| |
|

This overlay will guide you through the buttons:

गतेऽथ सूते मुनयस्सुविस्मिता विचिन्त्य चान्योन्यमिदन्तु विस्मृतम् ॥ यद्वामदेवस्य मतन्मुनीश्वर प्रत्यूचितन्तत्खलु नष्टमद्य नः ॥ १ ॥
गते अथ सूते मुनयः सु विस्मिताः विचिन्त्य च अन्योन्यम् इदम् तु विस्मृतम् ॥ यत् वामदेवस्य मतत् मुनि-ईश्वर प्रत्यूचितम् तत् खलु नष्टम् अद्य नः ॥ १ ॥
gate atha sūte munayaḥ su vismitāḥ vicintya ca anyonyam idam tu vismṛtam .. yat vāmadevasya matat muni-īśvara pratyūcitam tat khalu naṣṭam adya naḥ .. 1 ..
कदानुभूयान्मुनिवर्यदर्शनम्भावाब्धिदुःखौघहरम्परं हि तत् ॥ महेश्वराराधनपुण्यतोऽधुना मुनीश्वरस्सत्वरमाविरस्तु नः॥२॥
कदा अनुभूयात् मुनि-वर्य-दर्शनम् भाव-अब्धि-दुःख-ओघ-हरम्परम् हि तत् ॥ महेश्वर-आराधन-पुण्यतः अधुना मुनि-ईश्वरः सत्वरम् आविरस्तु नः॥२॥
kadā anubhūyāt muni-varya-darśanam bhāva-abdhi-duḥkha-ogha-haramparam hi tat .. maheśvara-ārādhana-puṇyataḥ adhunā muni-īśvaraḥ satvaram āvirastu naḥ..2..
इति चिन्तासमाविष्टा मुनयो मुनिपुंगवम्॥व्यासं संपूज्य हृत्पद्मे तस्थुस्तद्दशर्नोत्सुकाः॥३॥
इति चिन्ता-समाविष्टाः मुनयः मुनि-पुंगवम्॥व्यासम् संपूज्य हृद्-पद्मे तस्थुः तत् दशर् न उत्सुकाः॥३॥
iti cintā-samāviṣṭāḥ munayaḥ muni-puṃgavam..vyāsam saṃpūjya hṛd-padme tasthuḥ tat daśar na utsukāḥ..3..
सम्वत्सरान्ते स पुनः काशीम्प्राप महामुनिः ॥ शिवभक्तिरतो ज्ञानी पुराणार्थप्रकाशकः ॥ ४॥
सम्वत्सर-अन्ते स पुनर् काशीम् प्राप महा-मुनिः ॥ ॥ ४॥
samvatsara-ante sa punar kāśīm prāpa mahā-muniḥ .. .. 4..
तन्दृष्ट्वा सूतमायान्तम्मुनयो हृष्टचेतसः ॥ अभ्युत्थानासनार्घ्यादिपूजया समपूजयन् ॥ ५॥
तत् दृष्ट्वा सूतम् आयान्तम् मुनयः हृष्ट-चेतसः ॥ अभ्युत्थान-आसन-अर्घ्य-आदि-पूजया समपूजयन् ॥ ५॥
tat dṛṣṭvā sūtam āyāntam munayaḥ hṛṣṭa-cetasaḥ .. abhyutthāna-āsana-arghya-ādi-pūjayā samapūjayan .. 5..
सोपि तान्मुनिशार्दूलानभिनन्द्य स्मितोदरम् ॥ प्रीत्या स्नात्वा जाह्नवीये जले परमपावने ॥ ६ ॥
सः उपि तान् मुनि-शार्दूलान् अभिनन्द्य स्मित-उदरम् ॥ प्रीत्या स्नात्वा जाह्नवीये जले परम-पावने ॥ ६ ॥
saḥ upi tān muni-śārdūlān abhinandya smita-udaram .. prītyā snātvā jāhnavīye jale parama-pāvane .. 6 ..
