| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत सूत महाभागस्त्वमस्मद्गुरुरुत्तमः ॥ अतस्त्वां परिपृच्छामो भवतोऽनुग्रहो यदि ॥ १ ॥
सूत सूत महाभागः त्वम् अस्मद्-गुरुः उत्तमः ॥ अतस् त्वाम् परिपृच्छामः भवतः अनुग्रहः यदि ॥ १ ॥
sūta sūta mahābhāgaḥ tvam asmad-guruḥ uttamaḥ .. atas tvām paripṛcchāmaḥ bhavataḥ anugrahaḥ yadi .. 1 ..
श्रद्धालुषु च शिष्येषु त्वादृशा गुरवस्सदा ॥ स्निग्धभावा इतीदं नो दर्शितम्भवताधुना ॥ २॥
श्रद्धालुषु च शिष्येषु त्वादृशाः गुरवः सदा ॥ स्निग्ध-भावाः इति इदम् नः दर्शितम् भवता अधुना ॥ २॥
śraddhāluṣu ca śiṣyeṣu tvādṛśāḥ guravaḥ sadā .. snigdha-bhāvāḥ iti idam naḥ darśitam bhavatā adhunā .. 2..
विरजाहोमसमये वामदेवमतम्पुरा ॥ सूचितम्भवतास्माभिर्न श्रुतं विस्तरान्मुने ॥ ३ ॥
विरजा-होम-समये वामदेव-मतम् पुरा ॥ सूचितम् भवता अस्माभिः न श्रुतम् विस्तरात् मुने ॥ ३ ॥
virajā-homa-samaye vāmadeva-matam purā .. sūcitam bhavatā asmābhiḥ na śrutam vistarāt mune .. 3 ..
तदिदानीं श्रोतुकामाः श्रद्धया परमादरात् ॥ वयं सर्व्वे कृपासिंधो प्रीत्या तद्वक्तुमर्हसि ॥ ४॥
तत् इदानीम् श्रोतु-कामाः श्रद्धया परम-आदरात् ॥ वयम् सर्व्वे कृपा-सिंधो प्रीत्या तत् वक्तुम् अर्हसि ॥ ४॥
tat idānīm śrotu-kāmāḥ śraddhayā parama-ādarāt .. vayam sarvve kṛpā-siṃdho prītyā tat vaktum arhasi .. 4..
इति तेषां वचः श्रुत्वा सूतो हृष्टतनूरुहः ॥ नमस्कृत्य महादेवं गुरोः परतरं गुरुम् ॥ ५॥
इति तेषाम् वचः श्रुत्वा सूतः हृष्ट-तनूरुहः ॥ नमस्कृत्य महादेवम् गुरोः परतरम् गुरुम् ॥ ५॥
iti teṣām vacaḥ śrutvā sūtaḥ hṛṣṭa-tanūruhaḥ .. namaskṛtya mahādevam guroḥ parataram gurum .. 5..
महादेवीं त्रिजननीं गुरुं व्यासश्च भक्तितः ॥ प्राह गम्भीरया वाचा मुनीनाह्लादयन्निदम् ॥ ६ ॥
महादेवीम् त्रि-जननीम् गुरुम् व्यासः च भक्तितः ॥ प्राह गम्भीरया वाचा मुनीन् आह्लादयन् इदम् ॥ ६ ॥
mahādevīm tri-jananīm gurum vyāsaḥ ca bhaktitaḥ .. prāha gambhīrayā vācā munīn āhlādayan idam .. 6 ..
सूत उवाच ।।
स्वस्त्यस्तु मुनयस्सर्वे सुखिन स्सन्तु सर्व्वदा ॥ शिवभक्ता स्थिरात्मानश्शिवे भक्तिप्रवर्तकाः ॥ ७॥
स्वस्ति अस्तु मुनयः सर्वे सुखिनः स्सन्तु सर्व्वदा ॥ शिव-भक्ता स्थिर-आत्मानः शिवे भक्ति-प्रवर्तकाः ॥ ७॥
svasti astu munayaḥ sarve sukhinaḥ ssantu sarvvadā .. śiva-bhaktā sthira-ātmānaḥ śive bhakti-pravartakāḥ .. 7..
