्ययम् । अर्थः अनर्थः महा-कोशः महा-भोगः महाधनः ॥ ४६ ॥
vistāraḥ sthāvara sthāṇuḥ pramāṇam bījam avyayam . arthaḥ anarthaḥ mahā-kośaḥ mahā-bhogaḥ mahādhanaḥ .. 46 ..
अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः, क्षामः समीहनः ॥ 47 ॥
अनिर्विण्णः स्थविष्ठः भूत् धर्मयूपः महा-मखः । नक्षत्र-नेमिः नक्षत्री क्षमः, क्षामः समीहनः ॥ ४७ ॥
anirviṇṇaḥ sthaviṣṭhaḥ bhūt dharmayūpaḥ mahā-makhaḥ . nakṣatra-nemiḥ nakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ .. 47 ..
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ 48 ॥
यज्ञः इज्यः महेज्यः च क्रतुः सत्रम् सताङ्गतिः । सर्व-दर्शी विमुक्त-आत्मा सर्वज्ञः ज्ञानम् उत्तमम् ॥ ४८ ॥
yajñaḥ ijyaḥ mahejyaḥ ca kratuḥ satram satāṅgatiḥ . sarva-darśī vimukta-ātmā sarvajñaḥ jñānam uttamam .. 48 ..
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीर बाहुर्विदारणः ॥ 49 ॥
सुव्रतः सुमुखः सूक्ष्मः सु घोषः सुख-दः सुहृद् । मनोहरः जित-क्रोधः वीर बाहुः विदारणः ॥ ४९ ॥
suvrataḥ sumukhaḥ sūkṣmaḥ su ghoṣaḥ sukha-daḥ suhṛd . manoharaḥ jita-krodhaḥ vīra bāhuḥ vidāraṇaḥ .. 49 ..
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्। । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ 50 ॥
स्वापनः स्व-वशः व्यापी न एक-आत्मा न एक-कर्म-कृत्। । ॥ ५० ॥
svāpanaḥ sva-vaśaḥ vyāpī na eka-ātmā na eka-karma-kṛt. . .. 50 ..
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्॥अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥ 51 ॥
धर्मगुप् धर्मकृत् धर्मी सत्-असत् क्षरम् अक्षरम्॥अविज्ञाता सहस्त्रांशुः विधाता कृतलक्षणः ॥ ५१ ॥
dharmagup dharmakṛt dharmī sat-asat kṣaram akṣaram..avijñātā sahastrāṃśuḥ vidhātā kṛtalakṣaṇaḥ .. 51 ..
गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ 52 ॥
गभस्तिनेमिः सत्त्व-स्थः सिंहः भूत महेश्वरः । ॥ ५२ ॥
gabhastinemiḥ sattva-sthaḥ siṃhaḥ bhūta maheśvaraḥ . .. 52 ..
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीर भूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ 53 ॥
उत्तरः गोपतिः गोप्ता ज्ञान-गम्यः पुरातनः । भूत-भृत् भोक्ता कपि-इन्द्रः भूरि-दक्षिणः ॥ ५३ ॥
uttaraḥ gopatiḥ goptā jñāna-gamyaḥ purātanaḥ . bhūta-bhṛt bhoktā kapi-indraḥ bhūri-dakṣiṇaḥ .. 53 ..
सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥ 54 ॥
सोमपः अमृतपः सोमः पुरुजित् पुरुसत्तमः । विनयः जयः सत्यसन्धः दाशार्हः सात्वताम् पतिः ॥ ५४ ॥
somapaḥ amṛtapaḥ somaḥ purujit purusattamaḥ . vinayaḥ jayaḥ satyasandhaḥ dāśārhaḥ sātvatām patiḥ .. 54 ..
जीवो विनयिता साक्षी मुकुन्दोऽमित विक्रमः । अम्भोनिधिरनन्तात्मा महोदधि शयोन्तकः ॥ 55 ॥
जीवः विनयिता साक्षी मुकुन्दः अमित-विक्रमः । ॥ ५५ ॥
jīvaḥ vinayitā sākṣī mukundaḥ amita-vikramaḥ . .. 55 ..
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दोऽनन्दनोनन्दः सत्यधर्मा त्रिविक्रमः ॥ 56 ॥
। सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥
. satyadharmā trivikramaḥ .. 56 ..
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ 57 ॥
महा-ऋषिः कपिल-आचार्यः कृतज्ञः मेदिनीपतिः । त्रिपदः त्रिदशाध्यक्षः महाशृङ्गः कृतान्तकृत् ॥ ५७ ॥
mahā-ṛṣiḥ kapila-ācāryaḥ kṛtajñaḥ medinīpatiḥ . tripadaḥ tridaśādhyakṣaḥ mahāśṛṅgaḥ kṛtāntakṛt .. 57 ..
महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः ॥ 58 ॥
। गुह्यः गभीरः गहनः गुप्तः चक्र गदा-धरः ॥ ५८ ॥
. guhyaḥ gabhīraḥ gahanaḥ guptaḥ cakra gadā-dharaḥ .. 58 ..
