| |
|

This overlay will guide you through the buttons:

श्रीगणेशाय नमः
श्री-गणेशाय नमः
śrī-gaṇeśāya namaḥ
ॐ नमः शिवाय॥
ओम् नमः शिवाय॥
om namaḥ śivāya..
अथ षष्ठी कैलाससंहिता प्रारभ्यते ॥
अथ षष्ठी कैलास-संहिता प्रारभ्यते ॥
atha ṣaṣṭhī kailāsa-saṃhitā prārabhyate ..
नमः शिवाय साम्बाय सगणाय ससूनवे॥प्रधानपुरुषेशाय सर्गस्थितत्यन्तहेतवे ॥ १ ॥
नमः शिवाय स अम्बाय स गणाय स सूनवे॥प्रधान-पुरुष-ईशाय सर्ग-स्थित-त्यन्त-हेतवे ॥ १ ॥
namaḥ śivāya sa ambāya sa gaṇāya sa sūnave..pradhāna-puruṣa-īśāya sarga-sthita-tyanta-hetave .. 1 ..
ऋषय ऊचुः ।।
श्रुतोमासंहिता रम्या नानाख्यानसमन्विता ॥ कैलाससंहिताम्ब्रूहि शिवतत्त्वविवर्द्धिनीम्॥२ ॥
श्रुत-उमा-संहिता रम्या नाना आख्यान-समन्विता ॥ कैलास-संहिताम् ब्रूहि शिवतत्त्व-विवर्द्धिनीम्॥२ ॥
śruta-umā-saṃhitā ramyā nānā ākhyāna-samanvitā .. kailāsa-saṃhitām brūhi śivatattva-vivarddhinīm..2 ..
व्यास उवाच ।। ।।
शृणुत प्रीतितो वत्साः कैलासाख्यां हि संहिताम् ॥ शिवतत्त्वपरान्दिव्यां वक्ष्ये वः स्नेहतः पराम्॥३॥
शृणुत प्रीतितः वत्साः कैलास-आख्याम् हि संहिताम् ॥ शिव-तत्त्व-परान् दिव्याम् वक्ष्ये वः स्नेहतः पराम्॥३॥
śṛṇuta prītitaḥ vatsāḥ kailāsa-ākhyām hi saṃhitām .. śiva-tattva-parān divyām vakṣye vaḥ snehataḥ parām..3..
हिमवच्छिखरे पूर्व्वं तपस्यन्तो महौजसः ॥ वाराणसीङ्गन्तुकामा मुनयः कृतसम्विदः ॥ ४ ॥
हिमवत्-शिखरे पूर्व्वम् तपस्यन्तः महा-ओजसः ॥ वाराणसीम् गन्तु-कामाः मुनयः कृत-सम्विदः ॥ ४ ॥
himavat-śikhare pūrvvam tapasyantaḥ mahā-ojasaḥ .. vārāṇasīm gantu-kāmāḥ munayaḥ kṛta-samvidaḥ .. 4 ..
निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ॥ स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम्॥५॥
निर्गत्य तस्मात् सम्प्राप्य गिरेः काशीम् समाहिताः ॥ स्नातव्यम् एव इति तदा ददृशुः मणिकर्णिकाम्॥५॥
nirgatya tasmāt samprāpya gireḥ kāśīm samāhitāḥ .. snātavyam eva iti tadā dadṛśuḥ maṇikarṇikām..5..
तत्र स्नात्वा सुसन्तप्य देवादीनथ जाह्नवीम् ॥ दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम् ॥ ६ ॥
तत्र स्नात्वा सु सन्तप्य देव-आदीन् अथ जाह्नवीम् ॥ दृष्ट्वा स्नात्वा मुनि-ईशाः ते विश्वेशम् त्रिदशेश्वरम् ॥ ६ ॥
tatra snātvā su santapya deva-ādīn atha jāhnavīm .. dṛṣṭvā snātvā muni-īśāḥ te viśveśam tridaśeśvaram .. 6 ..
