| |
|

This overlay will guide you through the buttons:

महाकविकालिदासविरचितम्
महा-कवि-कालिदास-विरचितम्
mahā-kavi-kālidāsa-viracitam
॥ पूर्वमेघः ॥
॥ पूर्व-मेघः ॥
.. pūrva-meghaḥ ..
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥१.१॥
कश्चिद् कान्ता-विरह-गुरुणा स्व-अधिकारात् प्रमत्तः शापेन अस्तङ्ग-मित-महिमा वर्ष-भोग्येण भर्तुः । यक्षः चक्रे जनकतनया-स्नान-पुण्य-उदकेषु स्निग्ध-छाया-तरुषु वसतिम् रामगिरि-आश्रमेषु॥१।१॥
kaścid kāntā-viraha-guruṇā sva-adhikārāt pramattaḥ śāpena astaṅga-mita-mahimā varṣa-bhogyeṇa bhartuḥ . yakṣaḥ cakre janakatanayā-snāna-puṇya-udakeṣu snigdha-chāyā-taruṣu vasatim rāmagiri-āśrameṣu..1.1..
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श॥१.२॥
तस्मिन् अद्रौ कतिचिद् अबला-विप्रयुक्तः स कामी नीत्वा मासान् कनक-वलय-भ्रंश-रिक्त-प्रकोष्ठः । आषाढस्य प्रथम-दिवसे मेघम् आश्लिष्ट-सानुम् ददर्श॥१।२॥
tasmin adrau katicid abalā-viprayuktaḥ sa kāmī nītvā māsān kanaka-valaya-bhraṃśa-rikta-prakoṣṭhaḥ . āṣāḍhasya prathama-divase megham āśliṣṭa-sānum dadarśa..1.2..
तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो- रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे॥१.३॥
तस्य स्थित्वा कथम् अपि पुरस् कौतुक-आधान-हेतोः रन्तर् बाष्पः चिरम् अनुचरः राजराजस्य दध्यौ । मेघ-आलोके भवति सुखिनः अपि अन्यथावृत्ति चेतः कण्ठ-आश्लेष-प्रणयिनि जने किम् पुनर् दूर-संस्थे॥१।३॥
tasya sthitvā katham api puras kautuka-ādhāna-hetoḥ rantar bāṣpaḥ ciram anucaraḥ rājarājasya dadhyau . megha-āloke bhavati sukhinaḥ api anyathāvṛtti cetaḥ kaṇṭha-āśleṣa-praṇayini jane kim punar dūra-saṃsthe..1.3..
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार॥१.४॥
प्रत्यासन्ने नभसि दयिता-जीवित-आलम्बन-अर्थी जीमूतेन स्व-कुशल-मयीम् हारयिष्यन् प्रवृत्तिम् । स प्रत्यग्रैः कुटज-कुसुमैः कल्पित-अर्घाय तस्मै प्रीतः प्रीति-प्रमुख-वचनम् स्वागतम् व्याजहार॥१।४॥
pratyāsanne nabhasi dayitā-jīvita-ālambana-arthī jīmūtena sva-kuśala-mayīm hārayiṣyan pravṛttim . sa pratyagraiḥ kuṭaja-kusumaiḥ kalpita-arghāya tasmai prītaḥ prīti-pramukha-vacanam svāgatam vyājahāra..1.4..
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु॥१.५॥
धूम-ज्योतिः-सलिल-मरुताम् संनिपातः क्व मेघः सन्देश-अर्थाः क्व पटु-करणैः प्राणिभिः प्रापणीयाः । इति औत्सुक्यात् अ परिगणयन् गुह्यकः तम् ययाचे काम-आर्ताः हि प्रकृति-कृपणाः चेतन-अचेतनेषु॥१।५॥
dhūma-jyotiḥ-salila-marutām saṃnipātaḥ kva meghaḥ sandeśa-arthāḥ kva paṭu-karaṇaiḥ prāṇibhiḥ prāpaṇīyāḥ . iti autsukyāt a parigaṇayan guhyakaḥ tam yayāce kāma-ārtāḥ hi prakṛti-kṛpaṇāḥ cetana-acetaneṣu..1.5..
जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा॥१.६॥
जातम् वंशे भुवन-विदिते पुष्करावर्तकानाम् जानामि त्वाम् प्रकृति-पुरुषम् कामरूपम् मघोनः । तेन अर्थि-त्वम् त्वयि विधि-वशात् दूर-बन्धुः गतः अहम् याच्ञा मोघा वरम् अधिगुणे न अधमे लब्ध-कामा॥१।६॥
jātam vaṃśe bhuvana-vidite puṣkarāvartakānām jānāmi tvām prakṛti-puruṣam kāmarūpam maghonaḥ . tena arthi-tvam tvayi vidhi-vaśāt dūra-bandhuḥ gataḥ aham yācñā moghā varam adhiguṇe na adhame labdha-kāmā..1.6..
सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या॥१.७॥
सन्तप्तानाम् त्वम् असि शरणम् तत् पयोद प्रियायाः सन्देशम् मे हर धनपति-क्रोध-विश्लेषितस्य । गन्तव्या ते वसतिः अलका नाम यक्ष-ईश्वराणाम् बाह्य-उद्यान-स्थित-हर-शिरः-चन्द्रिका-धौत-हर्म्या॥१।७॥
santaptānām tvam asi śaraṇam tat payoda priyāyāḥ sandeśam me hara dhanapati-krodha-viśleṣitasya . gantavyā te vasatiḥ alakā nāma yakṣa-īśvarāṇām bāhya-udyāna-sthita-hara-śiraḥ-candrikā-dhauta-harmyā..1.7..
त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥१.८॥
त्वाम् आरूढम् पवन-पदवीम् उद्गृहीत-अलक-अन्ताः प्रेक्षिष्यन्ते पथिक-वनिताः प्रत्ययात् आश्वसन्त्यः । कः सन्नद्धे विरह-विधुराम् त्वयि उपेक्षेत जायाम् न स्यात् अन्यः अपि अहम् इव जनः यः पर-अधीन-वृत्तिः॥१।८॥
tvām ārūḍham pavana-padavīm udgṛhīta-alaka-antāḥ prekṣiṣyante pathika-vanitāḥ pratyayāt āśvasantyaḥ . kaḥ sannaddhe viraha-vidhurām tvayi upekṣeta jāyām na syāt anyaḥ api aham iva janaḥ yaḥ para-adhīna-vṛttiḥ..1.8..
