| |
|

This overlay will guide you through the buttons:

महाकविकालिदासविरचितम्
महा-कवि-कालिदास-विरचितम्
mahā-kavi-kālidāsa-viracitam
॥ उत्तरमेघः ॥
॥ उत्तर-मेघः ॥
.. uttara-meghaḥ ..
विद्युद्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः॥२.१॥
विद्युद्वन्तम् ललित-वनिताः स इन्द्रचापम् स चित्राः सङ्गीताय प्रहत-मुरजाः स्निग्ध-गम्भीर-घोषम् । अन्तर् तोयम् मणि-मय-भुवः तुङ्गम् अभ्रंलिह-अग्राः प्रासादाः त्वाम् तुलयितुम् अलम् यत्र तैः तैः विशेषैः॥२।१॥
vidyudvantam lalita-vanitāḥ sa indracāpam sa citrāḥ saṅgītāya prahata-murajāḥ snigdha-gambhīra-ghoṣam . antar toyam maṇi-maya-bhuvaḥ tuṅgam abhraṃliha-agrāḥ prāsādāḥ tvām tulayitum alam yatra taiḥ taiḥ viśeṣaiḥ..2.1..
हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः । चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्॥२.२॥
हस्ते लीला-कमलम् अलके बाल-कुन्द-अनुविद्धम् नीता लोध्र-प्रसव-रजसा पाण्डु-ताम् आनने श्रीः । चूडा-पाशे नव-कुरवकम् चारु कर्णे शिरीषम् सीमन्ते च त्वद्-उपगम-जम् यत्र नीपम् वधूनाम्॥२।२॥
haste līlā-kamalam alake bāla-kunda-anuviddham nītā lodhra-prasava-rajasā pāṇḍu-tām ānane śrīḥ . cūḍā-pāśe nava-kuravakam cāru karṇe śirīṣam sīmante ca tvad-upagama-jam yatra nīpam vadhūnām..2.2..
यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः । केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः॥२.३॥
यत्र उन्मत्त-भ्रमर-मुखराः पादपाः नित्य-पुष्पा हंस-श्रेणी-रचित-रशनाः नित्य-पद्माः नलिन्यः । केका-उत्कण्ठाः भुवन-शिखिनः नित्य-भास्वत्-कलापा नित्य-ज्योत्स्नाः प्रतिहत-तमः-वृत्ति-रम्याः प्रदोषाः॥२।३॥
yatra unmatta-bhramara-mukharāḥ pādapāḥ nitya-puṣpā haṃsa-śreṇī-racita-raśanāḥ nitya-padmāḥ nalinyaḥ . kekā-utkaṇṭhāḥ bhuvana-śikhinaḥ nitya-bhāsvat-kalāpā nitya-jyotsnāḥ pratihata-tamaḥ-vṛtti-ramyāḥ pradoṣāḥ..2.3..
आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै- र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् । नाप्यन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्ति- र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति॥२.४॥
आनन्द-उत्थम् नयन-सलिलम् यत्र न अन्यैः निमित्तैः न अन्यः तापः कुसुम-शरज-आदिष्ट-संयोग-साध्यात् । ना अपि अन्यस्मात् प्रणय-कलहात् विप्रयोग-उपपत्तिः वित्तेशानाम् न च खलु वयः यौवनात् अन्यत् अस्ति॥२।४॥
ānanda-uttham nayana-salilam yatra na anyaiḥ nimittaiḥ na anyaḥ tāpaḥ kusuma-śaraja-ādiṣṭa-saṃyoga-sādhyāt . nā api anyasmāt praṇaya-kalahāt viprayoga-upapattiḥ vitteśānām na ca khalu vayaḥ yauvanāt anyat asti..2.4..
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु॥२.५॥
यस्याम् यक्षाः सित-मणि-मयानि एत्य हर्म्य-स्थलानि ज्योतिः-छाया-कुसुम-रचितानि उत्तम-स्त्री-सहायाः । आसेवन्ते मधु रति-फलम् कल्पवृक्ष-प्रसूतम् त्वद्-गम्भीर-ध्वनिषु शनकैस् पुष्करेषु आहतेषु॥२।५॥
yasyām yakṣāḥ sita-maṇi-mayāni etya harmya-sthalāni jyotiḥ-chāyā-kusuma-racitāni uttama-strī-sahāyāḥ . āsevante madhu rati-phalam kalpavṛkṣa-prasūtam tvad-gambhīra-dhvaniṣu śanakais puṣkareṣu āhateṣu..2.5..
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि- र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः॥२.६॥
मन्दाकिन्याः सलिल-शिशिरैः सेव्यमानाः मरुद्भिः मन्दाराणाम् अनु तट-रुहाम् छायया वारित-उष्णाः । अन्वेष्टव्यैः कनक-सिकता-मुष्टि-निक्षेप-गूढैः संक्रीडन्ते मणिभिः अमर-प्रार्थिताः यत्र कन्याः॥२।६॥
mandākinyāḥ salila-śiśiraiḥ sevyamānāḥ marudbhiḥ mandārāṇām anu taṭa-ruhām chāyayā vārita-uṣṇāḥ . anveṣṭavyaiḥ kanaka-sikatā-muṣṭi-nikṣepa-gūḍhaiḥ saṃkrīḍante maṇibhiḥ amara-prārthitāḥ yatra kanyāḥ..2.6..
नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु । अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥२.७॥
नीवी-बन्ध-उच्छ्वसित-शिथिलम् यत्र बिम्ब-अधराणाम् क्षौमम् रागात् अनिभृत-करेषु आक्षिपत्सु प्रियेषु । अर्चिः-तुङ्गान् अभिमुखम् अपि प्राप्य रत्न-प्रदीपान् भवति॥२।७॥
nīvī-bandha-ucchvasita-śithilam yatra bimba-adharāṇām kṣaumam rāgāt anibhṛta-kareṣu ākṣipatsu priyeṣu . arciḥ-tuṅgān abhimukham api prāpya ratna-pradīpān bhavati..2.7..