तदतीव विचित्रं हि श्रुतं गुरुमुखाम्बुजात् ॥ इतः पूर्वम्मया नोक्तं गुह्यप्राकट्यशंकया ॥ ८ ॥
तत् अतीव विचित्रम् हि श्रुतम् गुरु-मुख-अम्बुजात् ॥ इतस् पूर्वम् मया न उक्तम् गुह्य-प्राकट्य-शंकया ॥ ८ ॥
tat atīva vicitram hi śrutam guru-mukha-ambujāt .. itas pūrvam mayā na uktam guhya-prākaṭya-śaṃkayā .. 8 ..
यूयं खलु महाभागाश्शिवभक्ता दृढव्रताः ॥ इति निश्चित्य युष्माकं वक्ष्यामि श्रूयताम्मुदा ॥ ९॥
यूयम् खलु महाभागाः शिव-भक्ताः दृढ-व्रताः ॥ इति निश्चित्य युष्माकम् वक्ष्यामि श्रूयताम् मुदा ॥ ९॥
yūyam khalu mahābhāgāḥ śiva-bhaktāḥ dṛḍha-vratāḥ .. iti niścitya yuṣmākam vakṣyāmi śrūyatām mudā .. 9..
पुरा रथन्तरे कल्पे वामदेवो महामुनिः ॥ गर्भमुक्तश्शिवज्ञानविदां गुरुतमस्स्वयम्॥6.11.१०॥
पुरा रथन्तरे कल्पे वामदेवः महा-मुनिः ॥ गर्भ-मुक्तः शिव-ज्ञान-विदाम् गुरुतमः स्वयम्॥६।११।१०॥
purā rathantare kalpe vāmadevaḥ mahā-muniḥ .. garbha-muktaḥ śiva-jñāna-vidām gurutamaḥ svayam..6.11.10..
वेदागमपुराणादिसर्व्वशास्त्रार्थवत्त्ववित् ॥ देवासुरमनुष्यादिजीवानां जन्मकर्म्मवित्॥११॥
वेद-आगम-पुराण-आदि-सर्व्व-शास्त्र-अर्थवत्त्व-विद् ॥ देव-असुर-मनुष्य-आदि-जीवानाम् जन्म-कर्म्म-विद्॥११॥
veda-āgama-purāṇa-ādi-sarvva-śāstra-arthavattva-vid .. deva-asura-manuṣya-ādi-jīvānām janma-karmma-vid..11..
भस्मावदातसर्व्वांगो जटामण्डललमंडितः ॥ निराश्रयो निःस्पृहश्च निर्द्वन्द्वो निरहंकृतिः ॥ १२॥
भस्म-अवदात-सर्व्व-अंगः जटा-मण्डल-लमंडितः ॥ निराश्रयः निःस्पृहः च निर्द्वन्द्वः निरहंकृतिः ॥ १२॥
bhasma-avadāta-sarvva-aṃgaḥ jaṭā-maṇḍala-lamaṃḍitaḥ .. nirāśrayaḥ niḥspṛhaḥ ca nirdvandvaḥ nirahaṃkṛtiḥ .. 12..
दिगंबरो महाज्ञानी महेश्वर इवापरः ॥ शिष्यभूतैर्मुनीन्द्रैश्च तादृशैः परिवारितः ॥ १३॥
दिगंबरः महाज्ञानी महेश्वरः इव अपरः ॥ शिष्य-भूतैः मुनि-इन्द्रैः च तादृशैः परिवारितः ॥ १३॥
digaṃbaraḥ mahājñānī maheśvaraḥ iva aparaḥ .. śiṣya-bhūtaiḥ muni-indraiḥ ca tādṛśaiḥ parivāritaḥ .. 13..