नमस्कृत्याथ सम्पूज्य भक्त्या परमयान्विताः ॥ शतरुद्रादिभिः स्तुत्वा स्तुतिभिर्व्वेदपारगाः ॥ ७॥
नमस्कृत्य अथ सम्पूज्य भक्त्या परमया अन्विताः ॥ शत-रुद्र-आदिभिः स्तुत्वा स्तुतिभिः व्वेदपारगाः ॥ ७॥
namaskṛtya atha sampūjya bhaktyā paramayā anvitāḥ .. śata-rudra-ādibhiḥ stutvā stutibhiḥ vvedapāragāḥ .. 7..
आत्मानं मेनिरे सर्वे कृतार्था वयमित्युत ॥ शिवप्रीत्या सुपूर्णार्थाश्शिवभक्तिरतास्सदा॥८॥
आत्मानम् मेनिरे सर्वे कृतार्थाः वयम् इति उत ॥ शिव-प्रीत्या सु पूर्ण-अर्थाः शिव-भक्ति-रताः सदा॥८॥
ātmānam menire sarve kṛtārthāḥ vayam iti uta .. śiva-prītyā su pūrṇa-arthāḥ śiva-bhakti-ratāḥ sadā..8..
तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ॥ गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे॥९॥
तस्मिन् अवसरे सूतम् पञ्च-क्रोश-दिदृक्षया ॥ गत्वा समागतम् वीक्ष्य मुदा ते तम् ववन्दिरे॥९॥
tasmin avasare sūtam pañca-krośa-didṛkṣayā .. gatvā samāgatam vīkṣya mudā te tam vavandire..9..
सोपि विश्वेश्वरं साक्षाद्देवदेवमुमापतिम् ॥ नमस्कृत्याथ तैस्साकम्मुक्तिमण्डपमाविशत् ॥ 6.1.१०॥
सः उपि विश्वेश्वरम् साक्षात् देवदेवम् उमापतिम् ॥ नमस्कृत्य अथ तैः साकम्मुक्ति-मण्डपम् आविशत् ॥ ६।१।१०॥
saḥ upi viśveśvaram sākṣāt devadevam umāpatim .. namaskṛtya atha taiḥ sākammukti-maṇḍapam āviśat .. 6.1.10..
तत्रासीनम्महात्मानं सूतम्पौराणिकोत्तमम् ॥ अर्घ्यादिभिस्तदा सर्व्वे मुनयस्समुपाचरन् ॥ ११॥
तत्र आसीनम् महात्मानम् सूतम् पौराणिक-उत्तमम् ॥ अर्घ्य-आदिभिः तदा सर्व्वे मुनयः समुपाचरन् ॥ ११॥
tatra āsīnam mahātmānam sūtam paurāṇika-uttamam .. arghya-ādibhiḥ tadā sarvve munayaḥ samupācaran .. 11..
ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ॥ पप्रच्छ कुशलान्तेपि प्रोचुः कुशलमात्मनः॥१२॥
ततस् सूतः प्रसन्न-आत्मा मुनीन् आलोक्य सुव्रतान् ॥ पप्रच्छ कुशल-अन्ते पि प्रोचुः कुशलम् आत्मनः॥१२॥
tatas sūtaḥ prasanna-ātmā munīn ālokya suvratān .. papraccha kuśala-ante pi procuḥ kuśalam ātmanaḥ..12..
ते तु संहृष्टहृदयं ज्ञात्वा तं वै मुनीश्वराः ॥ प्रणवार्थावगत्यर्थमूचुः प्रास्ताविकं वचः ॥ १३॥
ते तु संहृष्ट-हृदयम् ज्ञात्वा तम् वै मुनि-ईश्वराः ॥ प्रणव-अर्थ-अवगति-अर्थम् ऊचुः प्रास्ताविकम् वचः ॥ १३॥
te tu saṃhṛṣṭa-hṛdayam jñātvā tam vai muni-īśvarāḥ .. praṇava-artha-avagati-artham ūcuḥ prāstāvikam vacaḥ .. 13..
