| |
|

This overlay will guide you through the buttons:

श्रीब्रह्मण्य उवाच ।।
साधुसाधु महाभाग वामदेव मुनीश्वर॥त्वमतीव शिवे भक्तश्श्विज्ञानवतांवरः॥१॥
साधु-साधु महाभाग वामदेव मुनि-ईश्वर॥त्वम् अतीव शिवे भक्तः श्वि-ज्ञानवताम् वरः॥१॥
sādhu-sādhu mahābhāga vāmadeva muni-īśvara..tvam atīva śive bhaktaḥ śvi-jñānavatām varaḥ..1..
त्वया त्वविदितं किंचिन्ना स्ति लोकेषु कुत्रचित्॥तथापि तव वक्ष्यामि लोकानुग्रहकारिणः॥२॥
त्वया तु अ विदितम् किंचिद् ना स्ति लोकेषु कुत्रचिद्॥तथा अपि तव वक्ष्यामि लोक-अनुग्रह-कारिणः॥२॥
tvayā tu a viditam kiṃcid nā sti lokeṣu kutracid..tathā api tava vakṣyāmi loka-anugraha-kāriṇaḥ..2..
लोकेस्मिन्पशवस्सर्व्वे नानाशास्त्रविमोहिताः ॥ वञ्चिताः परमेशस्य माययातिविचित्रया ॥ ३॥
लोके स्मिन् पशवः सर्व्वे नाना शास्त्र-विमोहिताः ॥ वञ्चिताः परमेशस्य मायया अति विचित्रया ॥ ३॥
loke smin paśavaḥ sarvve nānā śāstra-vimohitāḥ .. vañcitāḥ parameśasya māyayā ati vicitrayā .. 3..
न जानति परं साक्षात्प्रणवार्थम्महेश्वरम् ॥ सगुणन्निर्गुणं ब्रह्म त्रिदेवजनकम्परम् ॥ ४॥
न जानति परम् साक्षात् प्रणव-अर्थम् महेश्वरम् ॥ ब्रह्म त्रि-देव-जन-कम्परम् ॥ ४॥
na jānati param sākṣāt praṇava-artham maheśvaram .. brahma tri-deva-jana-kamparam .. 4..
दक्षिणम्बाहुमुद्धृत्य शपथम्प्रब्रवीमि ते ॥ सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं पुनः पुनः ॥ ५॥
दक्षिणम् बाहुम् उद्धृत्य शपथम् प्रब्रवीमि ते ॥ सत्यम् सत्यम् पुनर् सत्यम् सत्यम् सत्यम् पुनर् पुनर् ॥ ५॥
dakṣiṇam bāhum uddhṛtya śapatham prabravīmi te .. satyam satyam punar satyam satyam satyam punar punar .. 5..
प्रणवार्थश्शिवः साक्षात्प्राधान्येन प्रकीर्त्तितः ॥ ।श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च ॥ ६॥
प्रणव-अर्थः शिवः साक्षात् प्राधान्येन प्रकीर्त्तितः ॥ ।श्रुतिषु स्मृति-शास्त्रेषु पुराणेषु आगमेषु च ॥ ६॥
praṇava-arthaḥ śivaḥ sākṣāt prādhānyena prakīrttitaḥ .. .śrutiṣu smṛti-śāstreṣu purāṇeṣu āgameṣu ca .. 6..
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ॥ आनन्दं यस्य वे विद्वान्न बिभेति कुतश्च न ॥ ७ ॥
यतस् वाचः निवर्त्तन्ते अ प्राप्य मनसा सह ॥ आनन्दम् यस्य वे विद्वान् न बिभेति कुतस् च न ॥ ७ ॥
yatas vācaḥ nivarttante a prāpya manasā saha .. ānandam yasya ve vidvān na bibheti kutas ca na .. 7 ..
यस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ॥ सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते ॥ ८ ॥
यस्मात् जगत् इदम् सर्वम् विधि-विष्णु-इन्द्र-पूर्वकम् ॥ सह भूत-इन्द्रिय-ग्रामैः प्रथमम् सम्प्रसूयते ॥ ८ ॥
yasmāt jagat idam sarvam vidhi-viṣṇu-indra-pūrvakam .. saha bhūta-indriya-grāmaiḥ prathamam samprasūyate .. 8 ..