पर्य्यटन्पृथिवीमेतां स्वपाद स्पर्शपुण्यतः ॥ पवित्रयन्परे धाम्नि निमग्नहृदयोन्वहम् ॥ १४ ॥
पर्य्यटन् पृथिवीम् एताम् स्व-पाद स्पर्श-पुण्यतः ॥ पवित्रयन् परे धाम्नि निमग्न-हृदयः न्वहम् ॥ १४ ॥
paryyaṭan pṛthivīm etām sva-pāda sparśa-puṇyataḥ .. pavitrayan pare dhāmni nimagna-hṛdayaḥ nvaham .. 14 ..
कुमारशिखरम्मेरोर्द्दक्षिणं प्राविशन्मुदा ॥ यत्रास्ते भगवानीशतनयश्शिखिवाहनः ॥ १५॥
कुमार-शिखरम् मेरोः द्दक्षिणम् प्राविशत् मुदा ॥ यत्र आस्ते भगवान् ईश-तनयः शिखिवाहनः ॥ १५॥
kumāra-śikharam meroḥ ddakṣiṇam prāviśat mudā .. yatra āste bhagavān īśa-tanayaḥ śikhivāhanaḥ .. 15..
ज्ञानशक्तिधरो वीरस्सर्वासुरविमर्दनः ॥ गजावल्लीसमायुक्तस्सर्व्वैर्देवैर्नमस्कृतः ॥ १६॥
सर्व ॥ गजावल्ली-समायुक्तः सर्व्वैः देवैः नमस्कृतः ॥ १६॥
sarva .. gajāvallī-samāyuktaḥ sarvvaiḥ devaiḥ namaskṛtaḥ .. 16..
तत्र स्कन्दसरो नाम सरस्सागरसन्निभम् ॥ शिशिरस्वादुपानीयं स्वच्छागाधबहूदकम् ॥ १७॥
तत्र स्कन्दसरः नाम सरः सागर-सन्निभम् ॥ शिशिर-स्वादु-पानीयम् सु अच्छ-अगाध-बहु-उदकम् ॥ १७॥
tatra skandasaraḥ nāma saraḥ sāgara-sannibham .. śiśira-svādu-pānīyam su accha-agādha-bahu-udakam .. 17..
सर्व्वाश्चर्य्यगुणोपेतं विद्यते स्वामिसन्निधौ ॥ तत्र स्नात्वा वामदेवस्सहशिष्यैर्महामुनिः ॥ १८॥
सर्व्व-आश्चर्य्य-गुण-उपेतम् विद्यते स्वामि-सन्निधौ ॥ तत्र स्नात्वा वामदेवः सह शिष्यैः महा-मुनिः ॥ १८॥
sarvva-āścaryya-guṇa-upetam vidyate svāmi-sannidhau .. tatra snātvā vāmadevaḥ saha śiṣyaiḥ mahā-muniḥ .. 18..
कुमारं शिखरासीनं मुनिवृन्दनिषेवितम् ॥ उद्यदादित्यसंकाशं मयूरवरवाहनम्॥१९॥
कुमारम् शिखर-आसीनम् मुनि-वृन्द-निषेवितम् ॥ उद्यत्-आदित्य-संकाशम् मयूर-वर-वाहनम्॥१९॥
kumāram śikhara-āsīnam muni-vṛnda-niṣevitam .. udyat-āditya-saṃkāśam mayūra-vara-vāhanam..19..
चतुर्भुजमुदारांगं मुकुटादिविभूषितम् ॥ शक्तिरत्नद्वयोपास्यं शक्तिकुक्कुटधारिणम्॥6.11.२०॥
चतुर्-भुजम् उदार-अंगम् मुकुट-आदि-विभूषितम् ॥ शक्ति-रत्न-द्वय-उपास्यम् शक्ति-कुक्कुट-धारिणम्॥६।११।२०॥
catur-bhujam udāra-aṃgam mukuṭa-ādi-vibhūṣitam .. śakti-ratna-dvaya-upāsyam śakti-kukkuṭa-dhāriṇam..6.11.20..