मुनय ऊचुः ।।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम॥धन्यस्त्वं शिवभक्तो हि सर्वविज्ञान सागरः ॥ १४॥
व्यास-शिष्य महाभाग सूत पौराणिक-उत्तम॥धन्यः त्वम् शिव-भक्तः हि सर्व-विज्ञान सागरः ॥ १४॥
vyāsa-śiṣya mahābhāga sūta paurāṇika-uttama..dhanyaḥ tvam śiva-bhaktaḥ hi sarva-vijñāna sāgaraḥ .. 14..
भवन्तमेव भगवान्व्यासस्सर्वजगद्गुरुः ॥ अभिषिच्य पुराणानां गुरुत्वे समयोजयत्॥१५॥
भवन्तम् एव भगवान् व्यासः सर्व-जगत्-गुरुः ॥ अभिषिच्य पुराणानाम् गुरु-त्वे समयोजयत्॥१५॥
bhavantam eva bhagavān vyāsaḥ sarva-jagat-guruḥ .. abhiṣicya purāṇānām guru-tve samayojayat..15..
तस्मात्पौराणिकी विद्या भवतो हृदि संस्थिता॥पुराणानि च सर्वाणि वेदार्थम्प्रवदन्ति हि ॥ १६॥
तस्मात् पौराणिकी विद्या भवतः हृदि संस्थिता॥पुराणानि च सर्वाणि वेद-अर्थम् प्रवदन्ति हि ॥ १६॥
tasmāt paurāṇikī vidyā bhavataḥ hṛdi saṃsthitā..purāṇāni ca sarvāṇi veda-artham pravadanti hi .. 16..
वेदाः प्रणवसम्भूताः प्रणवार्थो महेश्वरः॥अतो महेश्वरस्थानं त्वयि धिष्ण्यम्प्रतिष्ठितम् ॥ १७॥
वेदाः प्रणव-सम्भूताः प्रणव-अर्थः महेश्वरः॥अतस् महेश्वर-स्थानम् त्वयि धिष्ण्यम् प्रतिष्ठितम् ॥ १७॥
vedāḥ praṇava-sambhūtāḥ praṇava-arthaḥ maheśvaraḥ..atas maheśvara-sthānam tvayi dhiṣṇyam pratiṣṭhitam .. 17..
त्वन्मुखाब्जपरिस्यन्दन्मकरंदे मनोहरम् ॥ प्रणवार्थामृतं पीत्वा भविष्यामो गतज्वराः ॥ १८ ॥
त्वद्-मुख-अब्ज-परिस्यन्दत्-मकरंदे मनोहरम् ॥ प्रणव-अर्थ-अमृतम् पीत्वा भविष्यामः गत-ज्वराः ॥ १८ ॥
tvad-mukha-abja-parisyandat-makaraṃde manoharam .. praṇava-artha-amṛtam pītvā bhaviṣyāmaḥ gata-jvarāḥ .. 18 ..
विशेषतो गुरुस्त्वं हि नान्योऽस्माकं महामते॥परं भावं महेशस्य परया कृपया वद॥१९॥
विशेषतः गुरुः त्वम् हि न अन्यः अस्माकम् महामते॥परम् भावम् महेशस्य परया कृपया वद॥१९॥
viśeṣataḥ guruḥ tvam hi na anyaḥ asmākam mahāmate..param bhāvam maheśasya parayā kṛpayā vada..19..
इति तेषां वचः श्रुत्वा सूतो व्यासप्रियस्सुधीः॥गणेशं षण्मुखं साक्षान्महेशानं महेश्वरीम् ॥ 6.1.२०॥
इति तेषाम् वचः श्रुत्वा सूतः व्यास-प्रियः सुधीः॥गणेशम् षण्मुखम् साक्षात् महेशानम् महेश्वरीम् ॥ ६।१।२०॥
iti teṣām vacaḥ śrutvā sūtaḥ vyāsa-priyaḥ sudhīḥ..gaṇeśam ṣaṇmukham sākṣāt maheśānam maheśvarīm .. 6.1.20..