न सम्प्रसूयते यो वै कुतश्चन कदाचन ॥ यस्मिन्न भासते विद्युन्न न सूर्यो न चन्द्रमाः ॥ ९ ॥
न सम्प्रसूयते यः वै कुतश्चन कदाचन ॥ यस्मिन् न भासते विद्युत् न न सूर्यः न चन्द्रमाः ॥ ९ ॥
na samprasūyate yaḥ vai kutaścana kadācana .. yasmin na bhāsate vidyut na na sūryaḥ na candramāḥ .. 9 ..
यस्य भासो विभातीदञ्जगत्सर्वं समन्ततः ॥ सर्व्वैश्वर्य्येण सम्पन्नो नाम्ना सर्व्वेश्वरस्स्वयम्॥6.12.१०॥
यस्य भासः विभाति इदम् जगत् सर्वम् समन्ततः ॥ सर्व्व-ऐश्वर्य्येण सम्पन्नः नाम्ना सर्व्वेश्वरः स्वयम्॥६।१२।१०॥
yasya bhāsaḥ vibhāti idam jagat sarvam samantataḥ .. sarvva-aiśvaryyeṇa sampannaḥ nāmnā sarvveśvaraḥ svayam..6.12.10..
यो वै मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ॥ सर्वव्यापी प्रकाशात्मा भासरूपो हि चिन्मयः ॥ ११॥।
यः वै मुमुक्षुभिः ध्येयः शम्भुः आकाश-मध्य-गः ॥ सर्व-व्यापी प्रकाश-आत्मा भास-रूपः हि चित्-मयः ॥ ११॥।
yaḥ vai mumukṣubhiḥ dhyeyaḥ śambhuḥ ākāśa-madhya-gaḥ .. sarva-vyāpī prakāśa-ātmā bhāsa-rūpaḥ hi cit-mayaḥ .. 11...
यस्य पुंसः परा शक्तिर्भावगम्या मनोहरा ॥ निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा ॥ १२ ॥
यस्य पुंसः परा शक्तिः भाव-गम्या मनोहरा ॥ निर्गुणा स्व-गुणैः एव निगूढा निष्कला शिवा ॥ १२ ॥
yasya puṃsaḥ parā śaktiḥ bhāva-gamyā manoharā .. nirguṇā sva-guṇaiḥ eva nigūḍhā niṣkalā śivā .. 12 ..
तदीयन्त्रिविधंरूपं स्थूलं सूक्ष्मं परन्ततः ॥ ध्येयं मुमुक्षुभिर्नित्यं क्रमतो योगिभिर्मुने ॥ १३॥
स्थूलम् सूक्ष्मम् परन्ततस् ॥ ध्येयम् मुमुक्षुभिः नित्यम् क्रमतस् योगिभिः मुने ॥ १३॥
sthūlam sūkṣmam parantatas .. dhyeyam mumukṣubhiḥ nityam kramatas yogibhiḥ mune .. 13..
निष्कलस्सर्व्वदेवानामादिदेवस्सनातनः ॥ ज्ञानक्रियास्वभावो यः पर मात्मेति गीयते ॥ १४॥
निष्कलः सर्व्व-देवानाम् आदिदेवः सनातनः ॥ ज्ञान-क्रिया-स्वभावः यः पर मा आत्मा इति गीयते ॥ १४॥
niṣkalaḥ sarvva-devānām ādidevaḥ sanātanaḥ .. jñāna-kriyā-svabhāvaḥ yaḥ para mā ātmā iti gīyate .. 14..
तस्य देवाधिदेवस्य मूर्त्तिस्साक्षात्सदाशिवः ॥ पञ्चमंत्रतनुर्देवः कलापञ्चकविग्रहः ॥ १५ ॥
तस्य देव-अधिदेवस्य मूर्त्तिः साक्षात् सदाशिवः ॥ ॥ १५ ॥
tasya deva-adhidevasya mūrttiḥ sākṣāt sadāśivaḥ .. .. 15 ..