त्वां चावश्यं दिवसगणनातत्परामेकपत्नीम् अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम् सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि॥१.९॥
त्वाम् च अवश्यम् दिवस-गणना-तत्पराम् एकपत्नीम् अ व्यापन्नाम् अविहत-गतिः द्रक्ष्यसि भ्रातृ-जायाम् । आशाबन्धः कुसुम-सदृशम् प्रायशस् हि अङ्गनानाम् सद्यस् पाति प्रणयि हृदयम् विप्रयोगे रुणद्धि॥१।९॥
tvām ca avaśyam divasa-gaṇanā-tatparām ekapatnīm a vyāpannām avihata-gatiḥ drakṣyasi bhrātṛ-jāyām . āśābandhaḥ kusuma-sadṛśam prāyaśas hi aṅganānām sadyas pāti praṇayi hṛdayam viprayoge ruṇaddhi..1.9..
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः॥१.१०॥
मन्दम् मन्दम् नुदति पवनः च अनुकूलः यथा त्वाम् वामः च अयम् नदति मधुरम् चातकः ते स गन्धः । गर्भाधान-क्षण-परिचयात् नूनम् आबद्ध-मालाः सेविष्यन्ते नयन-सुभगम् खे भवन्तम् बलाकाः॥१।१०॥
mandam mandam nudati pavanaḥ ca anukūlaḥ yathā tvām vāmaḥ ca ayam nadati madhuram cātakaḥ te sa gandhaḥ . garbhādhāna-kṣaṇa-paricayāt nūnam ābaddha-mālāḥ seviṣyante nayana-subhagam khe bhavantam balākāḥ..1.10..
कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम् तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः॥१.११॥
कर्तुम् यत् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्याम् तत् श्रुत्वा ते श्रवण-सुभगम् गर्जितम् मानस-उत्काः । आ कैलासात् बिस-किसलय-छेद-पाथेयवन्तः सम्पत्स्यन्ते नभसि भवतः राजहंसाः सहायाः॥१।११॥
kartum yat ca prabhavati mahīm ucchilīndhrām avandhyām tat śrutvā te śravaṇa-subhagam garjitam mānasa-utkāḥ . ā kailāsāt bisa-kisalaya-cheda-pātheyavantaḥ sampatsyante nabhasi bhavataḥ rājahaṃsāḥ sahāyāḥ..1.11..
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम्॥१.१२॥
आपृच्छस्व प्रिय-सखम् अमुम् तुङ्गम् आलिङ्ग्य शैलम् वन्द्यैः पुंसाम् रघुपति-पदैः अङ्कितम् मेखलासु । काले काले भवति भवतः यस्य संयोगम् एत्य स्नेह-व्यक्तिः चिर-विरह-जम् मुञ्चतः बाष्पम् उष्णम्॥१।१२॥
āpṛcchasva priya-sakham amum tuṅgam āliṅgya śailam vandyaiḥ puṃsām raghupati-padaiḥ aṅkitam mekhalāsu . kāle kāle bhavati bhavataḥ yasya saṃyogam etya sneha-vyaktiḥ cira-viraha-jam muñcataḥ bāṣpam uṣṇam..1.12..
मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपम् सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य॥१.१३॥
मार्गम् तावत् शृणु कथयतः त्वद्-प्रयाण-अनुरूपम् सन्देशम् मे तदनु जलद श्रोष्यसि श्रोत्र-पेयम् । खिन्नः खिन्नः शिखरिषु पदम् न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसाम् च उपभुज्य॥१।१३॥
mārgam tāvat śṛṇu kathayataḥ tvad-prayāṇa-anurūpam sandeśam me tadanu jalada śroṣyasi śrotra-peyam . khinnaḥ khinnaḥ śikhariṣu padam nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasām ca upabhujya..1.13..
अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिर्- दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥१.१४॥
अद्रेः शृङ्गम् हरति पवनः किम् स्विद् इति उन्मुखीभिः दृष्ट-उत्साहः चकित-चकितम् मुग्ध-सिद्ध-अङ्गनाभिः । स्थानात् अस्मात् सरस-निचुलात् उत्पत उदक्-मुखः खम् दिङ्नागानाम् पथि परिहरन् स्थूलहस्त-अवलेपान् ॥१।१४॥
adreḥ śṛṅgam harati pavanaḥ kim svid iti unmukhībhiḥ dṛṣṭa-utsāhaḥ cakita-cakitam mugdha-siddha-aṅganābhiḥ . sthānāt asmāt sarasa-niculāt utpata udak-mukhaḥ kham diṅnāgānām pathi pariharan sthūlahasta-avalepān ..1.14..
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः॥१.१५॥
रत्न-छाया-व्यतिकरे इव प्रेक्ष्यम् एतत् पुरस्तात् वल्मीक-अग्रात् प्रभवति धनुः-खण्डम् आखण्डलस्य । येन श्यामम् वपुः अतितराम् कान्तिम् आपत्स्यते ते बर्हेण इव स्फुरित-रुचिना गोप-वेषस्य विष्णोः॥१।१५॥
ratna-chāyā-vyatikare iva prekṣyam etat purastāt valmīka-agrāt prabhavati dhanuḥ-khaṇḍam ākhaṇḍalasya . yena śyāmam vapuḥ atitarām kāntim āpatsyate te barheṇa iva sphurita-rucinā gopa-veṣasya viṣṇoḥ..1.15..
त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किंचित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण॥१.१६॥
त्वयि आयत्तम् कृषि-फलम् इति भ्रू-विकार-अनभिज्ञैः प्रीति-स्निग्धैः जनपद-वधू-लोचनैः पीयमानः । सद्यस् सीर-उत्कषण-सुरभि क्षेत्रम् आरुह्य मालम् किंचिद् पश्चात् व्रज लघु-गतिः भूयस् एव उत्तरेण॥१।१६॥
tvayi āyattam kṛṣi-phalam iti bhrū-vikāra-anabhijñaiḥ prīti-snigdhaiḥ janapada-vadhū-locanaiḥ pīyamānaḥ . sadyas sīra-utkaṣaṇa-surabhi kṣetram āruhya mālam kiṃcid paścāt vraja laghu-gatiḥ bhūyas eva uttareṇa..1.16..
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः॥१.१७
त्वाम् आसार-प्रशमित-वन-उपप्लवम् साधु मूर्ध्ना वक्ष्यति अध्व-श्रम-परिगतम् स अनुमान आम्रकूटः । न क्षुद्रः अपि प्रथम-सुकृत-अपेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किम् पुनर् यः तथा उच्चैस्॥१।१७
tvām āsāra-praśamita-vana-upaplavam sādhu mūrdhnā vakṣyati adhva-śrama-parigatam sa anumāna āmrakūṭaḥ . na kṣudraḥ api prathama-sukṛta-apekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kim punar yaḥ tathā uccais..1.17
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्- त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम् मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः॥१.१८॥
छन्न-उपान्तः परिणत-फल-द्योतिभिः कानन-आम्रैः त्वयि आरूढे शिखरम् अचलः स्निग्ध-वेणी-सवर्णे । नूनम् यास्यति अमर-मिथुन-प्रेक्षणीयाम् अवस्थाम् मध्ये श्यामः स्तनः इव भुवः शेष-विस्तार-पाण्डुः॥१।१८॥
channa-upāntaḥ pariṇata-phala-dyotibhiḥ kānana-āmraiḥ tvayi ārūḍhe śikharam acalaḥ snigdha-veṇī-savarṇe . nūnam yāsyati amara-mithuna-prekṣaṇīyām avasthām madhye śyāmaḥ stanaḥ iva bhuvaḥ śeṣa-vistāra-pāṇḍuḥ..1.18..