वरदाभयहस्तञ्च दृष्ट्वा स्कन्दं मुनीश्वरः॥ सम्पूज्य परया भक्त्या स्तोतुं समुपचक्रमे ॥ २१॥
वर-द-अभय-हस्तम् च दृष्ट्वा स्कन्दम् मुनि-ईश्वरः॥ सम्पूज्य परया भक्त्या स्तोतुम् समुपचक्रमे ॥ २१॥
vara-da-abhaya-hastam ca dṛṣṭvā skandam muni-īśvaraḥ.. sampūjya parayā bhaktyā stotum samupacakrame .. 21..
।। वामदेव उवाच ।।
ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने ॥ प्रणवाक्षरबीजाय प्रणवाय नमोनमः ॥ २२॥
ओम् नमः प्रणव-अर्थाय प्रणव-अर्थ-विधायिने ॥ प्रणव-अक्षर-बीजाय प्रणवाय नमः नमः ॥ २२॥
om namaḥ praṇava-arthāya praṇava-artha-vidhāyine .. praṇava-akṣara-bījāya praṇavāya namaḥ namaḥ .. 22..
वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ॥ वेदान्तार्थविदे नित्यं विदिताय नमोनमः ॥ २३॥
॥ वेदान्त-अर्थ-विदे नित्यम् विदिताय नमः नमः ॥ २३॥
.. vedānta-artha-vide nityam viditāya namaḥ namaḥ .. 23..
नमो गुहाय भूतानां गुहासु निहिताय च ॥ गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ २४॥
नमः गुहाय भूतानाम् गुहासु निहिताय च ॥ गुह्याय गुह्य-रूपाय गुह्य-आगम-विदे नमः ॥ २४॥
namaḥ guhāya bhūtānām guhāsu nihitāya ca .. guhyāya guhya-rūpāya guhya-āgama-vide namaḥ .. 24..
अणोरणीयसे तुभ्यं महतोपि महीयसे ॥ नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ २५ ॥
अणोः अणीयसे तुभ्यम् महतः अपि महीयसे ॥ नमः परावर-ज्ञाय परमात्म-स्वरूपिणे ॥ २५ ॥
aṇoḥ aṇīyase tubhyam mahataḥ api mahīyase .. namaḥ parāvara-jñāya paramātma-svarūpiṇe .. 25 ..
स्कन्दाय स्कन्दरूपाय मिहिरारुणेतेजसे ॥ नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥ २६ ॥
स्कन्दाय स्कन्द-रूपाय मिहिरारुणेतेजसे ॥ नमः मन्दार-माला-उद्यत्-मुकुट-आदि-भृते सदा ॥ २६ ॥
skandāya skanda-rūpāya mihirāruṇetejase .. namaḥ mandāra-mālā-udyat-mukuṭa-ādi-bhṛte sadā .. 26 ..
शिवशिष्याय पुत्राय शिवस्य शिवदायिने ॥ शिवप्रियाय शिवयोरानन्दनिधये नम ॥ २७॥
शिव-शिष्याय पुत्राय शिवस्य शिव-दायिने ॥ शिव-प्रियाय शिवयोः आनन्द-निधये नम ॥ २७॥
śiva-śiṣyāya putrāya śivasya śiva-dāyine .. śiva-priyāya śivayoḥ ānanda-nidhaye nama .. 27..
गांगेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ॥ उमापुत्राय महते शरकाननशायिने॥२८॥
गांगेयाय नमः तुभ्यम् कार्तिकेयाय धीमते ॥ उमा-पुत्राय महते शर-कानन-शायिने॥२८॥
gāṃgeyāya namaḥ tubhyam kārtikeyāya dhīmate .. umā-putrāya mahate śara-kānana-śāyine..28..