ऋषीन्संतर्प्य च सुरान्पितॄंश्च तिलतण्डुलैः ॥ तीरमागत्य सम्प्रोक्ष्य वाससी परिधाय च ॥ ७ ॥
ऋषीन् संतर्प्य च सुरान् पितॄन् च तिल-तण्डुलैः ॥ तीरम् आगत्य सम्प्रोक्ष्य वाससी परिधाय च ॥ ७ ॥
ṛṣīn saṃtarpya ca surān pitṝn ca tila-taṇḍulaiḥ .. tīram āgatya samprokṣya vāsasī paridhāya ca .. 7 ..
द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ॥ उद्धूलनादिक्रमतो विधार्य्याऽथ मुनीश्वरः ॥ ८॥
द्विस् आचम्य समादाय भस्म सद्य-आदि-मंत्रतः ॥ उद्धूलन-आदि-क्रमतः विधार्या अथ मुनि-ईश्वरः ॥ ८॥
dvis ācamya samādāya bhasma sadya-ādi-maṃtrataḥ .. uddhūlana-ādi-kramataḥ vidhāryā atha muni-īśvaraḥ .. 8..
रुद्राक्षमालाभरणः कृतनित्यक्रियस्सुधी ॥ यथोक्तांगेषु विधिना त्रिपुण्ड्रं रचति स्म ह ॥ ९॥
॥ यथा उक्त-अंगेषु विधिना त्रिपुण्ड्रम् रचति स्म ह ॥ ९॥
.. yathā ukta-aṃgeṣu vidhinā tripuṇḍram racati sma ha .. 9..
विश्वेश्वरमुमाकान्तं ससुतं सगणाधिपम् ॥ पूजयामास सद्भक्त्या ह्यस्तौ न्नत्वा मुहुर्मुहुः ॥ 6.10.१० ॥
विश्वेश्वरम् उमाकान्तम् स सुतम् स गणाधिपम् ॥ पूजयामास सत्-भक्त्या ह्यस् तौ न्नत्वा मुहुर् मुहुर् ॥ ६।१०।१० ॥
viśveśvaram umākāntam sa sutam sa gaṇādhipam .. pūjayāmāsa sat-bhaktyā hyas tau nnatvā muhur muhur .. 6.10.10 ..
कालभैरवनाथं च संपूज्याथ विधानतः ॥ प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पंचधा ॥ ११॥
कालभैरव-नाथम् च संपूज्य अथ विधानतः ॥ प्रदक्षिणीकृत्य पुनर् त्रेधा नत्वा च पंचधा ॥ ११॥
kālabhairava-nātham ca saṃpūjya atha vidhānataḥ .. pradakṣiṇīkṛtya punar tredhā natvā ca paṃcadhā .. 11..
पुनः प्रदक्षिणी कृत्य प्रणम्य भुवि दण्डवत् ॥ तुष्टाव परया स्तुत्या संस्मरंस्तत्पदाम्बुजम् ॥ १२ ॥
पुनर् प्रदक्षिणी कृत्य प्रणम्य भुवि दण्ड-वत् ॥ तुष्टाव परया स्तुत्या संस्मरन् तद्-पद-अम्बुजम् ॥ १२ ॥
punar pradakṣiṇī kṛtya praṇamya bhuvi daṇḍa-vat .. tuṣṭāva parayā stutyā saṃsmaran tad-pada-ambujam .. 12 ..
श्रीमत्पंचाक्षरीम्विद्यामष्टोत्तरसहस्रकम्॥संजप्य पुरतः स्थित्वा क्षमापय्य महेश्वरम् ॥ १३॥
श्रीमत्-पंचाक्षरीम् विद्याम् अष्टोत्तरसहस्रकम्॥संजप्य पुरतस् स्थित्वा क्षमापय्य महेश्वरम् ॥ १३॥
śrīmat-paṃcākṣarīm vidyām aṣṭottarasahasrakam..saṃjapya puratas sthitvā kṣamāpayya maheśvaram .. 13..