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तम् तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य॥१.१९॥
स्थित्वा तस्मिन् वनचर-वधू-भुक्त-कुञ्जे मुहूर्तम् तोय-उत्सर्ग-द्रुततर-गतिः तत् परम् वर्त्म तीर्णः । रेवाम् द्रक्ष्यसि उपल-विषमे विन्ध्य-पादे विशीर्णाम् भक्ति-छेदैः इव विरचिताम् भूतिम् अङ्गे गजस्य॥१।१९॥
sthitvā tasmin vanacara-vadhū-bhukta-kuñje muhūrtam toya-utsarga-drutatara-gatiḥ tat param vartma tīrṇaḥ . revām drakṣyasi upala-viṣame vindhya-pāde viśīrṇām bhakti-chedaiḥ iva viracitām bhūtim aṅge gajasya..1.19..
{अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस्- तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः । आसारेण त्वमपि शमये तस्य नैदाघमग्निं सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु॥१.१९अ}॥
अध्व-क्लान्तम् प्रतिमुख-गतम् सानुमान् आम्र-कूट-तुङ्गेन त्वाम् जलद शिरसा वक्ष्यति श्लाघमानः । आसारेण त्वम् अपि शमये तस्य नैदाघम् अग्निम् सद्भाव-आर्द्रः फलति न चिरेण उपकारः महत्सु॥१।१९अ॥
adhva-klāntam pratimukha-gatam sānumān āmra-kūṭa-tuṅgena tvām jalada śirasā vakṣyati ślāghamānaḥ . āsāreṇa tvam api śamaye tasya naidāgham agnim sadbhāva-ārdraḥ phalati na cireṇa upakāraḥ mahatsu..1.19a..
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्- जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय॥१.२०॥
तस्याः तिक्तैः वन-गज-मदैः वासितम् वान्त-वृष्टिः जम्बूकुञ्ज-प्रतिहत-रयम् तोयम् आदाय गच्छेः । अन्तर् सारम् घन तुलयितुम् न अनिलः शक्ष्यति त्वाम् रिक्तः सर्वः भवति हि लघुः पूर्ण-ता गौरवाय॥१।२०॥
tasyāḥ tiktaiḥ vana-gaja-madaiḥ vāsitam vānta-vṛṣṭiḥ jambūkuñja-pratihata-rayam toyam ādāya gaccheḥ . antar sāram ghana tulayitum na anilaḥ śakṣyati tvām riktaḥ sarvaḥ bhavati hi laghuḥ pūrṇa-tā gauravāya..1.20..
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैर्- आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥१.२१॥
नीपम् दृष्ट्वा हरित-कपिशम् केसरैः अर्ध-रूढैः आविर्भूत-प्रथम-मुकुलाः कन्दलीः च अनुकच्छम् । जग्ध्वा अरण्येषु अधिक-सुरभिम् गन्धम् आघ्राय च उर्व्याः ते जल-लव-मुचः सूचयिष्यन्ति मार्गम् ॥१।२१॥
nīpam dṛṣṭvā harita-kapiśam kesaraiḥ ardha-rūḍhaiḥ āvirbhūta-prathama-mukulāḥ kandalīḥ ca anukaccham . jagdhvā araṇyeṣu adhika-surabhim gandham āghrāya ca urvyāḥ te jala-lava-mucaḥ sūcayiṣyanti mārgam ..1.21..
अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि॥१.२२॥
अम्भः-बिन्दु-ग्रहण-चतुरान् चातकान् वीक्षमाणाः श्रेणी-भूताः परिगणनया निर्दिशन्तः बलाकाः । त्वाम् आसाद्य स्तनित-समये मानयिष्यन्ति सिद्धाः प्रिय-सहचरी-सम्भ्रम-आलिङ्गितानि॥१।२२॥
ambhaḥ-bindu-grahaṇa-caturān cātakān vīkṣamāṇāḥ śreṇī-bhūtāḥ parigaṇanayā nirdiśantaḥ balākāḥ . tvām āsādya stanita-samaye mānayiṣyanti siddhāḥ priya-sahacarī-sambhrama-āliṅgitāni..1.22..
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्॥१.२३॥
उत्पश्यामि द्रुतम् अपि सखे मद्-प्रिय-अर्थम् यियासोः काल-क्षेपम् ककुभ-सुरभौ पर्वते पर्वेते ते । शुक्ल-अपाङ्गैः स जल-नयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत्॥१।२३॥
utpaśyāmi drutam api sakhe mad-priya-artham yiyāsoḥ kāla-kṣepam kakubha-surabhau parvate parvete te . śukla-apāṅgaiḥ sa jala-nayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ katham api bhavān gantum āśu vyavasyet..1.23..
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर्- नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः॥१.२४॥
पाण्डु-छाया-उपवन-वृतयः केतकैः सूचि-भिन्नैः नीड-आरम्भैः गृह-बलिभुजाम् आकुल-ग्राम-चैत्याः । त्वयि आसन्ने परिणत-फल-श्याम-जम्बू-वन-अन्ताः सम्पत्स्यन्ते कतिपय-दिन-स्थायि-हंसाः दशार्णाः॥१।२४॥
pāṇḍu-chāyā-upavana-vṛtayaḥ ketakaiḥ sūci-bhinnaiḥ nīḍa-ārambhaiḥ gṛha-balibhujām ākula-grāma-caityāḥ . tvayi āsanne pariṇata-phala-śyāma-jambū-vana-antāḥ sampatsyante katipaya-dina-sthāyi-haṃsāḥ daśārṇāḥ..1.24..
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि॥१.२५॥
तेषाम् दिक्षु प्रथित-विदिशा-लक्षणाम् राजधानीम् गत्वा सद्यस् फलम् अविकलम् कामुक-त्वस्य लब्धा । तीर-उपान्त-स्तनित-सुभगम् पास्यसि स्वादु यस्मात् स भ्रू-भङ्गम् मुखम् इव पयः वेत्रवत्याः चल-ऊर्मि॥१।२५॥
teṣām dikṣu prathita-vidiśā-lakṣaṇām rājadhānīm gatvā sadyas phalam avikalam kāmuka-tvasya labdhā . tīra-upānta-stanita-subhagam pāsyasi svādu yasmāt sa bhrū-bhaṅgam mukham iva payaḥ vetravatyāḥ cala-ūrmi..1.25..
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्- त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम् उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि॥१.२६॥
नीचैस् आख्यम् गिरिम् अधिवसेः तत्र विश्राम-हेतोः त्वद्-सम्पर्कात् पुलकितम् इव प्रौढ-पुष्पैः कदम्बैः । यः पुण्य-स्त्री-रति-परिमल-उद्गारिभिः नागराणाम् उद्दामानि प्रथयति शिला-वेश्मभिः यौवनानि॥१।२६॥
nīcais ākhyam girim adhivaseḥ tatra viśrāma-hetoḥ tvad-samparkāt pulakitam iva prauḍha-puṣpaiḥ kadambaiḥ . yaḥ puṇya-strī-rati-parimala-udgāribhiḥ nāgarāṇām uddāmāni prathayati śilā-veśmabhiḥ yauvanāni..1.26..
विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्चन्न्- उद्यानानां नवजलकणैर्यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम्॥१.२७॥
विश्रान्तः सन् व्रज वन-नदी-तीर-जानाम् निषिञ्चन् उद्यानानाम् नव-जल-कणैः यूथिका-जालकानि । गण्ड-स्वेद-अपनयन-रुजा-क्लान्त-कर्ण-उत्पलानाम् छाया-दानात् क्षण-परिचितः पुष्पलावी-मुखानाम्॥१।२७॥
viśrāntaḥ san vraja vana-nadī-tīra-jānām niṣiñcan udyānānām nava-jala-kaṇaiḥ yūthikā-jālakāni . gaṇḍa-sveda-apanayana-rujā-klānta-karṇa-utpalānām chāyā-dānāt kṣaṇa-paricitaḥ puṣpalāvī-mukhānām..1.27..
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि॥१.२८॥
वक्रः पन्थाः यत् अपि भवतः प्रस्थितस्य उत्तर-आशाम् सौध-उत्सङ्ग-प्रणय-विमुखः मा स्म भूः उज्जयिन्याः । विद्युत्-दाम-स्फुरित-चकितैः तत्र पौर-अङ्गनानाम् लोल-अपाङ्गैः यदि न रमसे लोचनैः वञ्चितः असि॥१।२८॥
vakraḥ panthāḥ yat api bhavataḥ prasthitasya uttara-āśām saudha-utsaṅga-praṇaya-vimukhaḥ mā sma bhūḥ ujjayinyāḥ . vidyut-dāma-sphurita-cakitaiḥ tatra paura-aṅganānām lola-apāṅgaiḥ yadi na ramase locanaiḥ vañcitaḥ asi..1.28..
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु॥१.२९॥
वीचि-क्षोभ-स्तनित-विहग-श्रेणि-काञ्ची-गुणायाः संसर्पन्त्याः स्खलित-सुभगम् दर्शित-आवर्त-नाभेः । निर्विन्ध्यायाः पथि भव रस-अभ्यन्तरः संनिपत्य स्त्रीणाम् आद्यम् प्रणय-वचनम् विभ्रमः हि प्रियेषु॥१।२९॥
vīci-kṣobha-stanita-vihaga-śreṇi-kāñcī-guṇāyāḥ saṃsarpantyāḥ skhalita-subhagam darśita-āvarta-nābheḥ . nirvindhyāyāḥ pathi bhava rasa-abhyantaraḥ saṃnipatya strīṇām ādyam praṇaya-vacanam vibhramaḥ hi priyeṣu..1.29..
वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः पाण्डुच्छायातटरुहतरुभ्रंशिभिर्जीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः॥१.३०॥
वेणी-भूत-प्रतनु-सलिला ताम् अतीतस्य सिन्धुः पाण्डु-छाया-तटरुह-तरु-भ्रंशिभिः जीर्ण-पर्णैः । सौभाग्यम् ते सुभग विरह-अवस्थया व्यञ्जयन्ती कार्श्यम् येन त्यजति विधिना स त्वया एव उपपाद्यः॥१।३०॥
veṇī-bhūta-pratanu-salilā tām atītasya sindhuḥ pāṇḍu-chāyā-taṭaruha-taru-bhraṃśibhiḥ jīrṇa-parṇaiḥ . saubhāgyam te subhaga viraha-avasthayā vyañjayantī kārśyam yena tyajati vidhinā sa tvayā eva upapādyaḥ..1.30..
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम्॥१.३१॥
प्राप्य अवन्तीन् उदयन-कथा-कोविद-ग्राम-वृद्धान् पूर्व-उद्दिष्टाम् उपसर पुरीम् श्रीविशालाम् विशालाम् । सु अल्पीभूते सु चरित-फले स्वर्गिणाम् गाम् गतानाम् शेषैः पुण्यैः हृतम् इव दिवः कान्तिमत् खण्डम् एकम्॥१।३१॥
prāpya avantīn udayana-kathā-kovida-grāma-vṛddhān pūrva-uddiṣṭām upasara purīm śrīviśālām viśālām . su alpībhūte su carita-phale svargiṇām gām gatānām śeṣaiḥ puṇyaiḥ hṛtam iva divaḥ kāntimat khaṇḍam ekam..1.31..
दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः॥१.३२॥
दीर्घीकुर्वन् पटु मद-कलम् कूजितम् सारसानाम् प्रत्यूषेषु स्फुटित-कमल-आमोद-मैत्री-कषायः । यत्र स्त्रीणाम् हरति सुरत-ग्लानिम् अङ्ग-अनुकूलः शिप्रा-वातः प्रियतमः इव प्रार्थना-चाटु-कारः॥१।३२॥
dīrghīkurvan paṭu mada-kalam kūjitam sārasānām pratyūṣeṣu sphuṭita-kamala-āmoda-maitrī-kaṣāyaḥ . yatra strīṇām harati surata-glānim aṅga-anukūlaḥ śiprā-vātaḥ priyatamaḥ iva prārthanā-cāṭu-kāraḥ..1.32..
हारांस्तारांस्तरलगुटिकान् कोटिशः शङ्खशुक्तीः शष्पश्यामान् मरकतमणीनुन्मयूखप्ररोहान् । दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः॥१.३३॥
हारान् तारान् तरल-गुटिकान् कोटिशस् शङ्ख-शुक्तीः शष्पश्यामान् मरकत-मणीन् उन्मयूख-प्ररोहान् । दृष्ट्वा यस्याम् विपणि-रचितान् विद्रुमाणाम् च भङ्गान् संलक्ष्यन्ते सलिलनिधयः तोय-मात्र-अवशेषाः॥१।३३॥
hārān tārān tarala-guṭikān koṭiśas śaṅkha-śuktīḥ śaṣpaśyāmān marakata-maṇīn unmayūkha-prarohān . dṛṣṭvā yasyām vipaṇi-racitān vidrumāṇām ca bhaṅgān saṃlakṣyante salilanidhayaḥ toya-mātra-avaśeṣāḥ..1.33..
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा- दित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः॥१.३४॥
प्रद्योतस्य प्रिय-दुहितरम् वत्स-राजः अत्र जह्रे हैमम् ताल-द्रुम-वनम् अभूत् अत्र तस्य एव राज्ञः । अत्र उद्भ्रान्तः किल नलगिरिः स्तम्भम् उत्पाट्य दर्प-आदित्य-आगन्तून् रमयति जनः यत्र बन्धून् अभिज्ञः॥१।३४॥
pradyotasya priya-duhitaram vatsa-rājaḥ atra jahre haimam tāla-druma-vanam abhūt atra tasya eva rājñaḥ . atra udbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpa-āditya-āgantūn ramayati janaḥ yatra bandhūn abhijñaḥ..1.34..
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै- र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः । हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मीं पश्यँल्ललितवनितापादरागाङ्कितेषु॥१.३५॥
जाल-उद्गीर्णैः उपचित-वपूः केश-संस्कार-धूपैः बन्धु-प्रीत्या भवन-शिखिभिः दत्त-नृत्य-उपहारः । हर्म्येषु अस्याः कुसुम-सुरभिषु अध्व-खेदम् नयेथाः लक्ष्मीम् पश्यन् ललित-वनिता-पाद-राग-अङ्कितेषु॥१।३५॥
jāla-udgīrṇaiḥ upacita-vapūḥ keśa-saṃskāra-dhūpaiḥ bandhu-prītyā bhavana-śikhibhiḥ datta-nṛtya-upahāraḥ . harmyeṣu asyāḥ kusuma-surabhiṣu adhva-khedam nayethāḥ lakṣmīm paśyan lalita-vanitā-pāda-rāga-aṅkiteṣu..1.35..
भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या- स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः॥१.३६॥
भर्तुः कण्ठ-छविः इति गणैः स आदरम् वीक्ष्यमाणः पुण्यम् यायाः त्रिभुवन-गुरोः धाम चण्डीश्वरस्य । धूत-उद्यानम् कुवलय-रजः-गन्धिभिः गन्धवत्या स्तोय-क्रीडा-निरत-युवति-स्नान-तिक्तैः मरुद्भिः॥१।३६॥
bhartuḥ kaṇṭha-chaviḥ iti gaṇaiḥ sa ādaram vīkṣyamāṇaḥ puṇyam yāyāḥ tribhuvana-guroḥ dhāma caṇḍīśvarasya . dhūta-udyānam kuvalaya-rajaḥ-gandhibhiḥ gandhavatyā stoya-krīḍā-nirata-yuvati-snāna-tiktaiḥ marudbhiḥ..1.36..
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानुः । कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम् आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्॥१.३७॥
अपि अन्यस्मिन् जलधर महाकालम् आसाद्य काले स्थातव्यम् ते नयन-विषयम् यावत् अत्येति भानुः । कुर्वन् सन्ध्या-बलि-पटह-ताम् शूलिनः श्लाघनीयाम् लप्स्यसे॥१।३७॥
api anyasmin jaladhara mahākālam āsādya kāle sthātavyam te nayana-viṣayam yāvat atyeti bhānuḥ . kurvan sandhyā-bali-paṭaha-tām śūlinaḥ ślāghanīyām lapsyase..1.37..
पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्॥१.३८॥
पाद-न्यासैः क्वणित-रशनाः तत्र लीला-अवधूतैः रत्न-छाया-खचित-वलिभिः चामरैः क्लान्त-हस्ताः । वेश्याः त्वत्तः नख-पद-सुखान् प्राप्य वर्ष-अग्र-बिन्दून् आमोक्ष्यन्ते त्वयि मधुकर-श्रेणि-दीर्घान् कटाक्षान्॥१।३८॥
pāda-nyāsaiḥ kvaṇita-raśanāḥ tatra līlā-avadhūtaiḥ ratna-chāyā-khacita-valibhiḥ cāmaraiḥ klānta-hastāḥ . veśyāḥ tvattaḥ nakha-pada-sukhān prāpya varṣa-agra-bindūn āmokṣyante tvayi madhukara-śreṇi-dīrghān kaṭākṣān..1.38..
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या॥१.३९॥
पश्चात् उच्चैस् भुज-तरु-वनम् मण्डलेन अभिलीनः सान्ध्यम् तेजः प्रतिनव-जपा-पुष्प-रक्तम् दधानः । नृत्त-आरम्भे हर पशुपतेः आर्द्र-नाग-अजिन-इच्छाम् शान्त-उद्वेग-स्तिमित-नयनम् दृष्ट-भक्तिः भवान्या॥१।३९॥
paścāt uccais bhuja-taru-vanam maṇḍalena abhilīnaḥ sāndhyam tejaḥ pratinava-japā-puṣpa-raktam dadhānaḥ . nṛtta-ārambhe hara paśupateḥ ārdra-nāga-ajina-icchām śānta-udvega-stimita-nayanam dṛṣṭa-bhaktiḥ bhavānyā..1.39..
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः॥१.४०॥
गच्छन्तीनाम् रमण-वसतिम् योषिताम् तत्र नक्तम् रुद्ध-आलोके नरपति-पथे सूचि-भेद्यैः तमोभिः । सौदामन्या कनक-निकष-स्निग्धया दर्शय उर्वीम् तोय-उत्सर्ग-स्तनित-मुखरः मा च भूः विक्लवाः ताः॥१।४०॥
gacchantīnām ramaṇa-vasatim yoṣitām tatra naktam ruddha-āloke narapati-pathe sūci-bhedyaiḥ tamobhiḥ . saudāmanyā kanaka-nikaṣa-snigdhayā darśaya urvīm toya-utsarga-stanita-mukharaḥ mā ca bhūḥ viklavāḥ tāḥ..1.40..
तां कस्यांचिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः॥१.४१॥
ताम् कस्यांचिद् भवन-वलभौ सुप्त-पारावतायाम् नीत्वा रात्रिम् चिर-विलसनात् खिन्न-विद्युत्-कलत्रः । दृष्टे सूर्ये पुनर् अपि भवान् वाहयेत् अध्व-शेषम् मन्दायन्ते न खलु सुहृदाम् अभ्युपेत-अर्थ-कृत्याः॥१।४१॥
tām kasyāṃcid bhavana-valabhau supta-pārāvatāyām nītvā rātrim cira-vilasanāt khinna-vidyut-kalatraḥ . dṛṣṭe sūrye punar api bhavān vāhayet adhva-śeṣam mandāyante na khalu suhṛdām abhyupeta-artha-kṛtyāḥ..1.41..
तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः॥१.४२॥
तस्मिन् काले नयन-सलिलम् योषिताम् खण्डितानाम् शान्तिम् न इयम् प्रणयिभिः अतस् वर्त्म भानोः त्यज आशु । प्रालेय-अस्त्रम् कमल-वदनात् सः अपि हर्तुम् नलिन्याः प्रत्यावृत्तः त्वयि कररुधि स्यात् अनल्प-अभ्यसूयः॥१।४२॥
tasmin kāle nayana-salilam yoṣitām khaṇḍitānām śāntim na iyam praṇayibhiḥ atas vartma bhānoḥ tyaja āśu . prāleya-astram kamala-vadanāt saḥ api hartum nalinyāḥ pratyāvṛttaḥ tvayi kararudhi syāt analpa-abhyasūyaḥ..1.42..
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्माऽपि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या- न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि॥१.४३॥
गम्भीरायाः पयसि सरितः चेतसि इव प्रसन्ने छाया-आत्मा अपि प्रकृति-सुभगः लप्स्यते ते प्रवेशम् । तस्मात् अस्याः कुमुद-विशदानि अर्हसि त्वम् न धैर्यात् मोघीकर्तुम् चटुल-शफर-उद्वर्तन-प्रेक्षितानि॥१।४३॥
gambhīrāyāḥ payasi saritaḥ cetasi iva prasanne chāyā-ātmā api prakṛti-subhagaḥ lapsyate te praveśam . tasmāt asyāḥ kumuda-viśadāni arhasi tvam na dhairyāt moghīkartum caṭula-śaphara-udvartana-prekṣitāni..1.43..
तस्याः किंचित्करधृतमिव प्राप्तवानीरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः॥१.४४॥
तस्याः किंचिद् कर-धृतम् इव प्राप्तवान् ईर-शाखम् हृत्वा नीलम् सलिल-वसनम् मुक्त-रोधः-नितम्बम् । प्रस्थानम् ते कथम् अपि सखे लम्बमानस्य भावि ज्ञात-आस्वादः विवृत-जघनाम् कः विहातुम् समर्थः॥१।४४॥
tasyāḥ kiṃcid kara-dhṛtam iva prāptavān īra-śākham hṛtvā nīlam salila-vasanam mukta-rodhaḥ-nitambam . prasthānam te katham api sakhe lambamānasya bhāvi jñāta-āsvādaḥ vivṛta-jaghanām kaḥ vihātum samarthaḥ..1.44..
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥१.४५॥
त्वद्-निस्यन्द-उच्छ्वसित-वसुधा-गन्ध-सम्पर्क-रम्यः स्रोतः-रन्ध्र-ध्वनित-सुभगम् दन्तिभिः पीयमानः । नीचैस् वा अस्यति उपजिगमिषोः देव-पूर्वम् गिरिम् ते शीतः वायुः परिणमयिता कानन-उदुम्बराणाम्॥१।४५॥
tvad-nisyanda-ucchvasita-vasudhā-gandha-samparka-ramyaḥ srotaḥ-randhra-dhvanita-subhagam dantibhiḥ pīyamānaḥ . nīcais vā asyati upajigamiṣoḥ deva-pūrvam girim te śītaḥ vāyuḥ pariṇamayitā kānana-udumbarāṇām..1.45..
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम् अत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः॥१.४६॥
तत्र स्कन्दम् नियत-वसतिम् पुष्प-मेघीकृत-आत्मा पुष्प-आसारैः स्नपयतु भवान् व्योमगङ्गा-जल-आर्द्रैः । रक्षा-हेतोः नव-शशि-भृता वासवीनाम् चमूनाम् अति आदित्यम् हुतवह-मुखे संभृतम् तत् हि तेजः॥१।४६॥
tatra skandam niyata-vasatim puṣpa-meghīkṛta-ātmā puṣpa-āsāraiḥ snapayatu bhavān vyomagaṅgā-jala-ārdraiḥ . rakṣā-hetoḥ nava-śaśi-bhṛtā vāsavīnām camūnām ati ādityam hutavaha-mukhe saṃbhṛtam tat hi tejaḥ..1.46..
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥१.४७॥
ज्योतिः-लेखा-वलयि गलितम् यस्य बर्हम् भवानी पुत्र-प्रेम्णा कुवलय-दल-प्रापि कर्णे करोति । धौत-अपाङ्गम् हर-शशि-रुचा पावकेः तम् मयूरम् पश्चात् अद्रि-ग्रहण-गुरुभिः गर्जितैः नर्तयेथाः॥१।४७॥
jyotiḥ-lekhā-valayi galitam yasya barham bhavānī putra-premṇā kuvalaya-dala-prāpi karṇe karoti . dhauta-apāṅgam hara-śaśi-rucā pāvakeḥ tam mayūram paścāt adri-grahaṇa-gurubhiḥ garjitaiḥ nartayethāḥ..1.47..
आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद् वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥१.४८॥
आराध्य एनम् शरवण-भवम् देवम् उल्लङ्घित-अध्वा सिद्ध-द्वन्द्वैः जल-कण-भयात् वीणिभिः मुक्त-मार्गः । व्यालम्बेथाः सुरभि-तनय-आलम्भ-जाम् मानयिष्यन् स्रोतः-मूर्त्या भुवि परिणताम् रन्तिदेवस्य कीर्तिम्॥१।४८॥
ārādhya enam śaravaṇa-bhavam devam ullaṅghita-adhvā siddha-dvandvaiḥ jala-kaṇa-bhayāt vīṇibhiḥ mukta-mārgaḥ . vyālambethāḥ surabhi-tanaya-ālambha-jām mānayiṣyan srotaḥ-mūrtyā bhuvi pariṇatām rantidevasya kīrtim..1.48..
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥१.४९॥
त्वयि आदातुम् जलम् अवनते शार्ङ्गिणः वर्ण-चौरे तस्याः सिन्धोः पृथुम् अपि तनुम् दूर-भावात् प्रवाहम् । प्रेक्षिष्यन्ते गगन-गतयः नूनम् आवर्ज्य दृष्टी रेकम् मुक्ता-गुणम् इव भुवः स्थूल-मध्य-इन्द्रनीलम्॥१।४९॥
tvayi ādātum jalam avanate śārṅgiṇaḥ varṇa-caure tasyāḥ sindhoḥ pṛthum api tanum dūra-bhāvāt pravāham . prekṣiṣyante gagana-gatayaḥ nūnam āvarjya dṛṣṭī rekam muktā-guṇam iva bhuvaḥ sthūla-madhya-indranīlam..1.49..
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम्॥१.५०॥
ताम् उत्तीर्य व्रज परिचित-भ्रू-लता-विभ्रमाणाम् पक्ष्म-उत्क्षेपात् उपरि विलसत्-कृष्ण-शार-प्रभाणाम् । कुन्द-क्षेप-अनुग-मधुकर-श्री-मुषाम् आत्म-बिम्बम् पात्रीकुर्वन् दश-पुर-वधू-नेत्र-कौतूहलानाम्॥१।५०॥
tām uttīrya vraja paricita-bhrū-latā-vibhramāṇām pakṣma-utkṣepāt upari vilasat-kṛṣṇa-śāra-prabhāṇām . kunda-kṣepa-anuga-madhukara-śrī-muṣām ātma-bimbam pātrīkurvan daśa-pura-vadhū-netra-kautūhalānām..1.50..
ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि॥१.५१॥
ब्रह्मावर्तम् जनपदम् अथ छायया गाहमानः क्षेत्रम् क्षत्र-प्रधन-पिशुनम् कौरवम् तत् भजेथाः । राजन्यानाम् शित-शर-शतैः यत्र गाण्डीवधन्वा धारा-पातैः त्वम् इव कमलानि अभ्यवर्षत् मुखानि॥१।५१॥
brahmāvartam janapadam atha chāyayā gāhamānaḥ kṣetram kṣatra-pradhana-piśunam kauravam tat bhajethāḥ . rājanyānām śita-śara-śataiḥ yatra gāṇḍīvadhanvā dhārā-pātaiḥ tvam iva kamalāni abhyavarṣat mukhāni..1.51..
हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम् अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः॥१.५२॥
हित्वा हालाम् अभिमत-रसाम् रेवती-लोचन-अङ्काम् बन्धु-प्रीत्या समर-विमुखः लाङ्गली याः सिषेवे । कृत्वा तासाम् अधिगमम् अपाम् सौम्य सारस्वतीनाम् अन्तर् शुद्धः त्वम् अपि भविता वर्ण-मात्रेण कृष्णः॥१।५२॥
hitvā hālām abhimata-rasām revatī-locana-aṅkām bandhu-prītyā samara-vimukhaḥ lāṅgalī yāḥ siṣeve . kṛtvā tāsām adhigamam apām saumya sārasvatīnām antar śuddhaḥ tvam api bhavitā varṇa-mātreṇa kṛṣṇaḥ..1.52..
तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता॥१.५३॥
तस्मात् गच्छेः अनुकनखलम् शैलराज-अवतीर्णाम् जह्नोः कन्याम् सगर-तनय-स्वर्ग-सोपान-पङ्क्तिम् । गौरी-वक्त्र-भ्रुकुटि-रचनाम् या विहस्य इव फेनैः शम्भोः केश-ग्रहणम् अकरोत् इन्दु-लग्न-ऊर्मि-हस्ता॥१।५३॥
tasmāt gaccheḥ anukanakhalam śailarāja-avatīrṇām jahnoḥ kanyām sagara-tanaya-svarga-sopāna-paṅktim . gaurī-vaktra-bhrukuṭi-racanām yā vihasya iva phenaiḥ śambhoḥ keśa-grahaṇam akarot indu-lagna-ūrmi-hastā..1.53..
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा॥१.५४॥
तस्याः पातुम् सुर-गजः इव व्योम्नि पश्च-अर्ध-लम्बी त्वम् चेद् अच्छ-स्फटिक-विशदम् तर्कयेः तिर्यक्-अम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि छायया असौ स्यात् अस्थान-उपगत-यमुना-सङ्गम् एव अभिरामा॥१।५४॥
tasyāḥ pātum sura-gajaḥ iva vyomni paśca-ardha-lambī tvam ced accha-sphaṭika-viśadam tarkayeḥ tiryak-ambhaḥ . saṃsarpantyā sapadi bhavataḥ srotasi chāyayā asau syāt asthāna-upagata-yamunā-saṅgam eva abhirāmā..1.54..
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम्॥१.५५॥
आसीनानाम् सुरभि-त-शिलम् नाभि-गन्धैः मृगाणाम् तस्याः एव प्रभवम् अचलम् प्राप्य गौरम् तुषारैः । वक्ष्यसि अध्व-श्रम-विनयने तस्य शृङ्गे निषण्णः शोभाम् शुभ्राम् त्रिनयन-वृष-उत्खात-पङ्क-उपमेयम्॥१।५५॥
āsīnānām surabhi-ta-śilam nābhi-gandhaiḥ mṛgāṇām tasyāḥ eva prabhavam acalam prāpya gauram tuṣāraiḥ . vakṣyasi adhva-śrama-vinayane tasya śṛṅge niṣaṇṇaḥ śobhām śubhrām trinayana-vṛṣa-utkhāta-paṅka-upameyam..1.55..
तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्माबाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।अर्हस्येनं शमयितुमलं वारिधारासहस्रै-रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम्॥१.५६॥
तम् चेद् वायौ सरति सरल-स्कन्ध-संघट्ट-जन्म आबाधेत उल्का-क्षपित-चमरी-बाल-भारः दव-अग्निः ।अर्हसि एनम् शमयितुम् अलम् वारि-धारा-सहस्रैः आपन्न-आर्ति-प्रशमन-फलाः संपदः हि उत्तमानाम्॥१।५६॥
tam ced vāyau sarati sarala-skandha-saṃghaṭṭa-janma ābādheta ulkā-kṣapita-camarī-bāla-bhāraḥ dava-agniḥ .arhasi enam śamayitum alam vāri-dhārā-sahasraiḥ āpanna-ārti-praśamana-phalāḥ saṃpadaḥ hi uttamānām..1.56..
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः॥१.५७॥
ये संरम्भ-उत्पतन-रभसाः स्व-अङ्ग-भङ्गाय तस्मिन् मुक्त-अध्वानम् सपदि शरभाः लङ्घयेयुः भवन्तम् ।तान् कुर्वीथाः तुमुल-करक-अवृष्टि-पात-अवकीर्णान् के वा न स्युः परिभव-पदम् निष्फल-आरम्भ-यत्नाः॥१।५७॥
ye saṃrambha-utpatana-rabhasāḥ sva-aṅga-bhaṅgāya tasmin mukta-adhvānam sapadi śarabhāḥ laṅghayeyuḥ bhavantam .tān kurvīthāḥ tumula-karaka-avṛṣṭi-pāta-avakīrṇān ke vā na syuḥ paribhava-padam niṣphala-ārambha-yatnāḥ..1.57..
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेःशश्वत् सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ।यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाःकल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः॥१.५८॥
तत्र व्यक्तम् दृषदि चरण-न्यासम् अर्ध-इन्दुमौलेः शश्वत् सिद्धैः उपचित-बलिम् भक्ति-नम्रः परीयाः ।यस्मिन् दृष्टे करण-विगमात् ऊर्ध्वम् उद्धूत-पापाः कल्पिष्यन्ते स्थिर-गण-पद-प्राप्तये श्रद्दधानाः॥१।५८॥
tatra vyaktam dṛṣadi caraṇa-nyāsam ardha-indumauleḥ śaśvat siddhaiḥ upacita-balim bhakti-namraḥ parīyāḥ .yasmin dṛṣṭe karaṇa-vigamāt ūrdhvam uddhūta-pāpāḥ kalpiṣyante sthira-gaṇa-pada-prāptaye śraddadhānāḥ..1.58..
