| |
|

This overlay will guide you through the buttons:

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
ओम् आप्यायन्तु मम अङ्गानि वाच्-प्राणः चक्षुः श्रोत्रम् अथो बलम् इन्द्रियाणि च सर्वाणि ।
om āpyāyantu mama aṅgāni vāc-prāṇaḥ cakṣuḥ śrotram atho balam indriyāṇi ca sarvāṇi .
सर्वं ब्रह्मौपनिषदंमाऽहं ब्रह्म निराकुर्यां मा मा ब्रह्मनिराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
सर्वम् ब्रह्म-औपनिषदम् मा अहम् ब्रह्म निराकुर्याम् मा मा ब्रह्म निराकरोत् अनिराकरणम् अस्तु अनिराकरणम् मे अस्तु ।
sarvam brahma-aupaniṣadam mā aham brahma nirākuryām mā mā brahma nirākarot anirākaraṇam astu anirākaraṇam me astu .
तदात्मनि निरते यउपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
तद्-आत्मनि निरते ये औपनिषत्सु धर्माः ते मयि सन्तु ते मयि सन्तु ।
tad-ātmani nirate ye aupaniṣatsu dharmāḥ te mayi santu te mayi santu .
ॐ शान्तिः शान्तिः शान्तिः ॥
ओम् शान्तिः शान्तिः शान्तिः ॥
om śāntiḥ śāntiḥ śāntiḥ ..
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
ओम् केन इषितम् पतति प्रेषितम् मनः केन प्राणः प्रथमः प्रैति युक्तः ।
om kena iṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ .
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥
केन इषिताम् वाचम् इमाम् वदन्ति चक्षुः श्रोत्रम् कः उ देवः युनक्ति ॥ १॥
kena iṣitām vācam imām vadanti cakṣuḥ śrotram kaḥ u devaḥ yunakti .. 1..
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः ।
श्रोत्रस्य श्रोत्रम् मनसः मनः यत् वाचः ह वाचम् सः उ प्राणस्य प्राणः ।
śrotrasya śrotram manasaḥ manaḥ yat vācaḥ ha vācam saḥ u prāṇasya prāṇaḥ .
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥
चक्षुषः चक्षुः अतिमुच्य धीराः प्रेत्य अस्मात् लोकात् अमृताः भवन्ति ॥ २॥
cakṣuṣaḥ cakṣuḥ atimucya dhīrāḥ pretya asmāt lokāt amṛtāḥ bhavanti .. 2..
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥
न तत्र चक्षुः गच्छति न वाच् गच्छति न उ मनः । न विद्मः न विजानीमः यथा एतत् अनुशिष्यात् ॥ ३॥
na tatra cakṣuḥ gacchati na vāc gacchati na u manaḥ . na vidmaḥ na vijānīmaḥ yathā etat anuśiṣyāt .. 3..
अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥
अन्यत् एव तत् विदितात् अथ उ अ विदितात् अधि । इति शुश्रुम पूर्वेषाम् ये नः तत् व्याचचक्षिरे ॥ ४॥
anyat eva tat viditāt atha u a viditāt adhi . iti śuśruma pūrveṣām ye naḥ tat vyācacakṣire .. 4..
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥
यत् वाचा अन् अभ्युदितम् येन वाच् अभ्युद्यते । तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उपासते ॥ ५॥
yat vācā an abhyuditam yena vāc abhyudyate . tat eva brahma tvam viddhi na idam yat idam upāsate .. 5..
यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥
यत् मनसा न मनुते येन आहुः मनः मतम् । तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उपासते ॥ ६॥
yat manasā na manute yena āhuḥ manaḥ matam . tat eva brahma tvam viddhi na idam yat idam upāsate .. 6..
यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७॥
यत् चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उपासते ॥ ७॥
yat cakṣuṣā na paśyati yena cakṣūṃṣi paśyati . tat eva brahma tvam viddhi na idam yat idam upāsate .. 7..
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥
यत् श्रोत्रेण न शृणोति येन श्रोत्रम् इदम् श्रुतम् । तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उपासते ॥ ८॥
yat śrotreṇa na śṛṇoti yena śrotram idam śrutam . tat eva brahma tvam viddhi na idam yat idam upāsate .. 8..
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९॥
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते । तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उपासते ॥ ९॥
yat prāṇena na prāṇiti yena prāṇaḥ praṇīyate . tat eva brahma tvam viddhi na idam yat idam upāsate .. 9..
॥ इति केनोपनिषदि प्रथमः खण्डः ॥
॥ इति केन उपनिषदि प्रथमः खण्डः ॥
.. iti kena upaniṣadi prathamaḥ khaṇḍaḥ ..