चण्डेशं सम्प्रपूज्याऽथ मुक्तिमण्डपमध्यतः ॥ निर्द्दिष्टमासनं भेजे मुनिभिर्वेदपारगैः ॥ १४ ॥
चण्डेशम् सम्प्रपूज्य अथ मुक्ति-मण्डप-मध्यतस् ॥ निर्द्दिष्टम् आसनम् भेजे मुनिभिः वेदपारगैः ॥ १४ ॥
caṇḍeśam samprapūjya atha mukti-maṇḍapa-madhyatas .. nirddiṣṭam āsanam bheje munibhiḥ vedapāragaiḥ .. 14 ..
एवं स्थितेषु सर्वेषु नमस्कृत्य समंत्रकम् ॥ अथ प्राह मुनीन्द्राणां भाववृद्धिकरम्वच ॥ १५ ॥
एवम् स्थितेषु सर्वेषु नमस्कृत्य स मंत्रकम् ॥ अथ प्राह मुनि-इन्द्राणाम् भाव-वृद्धि-करम् वच ॥ १५ ॥
evam sthiteṣu sarveṣu namaskṛtya sa maṃtrakam .. atha prāha muni-indrāṇām bhāva-vṛddhi-karam vaca .. 15 ..
सूत कृतः ।।
धन्या यूयं महाप्राज्ञा मुनयश्शंसितव्रताः ॥ भवदर्थमिह प्राप्तोऽहन्तद्वृत्तमिदं शृणु ॥ १६॥
धन्याः यूयम् महा-प्राज्ञाः मुनयः शंसित-व्रताः ॥ भवत्-अर्थम् इह प्राप्तः अहम् तद्-वृत्तम् इदम् शृणु ॥ १६॥
dhanyāḥ yūyam mahā-prājñāḥ munayaḥ śaṃsita-vratāḥ .. bhavat-artham iha prāptaḥ aham tad-vṛttam idam śṛṇu .. 16..
यदाहमुपदिश्याथ भवतः प्रणवार्थकम्॥गतस्तीर्थाटनार्थाय तद्वृत्तान्तम्ब्रवीमि वः ॥ १७ ॥
यदा अहम् उपदिश्य अथ भवतः प्रणव-अर्थकम्॥गतः तीर्थ-अटन-अर्थाय तद्-वृत्तान्तम् ब्रवीमि वः ॥ १७ ॥
yadā aham upadiśya atha bhavataḥ praṇava-arthakam..gataḥ tīrtha-aṭana-arthāya tad-vṛttāntam bravīmi vaḥ .. 17 ..
इतो निर्गत्य सम्प्राप्य तीरं दक्षपयोनिधेः ॥ स्नात्वा सम्पूज्य विधिवद्देवीं कन्यामयीं शिवाम् ॥ पुनरागत्य विप्रेन्द्रास्सुवर्णमुखरीतटम् ॥ १८ ॥
इतस् निर्गत्य सम्प्राप्य तीरम् दक्ष-पयोनिधेः ॥ स्नात्वा सम्पूज्य विधिवत् देवीम् कन्या-मयीम् शिवाम् ॥ पुनर् आगत्य विप्र-इन्द्राः सुवर्णमुखरी-तटम् ॥ १८ ॥
itas nirgatya samprāpya tīram dakṣa-payonidheḥ .. snātvā sampūjya vidhivat devīm kanyā-mayīm śivām .. punar āgatya vipra-indrāḥ suvarṇamukharī-taṭam .. 18 ..
श्रीकालहस्तिशैलाख्यनगरे परमाद्भुते ॥ सुवर्णमुखरीतोये स्नात्वा देवानृषीनपि ॥ १९ ॥
श्रीकाल-हस्तिशैल-आख्य-नगरे परम-अद्भुते ॥ सुवर्णमुखरी-तोये स्नात्वा देवान् ऋषीन् अपि ॥ १९ ॥
śrīkāla-hastiśaila-ākhya-nagare parama-adbhute .. suvarṇamukharī-toye snātvā devān ṛṣīn api .. 19 ..