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ 59 ॥
वेधाः स्वाङ्गः अजितः कृष्णः दृढः सङ्कर्षणः अच्युतः । वरुणः वारुणः वृक्षः पुष्कर-अक्षः महा-मनाः ॥ ५९ ॥
vedhāḥ svāṅgaḥ ajitaḥ kṛṣṇaḥ dṛḍhaḥ saṅkarṣaṇaḥ acyutaḥ . varuṇaḥ vāruṇaḥ vṛkṣaḥ puṣkara-akṣaḥ mahā-manāḥ .. 59 ..
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ 60 ॥
। आदित्यः ज्योतिः आदित्यः सहिष्णुः गति-सत्तमः ॥ ६० ॥
. ādityaḥ jyotiḥ ādityaḥ sahiṣṇuḥ gati-sattamaḥ .. 60 ..
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ 61 ॥
सु धन्वा खण्ड-परशुः दारुणः द्रविण-प्रदः । सर्व ॥ ६१ ॥
su dhanvā khaṇḍa-paraśuḥ dāruṇaḥ draviṇa-pradaḥ . sarva .. 61 ..
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्। 62 ॥
त्रि-सामा सामगः साम निर्वाणम् भेषजम् भिषज् । स न्या-असकृत् शमः शान्तः निष्ठा शान्तिः परायणम्। ६२ ॥
tri-sāmā sāmagaḥ sāma nirvāṇam bheṣajam bhiṣaj . sa nyā-asakṛt śamaḥ śāntaḥ niṣṭhā śāntiḥ parāyaṇam. 62 ..
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ 63 ॥
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । ॥ ६३ ॥
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ . .. 63 ..
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ 64 ॥
anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ | śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ || 64 ||
anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ | śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ || 64 ||
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमा~ंल्लोकत्रयाश्रयः ॥ 65 ॥
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ | śrīdharaḥ śrīkaraḥ śreyaḥ śrīmā~ṃllokatrayāśrayaḥ || 65 ||
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ | śrīdharaḥ śrīkaraḥ śreyaḥ śrīmā~ṃllokatrayāśrayaḥ || 65 ||
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिच्छिन्नसंशयः ॥ 66 ॥
। विजित-आत्मा अविधेय-आत्मा सत्-कीर्ति-छिन्न-संशयः ॥ ६६ ॥
. vijita-ātmā avidheya-ātmā sat-kīrti-chinna-saṃśayaḥ .. 66 ..
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ 67 ॥
उदीर्णः सर्वतस् चक्षुः अनीशः शाश्वत-स्थिरः । भूशयः भूषणः भूतिः विशोकः शोकनाशनः ॥ ६७ ॥
udīrṇaḥ sarvatas cakṣuḥ anīśaḥ śāśvata-sthiraḥ . bhūśayaḥ bhūṣaṇaḥ bhūtiḥ viśokaḥ śokanāśanaḥ .. 67 ..
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ 68 ॥
अर्चिष्मान् अर्चितः कुम्भः विशुद्ध-आत्मा विशोधनः । अनिरुद्धः अप्रतिरथः प्रद्युम्नः अमित-विक्रमः ॥ ६८ ॥
arciṣmān arcitaḥ kumbhaḥ viśuddha-ātmā viśodhanaḥ . aniruddhaḥ apratirathaḥ pradyumnaḥ amita-vikramaḥ .. 68 ..
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ 69 ॥
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ | trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ | trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||
कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ 70 ॥
। अनिर्देश्य-वपूः विष्णुः वीरः अनन्तः धनञ्जयः ॥ ७० ॥
. anirdeśya-vapūḥ viṣṇuḥ vīraḥ anantaḥ dhanañjayaḥ .. 70 ..
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ 71 ॥
ब्रह्मण्यः ब्रह्म-कृत् ब्रह्मा ब्रह्म-विवर्धनः । ॥ ७१ ॥
brahmaṇyaḥ brahma-kṛt brahmā brahma-vivardhanaḥ . .. 71 ..
महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ 72 ॥
। महा-क्रतुः महा-यज्वा महा-यज्ञः महा-हविः ॥ ७२ ॥
. mahā-kratuḥ mahā-yajvā mahā-yajñaḥ mahā-haviḥ .. 72 ..
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ 73 ॥
स्तव्यः स्तव-प्रियः स्तोत्रम् स्तुतिः स्तोता रण-प्रियः । पूर्णः पूरयिता पुण्यः पुण्य-कीर्तिः अनामयः ॥ ७३ ॥
stavyaḥ stava-priyaḥ stotram stutiḥ stotā raṇa-priyaḥ . pūrṇaḥ pūrayitā puṇyaḥ puṇya-kīrtiḥ anāmayaḥ .. 73 ..
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ 74 ॥
manojavastīrthakaro vasuretā vasupradaḥ | vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||
manojavastīrthakaro vasuretā vasupradaḥ | vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ 75 ॥
। शूरसेनः यदु-श्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥
. śūrasenaḥ yadu-śreṣṭhaḥ sannivāsaḥ suyāmunaḥ .. 75 ..