शिलादतनयं देवं नन्दीशं सुयशापतिम् ॥ सनत्कुमारं व्यासं च प्रणिपत्येदमब्रवीत्॥२१॥
शिलाद-तनयम् देवम् नन्दीशम् सुयशा-पतिम् ॥ सनत्कुमारम् व्यासम् च प्रणिपत्य इदम् अब्रवीत्॥२१॥
śilāda-tanayam devam nandīśam suyaśā-patim .. sanatkumāram vyāsam ca praṇipatya idam abravīt..21..
सूत उवाच।।
साधुसाधु महाभागा मुनयः क्षीणकल्मषाः॥मतिर्दृढतरा जाता दुर्लभा सापि दुष्कृताम्॥२२॥
साधु-साधु महाभागाः मुनयः क्षीण-कल्मषाः॥मतिः दृढतरा जाता दुर्लभा सा अपि दुष्कृताम्॥२२॥
sādhu-sādhu mahābhāgāḥ munayaḥ kṣīṇa-kalmaṣāḥ..matiḥ dṛḍhatarā jātā durlabhā sā api duṣkṛtām..22..
पाराशर्येण गुरुणा नैमिषारण्यवासिनाम्॥मुनीनामुपदिष्टं यद्वक्ष्ये तन्मुनिपुंगवाः॥२३॥
पाराशर्येण गुरुणा नैमिष-अरण्य-वासिनाम्॥मुनीनाम् उपदिष्टम् यत् वक्ष्ये तत् मुनि-पुंगवाः॥२३॥
pārāśaryeṇa guruṇā naimiṣa-araṇya-vāsinām..munīnām upadiṣṭam yat vakṣye tat muni-puṃgavāḥ..23..
यस्य श्रवणमात्रेण शिवभक्तिर्भवेन्नृणाम्॥सावधाना भवन्तोद्य शृण्वन्तु परया मुदा॥२४॥
यस्य श्रवण-मात्रेण शिव-भक्तिः भवेत् नृणाम्॥स अवधानाः भवन्तः उद्य शृण्वन्तु परया मुदा॥२४॥
yasya śravaṇa-mātreṇa śiva-bhaktiḥ bhavet nṛṇām..sa avadhānāḥ bhavantaḥ udya śṛṇvantu parayā mudā..24..
स्वारोचिषेन्तरे पूर्वं तपस्यंतो दृढव्रताः॥ऋषयो नैमिषारण्ये सर्वसिद्धनिषेविते॥२५॥
स्वारोचिष-इन्तरे पूर्वम् तपस्यंतः दृढ-व्रताः॥ऋषयः नैमिष-अरण्ये सर्व-सिद्ध-निषेविते॥२५॥
svārociṣa-intare pūrvam tapasyaṃtaḥ dṛḍha-vratāḥ..ṛṣayaḥ naimiṣa-araṇye sarva-siddha-niṣevite..25..
दीर्घसत्रं वितन्वन्तो रुद्रमध्वरनायकम् ॥ प्रीणयन्तः परं भावमैश्वर्य्यं ज्ञातुमिच्छवः॥२६॥
दीर्घ-सत्रम् वितन्वन्तः रुद्रम् अध्वर-नायकम् ॥ प्रीणयन्तः परम् भावम् ऐश्वर्य्यम् ज्ञातुम् इच्छवः॥२६॥
dīrgha-satram vitanvantaḥ rudram adhvara-nāyakam .. prīṇayantaḥ param bhāvam aiśvaryyam jñātum icchavaḥ..26..
निवसन्ति स्म ते सर्वे व्यासदर्शनकांक्षिणः ॥ शिवभक्तिरता नित्यं भस्मरुद्राक्षधारिणः ॥ २७ ॥
निवसन्ति स्म ते सर्वे व्यास-दर्शन-कांक्षिणः ॥ शिव-भक्ति-रताः नित्यम् भस्म-रुद्र-अक्ष-धारिणः ॥ २७ ॥
nivasanti sma te sarve vyāsa-darśana-kāṃkṣiṇaḥ .. śiva-bhakti-ratāḥ nityam bhasma-rudra-akṣa-dhāriṇaḥ .. 27 ..