षडक्षरशरीराय षड्विधार्थविधायिने ॥ षडध्वातीतरूपाय षण्मुखाय नमोनमः ॥ ॥ २९॥
षष्-अक्षर-शरीराय षड्विध-अर्थ-विधायिने ॥ षडध्व-अतीत-रूपाय षण्मुखाय नमः नमः ॥ ॥ २९॥
ṣaṣ-akṣara-śarīrāya ṣaḍvidha-artha-vidhāyine .. ṣaḍadhva-atīta-rūpāya ṣaṇmukhāya namaḥ namaḥ .. .. 29..
द्वादशायतनेत्राय द्वादशोद्यतबाहवे ॥ द्वादशायुधधाराय द्वादशात्मन्नमोस्तु ते ॥ 6.11.३०॥
द्वादश-आयत-नेत्राय द्वादश-उद्यत-बाहवे ॥ द्वादश-आयुध-धाराय द्वादश-आत्मन् नमः अस्तु ते ॥ ६।११।३०॥
dvādaśa-āyata-netrāya dvādaśa-udyata-bāhave .. dvādaśa-āyudha-dhārāya dvādaśa-ātman namaḥ astu te .. 6.11.30..
चतुर्भुजाय शान्ताय शक्तिकुक्कुट धारिणे ॥ वरदाय विहस्ताय नमोऽसुरविदारिणे ॥ ३१ ॥
चतुर्भुजाय शान्ताय शक्ति-कुक्कुट-धारिणे ॥ वर-दाय विहस्ताय नमः असुर-विदारिणे ॥ ३१ ॥
caturbhujāya śāntāya śakti-kukkuṭa-dhāriṇe .. vara-dāya vihastāya namaḥ asura-vidāriṇe .. 31 ..
गजावल्लीकुचालिप्तकुंकुमांकितवक्षसे ॥ नमो गजाननानन्दमहिमानंदितात्मने ॥ ३२ ॥
गजावल्ली-कुच-आलिप्त-कुंकुम-अंकित-वक्षसे ॥ नमः गजानन-आनन्द-महिम-अनंदित-आत्मने ॥ ३२ ॥
gajāvallī-kuca-ālipta-kuṃkuma-aṃkita-vakṣase .. namaḥ gajānana-ānanda-mahima-anaṃdita-ātmane .. 32 ..
ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिंतितकीर्त्तिधाम्ने ॥ वृन्दारकामलकिरीटविभूषणस्रक्पूज्याभिरामपदपंकज ते नमोस्तु ॥ ३३ ॥
ब्रह्म-आदि-देव-मुनि-किन्नर-गीयमान-गाथा-विशेष-शुचि-चिंतित-कीर्त्ति-धाम्ने ॥ वृन्दारक-अमल-किरीट-विभूषण-स्रज्-पूज्य-अभिराम-पद-पंकज ते नमः अस्तु ॥ ३३ ॥
brahma-ādi-deva-muni-kinnara-gīyamāna-gāthā-viśeṣa-śuci-ciṃtita-kīrtti-dhāmne .. vṛndāraka-amala-kirīṭa-vibhūṣaṇa-sraj-pūjya-abhirāma-pada-paṃkaja te namaḥ astu .. 33 ..
इति स्कन्दस्तवन्दिव्यं वामदेवेन भाषितम् ॥ यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ ३४ ॥
इति स्कन्द-स्तवन् दिव्यम् वामदेवेन भाषितम् ॥ यः पठेत् शृणुयात् वा अपि स याति परमाम् गतिम् ॥ ३४ ॥
iti skanda-stavan divyam vāmadevena bhāṣitam .. yaḥ paṭhet śṛṇuyāt vā api sa yāti paramām gatim .. 34 ..
महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्द्धनम् ॥ आयुरारोग्यधनकृत्सर्व्वकामप्रदं सदा ॥ ३५ ॥
महा-प्रज्ञा-करम् हि एतत् शिव-भक्ति-विवर्द्धनम् ॥ आयुः-आरोग्य-धन-कृत् सर्व्व-काम-प्रदम् सदा ॥ ३५ ॥
mahā-prajñā-karam hi etat śiva-bhakti-vivarddhanam .. āyuḥ-ārogya-dhana-kṛt sarvva-kāma-pradam sadā .. 35 ..
इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम् ॥ प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ ३६ ॥
इति स्तुत्वा वामदेवः देवम् सेनापतिम् प्रभुम् ॥ प्रदक्षिणा-त्रयम् कृत्वा प्रणम्य भुवि दण्ड-वत् ॥ ३६ ॥
iti stutvā vāmadevaḥ devam senāpatim prabhum .. pradakṣiṇā-trayam kṛtvā praṇamya bhuvi daṇḍa-vat .. 36 ..
साष्टांगं च पुनः कृत्वा प्रदक्षिणनमस्कृतम् ॥ अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः ॥ ३७ ॥
स अष्टांगम् च पुनर् कृत्वा प्रदक्षिण-नमस्कृतम् ॥ अभवत् पार्श्वतस् तस्य विनय-अवनतः द्विजाः ॥ ३७ ॥
sa aṣṭāṃgam ca punar kṛtvā pradakṣiṇa-namaskṛtam .. abhavat pārśvatas tasya vinaya-avanataḥ dvijāḥ .. 37 ..
वामदेवकृतं स्तोत्रम्परमार्थविजृम्भितम् ॥ श्रुत्वाभवत्प्रसन्नो हि महेश्वरसुतः प्रभुः ॥ ३८॥
वामदेव-कृतम् स्तोत्रम् परम-अर्थ-विजृम्भितम् ॥ श्रुत्वा अभवत् प्रसन्नः हि महेश्वर-सुतः प्रभुः ॥ ३८॥
vāmadeva-kṛtam stotram parama-artha-vijṛmbhitam .. śrutvā abhavat prasannaḥ hi maheśvara-sutaḥ prabhuḥ .. 38..
तमुवाच महासेनः प्रीतोस्मि तव पूजया ॥ भक्त्या स्तुत्या च भद्रन्ते किमद्यकरवाण्यहम् ॥ ३९॥
तम् उवाच महासेनः प्रीतः अस्मि तव पूजया ॥ भक्त्या स्तुत्या च भद्रन्ते किम् अद्य करवाणि अहम् ॥ ३९॥
tam uvāca mahāsenaḥ prītaḥ asmi tava pūjayā .. bhaktyā stutyā ca bhadrante kim adya karavāṇi aham .. 39..
मुने त्वं योगिनान्मुख्यः परिपूर्णश्च निस्पृहः ॥ भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ॥ 6.11.४०॥
मुने त्वम् योगिनात् मुख्यः परिपूर्णः च निस्पृहः ॥ भवादृशाम् हि लोके इस्मि-प्रार्थनीयम् न विद्यते ॥ ६।११।४०॥
mune tvam yogināt mukhyaḥ paripūrṇaḥ ca nispṛhaḥ .. bhavādṛśām hi loke ismi-prārthanīyam na vidyate .. 6.11.40..
तथापि धर्म्मरक्षायै लोकानुग्रहकांक्षया॥त्वादृशा साधवस्सन्तो विचरन्ति महीतले॥४१॥
तथा अपि धर्म्म-रक्षायै लोक-अनुग्रह-कांक्षया॥त्वादृशा साधवः सन्तः विचरन्ति मही-तले॥४१॥
tathā api dharmma-rakṣāyai loka-anugraha-kāṃkṣayā..tvādṛśā sādhavaḥ santaḥ vicaranti mahī-tale..41..