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ 76 ॥
भूतावासः वासुदेवः सर्व-आसु-निलयः अनलः । दर्पहा दर्पदः दृप्तः दुर्धरः अथ अपराजितः ॥ ७६ ॥
bhūtāvāsaḥ vāsudevaḥ sarva-āsu-nilayaḥ analaḥ . darpahā darpadaḥ dṛptaḥ durdharaḥ atha aparājitaḥ .. 76 ..
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ 77 ॥
विश्वमूर्तिः महा-मूर्तिः दीप्त-मूर्तिः अमूर्तिमान् । अनेक-मूर्तिः अव्यक्तः शत-मूर्तिः शत-आननः ॥ ७७ ॥
viśvamūrtiḥ mahā-mūrtiḥ dīpta-mūrtiḥ amūrtimān . aneka-mūrtiḥ avyaktaḥ śata-mūrtiḥ śata-ānanaḥ .. 77 ..
एको नैकः सवः कः किं यत्तत् पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ 78 ॥
एकः न एकः सवः कः किम् यत् तत् पदम् अनुत्तमम् । ॥ ७८ ॥
ekaḥ na ekaḥ savaḥ kaḥ kim yat tat padam anuttamam . .. 78 ..
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ 79 ॥
। वीर-हा विषमः शून्यः घृत-आशीः अचलः चलः ॥ ७९ ॥
. vīra-hā viṣamaḥ śūnyaḥ ghṛta-āśīḥ acalaḥ calaḥ .. 79 ..
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ 80 ॥
अमानी मानदः मान्यः लोकस्वामी । ॥ ८० ॥
amānī mānadaḥ mānyaḥ lokasvāmī . .. 80 ..
तेजोऽवृषो द्युतिधरः सर्वशस्त्रभृतांवरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ 81 ॥
तेजः-अवृषः द्युति-धरः सर्व-शस्त्रभृताम् वरः । प्रग्रहः निग्रहः व्यग्रः न एकशृङ्गः गदाग्रजः ॥ ८१ ॥
tejaḥ-avṛṣaḥ dyuti-dharaḥ sarva-śastrabhṛtām varaḥ . pragrahaḥ nigrahaḥ vyagraḥ na ekaśṛṅgaḥ gadāgrajaḥ .. 81 ..
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ 82 ॥
चतुर्-मूर्तिः चतुर्-बाहुः चतुर्-व्यूहः चतुर्-गतिः । चतुर्-आत्मा चतुर्-भावः चतुर्-वेद-विद् एकपाद् ॥ ८२ ॥
catur-mūrtiḥ catur-bāhuḥ catur-vyūhaḥ catur-gatiḥ . catur-ātmā catur-bhāvaḥ catur-veda-vid ekapād .. 82 ..
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 83 ॥
समावर्तः अनिवृत्त-आत्मा दुर्जयः दुरतिक्रमः । दुर्लभः दुर्गमः दुर्गः दुरावासः दुरारि-हा ॥ ८३ ॥
samāvartaḥ anivṛtta-ātmā durjayaḥ duratikramaḥ . durlabhaḥ durgamaḥ durgaḥ durāvāsaḥ durāri-hā .. 83 ..
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 84 ॥
शुभाङ्गः लोकसारङ्गः सुतन्तुः तन्तुवर्धनः । ॥ ८४ ॥
śubhāṅgaḥ lokasāraṅgaḥ sutantuḥ tantuvardhanaḥ . .. 84 ..
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ 85 ॥
। अर्कः वाजसनः शृङ्गी जयन्तः सर्व-विद् जयी ॥ ८५ ॥
. arkaḥ vājasanaḥ śṛṅgī jayantaḥ sarva-vid jayī .. 85 ..
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाहृदो महागर्तो महाभूतो महानिधिः ॥ 86 ॥
सुवर्णबिन्दुः अक्षोभ्यः सर्व-वागीश्वर-ईश्वरः । महाहृदः महागर्तः महा-भूतः महा-निधिः ॥ ८६ ॥
suvarṇabinduḥ akṣobhyaḥ sarva-vāgīśvara-īśvaraḥ . mahāhṛdaḥ mahāgartaḥ mahā-bhūtaḥ mahā-nidhiḥ .. 86 ..
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ 87 ॥
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनः अनिलः । सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanaḥ anilaḥ . sarvajñaḥ sarvatomukhaḥ .. 87 ..
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्र निषूदनः ॥ 88 ॥
। न्यग्रोधः अदुम्बरः अश्वत्थः चाणूर-अन्ध्र निषूदनः ॥ ८८ ॥
. nyagrodhaḥ adumbaraḥ aśvatthaḥ cāṇūra-andhra niṣūdanaḥ .. 88 ..
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ 89 ॥
। अमूर्तिः अनघः अचिन्त्यः भय-कृत् भय-नाशनः ॥ ८९ ॥
. amūrtiḥ anaghaḥ acintyaḥ bhaya-kṛt bhaya-nāśanaḥ .. 89 ..
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ 90 ॥
अणुः बृहत् कृशः स्थूलः गुणभृत् निर्गुणः महान् । अधृतः स्व-धृतः स्व-आस्यः प्राग्वंशः वंश-वर्धनः ॥ ९० ॥
aṇuḥ bṛhat kṛśaḥ sthūlaḥ guṇabhṛt nirguṇaḥ mahān . adhṛtaḥ sva-dhṛtaḥ sva-āsyaḥ prāgvaṃśaḥ vaṃśa-vardhanaḥ .. 90 ..