शुद्धस्फटिकसंकाशः प्रसन्नः शीतलद्युतिः ॥ पंचवक्त्रो दशभुजस्त्रिपंचनयनः प्रभुः ॥ १६॥
शुद्ध-स्फटिक-संकाशः प्रसन्नः शीतल-द्युतिः ॥ पंचवक्त्रः दश-भुजः त्रि-पंच-नयनः प्रभुः ॥ १६॥
śuddha-sphaṭika-saṃkāśaḥ prasannaḥ śītala-dyutiḥ .. paṃcavaktraḥ daśa-bhujaḥ tri-paṃca-nayanaḥ prabhuḥ .. 16..
ईशानमुकुटोपेतः पुरुषास्यः पुरातनः ॥ अघोरहृदयो वामदेवगुह्यप्रदेशवान् ॥ १७॥
īśānamukuṭopetaḥ puruṣāsyaḥ purātanaḥ || aghorahṛdayo vāmadevaguhyapradeśavān || 17||
īśānamukuṭopetaḥ puruṣāsyaḥ purātanaḥ || aghorahṛdayo vāmadevaguhyapradeśavān || 17||
सद्यपादश्च तन्मूर्त्तिः साक्षात्सकलनिष्कलः ॥ सर्व्वज्ञत्वादिषट्शक्तिषडंगीकृतविग्रहः ॥ १८॥
सद्यपादः च तद्-मूर्त्तिः साक्षात् सकल-निष्कलः ॥ ॥ १८॥
sadyapādaḥ ca tad-mūrttiḥ sākṣāt sakala-niṣkalaḥ .. .. 18..
शब्दादिशक्तिस्फुरितहृत्पंकजविराजितः ॥ स्वशक्त्या वामभागे तु मनोन्मन्या विभूषितः ॥ १९॥
शब्द-आदि-शक्ति-स्फुरित-हृद्-पंकज-विराजितः ॥ स्व-शक्त्या वाम-भागे तु मनोन्मन्या विभूषितः ॥ १९॥
śabda-ādi-śakti-sphurita-hṛd-paṃkaja-virājitaḥ .. sva-śaktyā vāma-bhāge tu manonmanyā vibhūṣitaḥ .. 19..
मन्त्रादिषड्विधार्थानामर्थोपन्याससार्गतः ॥ समष्टिव्यष्टिभावार्थं वक्ष्यामि प्रणवात्मकम् ॥ 6.12.२०॥
मन्त्र-आदि-षड्विध-अर्थानाम् अर्थ-उपन्यास-सार्गतः ॥ समष्टि-व्यष्टि-भाव-अर्थम् वक्ष्यामि प्रणव-आत्मकम् ॥ ६।१२।२०॥
mantra-ādi-ṣaḍvidha-arthānām artha-upanyāsa-sārgataḥ .. samaṣṭi-vyaṣṭi-bhāva-artham vakṣyāmi praṇava-ātmakam .. 6.12.20..
उपदेशक्रमो ह्यादौ वक्तव्यश्श्रूयतामयम्॥चातुर्व्वर्ण्यं हि लोकेस्मिन्प्रसिद्धम्मानुषे मुने ॥ २१ ॥
उपदेश-क्रमः हि आदौ वक्तव्यः श्रूयताम् अयम्॥चातुर्व्वर्ण्यम् हि लोके इस्मिन् प्रसिद्धम् मानुषे मुने ॥ २१ ॥
upadeśa-kramaḥ hi ādau vaktavyaḥ śrūyatām ayam..cāturvvarṇyam hi loke ismin prasiddham mānuṣe mune .. 21 ..
त्रैवर्णिकानामेवात्र श्रुत्याचारसमन्वयः ॥ शुश्रूषामात्रसारा हि शूद्राः श्रुतिबहिष्कृताः ॥ २२ ।
त्रैवर्णिकानाम् एव अत्र श्रुति-आचार-समन्वयः ॥ शुश्रूषा-मात्र-साराः हि शूद्राः श्रुति-बहिष्कृताः ॥ २२ ।
traivarṇikānām eva atra śruti-ācāra-samanvayaḥ .. śuśrūṣā-mātra-sārāḥ hi śūdrāḥ śruti-bahiṣkṛtāḥ .. 22 .