श्रोतव्यमस्ति चेद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम्॥तदिदानीमहं वक्ष्ये लोकानुग्रहहे तवे॥४२॥
श्रोतव्यम् अस्ति चेद् ब्रह्मन् वक्तुम् अर्हसि साम्प्रतम्॥तत् इदानीम् अहम् वक्ष्ये लोक-अनुग्रह-हे तवे॥४२॥
śrotavyam asti ced brahman vaktum arhasi sāmpratam..tat idānīm aham vakṣye loka-anugraha-he tave..42..
इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः॥प्रश्रयावनतः प्राह मेघगम्भीरया गिरा ॥ ४३॥
इति स्कन्द-वचः श्रुत्वा वामदेवः महा-मुनिः॥प्रश्रय-अवनतः प्राह मेघ-गम्भीरया गिरा ॥ ४३॥
iti skanda-vacaḥ śrutvā vāmadevaḥ mahā-muniḥ..praśraya-avanataḥ prāha megha-gambhīrayā girā .. 43..
वामदेव उवाच ।।।
भगवन्परमेशस्त्वं परापरविभूतिदः ॥ सर्व्वज्ञसर्वकर्त्ता च सर्व्वशक्तिधरः प्रभुः ॥ ४४॥
भगवन् परमेशः त्वम् परापर-विभूति-दः ॥ च सर्व ॥ ४४॥
bhagavan parameśaḥ tvam parāpara-vibhūti-daḥ .. ca sarva .. 44..
जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः ॥ तथाप्यनुग्रहो यन्ते यत्त्वं वदसि मां प्रति ॥ ४५ ॥
जीवाः वयम् तु ते वक्तुम् सन्निधौ परमेशितुः ॥ तथा अपि अनुग्रहः यन्ते यत् त्वम् वदसि माम् प्रति ॥ ४५ ॥
jīvāḥ vayam tu te vaktum sannidhau parameśituḥ .. tathā api anugrahaḥ yante yat tvam vadasi mām prati .. 45 ..
कृतार्थोहं महाप्राज्ञ विज्ञानकणमात्रतः ॥ प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम ॥ ४६ ॥
कृतार्थः उहम् महा-प्राज्ञ विज्ञान-कण-मात्रतः ॥ प्रेरितः परिपृच्छामि क्षन्तव्य-ऊतिक्रमः मम ॥ ४६ ॥
kṛtārthaḥ uham mahā-prājña vijñāna-kaṇa-mātrataḥ .. preritaḥ paripṛcchāmi kṣantavya-ūtikramaḥ mama .. 46 ..
प्रणवो हि परः साक्षात्परमेश्वरवाचकः ॥ वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ॥ ४७ ॥
प्रणवः हि परः साक्षात् परमेश्वर-वाचकः ॥ वाच्यः पशुपतिः देवः पशूनाम् पाश-मोचकः ॥ ४७ ॥
praṇavaḥ hi paraḥ sākṣāt parameśvara-vācakaḥ .. vācyaḥ paśupatiḥ devaḥ paśūnām pāśa-mocakaḥ .. 47 ..
वाचकेन समाहूतः पशून्मोचयते क्षणात् ॥ तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ॥ ४८ ॥
वाचकेन समाहूतः पशून् मोचयते क्षणात् ॥ तस्मात् वाचक-ता-सिद्धिः प्रणवेन शिवम् प्रति ॥ ४८ ॥
vācakena samāhūtaḥ paśūn mocayate kṣaṇāt .. tasmāt vācaka-tā-siddhiḥ praṇavena śivam prati .. 48 ..