भारभृत् कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः ॥ 91 ॥
भारभृत् कथितः योगी योगीशः सर्व-काम-दः । आश्रमः श्रमणः, क्षामः सुपर्णः वायु-वाहनः ॥ ९१ ॥
bhārabhṛt kathitaḥ yogī yogīśaḥ sarva-kāma-daḥ . āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇaḥ vāyu-vāhanaḥ .. 91 ..
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ 92 ॥
। अपराजितः सर्व-सहः नियन्ता अनियमः अयमः ॥ ९२ ॥
. aparājitaḥ sarva-sahaḥ niyantā aniyamaḥ ayamaḥ .. 92 ..
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ 93 ॥
सत्त्ववान् सात्त्विकः सत्यः सत्य-धर्म-परायणः । ॥ ९३ ॥
sattvavān sāttvikaḥ satyaḥ satya-dharma-parāyaṇaḥ . .. 93 ..
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ 94 ॥
विहायसगतिः ज्योतिः सुरुचिः हुतभुज् विभुः । रविः विरोचनः सूर्यः सविता रवि-लोचनः ॥ ९४ ॥
vihāyasagatiḥ jyotiḥ suruciḥ hutabhuj vibhuḥ . raviḥ virocanaḥ sūryaḥ savitā ravi-locanaḥ .. 94 ..
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ॥ 95 ॥
अनन्तः हुतभुज् भोक्ता सुखदः न एकजः अग्रजः । अनिर्विण्णः सदा अमर्षी लोक-धिष्ठानम् अद्भुतः ॥ ९५ ॥
anantaḥ hutabhuj bhoktā sukhadaḥ na ekajaḥ agrajaḥ . anirviṇṇaḥ sadā amarṣī loka-dhiṣṭhānam adbhutaḥ .. 95 ..
सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ॥ 96 ॥
सनात् सनातनतमः कपिलः कपिः अव्ययः । दः ॥ ९६ ॥
sanāt sanātanatamaḥ kapilaḥ kapiḥ avyayaḥ . daḥ .. 96 ..
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ 97 ॥
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ | śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ | śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||
अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ 98 ॥
अक्रूरः पेशलः दक्षः दक्षिणः, क्षमिणाम् वरः । ॥ ९८ ॥
akrūraḥ peśalaḥ dakṣaḥ dakṣiṇaḥ, kṣamiṇām varaḥ . .. 98 ..
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ 99 ॥
। वीर-हा रक्षणः सन्तः जीवनः पर्यवस्थितः ॥ ९९ ॥
. vīra-hā rakṣaṇaḥ santaḥ jīvanaḥ paryavasthitaḥ .. 99 ..
अनन्तरूपोऽनन्त श्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ 100 ॥
अनन्त-रूपः अनन्त श्रीः जित-मन्युः भय-अपहः । चतुरश्रः गभीर-आत्मा विदिशः व्यादिशः दिशः ॥ १०० ॥
ananta-rūpaḥ ananta śrīḥ jita-manyuḥ bhaya-apahaḥ . caturaśraḥ gabhīra-ātmā vidiśaḥ vyādiśaḥ diśaḥ .. 100 ..
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ 101 ॥
अनादिः भूः भुवः लक्ष्मीः सुवीरः रुचिर-अङ्गदः । जननः जन-जन्म-आदिः भीमः भीम-पराक्रमः ॥ १०१ ॥
anādiḥ bhūḥ bhuvaḥ lakṣmīḥ suvīraḥ rucira-aṅgadaḥ . jananaḥ jana-janma-ādiḥ bhīmaḥ bhīma-parākramaḥ .. 101 ..
आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ 102 ॥
आधार-निलयः अधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्-पथ-आचारः प्राणदः प्रणवः पणः ॥ १०२ ॥
ādhāra-nilayaḥ adhātā puṣpahāsaḥ prajāgaraḥ . ūrdhvagaḥ sat-patha-ācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ .. 102 ..
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ 103 ॥
। तत्त्वम् तत्त्व-विद् एक-आत्मा जन्म-मृत्यु-जरा-अतिगः ॥ १०३ ॥
. tattvam tattva-vid eka-ātmā janma-mṛtyu-jarā-atigaḥ .. 103 ..
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ 104 ॥
भूः भुवः स्वर् तरुः तारः सविता प्रपितामहः । यज्ञः यज्ञपतिः यज्वा यज्ञ-अङ्गः यज्ञ-वाहनः ॥ १०४ ॥
bhūḥ bhuvaḥ svar taruḥ tāraḥ savitā prapitāmahaḥ . yajñaḥ yajñapatiḥ yajvā yajña-aṅgaḥ yajña-vāhanaḥ .. 104 ..
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः । यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ 105 ॥
। यज्ञान्तकृत् यज्ञगुह्यम् अन्नम् अन्नादः एव च ॥ १०५ ॥
. yajñāntakṛt yajñaguhyam annam annādaḥ eva ca .. 105 ..