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी- रालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै- र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति॥२.८॥
नेत्रा नीताः सततगतिना यत् विमान-अग्र-भूमी रा लेख्यानाम् सलिल-कणिका-दोषम् उत्पाद्य सद्यस् । शङ्का-स्पृष्टाः इव जलमुचः त्वादृशाः जाल-मार्गैः धूम-उद्गार-अनुकृति-निपुणाः जर्जराः निष्पतन्ति॥२।८॥
netrā nītāḥ satatagatinā yat vimāna-agra-bhūmī rā lekhyānām salila-kaṇikā-doṣam utpādya sadyas . śaṅkā-spṛṣṭāḥ iva jalamucaḥ tvādṛśāḥ jāla-mārgaiḥ dhūma-udgāra-anukṛti-nipuṇāḥ jarjarāḥ niṣpatanti..2.8..
यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः॥२.९॥
यत्र स्त्रीणाम् प्रियतम-भुज-उच्छ्वासित-आलिङ्गितानाम् अङ्ग-ग्लानिम् सुरत-जनिताम् तन्तु-जाल-अवलम्बाः । त्वद्-संरोध-अपगम-विशदः चन्द्र-पादैः निशीथे व्यालुम्पन्ति स्फुट-जल-लव-स्यन्दिनः चन्द्रकान्ताः॥२।९॥
yatra strīṇām priyatama-bhuja-ucchvāsita-āliṅgitānām aṅga-glānim surata-janitām tantu-jāla-avalambāḥ . tvad-saṃrodha-apagama-viśadaḥ candra-pādaiḥ niśīthe vyālumpanti sphuṭa-jala-lava-syandinaḥ candrakāntāḥ..2.9..
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै- रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति॥२.१०॥
अक्षय्य-अन्तर्भवन-निधयः प्रत्यहम् रक्त-कण्ठैः रुद्गायद्भिः धनपति-यशः किंनरैः यत्र सार्धम् । वैभ्राज-आख्यम् विबुध-वनिता-वारमुख्या-सहाया बद्ध-आलापाः बहिस् उपवनम् कामिनः निर्विशन्ति॥२।१०॥
akṣayya-antarbhavana-nidhayaḥ pratyaham rakta-kaṇṭhaiḥ rudgāyadbhiḥ dhanapati-yaśaḥ kiṃnaraiḥ yatra sārdham . vaibhrāja-ākhyam vibudha-vanitā-vāramukhyā-sahāyā baddha-ālāpāḥ bahis upavanam kāminaḥ nirviśanti..2.10..
गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पुत्रच्छेदैः कनककमलैः कर्णविस्रंसिभिश्च । मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै- र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम्॥२.११॥
गति-उत्कम्पात् अलक-पतितैः यत्र मन्दार-पुष्पैः पुत्र-छेदैः कनक-कमलैः कर्ण-विस्रंसिभिः च । मुक्ता-जालैः स्तन-परिसर-छिन्न-सूत्रैः च हारैः नैशः मार्गः सवितुः उदये सूच्यते कामिनीनाम्॥२।११॥
gati-utkampāt alaka-patitaiḥ yatra mandāra-puṣpaiḥ putra-chedaiḥ kanaka-kamalaiḥ karṇa-visraṃsibhiḥ ca . muktā-jālaiḥ stana-parisara-chinna-sūtraiḥ ca hāraiḥ naiśaḥ mārgaḥ savituḥ udaye sūcyate kāminīnām..2.11..
वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पम् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एकः सूते सकलमबलामण्डनं कल्पवृक्षः॥२.१२॥
वासः चित्रम् मधु नयनयोः विभ्रम-आदेश-दक्षम् पुष्प-उद्भेदम् सह किसलयैः भूषणानाम् विकल्पम् । लाक्षा-रागम् चरण-कमल-न्यास-योग्यम् च यस्याम् एकः सूते सकलम् अबला-मण्डनम् कल्पवृक्षः॥२।१२॥
vāsaḥ citram madhu nayanayoḥ vibhrama-ādeśa-dakṣam puṣpa-udbhedam saha kisalayaiḥ bhūṣaṇānām vikalpam . lākṣā-rāgam caraṇa-kamala-nyāsa-yogyam ca yasyām ekaḥ sūte sakalam abalā-maṇḍanam kalpavṛkṣaḥ..2.12..
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः॥२.१३॥
पत्र-श्यामाः दिनकर-हय-स्पर्धिनः यत्र वाहाः शैल-उदग्राः त्वम् इव करिणः वृष्टिमन्तः प्रभेदात् । योध-अग्रण्यः प्रति दश-मुखम् संयुगे तस्थिवांसः प्रत्यादिष्ट-आभरण-रुचयः चन्द्रहास-व्रण-अङ्कैः॥२।१३॥
patra-śyāmāḥ dinakara-haya-spardhinaḥ yatra vāhāḥ śaila-udagrāḥ tvam iva kariṇaḥ vṛṣṭimantaḥ prabhedāt . yodha-agraṇyaḥ prati daśa-mukham saṃyuge tasthivāṃsaḥ pratyādiṣṭa-ābharaṇa-rucayaḥ candrahāsa-vraṇa-aṅkaiḥ..2.13..
मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै- स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः॥२.१४॥
मत्वा देवम् धनपति-सखम् यत्र साक्षात् वसन्तम् प्रायस् चापम् न वहति भयात् मन्मथः षट्पद-ज्यम् । स भ्रू-भङ्ग-प्रहित-नयनैः कामि-लक्ष्येषु अमोघैः तस्य आरम्भः चतुर-वनिता-विभ्रमैः एव सिद्धः॥२।१४॥
matvā devam dhanapati-sakham yatra sākṣāt vasantam prāyas cāpam na vahati bhayāt manmathaḥ ṣaṭpada-jyam . sa bhrū-bhaṅga-prahita-nayanaiḥ kāmi-lakṣyeṣu amoghaiḥ tasya ārambhaḥ catura-vanitā-vibhramaiḥ eva siddhaḥ..2.14..
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः॥२.१५॥
तत्र आगारम् धनपति-गृहान् उत्तरेण अस्मदीयम् दूरात् लक्ष्यम् सुरपति-धनुः-चारुणा तोरणेन । यस्य उपान्ते कृतक-तनयः कान्तया वर्धितः मे हस्त-प्राप्य-स्तबक-नमितः बाल-मन्दार-वृक्षः॥२।१५॥
tatra āgāram dhanapati-gṛhān uttareṇa asmadīyam dūrāt lakṣyam surapati-dhanuḥ-cāruṇā toraṇena . yasya upānte kṛtaka-tanayaḥ kāntayā vardhitaḥ me hasta-prāpya-stabaka-namitaḥ bāla-mandāra-vṛkṣaḥ..2.15..
वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥२.१६॥
वापी च अस्मिन् मरकत-शिला-बद्ध-सोपान-मार्गा हैमैः छन्ना विकच-कमलैः स्निग्ध-वैदूर्य-नालैः । यस्याः तोये कृत-वसतयः मानसम् संनिकृष्टम् न आध्यास्यन्ति व्यपगत-शुचः त्वाम् अपि प्रेक्ष्य हंसाः॥२।१६॥
vāpī ca asmin marakata-śilā-baddha-sopāna-mārgā haimaiḥ channā vikaca-kamalaiḥ snigdha-vaidūrya-nālaiḥ . yasyāḥ toye kṛta-vasatayaḥ mānasam saṃnikṛṣṭam na ādhyāsyanti vyapagata-śucaḥ tvām api prekṣya haṃsāḥ..2.16..
तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि॥२.१७॥
तस्याः तीरे रचित-शिखरः पेशलैः इन्द्रनीलैः क्रीडा-शैलः कनककदली-वेष्टन-प्रेक्षणीयः । मद्-गेहिन्याः प्रियः इति सखे चेतसा कातरेण प्रेक्ष्य उपान्त-स्फुरित-तडितम् त्वाम् तम् एव स्मरामि॥२।१७॥
tasyāḥ tīre racita-śikharaḥ peśalaiḥ indranīlaiḥ krīḍā-śailaḥ kanakakadalī-veṣṭana-prekṣaṇīyaḥ . mad-gehinyāḥ priyaḥ iti sakhe cetasā kātareṇa prekṣya upānta-sphurita-taḍitam tvām tam eva smarāmi..2.17..
रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरुवकवृतेर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः॥२.१८॥
रक्त-अशोकः चल-किसलयः केसरः च अत्र कान्तः प्रत्यासन्नौ कुरुवक-वृतेः माधवी-मण्डपस्य । एकः सख्याः तव सह मया वाम-पाद-अभिलाषी काङ्क्षति अन्यः वदन-मदिराम् दोहद-छद्मना अस्याः॥२।१८॥
rakta-aśokaḥ cala-kisalayaḥ kesaraḥ ca atra kāntaḥ pratyāsannau kuruvaka-vṛteḥ mādhavī-maṇḍapasya . ekaḥ sakhyāḥ tava saha mayā vāma-pāda-abhilāṣī kāṅkṣati anyaḥ vadana-madirām dohada-chadmanā asyāḥ..2.18..
तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि- र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः॥२.१९॥
तद्-मध्ये च स्फटिक-फलका काञ्चनी वास-यष्टिः मूले बद्धा मणिभिः अनतिप्रौढ-वंश-प्रकाशैः । तालैः शिञ्जा-वलय-सुभगैः नर्तितः कान्तया मे याम् अध्यास्ते दिवस-विगमे नीलकण्ठः सुहृद् वः॥२।१९॥
tad-madhye ca sphaṭika-phalakā kāñcanī vāsa-yaṣṭiḥ mūle baddhā maṇibhiḥ anatiprauḍha-vaṃśa-prakāśaiḥ . tālaiḥ śiñjā-valaya-subhagaiḥ nartitaḥ kāntayā me yām adhyāste divasa-vigame nīlakaṇṭhaḥ suhṛd vaḥ..2.19..
एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायां भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥२.२०॥
एभिः साधो हृदय-निहितैः लक्षणैः लक्षयेथाः द्वार-उपान्ते लिखित-वपुषौ शङ्ख-पद्मौ च दृष्ट्वा । क्षाम-छायाम् भवनम् अधुना मद्-वियोगेन नूनम् सूर्य-अपाये न खलु कमलम् पुष्यति स्वाम् अभिख्याम्॥२।२०॥
ebhiḥ sādho hṛdaya-nihitaiḥ lakṣaṇaiḥ lakṣayethāḥ dvāra-upānte likhita-vapuṣau śaṅkha-padmau ca dṛṣṭvā . kṣāma-chāyām bhavanam adhunā mad-viyogena nūnam sūrya-apāye na khalu kamalam puṣyati svām abhikhyām..2.20..