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ १॥
ब्रह्म ह देवेभ्यः विजिग्ये तस्य ह ब्रह्मणः विजये देवाः अमहीयन्त ॥ १॥
brahma ha devebhyaḥ vijigye tasya ha brahmaṇaḥ vijaye devāḥ amahīyanta .. 1..
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति । तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २॥
ते ऐक्षन्त अस्माकम् एव अयम् विजयः अस्माकम् एव अयम् महिमा इति । तत् ह एषाम् विजज्ञौ तेभ्यः ह प्रादुर्बभूव तत् न व्यजानत किम् इदम् यक्षम् इति ॥ २॥
te aikṣanta asmākam eva ayam vijayaḥ asmākam eva ayam mahimā iti . tat ha eṣām vijajñau tebhyaḥ ha prādurbabhūva tat na vyajānata kim idam yakṣam iti .. 2..
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमिदं यक्षमिति तथेति ॥ ३॥
ते अग्निम् अब्रुवन् जातवेदः एतत् विजानीहि किम् इदम् यक्षम् इति तथा इति ॥ ३॥
te agnim abruvan jātavedaḥ etat vijānīhi kim idam yakṣam iti tathā iti .. 3..
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥
तत् अभ्यद्रवत् तम् अभ्यवदत् कः असि इति अग्निः वै अहम् अस्मि इति अब्रवीत् जातवेदाः वै अहम् अस्मि इति ॥ ४॥
tat abhyadravat tam abhyavadat kaḥ asi iti agniḥ vai aham asmi iti abravīt jātavedāḥ vai aham asmi iti .. 4..
तस्मिꣳस्त्वयि किं वीर्यमित्यपीद सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५॥
तस्मिन् त्वयि किम् वीर्यम् इति अपि इदम् सर्वम् दहेयम् यत् इदम् पृथिव्याम् इति ॥ ५॥
tasmin tvayi kim vīryam iti api idam sarvam daheyam yat idam pṛthivyām iti .. 5..
तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६॥
तस्मै तृणम् निदधौ एतत् दह इति । तत् उपप्रेयाय सर्व-जवेन तत् न शशाक दग्धुम् स ततस् एव निववृते न एतत् अशकम् विज्ञातुम् यत् एतत् यक्षम् इति ॥ ६॥
tasmai tṛṇam nidadhau etat daha iti . tat upapreyāya sarva-javena tat na śaśāka dagdhum sa tatas eva nivavṛte na etat aśakam vijñātum yat etat yakṣam iti .. 6..
अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७॥
अथ वायुम् अब्रुवन् वायो एतत् विजानीहि किम् एतत् यक्षम् इति तथा इति ॥ ७॥
atha vāyum abruvan vāyo etat vijānīhi kim etat yakṣam iti tathā iti .. 7..
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥
तत् अभ्यद्रवत् तम् अभ्यवदत् कः असि इति वायुः वै अहम् अस्मि इति अब्रवीत् मातरिश्वा वै अहम् अस्मि इति ॥ ८॥
tat abhyadravat tam abhyavadat kaḥ asi iti vāyuḥ vai aham asmi iti abravīt mātariśvā vai aham asmi iti .. 8..
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥
तस्मिन् त्वयि किम् वीर्यम् इति अपि इदम् सर्वम् आददीय यत् इदम् पृथिव्याम् इति ॥ ९॥
tasmin tvayi kim vīryam iti api idam sarvam ādadīya yat idam pṛthivyām iti .. 9..
तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १०॥
तस्मै तृणम् निदधौ एतत् आदत्स्व इति तत् उपप्रेयाय सर्व-जवेन तत् न शशाक आदातुम् स ततस् एव निववृते न एतत् अशकम् विज्ञातुम् यत् एतत् यक्षम् इति ॥ १०॥
tasmai tṛṇam nidadhau etat ādatsva iti tat upapreyāya sarva-javena tat na śaśāka ādātum sa tatas eva nivavṛte na etat aśakam vijñātum yat etat yakṣam iti .. 10..
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११॥
अथ इन्द्रम् अब्रुवन् मघवन् एतत् विजानीहि किम् एतत् यक्षम् इति तथा इति तत् अभ्यद्रवत् तस्मात् तिरोदधे ॥ ११॥
atha indram abruvan maghavan etat vijānīhi kim etat yakṣam iti tathā iti tat abhyadravat tasmāt tirodadhe .. 11..
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२॥
स तस्मिन् एव आकाशे स्त्रियम् आजगाम बहु-शोभमानाम् उमाम् हैमवतीम् ताम् ह उवाच किम् एतत् यक्षम् इति ॥ १२॥
sa tasmin eva ākāśe striyam ājagāma bahu-śobhamānām umām haimavatīm tām ha uvāca kim etat yakṣam iti .. 12..