सन्तर्प्य विधिवद्भक्त्या समुदं गिरिशं स्मरन् ॥ समर्च्य कालहस्तीशं चन्द्रकांतसमप्रभम् ॥ 6.10.२० ॥
सन्तर्प्य विधिवत् भक्त्या स मुदम् गिरिशम् स्मरन् ॥ समर्च्य कालहस्ति-ईशम् चन्द्रकान्त-सम-प्रभम् ॥ ६।१०।२० ॥
santarpya vidhivat bhaktyā sa mudam giriśam smaran .. samarcya kālahasti-īśam candrakānta-sama-prabham .. 6.10.20 ..
पश्चिमाभिमुखम्पंचशिरसम्परमाद्भुतम् ॥ सकृद्दर्शनमात्रेण सर्वाघक्षयकारणम् ॥ २१ ॥
पश्चिम-अभिमुखम् पंचशिरसम् परम-अद्भुतम् ॥ सकृत् दर्शन-मात्रेण सर्व-अघ-क्षय-कारणम् ॥ २१ ॥
paścima-abhimukham paṃcaśirasam parama-adbhutam .. sakṛt darśana-mātreṇa sarva-agha-kṣaya-kāraṇam .. 21 ..
सर्वसिद्धिप्रदम्भुक्तिमुक्तिदन्त्रिगुणेश्वरम् ॥ ततश्च परया भक्त्या तस्य दक्षिणगां शिवाम् ॥ २२ ॥
॥ ततस् च परया भक्त्या तस्य दक्षिण-गाम् शिवाम् ॥ २२ ॥
.. tatas ca parayā bhaktyā tasya dakṣiṇa-gām śivām .. 22 ..
ज्ञानप्रसूनकलिकां समर्च्य हि जगत्प्रसूम् ॥ श्रीमत्पंचाक्षरीं विद्यामष्टोत्तरसहस्रकम् ॥ २३ ॥
ज्ञान-प्रसून-कलिकाम् समर्च्य हि जगत्प्रसूम् ॥ श्रीमत्-पंचाक्षरीम् विद्याम् अष्टोत्तरसहस्रकम् ॥ २३ ॥
jñāna-prasūna-kalikām samarcya hi jagatprasūm .. śrīmat-paṃcākṣarīm vidyām aṣṭottarasahasrakam .. 23 ..
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा नत्वा मुहुर्मुहुः ॥ २४॥
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा नत्वा मुहुर् मुहुर् ॥ २४॥
japtvā pradakṣiṇīkṛtya stutvā natvā muhur muhur .. 24..
ततः प्रदक्षिणीकृत्य गिरिम्प्रत्यहमादरात् ॥ आमोदतीव मनसि प्रत्यहन्नियमास्थितः॥२५॥
ततस् प्रदक्षिणीकृत्य गिरिम् प्रत्यहम् आदरात् ॥ मनसि प्रत्यहन् नियम-आस्थितः॥२५॥
tatas pradakṣiṇīkṛtya girim pratyaham ādarāt .. manasi pratyahan niyama-āsthitaḥ..25..
अनयञ्चतुरो मासानेवन्तत्र मुनीश्वराः ॥ ज्ञानप्रसूनकलिका महादेव्याः प्रसादतः ॥ २६ ॥
अनयन् चतुरः मासान् एवम् तत्र मुनि-ईश्वराः ॥ ज्ञान-प्रसून-कलिका महादेव्याः प्रसादतः ॥ २६ ॥
anayan caturaḥ māsān evam tatra muni-īśvarāḥ .. jñāna-prasūna-kalikā mahādevyāḥ prasādataḥ .. 26 ..
एकदा तु समास्तीर्य चैलाजिनकुशोत्तरम् ॥ आसनम्परमन्तस्मिन्स्थित्वा रुद्धेन्द्रियो मुनि ॥ २७ ॥
एकदा तु समास्तीर्य चैल-अजिन-कुश-उत्तरम् ॥ आसनम् परमन् तस्मिन् स्थित्वा रुद्ध-इन्द्रियः मुनि ॥ २७ ॥
ekadā tu samāstīrya caila-ajina-kuśa-uttaram .. āsanam paraman tasmin sthitvā ruddha-indriyaḥ muni .. 27 ..