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः । अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्॥२.२१॥
गत्वा सद्यस् कलभ-तनु-ताम् शीघ्र-संपात-हेतोः क्रीडा-शैले प्रथम-कथिते रम्य-सानौ निषण्णः । अर्हसि अन्तर् भवन-पतिताम् कर्तुम् अल्प-अल्प-भासम् खद्योत-आली-विलसित-निभाम् विद्युत्-उन्मेष-दृष्टिम्॥२।२१॥
gatvā sadyas kalabha-tanu-tām śīghra-saṃpāta-hetoḥ krīḍā-śaile prathama-kathite ramya-sānau niṣaṇṇaḥ . arhasi antar bhavana-patitām kartum alpa-alpa-bhāsam khadyota-ālī-vilasita-nibhām vidyut-unmeṣa-dṛṣṭim..2.21..
तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः॥२.२२॥
तन्वी श्यामा शिखरि-दशना पक्व-बिम्ब-अधर-उष्ठी मध्ये क्षामा चकित-हरिणी-प्रेक्षणा निम्न-नाभिः । श्रोणी-भारात् अलस-गमना स्तोक-नम्रा स्तनाभ्याम् या तत्र स्यात् युवति-विषये सृष्टिः आद्या इव धातुः॥२।२२॥
tanvī śyāmā śikhari-daśanā pakva-bimba-adhara-uṣṭhī madhye kṣāmā cakita-hariṇī-prekṣaṇā nimna-nābhiḥ . śroṇī-bhārāt alasa-gamanā stoka-namrā stanābhyām yā tatra syāt yuvati-viṣaye sṛṣṭiḥ ādyā iva dhātuḥ..2.22..
तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्॥२.२३॥
ताम् जानीथाः परिमित-कथाम् जीवितम् मे द्वितीयम् दूरीभूते मयि सहचरे चक्रवाकीम् इव एकाम् । गाढ-उत्कण्ठाम् गुरुषु दिवसेषु एषु गच्छत्सु बालाम् जाताम् मन्ये शिशिर-मथिताम् पद्मिनीम् वा अन्य-रूपाम्॥२।२३॥
tām jānīthāḥ parimita-kathām jīvitam me dvitīyam dūrībhūte mayi sahacare cakravākīm iva ekām . gāḍha-utkaṇṭhām guruṣu divaseṣu eṣu gacchatsu bālām jātām manye śiśira-mathitām padminīm vā anya-rūpām..2.23..
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति॥२.२४॥
नूनम् तस्याः प्रबल-रुदित-उच्छून-नेत्रम् प्रियायाः निःश्वासानाम् अशिशिर-तया भिन्नवर्ण-अधर-उष्ठम् । हस्त-न्यस्तम् मुखम् असकल-व्यक्ति लम्ब-अलक-त्वात् इन्दोः दैन्यम् त्वद्-अनुसरण-क्लिष्ट-कान्तेः बिभर्ति॥२।२४॥
nūnam tasyāḥ prabala-rudita-ucchūna-netram priyāyāḥ niḥśvāsānām aśiśira-tayā bhinnavarṇa-adhara-uṣṭham . hasta-nyastam mukham asakala-vyakti lamba-alaka-tvāt indoḥ dainyam tvad-anusaraṇa-kliṣṭa-kānteḥ bibharti..2.24..
आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति॥२.२५॥
आलोके ते निपतति पुरा सा बलि-व्याकुला वा मद्-सादृश्यम् विरह-तनु वा भाव-गम्यम् लिखन्ती । पृच्छन्ती वा मधुर-वचनाम् सारिकाम् पञ्जर-स्थाम् कच्चित् भर्तुः स्मरसि रसिके त्वम् हि तस्य प्रिया इति॥२।२५॥
āloke te nipatati purā sā bali-vyākulā vā mad-sādṛśyam viraha-tanu vā bhāva-gamyam likhantī . pṛcchantī vā madhura-vacanām sārikām pañjara-sthām kaccit bhartuḥ smarasi rasike tvam hi tasya priyā iti..2.25..
उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचिद् भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती॥२.२६॥
उत्सङ्गे वा मलिन-वसने सौम्य निक्षिप्य वीणाम् मद्-गोत्र-अङ्कम् विरचित-पदम् गेयम् उद्गातु-कामा । तन्त्रीम् आर्द्राम् नयन-सलिलैः सारयित्वा कथंचिद् भूयस् भूयस् स्वयम् अपि कृताम् मूर्च्छनाम् विस्मरन्ती॥२।२६॥
utsaṅge vā malina-vasane saumya nikṣipya vīṇām mad-gotra-aṅkam viracita-padam geyam udgātu-kāmā . tantrīm ārdrām nayana-salilaiḥ sārayitvā kathaṃcid bhūyas bhūyas svayam api kṛtām mūrcchanām vismarantī..2.26..
शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । सम्भोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः॥२.२७॥
शेषान् मासान् विरह-दिवस-स्थापितस्य अवधेः वा विन्यस्यन्ती भुवि गणनया देहली-दत्त-पुष्पैः । सम्भोगम् वा हृदय-निहित-आरम्भम् आस्वादयन्ती प्रायेण एते रमण-विरहेषु अङ्गनानाम् विनोदाः॥२।२७॥
śeṣān māsān viraha-divasa-sthāpitasya avadheḥ vā vinyasyantī bhuvi gaṇanayā dehalī-datta-puṣpaiḥ . sambhogam vā hṛdaya-nihita-ārambham āsvādayantī prāyeṇa ete ramaṇa-viraheṣu aṅganānām vinodāḥ..2.27..
सव्यापारामहनि न तथा पीडयेद् विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्सन्देशः सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः॥२.२८॥
स व्यापाराम् अहनि न तथा पीडयेत् विप्रयोगः शङ्के रात्रौ गुरुतर-शुचम् निर्विनोदाम् सखीम् ते । मद्-सन्देशः सुखयितुम् अलम् पश्य साध्वीम् निशीथे ताम् उन्निद्राम् अवनि-शयनाम् सौध-वातायन-स्थः॥२।२८॥
sa vyāpārām ahani na tathā pīḍayet viprayogaḥ śaṅke rātrau gurutara-śucam nirvinodām sakhīm te . mad-sandeśaḥ sukhayitum alam paśya sādhvīm niśīthe tām unnidrām avani-śayanām saudha-vātāyana-sthaḥ..2.28..
आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम्॥२.२९॥
आधि-क्षामाम् विरह-शयने संनिषण्ण-एक-पार्श्वाम् प्राचीमूले तनुम् इव कला-मात्र-शेषाम् हिमांशोः । नीता रात्रिः क्षणः इव मया सार्धम् इच्छा-रतैः या ताम् एव उष्णैः विरह-महतीम् अश्रुभिः यापयन्तीम्॥२।२९॥
ādhi-kṣāmām viraha-śayane saṃniṣaṇṇa-eka-pārśvām prācīmūle tanum iva kalā-mātra-śeṣām himāṃśoḥ . nītā rātriḥ kṣaṇaḥ iva mayā sārdham icchā-rataiḥ yā tām eva uṣṇaiḥ viraha-mahatīm aśrubhiḥ yāpayantīm..2.29..
पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव । चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनी नप्रबुद्धां नसुप्ताम्॥२.३०॥
पादान् इन्दोः अमृत-शिशिरान् जाल-मार्ग-प्रविष्टान् पूर्व-प्रीत्या गतम् अभिमुखम् संनिवृत्तम् तथा एव । चक्षुः खेदात् सलिल-गुरुभिः पक्ष्मभिः छादयन्तीम् स अभ्रे अह्नि इव स्थल-कमलिनी न प्रबुद्धाम् न सुप्ताम्॥२।३०॥
pādān indoḥ amṛta-śiśirān jāla-mārga-praviṣṭān pūrva-prītyā gatam abhimukham saṃnivṛttam tathā eva . cakṣuḥ khedāt salila-gurubhiḥ pakṣmabhiḥ chādayantīm sa abhre ahni iva sthala-kamalinī na prabuddhām na suptām..2.30..
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् । मत्संभोगः कथमुपनमेत्स्वप्नजोऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम्॥२.३१॥
निःश्वासेन अधर-किसलय-क्लेशिना विक्षिपन्तीम् शुद्ध-स्नानात् परुषम् अलकम् नूनम् आगण्ड लम्बम् । मद्-संभोगः कथम् उपनमेत् स्वप्न-जः अपि इति निद्राम् आकाङ्क्षन्तीम् नयन-सलिल-उत्पीड-रुद्ध-अवकाशम्॥२।३१॥
niḥśvāsena adhara-kisalaya-kleśinā vikṣipantīm śuddha-snānāt paruṣam alakam nūnam āgaṇḍa lambam . mad-saṃbhogaḥ katham upanamet svapna-jaḥ api iti nidrām ākāṅkṣantīm nayana-salila-utpīḍa-ruddha-avakāśam..2.31..
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् । स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात् कठिनविषमामेकवेणीं करेण॥२.३२॥
आद्ये बद्धा विरह-दिवसे या शिखा दाम हित्वा शापस्य अन्ते विगलित-शुचा ताम् मया उद्वेष्टनीयाम् । स्पर्श-क्लिष्टाम् अयमित-नखेन असकृत् सारयन्तीम् गण्ड-आभोगात् कठिन-विषमाम् एक-वेणीम् करेण॥२।३२॥
ādye baddhā viraha-divase yā śikhā dāma hitvā śāpasya ante vigalita-śucā tām mayā udveṣṭanīyām . sparśa-kliṣṭām ayamita-nakhena asakṛt sārayantīm gaṇḍa-ābhogāt kaṭhina-viṣamām eka-veṇīm kareṇa..2.32..
सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रम् । त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा॥२.३३॥
सा संन्यस्त-आभरणम् अबला पेशलम् धारयन्ती शय्या-उत्सङ्गे निहितम् असकृत् दुःख-दुःखेन गात्रम् । त्वाम् अपि अस्रम् नव-जल-मयम् मोचयिष्यति अवश्यम् प्रायस् सर्वः भवति करुणा-वृत्तिः आर्द्र-अन्तरात्मा॥२।३३॥
sā saṃnyasta-ābharaṇam abalā peśalam dhārayantī śayyā-utsaṅge nihitam asakṛt duḥkha-duḥkhena gātram . tvām api asram nava-jala-mayam mocayiṣyati avaśyam prāyas sarvaḥ bhavati karuṇā-vṛttiḥ ārdra-antarātmā..2.33..
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्माद् इत्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत्॥२.३४॥
जाने सख्याः तव मयि मनः संभृत-स्नेहम् अस्मात् इत्थंभूताम् प्रथम-विरहे ताम् अहम् तर्कयामि । वाचालम् माम् न खलु सुभगंमन्य-भावः करोति प्रत्यक्षम् ते निखिलम् अचिरात् भ्रातर् उक्तम् मया यत्॥२।३४॥
jāne sakhyāḥ tava mayi manaḥ saṃbhṛta-sneham asmāt itthaṃbhūtām prathama-virahe tām aham tarkayāmi . vācālam mām na khalu subhagaṃmanya-bhāvaḥ karoti pratyakṣam te nikhilam acirāt bhrātar uktam mayā yat..2.34..
रुद्धापाङ्गप्रसरम अलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाचलकुवलयश्रीतुलामेष्यतीति॥२.३५॥
रुद्ध-अपाङ्ग-प्रसरम् अलकैः अञ्जन-स्नेह-शून्यम् प्रत्यादेशात् अपि च मधुनः विस्मृत-भ्रू-विलासम् । त्वयि आसन्ने नयनम् उपरि स्पन्दि शङ्के मृग-अक्ष्या मीन-क्षोभ-अचल-कुवलय-श्री-तुलाम् एष्यति इति॥२।३५॥
ruddha-apāṅga-prasaram alakaiḥ añjana-sneha-śūnyam pratyādeśāt api ca madhunaḥ vismṛta-bhrū-vilāsam . tvayi āsanne nayanam upari spandi śaṅke mṛga-akṣyā mīna-kṣobha-acala-kuvalaya-śrī-tulām eṣyati iti..2.35..
वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै- र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । सम्भोगान्ते मम समुचितो हस्तसंवाहमानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम्॥२.३६॥
वामः च अस्याः कररुह-पदैः मुच्यमानः मदीयैः मुक्ता-जालम् चिर-परिचितम् त्याजितः दैव-गत्या । सम्भोग-अन्ते मम समुचितः यास्यति ऊरुः सरस-कदली-स्तम्भ-गौरः चल-त्वम्॥२।३६॥
vāmaḥ ca asyāḥ kararuha-padaiḥ mucyamānaḥ madīyaiḥ muktā-jālam cira-paricitam tyājitaḥ daiva-gatyā . sambhoga-ante mama samucitaḥ yāsyati ūruḥ sarasa-kadalī-stambha-gauraḥ cala-tvam..2.36..
तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम्॥२.३७॥
तस्मिन् काले जलद यदि सा लब्ध-निद्रा-सुखा स्यात् अन्वास्य एनाम् स्तनित-विमुखः याम-मात्रम् सहस्व । मा भूत् अस्याः प्रणयिनि मयि स्वप्न-लब्धे कथञ्चिद् कण्ठ-च्युत-भुज-लता-ग्रन्थि गाढ-उपगूढम्॥२।३७॥
tasmin kāle jalada yadi sā labdha-nidrā-sukhā syāt anvāsya enām stanita-vimukhaḥ yāma-mātram sahasva . mā bhūt asyāḥ praṇayini mayi svapna-labdhe kathañcid kaṇṭha-cyuta-bhuja-latā-granthi gāḍha-upagūḍham..2.37..
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः॥२.३८॥
ताम् उत्थाप्य स्व-जल-कणिका-शीतलेन अनिलेन प्रत्याश्वस्ताम् समम् अभिनवैः जालकैः मालतीनाम् । विद्युत्-गर्भः स्तिमित-नयनाम् त्वद्-सनाथे गवाक्षे वक्तुम् धीरः स्तनित-वचनैः मानिनीम् प्रक्रमेथाः॥२।३८॥
tām utthāpya sva-jala-kaṇikā-śītalena anilena pratyāśvastām samam abhinavaiḥ jālakaiḥ mālatīnām . vidyut-garbhaḥ stimita-nayanām tvad-sanāthe gavākṣe vaktum dhīraḥ stanita-vacanaiḥ māninīm prakramethāḥ..2.38..
भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्सन्देशैर्हृदयनिहितैरागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि॥२.३९॥
भर्तुः मित्रम् प्रियम् अविधवे विद्धि माम् अम्बुवाहम् तद्-सन्देशैः हृदय-निहितैः आगतम् त्वद्-समीपम् । यः वृन्दानि त्वरयति पथि श्रम्यताम् प्रोषितानाम् मन्द्र-स्निग्धैः ध्वनिभिः अबला-वेणि-मोक्ष-उत्सुकानि॥२।३९॥
bhartuḥ mitram priyam avidhave viddhi mām ambuvāham tad-sandeśaiḥ hṛdaya-nihitaiḥ āgatam tvad-samīpam . yaḥ vṛndāni tvarayati pathi śramyatām proṣitānām mandra-snigdhaiḥ dhvanibhiḥ abalā-veṇi-mokṣa-utsukāni..2.39..
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव । श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः सङ्गमात् किंचिदूनः॥२.४०॥
इति आख्याते पवनतनयम् मैथिली इव उन्मुखी सा त्वाम् उत्कण्ठा-उच्छ्वसित-हृदया वीक्ष्य सम्भाव्य च एव । श्रोष्यति अस्मात् परम् अवहिता सौम्य सीमन्तिनीनाम् कान्त-उदन्तः सुहृद् उपनतः सङ्गमात् किंचिद् ऊनः॥२।४०॥
iti ākhyāte pavanatanayam maithilī iva unmukhī sā tvām utkaṇṭhā-ucchvasita-hṛdayā vīkṣya sambhāvya ca eva . śroṣyati asmāt param avahitā saumya sīmantinīnām kānta-udantaḥ suhṛd upanataḥ saṅgamāt kiṃcid ūnaḥ..2.40..
तामायुष्मन् मम च वचनादात्मनश्चोपकर्तुं ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव॥२.४१॥
ताम् आयुष्मत् मम च वचनात् आत्मनः च उपकर्तुम् ब्रूयाः एवम् तव सहचरः रामगिरि-आश्रम-स्थः । अव्यापन्नः कुशलम् अबले पृच्छति त्वाम् वियुक्तः पूर्व-आभाष्यम् सुलभ-विपदाम् प्राणिनाम् एतत् एव॥२।४१॥
tām āyuṣmat mama ca vacanāt ātmanaḥ ca upakartum brūyāḥ evam tava sahacaraḥ rāmagiri-āśrama-sthaḥ . avyāpannaḥ kuśalam abale pṛcchati tvām viyuktaḥ pūrva-ābhāṣyam sulabha-vipadām prāṇinām etat eva..2.41..
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥२.४२॥
अङ्गेन अङ्गम् प्रतनु तनुना गाढ-तप्तेन तप्तम् स अस्रेण अश्रु-द्रुतम् अविरत-उत्कण्ठम् उत्कण्ठितेन । उष्ण-उच्छ्वासम् समधिकतर-उच्छ्वासिना दूर-वर्ती संकल्पैः तैः विशति विधिना वैरिणा रुद्ध-मार्गः॥२।४२॥
aṅgena aṅgam pratanu tanunā gāḍha-taptena taptam sa asreṇa aśru-drutam avirata-utkaṇṭham utkaṇṭhitena . uṣṇa-ucchvāsam samadhikatara-ucchvāsinā dūra-vartī saṃkalpaiḥ taiḥ viśati vidhinā vairiṇā ruddha-mārgaḥ..2.42..