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ 106 ॥
आत्मयोनिः स्वयञ्जातः वैखानः साम-गायनः । ॥ १०६ ॥
ātmayoniḥ svayañjātaḥ vaikhānaḥ sāma-gāyanaḥ . .. 106 ..
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ 107 ॥
शङ्खभृत् नन्दकी चक्री शार्ङ्गधन्वा गदा-धरः । रथाङ्ग-पाणि-रक्षोभ्यः सर्व-प्रहरण-आयुधः ॥ १०७ ॥
śaṅkhabhṛt nandakī cakrī śārṅgadhanvā gadā-dharaḥ . rathāṅga-pāṇi-rakṣobhyaḥ sarva-praharaṇa-āyudhaḥ .. 107 ..
श्री सर्वप्रहरणायुध ॐ नम इति । वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्री सर्व-प्रहरण-आयुधः ओम् नमः इति । वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
śrī sarva-praharaṇa-āyudhaḥ om namaḥ iti . vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī .
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ 108 ॥
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणः विष्णुः वासुदेवः अभिरक्षतु ॥ १०८ ॥
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī . śrīmān nārāyaṇaḥ viṣṇuḥ vāsudevaḥ abhirakṣatu .. 108 ..
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
श्री वासुदेवः अभिरक्षतु ओम् नमः इति ।
śrī vāsudevaḥ abhirakṣatu om namaḥ iti .
Uttara Pithika - Phalashrutihi /उत्तर पीठिका- फलश्रुतिः
इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्। ॥ 1 ॥
इति इदम् कीर्तनीयस्य केशवस्य महात्मनः । नाम्नाम् सहस्रम् दिव्यानाम् अशेषेण प्रकीर्तितम्। ॥ १ ॥
iti idam kīrtanīyasya keśavasya mahātmanaḥ . nāmnām sahasram divyānām aśeṣeṇa prakīrtitam. .. 1 ..
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्॥नाशुभं प्राप्नुयात् किञ्चित्सोऽमुत्रेह च मानवः ॥ 2 ॥
यः इदम् शृणुयात् नित्यम् यः च अपि परिकीर्तयेत्॥न अशुभम् प्राप्नुयात् किञ्चिद् सः अमुत्र इह च मानवः ॥ २ ॥
yaḥ idam śṛṇuyāt nityam yaḥ ca api parikīrtayet..na aśubham prāpnuyāt kiñcid saḥ amutra iha ca mānavaḥ .. 2 ..
वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ॥ 3 ॥
वेद-अन्तगः ब्राह्मणः स्यात् क्षत्रियः विजयी भवेत् । वैश्यः धन-समृद्धः स्यात् शूद्रः सुखम् अवाप्नुयात् ॥ ३ ॥
veda-antagaḥ brāhmaṇaḥ syāt kṣatriyaḥ vijayī bhavet . vaiśyaḥ dhana-samṛddhaḥ syāt śūdraḥ sukham avāpnuyāt .. 3 ..
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात्प्रजाम्। ॥ 4 ॥
धर्म-अर्थी प्राप्नुयात् धर्मम् अर्थ-अर्थी च अर्थम् आप्नुयात् । कामान् अवाप्नुयात् कामी प्रजा-अर्थी प्राप्नुयात् प्रजाम्। ॥ ४ ॥
dharma-arthī prāpnuyāt dharmam artha-arthī ca artham āpnuyāt . kāmān avāpnuyāt kāmī prajā-arthī prāpnuyāt prajām. .. 4 ..
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ 5 ॥
भक्तिमान् यः सदा उत्थाय शुचिः तद्-गत-मानसः । सहस्रम् वासुदेवस्य नाम्नाम् एतत् प्रकीर्तयेत् ॥ ५ ॥
bhaktimān yaḥ sadā utthāya śuciḥ tad-gata-mānasaḥ . sahasram vāsudevasya nāmnām etat prakīrtayet .. 5 ..
यशः प्राप्नोति विपुलं यातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्। ॥ 6 ॥
यशः प्राप्नोति विपुलम् या अति प्राधान्यम् एव च । अचलाम् श्रियम् आप्नोति श्रेयः प्राप्नोति अनुत्तमम्। ॥ ६ ॥
yaśaḥ prāpnoti vipulam yā ati prādhānyam eva ca . acalām śriyam āpnoti śreyaḥ prāpnoti anuttamam. .. 6 ..
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान् बलरूप गुणान्वितः ॥ 7 ॥
न भयम् क्वचिद् आप्नोति वीर्यम् तेजः च विन्दति । भवति अरोगः द्युतिमान् बल-रूप गुण-अन्वितः ॥ ७ ॥
na bhayam kvacid āpnoti vīryam tejaḥ ca vindati . bhavati arogaḥ dyutimān bala-rūpa guṇa-anvitaḥ .. 7 ..
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ 8 ॥
रोग-आर्तः मुच्यते रोगात् बद्धः मुच्येत बन्धनात् । भयात् मुच्येत भीतः तु मुच्येत आपन्नः आपदः ॥ ८ ॥
roga-ārtaḥ mucyate rogāt baddhaḥ mucyeta bandhanāt . bhayāt mucyeta bhītaḥ tu mucyeta āpannaḥ āpadaḥ .. 8 ..