तेषां भावं समालोक्य भगवान्बादरायणः ॥ प्रादुर्बभूव सर्वात्मा पराशरतपःफलम् ॥ २८ ॥
तेषाम् भावम् समालोक्य भगवान् बादरायणः ॥ प्रादुर्बभूव सर्व-आत्मा पराशर-तपः-फलम् ॥ २८ ॥
teṣām bhāvam samālokya bhagavān bādarāyaṇaḥ .. prādurbabhūva sarva-ātmā parāśara-tapaḥ-phalam .. 28 ..
तं दृष्ट्वा मुनयस्सर्वे प्रहृष्टवदनेक्षणाः ॥ अभ्युत्थानादिभिस्सर्वैरुपचारैरुपाचरन् ॥ २९ ॥
तम् दृष्ट्वा मुनयः सर्वे प्रहृष्ट-वदन-ईक्षणाः ॥ अभ्युत्थान-आदिभिः सर्वैः उपचारैः उपाचरन् ॥ २९ ॥
tam dṛṣṭvā munayaḥ sarve prahṛṣṭa-vadana-īkṣaṇāḥ .. abhyutthāna-ādibhiḥ sarvaiḥ upacāraiḥ upācaran .. 29 ..
सत्कृत्य प्रददुस्तस्मै सौवर्णं विष्टरं शुभम् ॥ सुखोपविष्टः स तदा तस्मिन्सौवर्णविष्टरे ॥ प्राह गंभीरया वाचा पाराशर्य्यो महामुनिः ॥ 6.1.३० ॥
सत्कृत्य प्रददुः तस्मै सौवर्णम् विष्टरम् शुभम् ॥ सुख-उपविष्टः स तदा तस्मिन् सौवर्ण-विष्टरे ॥ प्राह गंभीरया वाचा पाराशर्य्यः महा-मुनिः ॥ ६।१।३० ॥
satkṛtya pradaduḥ tasmai sauvarṇam viṣṭaram śubham .. sukha-upaviṣṭaḥ sa tadā tasmin sauvarṇa-viṣṭare .. prāha gaṃbhīrayā vācā pārāśaryyaḥ mahā-muniḥ .. 6.1.30 ..
व्यास उवाच ।।
कुशलं किं नु युष्माकम्प्रब्रूतास्मिन्महामखे ॥ अर्चितं किं नु युष्माभिस्सम्यगध्वरनायकः ॥ ३१॥
कुशलम् किम् नु युष्माकम् प्रब्रूत अस्मिन् महा-मखे ॥ अर्चितम् किम् नु युष्माभिः सम्यक् अध्वर-नायकः ॥ ३१॥
kuśalam kim nu yuṣmākam prabrūta asmin mahā-makhe .. arcitam kim nu yuṣmābhiḥ samyak adhvara-nāyakaḥ .. 31..
किमर्थमत्र युष्माभिरध्वरे परमेश्वरः॥स्वर्चितो भक्तिभावेन साम्बस्संसारमोचकः ॥ ३२॥
किमर्थम् अत्र युष्माभिः अध्वरे परमेश्वरः॥सु अर्चितः भक्ति-भावेन स अम्बः संसार-मोचकः ॥ ३२॥
kimartham atra yuṣmābhiḥ adhvare parameśvaraḥ..su arcitaḥ bhakti-bhāvena sa ambaḥ saṃsāra-mocakaḥ .. 32..
युष्मत्प्रवृत्तिर्मे भाति शुश्रूषा पूर्वमेव हि ॥ परभावे महेशस्य मुक्तिहेतोश्शिवस्य च ॥ ३३ ॥
युष्मद्-प्रवृत्तिः मे भाति शुश्रूषा पूर्वम् एव हि ॥ पर-भावे महेशस्य मुक्ति-हेतोः शिवस्य च ॥ ३३ ॥
yuṣmad-pravṛttiḥ me bhāti śuśrūṣā pūrvam eva hi .. para-bhāve maheśasya mukti-hetoḥ śivasya ca .. 33 ..