समाधिमास्थाय सदा परमानंदचिद्धनः ॥ परिपूर्णश्शिवोस्मीति निर्व्यग्रहृदयोऽभवम् ॥ २८ ॥
समाधिम् आस्थाय सदा परम-आनंद-चित्-धनः ॥ परिपूर्णः शिवः अस्मि इति निर्व्यग्र-हृदयः अभवम् ॥ २८ ॥
samādhim āsthāya sadā parama-ānaṃda-cit-dhanaḥ .. paripūrṇaḥ śivaḥ asmi iti nirvyagra-hṛdayaḥ abhavam .. 28 ..
एतस्मिन्नेव समये सद्गुरुः करुणानिधिः ॥ नीलजीमूतसङ्काशो विद्युत्पिङ्गजटाधरः ॥ २९ ॥
एतस्मिन् एव समये सत्-गुरुः करुणा-निधिः ॥ ॥ २९ ॥
etasmin eva samaye sat-guruḥ karuṇā-nidhiḥ .. .. 29 ..
प्रांशुः कमण्डलूद्दण्डकृष्णाजिनधरस्स्वयम् ॥ भस्मावदातसर्वाङ्गस्सर्वलक्षणलक्षितः ॥ 6.10.३०॥
प्रांशुः कमण्डलु-उद्दण्ड-कृष्ण-अजिन-धरः स्वयम् ॥ भस्म-अवदात-सर्व-अङ्गः सर्व-लक्षण-लक्षितः ॥ ६।१०।३०॥
prāṃśuḥ kamaṇḍalu-uddaṇḍa-kṛṣṇa-ajina-dharaḥ svayam .. bhasma-avadāta-sarva-aṅgaḥ sarva-lakṣaṇa-lakṣitaḥ .. 6.10.30..
त्रिपुण्ड्रविलसद्भालो रुद्राक्षालङ्कृताकृतिः ॥ पद्मपत्रारुणायामविस्तीर्णनयनद्वयः ॥ ३१॥
tripuṇḍravilasadbhālo rudrākṣālaṅkṛtākṛtiḥ || padmapatrāruṇāyāmavistīrṇanayanadvayaḥ || 31||
tripuṇḍravilasadbhālo rudrākṣālaṅkṛtākṛtiḥ || padmapatrāruṇāyāmavistīrṇanayanadvayaḥ || 31||
प्रादुर्भूय हृदम्भोजे तदानीमेव सत्वरम् ॥ विमोहितस्तदैवासमेतदद्भुतमास्तिकाः ॥ ३२॥
प्रादुर्भूय हृद्-अम्भोजे तदानीम् एव स त्वरम् ॥ विमोहितः तदा एव आसम् एतत् अद्भुतम् आस्तिकाः ॥ ३२॥
prādurbhūya hṛd-ambhoje tadānīm eva sa tvaram .. vimohitaḥ tadā eva āsam etat adbhutam āstikāḥ .. 32..
तत उन्मील्य नयने विलापं कृतवानहम् ॥ आसीन्ममाश्रुपातश्च गिरिनिर्झरसन्निभः ॥ ३३ ॥
ततस् उन्मील्य नयने विलापम् कृतवान् अहम् ॥ आसीत् मम अश्रु-पातः च गिरि-निर्झर-सन्निभः ॥ ३३ ॥
tatas unmīlya nayane vilāpam kṛtavān aham .. āsīt mama aśru-pātaḥ ca giri-nirjhara-sannibhaḥ .. 33 ..
एतस्मिन्नेव समये श्रुता वागशरीरिणी ॥ व्योम्नो महाद्भुता विप्रास्तामेव शृणुतादरात् ॥ ३४ ॥
एतस्मिन् एव समये श्रुता वाच् अशरीरिणी ॥ व्योम्नः महा-अद्भुता विप्राः ताम् एव शृणुत आदरात् ॥ ३४ ॥
etasmin eva samaye śrutā vāc aśarīriṇī .. vyomnaḥ mahā-adbhutā viprāḥ tām eva śṛṇuta ādarāt .. 34 ..