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ 9 ॥
दुर्गाणि अतितरति आशु पुरुषः पुरुषोत्तमम् । स्तुवन् नाम-सहस्रेण नित्यम् भक्ति-समन्वितः ॥ ९ ॥
durgāṇi atitarati āśu puruṣaḥ puruṣottamam . stuvan nāma-sahasreṇa nityam bhakti-samanvitaḥ .. 9 ..
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्। ॥ 10 ॥
वासुदेव-आश्रयः मर्त्यः वासुदेव-परायणः । सर्व-पाप-विशुद्ध-आत्मा याति ब्रह्म सनातनम्। ॥ १० ॥
vāsudeva-āśrayaḥ martyaḥ vāsudeva-parāyaṇaḥ . sarva-pāpa-viśuddha-ātmā yāti brahma sanātanam. .. 10 ..
न वासुदेव भक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ 11 ॥
न वासुदेव भक्तानाम् अशुभम् विद्यते क्वचिद् । जन्म-मृत्यु-जरा-व्याधि-भयम् न एव उपजायते ॥ ११ ॥
na vāsudeva bhaktānām aśubham vidyate kvacid . janma-mṛtyu-jarā-vyādhi-bhayam na eva upajāyate .. 11 ..
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्म सुखक्षान्ति श्रीधृति स्मृति कीर्तिभिः ॥ 12 ॥
इमम् स्तवम् अधीयानः श्रद्धा-भक्ति-समन्वितः । युज्येत आत्म-सुख-क्षान्ति-श्री-धृति-स्मृति-कीर्तिभिः ॥ १२ ॥
imam stavam adhīyānaḥ śraddhā-bhakti-samanvitaḥ . yujyeta ātma-sukha-kṣānti-śrī-dhṛti-smṛti-kīrtibhiḥ .. 12 ..
न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ 13 ॥
न क्रोधः न च मात्सर्यम् न लोभः न अशुभ-अमतिः । भवन्ति कृत-पुण्यानाम् भक्तानाम् पुरुषोत्तमे ॥ १३ ॥
na krodhaḥ na ca mātsaryam na lobhaḥ na aśubha-amatiḥ . bhavanti kṛta-puṇyānām bhaktānām puruṣottame .. 13 ..
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ 14 ॥
द्यौः स चन्द्र-अर्क-नक्षत्रा खम् दिशः भूः महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४ ॥
dyauḥ sa candra-arka-nakṣatrā kham diśaḥ bhūḥ mahodadhiḥ . vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ .. 14 ..
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे वर्ततेदं कृष्णस्य स चराचरम्। ॥ 15 ॥
स सुर-असुर-गन्धर्वम् स यक्ष-उरग-राक्षसम् । जगत्-वशे वर्तत इदम् कृष्णस्य स चराचरम्। ॥ १५ ॥
sa sura-asura-gandharvam sa yakṣa-uraga-rākṣasam . jagat-vaśe vartata idam kṛṣṇasya sa carācaram. .. 15 ..
इन्द्रियाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः, क्षेत्रं क्षेत्रज्ञ एव च ॥ 16 ॥
इन्द्रियाणि मनः-बुद्धिः सत्त्वम् तेजः बलम् धृतिः । वासुदेव-आत्मकानि आहुः, क्षेत्रम् क्षेत्रज्ञः एव च ॥ १६ ॥
indriyāṇi manaḥ-buddhiḥ sattvam tejaḥ balam dhṛtiḥ . vāsudeva-ātmakāni āhuḥ, kṣetram kṣetrajñaḥ eva ca .. 16 ..
सर्वागमानामाचारः प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ 17 ॥
सर्व-आगमानाम् आचारः प्रथमम् परिकल्पते । आचार-प्रभवः धर्मः धर्मस्य प्रभुः अच्युतः ॥ १७ ॥
sarva-āgamānām ācāraḥ prathamam parikalpate . ācāra-prabhavaḥ dharmaḥ dharmasya prabhuḥ acyutaḥ .. 17 ..
ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ 18 ॥
ऋषयः पितरः देवाः महाभूतानि धातवः । जङ्गम-अजङ्गमम् च इदम् जगत् नारायण-उद्भवम् ॥ १८ ॥
ṛṣayaḥ pitaraḥ devāḥ mahābhūtāni dhātavaḥ . jaṅgama-ajaṅgamam ca idam jagat nārāyaṇa-udbhavam .. 18 ..
योगोज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ 19 ॥
योगः ज्ञानम् तथा साङ्ख्यम् विद्याः शिल्प-आदि-कर्म च । वेदाः शास्त्राणि विज्ञानम् एतत् सर्वम् जनार्दनात् ॥ १९ ॥
yogaḥ jñānam tathā sāṅkhyam vidyāḥ śilpa-ādi-karma ca . vedāḥ śāstrāṇi vijñānam etat sarvam janārdanāt .. 19 ..