त्रैवर्णिकानां सर्व्वेषां स्वस्वाश्रमरतात्मनाम् ॥ श्रुतिस्मृत्युदितो धर्मोऽनुष्ठेयो नापरः क्वचित् ॥ २३ ॥
त्रैवर्णिकानाम् सर्व्वेषाम् स्व-स्व-आश्रम-रत-आत्मनाम् ॥ श्रुति-स्मृति-उदितः धर्मः अनुष्ठेयः न अपरः क्वचिद् ॥ २३ ॥
traivarṇikānām sarvveṣām sva-sva-āśrama-rata-ātmanām .. śruti-smṛti-uditaḥ dharmaḥ anuṣṭheyaḥ na aparaḥ kvacid .. 23 ..
श्रुतिस्मृत्युदितं कर्म्म कुर्व्व न्सिद्धिमवाप्स्यति ॥ इत्युक्तम्परमेशेन वेदमार्गप्रदर्शिना ॥ २४ ॥
श्रुति-स्मृति-उदितम् कर्म्म कुर्व्वन् सिद्धिम् अवाप्स्यति ॥ इति उक्तम् परमेशेन वेद-मार्ग-प्रदर्शिना ॥ २४ ॥
śruti-smṛti-uditam karmma kurvvan siddhim avāpsyati .. iti uktam parameśena veda-mārga-pradarśinā .. 24 ..
वर्णाश्रमाचारपुण्यैरभ्यर्च्य परमेश्वरम् ॥ तत्सायुज्यं गतास्सर्वे बहवो मुनिसत्तमाः ॥ २५ ॥
वर्ण-आश्रम-आचार-पुण्यैः अभ्यर्च्य परमेश्वरम् ॥ तद्-सायुज्यम् गताः सर्वे बहवः मुनि-सत्तमाः ॥ २५ ॥
varṇa-āśrama-ācāra-puṇyaiḥ abhyarcya parameśvaram .. tad-sāyujyam gatāḥ sarve bahavaḥ muni-sattamāḥ .. 25 ..
ब्रह्मचर्येण मुनयो देवा यज्ञक्रियाध्वना ॥ पितरः प्रजया तृप्ता इति हि श्रुतिरब्रवीत् ॥ २६॥
ब्रह्मचर्येण मुनयः देवाः यज्ञ-क्रिया-अध्वना ॥ पितरः प्रजया तृप्ताः इति हि श्रुतिः अब्रवीत् ॥ २६॥
brahmacaryeṇa munayaḥ devāḥ yajña-kriyā-adhvanā .. pitaraḥ prajayā tṛptāḥ iti hi śrutiḥ abravīt .. 26..
एवं ऋणत्रयान्मुक्तो वानप्रस्थाश्रमं गतः ॥ शीतोष्णसुखदुःखादिसहिष्णुर्विजितेन्द्रियः ॥ २७॥
एवम् ऋण-त्रयात् मुक्तः वानप्रस्थ-आश्रमम् गतः ॥ शीत-उष्ण-सुख-दुःख-आदि-सहिष्णुः विजित-इन्द्रियः ॥ २७॥
evam ṛṇa-trayāt muktaḥ vānaprastha-āśramam gataḥ .. śīta-uṣṇa-sukha-duḥkha-ādi-sahiṣṇuḥ vijita-indriyaḥ .. 27..
तपस्वी विजिताहारो यमाय योगम भ्यसेत् ॥ यथा दृढतरा बुद्धिरविचाल्या भवेत्तथा ॥ २८ ॥
तपस्वी विजित-आहारः यमाय योगम् अभ्यसेत् ॥ यथा दृढतरा बुद्धिः अविचाल्या भवेत् तथा ॥ २८ ॥
tapasvī vijita-āhāraḥ yamāya yogam abhyaset .. yathā dṛḍhatarā buddhiḥ avicālyā bhavet tathā .. 28 ..
एवं क्रमेण शुद्धात्मा सर्व्वकर्म्माणि विन्यसेत् ॥ सन्यस्य सर्व्वकर्म्माणि ज्ञानपूजापरो भवेत् ