आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै- र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् । नाप्यन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्ति- र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति॥२.४॥
PADACHEDA
आनन्द-उत्थम् नयन-सलिलम् यत्र न अन्यैः निमित्तैः न अन्यः तापः कुसुम-शरज-आदिष्ट-संयोग-साध्यात् । ना अपि अन्यस्मात् प्रणय-कलहात् विप्रयोग-उपपत्तिः वित्तेशानाम् न च खलु वयः यौवनात् अन्यत् अस्ति॥२।४॥
TRANSLITERATION
ānanda-uttham nayana-salilam yatra na anyaiḥ nimittaiḥ na anyaḥ tāpaḥ kusuma-śaraja-ādiṣṭa-saṃyoga-sādhyāt . nā api anyasmāt praṇaya-kalahāt viprayoga-upapattiḥ vitteśānām na ca khalu vayaḥ yauvanāt anyat asti..2.4..
आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति॥२.२५॥
PADACHEDA
आलोके ते निपतति पुरा सा बलि-व्याकुला वा मद्-सादृश्यम् विरह-तनु वा भाव-गम्यम् लिखन्ती । पृच्छन्ती वा मधुर-वचनाम् सारिकाम् पञ्जर-स्थाम् कच्चित् भर्तुः स्मरसि रसिके त्वम् हि तस्य प्रिया इति॥२।२५॥
सव्यापारामहनि न तथा पीडयेद् विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्सन्देशः सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः॥२.२८॥
PADACHEDA
स व्यापाराम् अहनि न तथा पीडयेत् विप्रयोगः शङ्के रात्रौ गुरुतर-शुचम् निर्विनोदाम् सखीम् ते । मद्-सन्देशः सुखयितुम् अलम् पश्य साध्वीम् निशीथे ताम् उन्निद्राम् अवनि-शयनाम् सौध-वातायन-स्थः॥२।२८॥
TRANSLITERATION
sa vyāpārām ahani na tathā pīḍayet viprayogaḥ śaṅke rātrau gurutara-śucam nirvinodām sakhīm te . mad-sandeśaḥ sukhayitum alam paśya sādhvīm niśīthe tām unnidrām avani-śayanām saudha-vātāyana-sthaḥ..2.28..
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥२.४५॥
PADACHEDA
त्वाम् आलिख्य प्रणय-कुपिताम् धातु-रागैः शिलायाम् आत्मानम् ते चरण-पतितम् यावत् इच्छामि कर्तुम् । अस्रैः तावत् मुहुर् उपचितैः दृष्टिः आलुप्यते मे क्रूरः तस्मिन् अपि न सहते सङ्गमम् नौ कृतान्तः॥२।४५॥
TRANSLITERATION
tvām ālikhya praṇaya-kupitām dhātu-rāgaiḥ śilāyām ātmānam te caraṇa-patitam yāvat icchāmi kartum . asraiḥ tāvat muhur upacitaiḥ dṛṣṭiḥ ālupyate me krūraḥ tasmin api na sahate saṅgamam nau kṛtāntaḥ..2.45..
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो- र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥२.४६॥
PADACHEDA
माम् आकाश-प्रणिहित-भुजम् निर्दय-आश्लेष-हेतोः लब्धायाः ते कथम् अपि मया स्वप्न-सन्दर्शनेषु । पश्यन्तीनाम् न खलु बहुशस् न स्थलीदेवतानाम् मुक्ता-स्थूलाः तरु-किसलयेषु अश्रु-लेशाः पतन्ति॥२।४६॥
TRANSLITERATION
mām ākāśa-praṇihita-bhujam nirdaya-āśleṣa-hetoḥ labdhāyāḥ te katham api mayā svapna-sandarśaneṣu . paśyantīnām na khalu bahuśas na sthalīdevatānām muktā-sthūlāḥ taru-kisalayeṣu aśru-leśāḥ patanti..2.46..
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा । सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति॥२.५१॥
PADACHEDA
भूयस् च आह त्वम् अपि शयने कण्ठ-लग्ना पुरा मे निद्राम् गत्वा किम् अपि रुदती स स्वरम् विप्रबुद्धा । स अन्तर्हासम् कथितम् असकृत् पृच्छतः च त्वया मे दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वम् मया इति॥२।५१॥
TRANSLITERATION
bhūyas ca āha tvam api śayane kaṇṭha-lagnā purā me nidrām gatvā kim api rudatī sa svaram viprabuddhā . sa antarhāsam kathitam asakṛt pṛcchataḥ ca tvayā me dṛṣṭaḥ svapne kitava ramayan kām api tvam mayā iti..2.51..
आश्वास्य एवम् प्रथम-विरह-उदग्र-शोकाम् सखीम् ते शैलात् आशु त्रिनयन-वृष-उत्खात-कूटात् निवृत्तः । स अभिज्ञान-प्रहित-कुशलैः त-तद्-वचोभिः मम अपि प्रातर् कुन्द-प्रसव-शिथिलम् जीवितम् धारयेथाः॥२।५३॥
TRANSLITERATION
āśvāsya evam prathama-viraha-udagra-śokām sakhīm te śailāt āśu trinayana-vṛṣa-utkhāta-kūṭāt nivṛttaḥ . sa abhijñāna-prahita-kuśalaiḥ ta-tad-vacobhiḥ mama api prātar kunda-prasava-śithilam jīvitam dhārayethāḥ..2.53..
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या । इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री- र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥२.५५॥
PADACHEDA
एतत् कृत्वा प्रियम् अनुचित-प्रार्थना-वर्तिनः मे सौहार्दात् वा विधुरः इति वा मयि अनुक्रोश-बुद्ध्या । इष्टान् देशान् जलद विचर प्रावृषा संभृत-श्रीः मा भूत् एवम् क्षणम् अपि च ते विद्युता विप्रयोगः॥२।५५॥
TRANSLITERATION
etat kṛtvā priyam anucita-prārthanā-vartinaḥ me sauhārdāt vā vidhuraḥ iti vā mayi anukrośa-buddhyā . iṣṭān deśān jalada vicara prāvṛṣā saṃbhṛta-śrīḥ mā bhūt evam kṣaṇam api ca te vidyutā viprayogaḥ..2.55..
Mudra Cost for Each Feature
Get Word by Word meaning everytime for 2 Mudras.
Saving a verse costs 5 Mudras and grants lifetime word-by-word meaning.
Practice with flashcard for 8 Mudras.
Posting earns 2 Mudras.
Other features are free.
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
नमो नमः
Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.