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाःसंरक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः ।निर्ह्रादस्ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः॥१.५९॥
शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः संरक्ताभिः त्रिपुरविजयः गीयते किंनराभिः ।निर्ह्रादः ते मुरजे इव चेद् कन्दरेषु ध्वनिः स्यात् संगीत-अर्थः ननु पशुपतेः तत्र भावी समग्रः॥१।५९॥
śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhiḥ tripuravijayaḥ gīyate kiṃnarābhiḥ .nirhrādaḥ te muraje iva ced kandareṣu dhvaniḥ syāt saṃgīta-arthaḥ nanu paśupateḥ tatra bhāvī samagraḥ..1.59..
प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभीश्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः॥१.६०॥
प्रालेयाद्रेः उपतटम् अतिक्रम्य तान् तान् विशेषान् हंसद्वारम् भृगुपति-यशः-वर्त्म यत् क्रौञ्चरन्ध्रम् ।तेन उदीचीम् दिशम् अनुसरेः तिर्यक्-आयाम-शोभी-श्यामः पादः बलि-नियमन-अभ्युद्यतस्य इव विष्णोः॥१।६०॥
prāleyādreḥ upataṭam atikramya tān tān viśeṣān haṃsadvāram bhṛgupati-yaśaḥ-vartma yat krauñcarandhram .tena udīcīm diśam anusareḥ tiryak-āyāma-śobhī-śyāmaḥ pādaḥ bali-niyamana-abhyudyatasya iva viṣṇoḥ..1.60..
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेःकैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खंराशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः॥१.६१॥
गत्वा च ऊर्ध्वम् दश-मुख-भुज-उच्छ्वासित-प्रस्थ-सन्धेः कैलासस्य त्रिदश-वनिता-दर्पणस्य अतिथिः स्याः ।शृङ्ग-उच्छ्रायैः कुमुद-विशदैः यः वितत्य स्थितः खंराशीभूतः प्रतिदिनम् इव त्र्यम्बकस्य अट्टहासः॥१।६१॥
gatvā ca ūrdhvam daśa-mukha-bhuja-ucchvāsita-prastha-sandheḥ kailāsasya tridaśa-vanitā-darpaṇasya atithiḥ syāḥ .śṛṅga-ucchrāyaiḥ kumuda-viśadaiḥ yaḥ vitatya sthitaḥ khaṃrāśībhūtaḥ pratidinam iva tryambakasya aṭṭahāsaḥ..1.61..
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभेसद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य ।शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्अंसन्यस्ते सति हलभृतो मेचके वाससीव॥१.६२॥
उत्पश्यामि त्वयि तट-गते स्निग्ध-भिन्न-अञ्जन-अभेसद्यः कृत्त-द्विरद-दशन-छेद-गौरस्य तस्य ।शोभाम् अद्रेः स्तिमित-नयन-प्रेक्षणीयाम् भवित्रीम् अंस-न्यस्ते सति हलभृतः मेचके वाससि इव॥१।६२॥
utpaśyāmi tvayi taṭa-gate snigdha-bhinna-añjana-abhesadyaḥ kṛtta-dvirada-daśana-cheda-gaurasya tasya .śobhām adreḥ stimita-nayana-prekṣaṇīyām bhavitrīm aṃsa-nyaste sati halabhṛtaḥ mecake vāsasi iva..1.62..
हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ताक्रीडाशैले यदि च विचरेत्पादचारेण गौरी ।भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघःसोपानत्वं कुरु मणितटारोहणायाग्रयायी॥१.६३॥
हित्वा तस्मिन् भुजग-वलयम् शम्भुना दत्त-हस्ता क्रीडा-शैले यदि च विचरेत् पादचारेण गौरी ।भङ्गी-भक्त्या विरचित-वपुः स्तम्भित-अन्तर् जल-ओघः सोपान-त्वम् कुरु मणि-तट-आरोहणाय अग्र-यायी॥१।६३॥
hitvā tasmin bhujaga-valayam śambhunā datta-hastā krīḍā-śaile yadi ca vicaret pādacāreṇa gaurī .bhaṅgī-bhaktyā viracita-vapuḥ stambhita-antar jala-oghaḥ sopāna-tvam kuru maṇi-taṭa-ārohaṇāya agra-yāyī..1.63..
तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयंनेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः॥१.६४॥
तत्र अवश्यम् त्वाम् सुर-युवतयः यन्त्र-धारागृह-त्वम् ।ताभ्यः मोक्षः तव यदि सखे घर्म-लब्धस्य न स्यात् क्रीडा-लोलाः श्रवण-परुषैः गर्जितैः भाययेः ताः॥१।६४॥
tatra avaśyam tvām sura-yuvatayaḥ yantra-dhārāgṛha-tvam .tābhyaḥ mokṣaḥ tava yadi sakhe gharma-labdhasya na syāt krīḍā-lolāḥ śravaṇa-paruṣaiḥ garjitaiḥ bhāyayeḥ tāḥ..1.64..
हेमाम्भोजप्रसवि सलिलं मानसस्याददानःकुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य ।धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातै-र्नानाचेष्टैर्जलदललितैर्निर्विशेस्तं नगेन्द्रम्॥१.६५॥
हेम-अम्भोज-प्रसवि सलिलम् मानसस्य आददानः कुर्वन् कामम् क्षण-मुख-पट-प्रीतिम् ऐरावतस्य ।धुन्वन् कल्पद्रुम-किसलयानि अंशुकानि इव वातैः नाना चेष्टैः जलद-ललितैः निर्विशेः तम् नग-इन्द्रम्॥१।६५॥
hema-ambhoja-prasavi salilam mānasasya ādadānaḥ kurvan kāmam kṣaṇa-mukha-paṭa-prītim airāvatasya .dhunvan kalpadruma-kisalayāni aṃśukāni iva vātaiḥ nānā ceṣṭaiḥ jalada-lalitaiḥ nirviśeḥ tam naga-indram..1.65..
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलांन त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।या वः काले वहति सलिलोद्गारमुच्चैर्विमानामुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम्॥१.६६॥
तस्य उत्सङ्गे प्रणयिनः इव स्रस्त-गङ्गा-दुकूलाम् न त्वम् दृष्ट्वा न पुनर् अलकाम् ज्ञास्यसे काम-चारिन् ।या वः काले वहति सलिल-उद्गारम् उच्चैस् विमान-आमुक्ता-जाल-ग्रथितम् अलकम् कामिनी-इव अभ्र-वृन्दम्॥१।६६॥
tasya utsaṅge praṇayinaḥ iva srasta-gaṅgā-dukūlām na tvam dṛṣṭvā na punar alakām jñāsyase kāma-cārin .yā vaḥ kāle vahati salila-udgāram uccais vimāna-āmuktā-jāla-grathitam alakam kāminī-iva abhra-vṛndam..1.66..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In