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रींलोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ 20 ॥
एकः विष्णुः महत् भूतम् पृथक् भूतानि अनेकशस् । त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुज् अव्ययः ॥ २० ॥
ekaḥ viṣṇuḥ mahat bhūtam pṛthak bhūtāni anekaśas . trīn lokān vyāpya bhūtātmā bhuṅkte viśvabhuj avyayaḥ .. 20 ..
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्चेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ 21 ॥
इमम् स्तवम् भगवतः विष्णोः व्यासेन कीर्तितम् । पठेत् यः इद् चेद् पुरुषः श्रेयः प्राप्तुम् सुखानि च ॥ २१ ॥
imam stavam bhagavataḥ viṣṇoḥ vyāsena kīrtitam . paṭhet yaḥ id ced puruṣaḥ śreyaḥ prāptum sukhāni ca .. 21 ..
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्। भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ 22 ॥
विश्वेश्वरम् अजम् देवम् जगतः प्रभुम् अव्ययम्। भजन्ति ये पुष्कराक्षम् न ते यान्ति पराभवम् ॥ २२ ॥
viśveśvaram ajam devam jagataḥ prabhum avyayam. bhajanti ye puṣkarākṣam na te yānti parābhavam .. 22 ..
न ते यान्ति पराभवं ॐ नम इति ।
न ते यान्ति पराभवम् ओम् नमः इति ।
na te yānti parābhavam om namaḥ iti .
Arjuna Uvacha/ अर्जुन उवाच
पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम । भक्ताना मनुरक्तानां त्राता भव जनार्दन ॥ 23 ॥
पद्म-पत्र विशाल-अक्ष पद्मनाभ सुर-उत्तम । भक्तानाम् मनुरक्तानाम् त्राता भव जनार्दन ॥ २३ ॥
padma-patra viśāla-akṣa padmanābha sura-uttama . bhaktānām manuraktānām trātā bhava janārdana .. 23 ..
Shri Bhagavan uvacha/ श्रीभगवानुवाच
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ 24 ॥
यः माम् नाम-सहस्रेण स्तोतुम् इच्छति पाण्डव । सः अहम् एकेन श्लोकेन स्तुतः एव न संशयः ॥ २४ ॥
yaḥ mām nāma-sahasreṇa stotum icchati pāṇḍava . saḥ aham ekena ślokena stutaḥ eva na saṃśayaḥ .. 24 ..
स्तुत एव न संशय ॐ नम इति ।
स्तुते एव न संशयः ओम् नमः इति ।
stute eva na saṃśayaḥ om namaḥ iti .
Vyasa Uvacha/ व्यास उवाच
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ 25 ॥
वासनात् वासुदेवस्य वासितम् भुवनत्रयम् । सर्व-भूत-निवासः असि वासुदेव नमः अस्तु ते ॥ २५ ॥
vāsanāt vāsudevasya vāsitam bhuvanatrayam . sarva-bhūta-nivāsaḥ asi vāsudeva namaḥ astu te .. 25 ..
श्रीवासुदेव नमोस्तुत ॐ नम इति ।
श्री-वासुदेव नमोस्तुतः ओम् नमः इति ।
śrī-vāsudeva namostutaḥ om namaḥ iti .
Parvatya Uvacha/ पार्वत्युवाच
केनोपायेन लघुना विष्णोर्नामसहस्रकम् । पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ 26 ॥
केन उपायेन लघुना विष्णोः नाम-सहस्रकम् । पठ्यते पण्डितैः नित्यम् श्रोतुम् इच्छामि अहम् प्रभो ॥ २६ ॥
kena upāyena laghunā viṣṇoḥ nāma-sahasrakam . paṭhyate paṇḍitaiḥ nityam śrotum icchāmi aham prabho .. 26 ..
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ 26 ॥
पठ्यते पण्डितैः नित्यम् श्रोतुम् इच्छामि अहम् प्रभो ॥ २६ ॥
paṭhyate paṇḍitaiḥ nityam śrotum icchāmi aham prabho .. 26 ..
Ishwara Uvacha/ ईश्वर उवाच
श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 27 ॥
श्री-राम राम राम इति रमे रामे मनोरमे । सहस्रनाम तद्-तुल्यम् राम-नाम वरानने ॥ २७ ॥
śrī-rāma rāma rāma iti rame rāme manorame . sahasranāma tad-tulyam rāma-nāma varānane .. 27 ..
श्रीराम नाम वरानन ॐ नम इति ।
श्री-राम-नाम-वरानन ओम् नमः इति ।
śrī-rāma-nāma-varānana om namaḥ iti .
Brahmo Uvacha/ ब्रह्मोवाच
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः ॥ 28 ॥
नमः अस्तु अनन्ताय सहस्रमूर्तये सहस्र-पाद-अक्षि-शिर-ऊरु-बाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्र-कोटी-युग-धारिणे नमः ॥ २८ ॥
namaḥ astu anantāya sahasramūrtaye sahasra-pāda-akṣi-śira-ūru-bāhave . sahasranāmne puruṣāya śāśvate sahasra-koṭī-yuga-dhāriṇe namaḥ .. 28 ..
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः ॥ 28 ॥
सहस्रनाम्ने पुरुषाय शाश्वते सहस्र-कोटी-युग-धारिणे नमः ॥ २८ ॥
sahasranāmne puruṣāya śāśvate sahasra-koṭī-yuga-dhāriṇe namaḥ .. 28 ..
श्री सहस्रकोटी युगधारिणे नम ॐ नम इति ।
श्री-सहस्र-कोटी-युग-धारिणे नमः ओम् नमः इति ।
śrī-sahasra-koṭī-yuga-dhāriṇe namaḥ om namaḥ iti .
Sanjaya Uvacha/ सञ्जय उवाच
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 29 ॥
यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुः-धरः । तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥ २९ ॥
yatra yogeśvaraḥ kṛṣṇaḥ yatra pārthaḥ dhanuḥ-dharaḥ . tatra śrīḥ vijayaḥ bhūtiḥ dhruvā nītiḥ matiḥ mama .. 29 ..
Shri Bhagavan Uvacha/ श्री भगवान् उवाच
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। ॥ 30 ॥
अन् अन्याः चिन्तयन्तः माम् ये जनाः पर्युपासते । तेषाम् नित्य-अभियुक्तानाम् योगक्षेमम् वहामि अहम्। ॥ ३० ॥
an anyāḥ cintayantaḥ mām ye janāḥ paryupāsate . teṣām nitya-abhiyuktānām yogakṣemam vahāmi aham. .. 30 ..
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ 31 ॥
परित्राणाय साधूनाम् विनाशाय च दुष्कृताम्। । धर्म-संस्थापन-अर्थाय सम्भवामि युगे युगे ॥ ३१ ॥
paritrāṇāya sādhūnām vināśāya ca duṣkṛtām. . dharma-saṃsthāpana-arthāya sambhavāmi yuge yuge .. 31 ..
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ 32 ॥
आर्ताः विषण्णाः शिथिलाः च भीताः घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायण-शब्द-मात्रम् विमुक्त-दुःखाः सुखिनः भवन्ति ॥ ३२ ॥
ārtāḥ viṣaṇṇāḥ śithilāḥ ca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ . saṅkīrtya nārāyaṇa-śabda-mātram vimukta-duḥkhāḥ sukhinaḥ bhavanti .. 32 ..
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ 33 ॥
कायेन वाचा मनसा इन्द्रियैः वा बुद्धि-आत्मना वा प्रकृतेः स्वभावात् । करोमि यत् यत् सकलम् परस्मै नारायणाय इति समर्पयामि ॥ ३३ ॥
kāyena vācā manasā indriyaiḥ vā buddhi-ātmanā vā prakṛteḥ svabhāvāt . karomi yat yat sakalam parasmai nārāyaṇāya iti samarpayāmi .. 33 ..
यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत्तथ्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते । विसर्ग बिन्दु मात्राणि पदपादाक्षराणि चन्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमः ॥
यत् अक्षर पद-भ्रष्टम् मात्रा-हीनम् तु यत् भवेत् तत् सर्वम् क्षम्यताम् देव नारायण नमः अस्तु ते । विसर्ग-बिन्दु-मात्राणि पद-पाद-अक्षराणि चन्यूनानि च अतिरिक्तानि क्षमस्व पुरुषोत्तमः ॥
yat akṣara pada-bhraṣṭam mātrā-hīnam tu yat bhavet tat sarvam kṣamyatām deva nārāyaṇa namaḥ astu te . visarga-bindu-mātrāṇi pada-pāda-akṣarāṇi canyūnāni ca atiriktāni kṣamasva puruṣottamaḥ ..
इति श्री महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यामनुशासन पर्वान्तर्गत आनुशासनिक पर्वणि, मोक्षधर्मे भीष्म युधिष्ठिर संवादे श्री विष्णोर्दिव्य सहस्रनाम स्तोत्रं नामैकोन पञ्च शताधिक शततमोध्यायः ॥
इति श्री-महाभारते शतसाहस्रिकायाम् संहितायाम् वैयासिक्याम् अनुशासन-पर्व-अन्तर्गत आनुशासनिक-पर्वणि, मोक्ष-धर्मे भीष्म-युधिष्ठिर-संवादे श्री-विष्णोः दिव्य-सहस्रनाम-स्तोत्रम् नाम एकोन-पञ्च-शत-अधिक-शततमः अध्यायः ॥
iti śrī-mahābhārate śatasāhasrikāyām saṃhitāyām vaiyāsikyām anuśāsana-parva-antargata ānuśāsanika-parvaṇi, mokṣa-dharme bhīṣma-yudhiṣṭhira-saṃvāde śrī-viṣṇoḥ divya-sahasranāma-stotram nāma ekona-pañca-śata-adhika-śatatamaḥ adhyāyaḥ ..
श्री विष्णु सहस्रनाम स्तोत्रं समाप्तम् ॥
श्री-विष्णु-सहस्रनाम-स्तोत्रम् समाप्तम् ॥
śrī-viṣṇu-sahasranāma-stotram samāptam ..
ॐ तत्सत् सर्वं श्री कृष्णार्पणमस्तु ॥
ओम् तत् सत् सर्वम् श्री-कृष्ण-अर्पणम् अस्तु ॥
om tat sat sarvam śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In