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट- स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह॥२.४३॥
शब्द-आख्येयम् यत् अपि किल ते यः सखीनाम् पुरस्तात् कर्णे लोलः कथयितुम् अभूत् आनन-स्पर्श-लोभात् । सः अतिक्रान्तः श्रवण-विषयम् लोचनाभ्याम् अदृष्ट-स्त्वाम् उत्कण्ठा-विरचित-पदम् मद्-मुखेन इदम् आह॥२।४३॥
śabda-ākhyeyam yat api kila te yaḥ sakhīnām purastāt karṇe lolaḥ kathayitum abhūt ānana-sparśa-lobhāt . saḥ atikrāntaḥ śravaṇa-viṣayam locanābhyām adṛṣṭa-stvām utkaṇṭhā-viracita-padam mad-mukhena idam āha..2.43..
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन् क्वचिदपि न ते चण्डि सादृश्यमस्ति॥२.४४॥
श्यामासु अङ्गम् चकित-हरिणी-प्रेक्षणे दृष्टि-पातम् वक्त्र-छायाम् शशिनि शिखिनाम् बर्ह-भारेषु केशान् । उत्पश्यामि प्रतनुषु नदी-वीचिषु भ्रू-विलासान् हन्त एकस्मिन् क्वचिद् अपि न ते चण्डि सादृश्यम् अस्ति॥२।४४॥
śyāmāsu aṅgam cakita-hariṇī-prekṣaṇe dṛṣṭi-pātam vaktra-chāyām śaśini śikhinām barha-bhāreṣu keśān . utpaśyāmi pratanuṣu nadī-vīciṣu bhrū-vilāsān hanta ekasmin kvacid api na te caṇḍi sādṛśyam asti..2.44..
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥२.४५॥
त्वाम् आलिख्य प्रणय-कुपिताम् धातु-रागैः शिलायाम् आत्मानम् ते चरण-पतितम् यावत् इच्छामि कर्तुम् । अस्रैः तावत् मुहुर् उपचितैः दृष्टिः आलुप्यते मे क्रूरः तस्मिन् अपि न सहते सङ्गमम् नौ कृतान्तः॥२।४५॥
tvām ālikhya praṇaya-kupitām dhātu-rāgaiḥ śilāyām ātmānam te caraṇa-patitam yāvat icchāmi kartum . asraiḥ tāvat muhur upacitaiḥ dṛṣṭiḥ ālupyate me krūraḥ tasmin api na sahate saṅgamam nau kṛtāntaḥ..2.45..
धारासिक्तस्थलसुरभिणस्स्त्वन्मुखस्यास्य बाले दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति । घर्मान्तेऽस्मिन् विगणय कथं वासराणि व्रजेयु- र्दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि॥२.४५अ॥
धारा-सिक्त-स्थल-सुरभिणः त्वद्-मुखस्य अस्य बाले दूरीभूतम् प्रतनुम् अपि माम् पञ्चबाणः क्षिणोति । घर्म-अन्ते अस्मिन् विगणय कथम् वासराणि व्रजेयुः संसक्त-प्रवितत-घन-व्यस्त-सूर्य-आतपानि॥२।४५अ॥
dhārā-sikta-sthala-surabhiṇaḥ tvad-mukhasya asya bāle dūrībhūtam pratanum api mām pañcabāṇaḥ kṣiṇoti . gharma-ante asmin vigaṇaya katham vāsarāṇi vrajeyuḥ saṃsakta-pravitata-ghana-vyasta-sūrya-ātapāni..2.45a..
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो- र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥२.४६॥
माम् आकाश-प्रणिहित-भुजम् निर्दय-आश्लेष-हेतोः लब्धायाः ते कथम् अपि मया स्वप्न-सन्दर्शनेषु । पश्यन्तीनाम् न खलु बहुशस् न स्थलीदेवतानाम् मुक्ता-स्थूलाः तरु-किसलयेषु अश्रु-लेशाः पतन्ति॥२।४६॥
mām ākāśa-praṇihita-bhujam nirdaya-āśleṣa-hetoḥ labdhāyāḥ te katham api mayā svapna-sandarśaneṣu . paśyantīnām na khalu bahuśas na sthalīdevatānām muktā-sthūlāḥ taru-kisalayeṣu aśru-leśāḥ patanti..2.46..
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥२.४७॥
भित्त्वा सद्यस् किसलय-पुटान् देवदारु-द्रुमाणाम् ये तद्-क्षीर-स्रुति-सुरभयः दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रि-वाताः पूर्वम् स्पृष्टम् यदि किल भवेत् अङ्गम् एभिः तव इति॥२।४७॥
bhittvā sadyas kisalaya-puṭān devadāru-drumāṇām ye tad-kṣīra-sruti-surabhayaḥ dakṣiṇena pravṛttāḥ . āliṅgyante guṇavati mayā te tuṣārādri-vātāḥ pūrvam spṛṣṭam yadi kila bhavet aṅgam ebhiḥ tava iti..2.47..
संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः॥२.४८॥
संक्षिप्येत क्षणः इव कथम् दीर्घ-यामा त्रियामा सर्व-अवस्थासु अहर् अपि कथम् मन्द-मन्द-आतपम् स्यात् । इत्थम् चेतः चटुल-नयने दुर्लभ-प्रार्थनम् मे गाढ-उष्माभिः कृतम् अशरणम् त्वद्-वियोग-व्यथाभिः॥२।४८॥
saṃkṣipyeta kṣaṇaḥ iva katham dīrgha-yāmā triyāmā sarva-avasthāsu ahar api katham manda-manda-ātapam syāt . ittham cetaḥ caṭula-nayane durlabha-prārthanam me gāḍha-uṣmābhiḥ kṛtam aśaraṇam tvad-viyoga-vyathābhiḥ..2.48..
नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥२.४९॥
ननु आत्मानम् बहु विगणयन् आत्मना एव अवलम्बे तत् कल्याणि त्वम् अपि नितराम् मा गमः कातर-त्वम् । कस्य अत्यन्तम् सुखम् उपनतम् दुःखम् एकान्ततः वा नीचैस् गच्छति उपरि च दशा चक्र-नेमि-क्रमेण॥२।४९॥
nanu ātmānam bahu vigaṇayan ātmanā eva avalambe tat kalyāṇi tvam api nitarām mā gamaḥ kātara-tvam . kasya atyantam sukham upanatam duḥkham ekāntataḥ vā nīcais gacchati upari ca daśā cakra-nemi-krameṇa..2.49..
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान् मासान् गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥२.५०॥
शाप-अन्तः मे भुजग-शयनात् उत्थिते शार्ङ्गपाणौ शेषान् मासान् गमय चतुरः लोचने मीलयित्वा । पश्चात् आवाम् विरह-गुणितम् तम् तम् आत्म-अभिलाषम् निर्वेक्ष्यावः परिणत-शरद्-चन्द्रिकासु क्षपासु॥२।५०॥
śāpa-antaḥ me bhujaga-śayanāt utthite śārṅgapāṇau śeṣān māsān gamaya caturaḥ locane mīlayitvā . paścāt āvām viraha-guṇitam tam tam ātma-abhilāṣam nirvekṣyāvaḥ pariṇata-śarad-candrikāsu kṣapāsu..2.50..
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा । सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति॥२.५१॥
भूयस् च आह त्वम् अपि शयने कण्ठ-लग्ना पुरा मे निद्राम् गत्वा किम् अपि रुदती स स्वरम् विप्रबुद्धा । स अन्तर्हासम् कथितम् असकृत् पृच्छतः च त्वया मे दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वम् मया इति॥२।५१॥
bhūyas ca āha tvam api śayane kaṇṭha-lagnā purā me nidrām gatvā kim api rudatī sa svaram viprabuddhā . sa antarhāsam kathitam asakṛt pṛcchataḥ ca tvayā me dṛṣṭaḥ svapne kitava ramayan kām api tvam mayā iti..2.51..
एतस्मान्मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति॥२.५२॥
एतस्मात् माम् कुशलिनम् अभिज्ञान-दानात् विदित्वा मा कौलीनात् असित-नयने मयि अविश्वासिनी भूः । स्नेहान् आहुः किम् अपि विरहे ध्वंसिनः ते तु अभोगात् इष्टे वस्तुनि उपचित-रसाः प्रेम-राशीभवन्ति॥२।५२॥
etasmāt mām kuśalinam abhijñāna-dānāt viditvā mā kaulīnāt asita-nayane mayi aviśvāsinī bhūḥ . snehān āhuḥ kim api virahe dhvaṃsinaḥ te tu abhogāt iṣṭe vastuni upacita-rasāḥ prema-rāśībhavanti..2.52..
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः । साभिज्ञानप्रहितकुशलैस्ततद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥२.५३॥
आश्वास्य एवम् प्रथम-विरह-उदग्र-शोकाम् सखीम् ते शैलात् आशु त्रिनयन-वृष-उत्खात-कूटात् निवृत्तः । स अभिज्ञान-प्रहित-कुशलैः त-तद्-वचोभिः मम अपि प्रातर् कुन्द-प्रसव-शिथिलम् जीवितम् धारयेथाः॥२।५३॥
āśvāsya evam prathama-viraha-udagra-śokām sakhīm te śailāt āśu trinayana-vṛṣa-utkhāta-kūṭāt nivṛttaḥ . sa abhijñāna-prahita-kuśalaiḥ ta-tad-vacobhiḥ mama api prātar kunda-prasava-śithilam jīvitam dhārayethāḥ..2.53..
कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव॥२.५४॥
कच्चित् सौम्य व्यवसितम् इदम् बन्धु-कृत्यम् त्वया मे प्रत्यादेशात् न खलु भवतः धीर-ताम् कल्पयामि । निःशब्दः अपि प्रदिशसि जलम् याचितः चातकेभ्यः प्रत्युक्तम् हि प्रणयिषु सताम् ईप्सित-अर्थ-क्रिया एव॥२।५४॥
kaccit saumya vyavasitam idam bandhu-kṛtyam tvayā me pratyādeśāt na khalu bhavataḥ dhīra-tām kalpayāmi . niḥśabdaḥ api pradiśasi jalam yācitaḥ cātakebhyaḥ pratyuktam hi praṇayiṣu satām īpsita-artha-kriyā eva..2.54..
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या । इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री- र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥२.५५॥
एतत् कृत्वा प्रियम् अनुचित-प्रार्थना-वर्तिनः मे सौहार्दात् वा विधुरः इति वा मयि अनुक्रोश-बुद्ध्या । इष्टान् देशान् जलद विचर प्रावृषा संभृत-श्रीः मा भूत् एवम् क्षणम् अपि च ते विद्युता विप्रयोगः॥२।५५॥
etat kṛtvā priyam anucita-prārthanā-vartinaḥ me sauhārdāt vā vidhuraḥ iti vā mayi anukrośa-buddhyā . iṣṭān deśān jalada vicara prāvṛṣā saṃbhṛta-śrīḥ mā bhūt evam kṣaṇam api ca te vidyutā viprayogaḥ..2.55..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In