ॐ मितीदं सर्वमिति श्रुतिराह सनातनी ॥ ओमिति ब्रह्म सर्व्वं हि ब्रह्मेति च समब्रवीत् ॥ ४९॥
ॐ mitīdaṃ sarvamiti śrutirāha sanātanī || omiti brahma sarvvaṃ hi brahmeti ca samabravīt || 49||
oṃ mitīdaṃ sarvamiti śrutirāha sanātanī || omiti brahma sarvvaṃ hi brahmeti ca samabravīt || 49||
देवसेनापते तुभ्यन्देवानाम्पतये नमः ॥ नमो यतीनाम्पतये परिपूर्णाय ते नमः ॥ 6.11.५० ॥
देव-सेनापते तुभ्यन् देवानाम् पतये नमः ॥ नमः यतीनाम् पतये परिपूर्णाय ते नमः ॥ ६।११।५० ॥
deva-senāpate tubhyan devānām pataye namaḥ .. namaḥ yatīnām pataye paripūrṇāya te namaḥ .. 6.11.50 ..
एवं स्थिते जगत्यस्मिञ्छिवादन्यन्न विद्यते ॥ सर्व्वरूपधरः स्वामी शिवो व्यापी महेश्वरः ॥ ५१ ॥
एवम् स्थिते जगति अस्मिन् शिवात् अन्यत् न विद्यते ॥ सर्व्व-रूप-धरः स्वामी शिवः व्यापी महेश्वरः ॥ ५१ ॥
evam sthite jagati asmin śivāt anyat na vidyate .. sarvva-rūpa-dharaḥ svāmī śivaḥ vyāpī maheśvaraḥ .. 51 ..
समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया ॥ न जातुचिन्महासेन संप्राप्तस्त्वादृशो गुरुः॥५२॥
समष्टि-व्यष्टि-भावेन प्रणव-अर्थः श्रुतः मया ॥ न जातुचित् महासेन संप्राप्तः त्वादृशः गुरुः॥५२॥
samaṣṭi-vyaṣṭi-bhāvena praṇava-arthaḥ śrutaḥ mayā .. na jātucit mahāsena saṃprāptaḥ tvādṛśaḥ guruḥ..52..
अतः कृत्वानुकंपां वै तमर्थं वक्तुमर्हसि॥उपदेशविधानेन सदाचारक्रमेण च॥५३॥
अतस् कृत्वा अनुकंपाम् वै तम् अर्थम् वक्तुम् अर्हसि॥उपदेश-विधानेन सत्-आचार-क्रमेण च॥५३॥
atas kṛtvā anukaṃpām vai tam artham vaktum arhasi..upadeśa-vidhānena sat-ācāra-krameṇa ca..53..
स्वाम्येकः सर्ब्वजन्तूनां पाशच्छेदकरो गुरुः ॥ अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो ॥ ५४॥
स्वामी एकः सर्व्व-जन्तूनाम् पाश-छेद-करः गुरुः ॥ अतस् त्वद्-कृपया सः अर्थः श्रोतव्यः हि मया गुरो ॥ ५४॥
svāmī ekaḥ sarvva-jantūnām pāśa-cheda-karaḥ guruḥ .. atas tvad-kṛpayā saḥ arthaḥ śrotavyaḥ hi mayā guro .. 54..
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम्॥सहितमुमया शश्वत्पार्श्वे मुनिप्रवरान्वितं गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ॥ ५५ ॥
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवम् प्रणव-वपुषम् स अष्टत्रिंशत्-कला-वर-लक्षितम्॥सहितम् उमया शश्वत् पार्श्वे मुनि-प्रवर-अन्वितम् गदितुम् उपचक्राम श्रेयः श्रुतिषु अपि गोपितम् ॥ ५५ ॥
iti sa muninā pṛṣṭaḥ skandaḥ praṇamya sadāśivam praṇava-vapuṣam sa aṣṭatriṃśat-kalā-vara-lakṣitam..sahitam umayā śaśvat pārśve muni-pravara-anvitam gaditum upacakrāma śreyaḥ śrutiṣu api gopitam .. 55 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां वामदेवब्रह्मवर्णनन्नामैकादशोऽयाय ॥ ११ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् वामदेवब्रह्मवर्णन-नाम एकादशः अयाय ॥ ११ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām vāmadevabrahmavarṇana-nāma ekādaśaḥ ayāya .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In