सूतपुत्र महाभाग गच्छ वाराणसीम्पुरीम् ॥ तत्रासन्मुनयः पूर्वमुपदिष्टास्त्वयाऽधुना ॥ ३५ ॥
सूतपुत्र महाभाग गच्छ वाराणसीम् पुरीम् ॥ तत्र आसन् मुनयः पूर्वम् उपदिष्टाः त्वया अधुना ॥ ३५ ॥
sūtaputra mahābhāga gaccha vārāṇasīm purīm .. tatra āsan munayaḥ pūrvam upadiṣṭāḥ tvayā adhunā .. 35 ..
त्वदुपागमकल्याणं कांक्षंते विवशा भृशम् ॥ तिष्ठन्ति ते निराहारा इत्युक्त्वा विरराम सा ॥ ३६ ॥
त्वद्-उपागम-कल्याणम् कांक्षंते विवशाः भृशम् ॥ तिष्ठन्ति ते निराहाराः इति उक्त्वा विरराम सा ॥ ३६ ॥
tvad-upāgama-kalyāṇam kāṃkṣaṃte vivaśāḥ bhṛśam .. tiṣṭhanti te nirāhārāḥ iti uktvā virarāma sā .. 36 ..
तत उत्थाय तरसा देवन्देवीञ्च भक्तितः ॥ प्रदक्षिणीकृत्य पुनः प्रणम्य भुवि दण्डवत् ॥ ३७ ॥
ततस् उत्थाय तरसा देवन् देवीन् च भक्तितः ॥ प्रदक्षिणीकृत्य पुनर् प्रणम्य भुवि दण्ड-वत् ॥ ३७ ॥
tatas utthāya tarasā devan devīn ca bhaktitaḥ .. pradakṣiṇīkṛtya punar praṇamya bhuvi daṇḍa-vat .. 37 ..
द्विषड्वारं गुरोराज्ञां विज्ञाय शिवयोरथ ॥ क्षेत्रान्निर्गत्य तरसा चत्वारिंशद्दिनान्तरे ॥ ३८ ॥
द्वि-षष्-वारम् गुरोः आज्ञाम् विज्ञाय शिवयोः अथ ॥ क्षेत्रात् निर्गत्य तरसा चत्वारिंशत्-दिन-अन्तरे ॥ ३८ ॥
dvi-ṣaṣ-vāram guroḥ ājñām vijñāya śivayoḥ atha .. kṣetrāt nirgatya tarasā catvāriṃśat-dina-antare .. 38 ..
आगतोऽस्मि मुनिश्रेष्ठा अनुगृह्णन्तु मामिह ॥ मया किमद्य वक्तव्यं भवन्तस्तद्ब्रुवन्तु मे ॥ ३९ ॥
आगतः अस्मि मुनि-श्रेष्ठाः अनुगृह्णन्तु माम् इह ॥ मया किम् अद्य वक्तव्यम् भवन्तः तत् ब्रुवन्तु मे ॥ ३९ ॥
āgataḥ asmi muni-śreṣṭhāḥ anugṛhṇantu mām iha .. mayā kim adya vaktavyam bhavantaḥ tat bruvantu me .. 39 ..
इति सूतवचश्श्रुत्वा ऋषयो हृष्टमानसाः ॥ अवोचन्मुनिशार्दूलं व्यासन्नत्वा मुहुर्मुहुः ॥ 6.10.४० ॥
इति सूत-वचः श्रुत्वा ऋषयः हृष्ट-मानसाः ॥ अवोचत् मुनि-शार्दूलम् व्यासन्न-त्वा मुहुर् मुहुर् ॥ ६।१०।४० ॥
iti sūta-vacaḥ śrutvā ṛṣayaḥ hṛṣṭa-mānasāḥ .. avocat muni-śārdūlam vyāsanna-tvā muhur muhur .. 6.10.40 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां सूतोपदेशो नाम दशमोऽध्यायः ॥ १०॥
इति श्री-शिवमहापुराणे षष्ठ्याम् कैलाससंहितायाम् सूतोपदेशः नाम दशमः अध्यायः ॥ १०॥
iti śrī-śivamahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām sūtopadeśaḥ nāma daśamaḥ adhyāyaḥ .. 10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In