॥ इति केनोपनिषदि तृतीयः खण्डः ॥
॥ इति केनोपनिषदि तृतीयः खण्डः ॥
.. iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ..
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥
सा ब्रह्म इति ह उवाच ब्रह्मणः वै एतत् विजये महीयध्वम् इति ततस् ह एव विदाञ्चकार ब्रह्म इति ॥ १॥
sā brahma iti ha uvāca brahmaṇaḥ vai etat vijaye mahīyadhvam iti tatas ha eva vidāñcakāra brahma iti .. 1..
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥
तस्मात् वै एते देवाः अतितराम् इव अन्यान् देवान् यत् अग्निः वायुः इन्द्रः ते हि एनत् नेदिष्ठम् पस्पर्शुः ते हि एनत् प्रथमः विदाञ्चकार ब्रह्म इति ॥ २॥
tasmāt vai ete devāḥ atitarām iva anyān devān yat agniḥ vāyuḥ indraḥ te hi enat nediṣṭham pasparśuḥ te hi enat prathamaḥ vidāñcakāra brahma iti .. 2..
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥
तस्मात् वै इन्द्रः अतितराम् इव अन्यान् देवान् स हि एनत् नेदिष्ठम् पस्पर्श स हि एनत् प्रथमः विदाञ्चकार ब्रह्म इति ॥ ३॥
tasmāt vai indraḥ atitarām iva anyān devān sa hi enat nediṣṭham pasparśa sa hi enat prathamaḥ vidāñcakāra brahma iti .. 3..
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥
तस्य एषः आदेशः यत् एतत् विद्युतः व्यद्युतदाः इति इद् न्यमीमिषत इति अधिदैवतम् ॥ ४॥
tasya eṣaḥ ādeśaḥ yat etat vidyutaḥ vyadyutadāḥ iti id nyamīmiṣata iti adhidaivatam .. 4..
अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेनचैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥ ५॥
अथ अध्यात्मम् यत् देतत् गच्छति इव च मनः अनेन च एतत् उपस्मरति अभीक्ष्णम् सङ्कल्पः ॥ ५॥
atha adhyātmam yat detat gacchati iva ca manaḥ anena ca etat upasmarati abhīkṣṇam saṅkalpaḥ .. 5..
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभिहैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥
तत् ह तत् वनम् नाम तत् वनम् इति उपासितव्यम् स यः एतत् एवम् वेद अभि ह एनम् सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥
tat ha tat vanam nāma tat vanam iti upāsitavyam sa yaḥ etat evam veda abhi ha enam sarvāṇi bhūtāni saṃvāñchanti .. 6..
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव तउपनिषदमब्रूमेति ॥ ७॥
उपनिषदम् भो ब्रूहि इति उक्ता ते उपनिषद् ब्राह्मीम् वाव तौपनिषदम् अब्रूम इति ॥ ७॥
upaniṣadam bho brūhi iti uktā te upaniṣad brāhmīm vāva taupaniṣadam abrūma iti .. 7..
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानिसत्यमायतनम् ॥ ८॥
तस्यै तपः दमः कर्म इति प्रतिष्ठाः वेदाः सर्व-अङ्ग-अनि-सत्यम् आयतनम् ॥ ८॥
tasyai tapaḥ damaḥ karma iti pratiṣṭhāḥ vedāḥ sarva-aṅga-ani-satyam āyatanam .. 8..
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गेलोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥
यः वै एताम् एवम् वेद अपहत्य पाप्मानम् अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥
yaḥ vai etām evam veda apahatya pāpmānam anante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati .. 9..
॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
.. iti kenopaniṣadi caturthaḥ khaṇḍaḥ ..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
ओम् आप्यायन्तु मम अङ्गानि वाच्-प्राणः चक्षुः श्रोत्रम् अथो बलम् इन्द्रियाणि च सर्वाणि ।
om āpyāyantu mama aṅgāni vāc-prāṇaḥ cakṣuḥ śrotram atho balam indriyāṇi ca sarvāṇi .
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
सर्वम् ब्रह्म-औपनिषदम् मा अहम् ब्रह्म निराकुर्याम् मा मा ब्रह्म निराकरोत् अनिराकरणम् अस्तु अनिराकरणम् मे अस्तु ।
sarvam brahma-aupaniṣadam mā aham brahma nirākuryām mā mā brahma nirākarot anirākaraṇam astu anirākaraṇam me astu .
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥
तद्-आत्मनि निरते ये उपनिषत्सु धर्माः ते मयि सन्तु ते मयि सन्तु । ओम् शान्तिः शान्तिः शान्तिः ॥
tad-ātmani nirate ye upaniṣatsu dharmāḥ te mayi santu te mayi santu . om śāntiḥ śāntiḥ śāntiḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In