एवमुक्ता मुनीन्द्रेण व्यासेनामिततेजसा ॥ मुनयो नैमिषारण्यवासिनः परमौजसः ॥ ३४ ॥
एवम् उक्ताः मुनि-इन्द्रेण व्यासेन अमित-तेजसा ॥ मुनयः नैमिष-अरण्य-वासिनः परम-ओजसः ॥ ३४ ॥
evam uktāḥ muni-indreṇa vyāsena amita-tejasā .. munayaḥ naimiṣa-araṇya-vāsinaḥ parama-ojasaḥ .. 34 ..
प्रणिपत्य महात्मानं पाराशशर्य्यं महामुनिम् ॥ शिवानुरागसंहृष्टमानसं च तमब्रुवन् ॥ ३५॥
प्रणिपत्य महात्मानम् पाराशशर्यम् महा-मुनिम् ॥ शिव-अनुराग-संहृष्ट-मानसम् च तम् अब्रुवन् ॥ ३५॥
praṇipatya mahātmānam pārāśaśaryam mahā-munim .. śiva-anurāga-saṃhṛṣṭa-mānasam ca tam abruvan .. 35..
भगवन्मुनिशार्दूल साक्षान्नारायणांशज॥कृपानिधे महाप्राज्ञ सर्वविद्याधिप प्रभो ॥ ३६ ॥
भगवत् मुनि-शार्दूल साक्षात् नारायण-अंश-ज॥कृपा-निधे महा-प्राज्ञ सर्व-विद्या-अधिप प्रभो ॥ ३६ ॥
bhagavat muni-śārdūla sākṣāt nārāyaṇa-aṃśa-ja..kṛpā-nidhe mahā-prājña sarva-vidyā-adhipa prabho .. 36 ..
मुनय ऊचुः ।। ।।
त्वं हि सर्वजगद्भर्तुर्महा देवस्य वेधसः ॥ साम्बस्य सगणस्यास्य प्रसादानां निधिस्स्वयम् ॥ ३७ ॥
त्वम् हि सर्व-जगत्-भर्तुः महा देवस्य वेधसः ॥ स अम्बस्य स गणस्य अस्य प्रसादानाम् निधिः स्वयम् ॥ ३७ ॥
tvam hi sarva-jagat-bhartuḥ mahā devasya vedhasaḥ .. sa ambasya sa gaṇasya asya prasādānām nidhiḥ svayam .. 37 ..
त्वत्पादाब्जरसास्वादमधुपायितमानसाः ॥ कृतार्था वयमद्यैव भवत्पादाब्जदर्शनात् ॥ ३८ ॥
त्वद्-पाद-अब्ज-रस-आस्वाद-मधु-पायित-मानसाः ॥ कृतार्थाः वयम् अद्य एव भवत्-पाद-अब्ज-दर्शनात् ॥ ३८ ॥
tvad-pāda-abja-rasa-āsvāda-madhu-pāyita-mānasāḥ .. kṛtārthāḥ vayam adya eva bhavat-pāda-abja-darśanāt .. 38 ..
त्वदीयचरणाम्भोजदर्शनं खलु पापिनाम् ॥ दुर्लभं लब्धमस्माभिस्त्वस्मात्सुकृतिनो वयम् ॥ ३९ ॥
त्वदीय-चरण-अम्भोज-दर्शनम् खलु पापिनाम् ॥ दुर्लभम् लब्धम् अस्माभिः तु अस्मात् सुकृतिनः वयम् ॥ ३९ ॥
tvadīya-caraṇa-ambhoja-darśanam khalu pāpinām .. durlabham labdham asmābhiḥ tu asmāt sukṛtinaḥ vayam .. 39 ..
अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ॥ दीर्घसत्रान्वितास्सर्वे प्रणवार्थप्रकाशकाः ॥ 6.1.४० ॥
अस्मिन् देशे महाभाग नैमिष-अरण्य-संज्ञके ॥ दीर्घ-सत्र-अन्विताः सर्वे प्रणव-अर्थ-प्रकाशकाः ॥ ६।१।४० ॥
asmin deśe mahābhāga naimiṣa-araṇya-saṃjñake .. dīrgha-satra-anvitāḥ sarve praṇava-artha-prakāśakāḥ .. 6.1.40 ..
श्रोतव्यः परमेशान इति कृत्वा विनिश्चिताः ॥ परस्परं चिन्तयन्तः परं भावं महेशितु ॥ ४१ ॥
श्रोतव्यः परमेशानः इति कृत्वा विनिश्चिताः ॥ परस्परम् चिन्तयन्तः परम् भावम् ॥ ४१ ॥
śrotavyaḥ parameśānaḥ iti kṛtvā viniścitāḥ .. parasparam cintayantaḥ param bhāvam .. 41 ..
अज्ञातवन्त एवैते वयं तस्माद्भवान्प्रभो ॥ छेत्तुमर्हति तान्सर्वान्संशयानल्पचेतसाम् ॥ ४२ ॥
अ ज्ञातवन्तः एव एते वयम् तस्मात् भवान् प्रभो ॥ छेत्तुम् अर्हति तान् सर्वान् संशयान् अल्प-चेतसाम् ॥ ४२ ॥
a jñātavantaḥ eva ete vayam tasmāt bhavān prabho .. chettum arhati tān sarvān saṃśayān alpa-cetasām .. 42 ..
त्वदन्यः संशयस्यास्यच्छेत्ता न हि जगत्त्रये ॥ तस्मादपारगंभीरव्यामोहाब्धौ निमज्जतः ॥ ४३॥
त्वत् अन्यः संशयस्य आस्य-छेत्ता न हि जगत्त्रये ॥ तस्मात् अपार-गंभीर-व्यामोह-अब्धौ निमज्जतः ॥ ४३॥
tvat anyaḥ saṃśayasya āsya-chettā na hi jagattraye .. tasmāt apāra-gaṃbhīra-vyāmoha-abdhau nimajjataḥ .. 43..
तारयस्व शिवज्ञानपोतेनास्मान्दयानिधे॥शिवसद्भक्तितत्त्वार्थं ज्ञातुं श्रद्धालवो वयम् ॥ ४४ ॥
तारयस्व शिव-ज्ञान-पोतेन अस्मान् दयानिधे॥शिव-सत्-भक्ति-तत्त्व-अर्थम् ज्ञातुम् श्रद्धालवः वयम् ॥ ४४ ॥
tārayasva śiva-jñāna-potena asmān dayānidhe..śiva-sat-bhakti-tattva-artham jñātum śraddhālavaḥ vayam .. 44 ..
एवमभ्यर्थितस्त मुनिभिर्वेदपारगैः ॥ सर्ववेदार्थविन्मुख्यः शुकतातो महामुनिः ॥ वेदान्तसारसर्वस्वं प्रणवं परमेश्वरम् ॥ ४५ ॥
एवम् अभ्यर्थितः त मुनिभिः वेदपारगैः ॥ सर्व-वेद-अर्थ-विद् मुख्यः शुक-तातः महा-मुनिः ॥ वेदान्त-सार-सर्वस्वम् प्रणवम् परमेश्वरम् ॥ ४५ ॥
evam abhyarthitaḥ ta munibhiḥ vedapāragaiḥ .. sarva-veda-artha-vid mukhyaḥ śuka-tātaḥ mahā-muniḥ .. vedānta-sāra-sarvasvam praṇavam parameśvaram .. 45 ..
ध्यात्वा हृत्कर्णिकामध्ये साम्बं संसारमोचकम् ॥ प्रहृष्टमानसो भूत्वा व्याजहार महामुनि ॥ ४६ ॥
ध्यात्वा हृद्-कर्णिका-मध्ये स अम्बम् संसार-मोचकम् ॥ प्रहृष्ट-मानसः भूत्वा व्याजहार महा-मुनि ॥ ४६ ॥
dhyātvā hṛd-karṇikā-madhye sa ambam saṃsāra-mocakam .. prahṛṣṭa-mānasaḥ bhūtvā vyājahāra mahā-muni .. 46 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां व्यासशौनकादिसंवादो नाम प्रथमोऽध्यायः। । १ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् व्यासशौनकादिसंवादः नाम प्रथमः अध्यायः। । १ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām vyāsaśaunakādisaṃvādaḥ nāma prathamaḥ adhyāyaḥ. . 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In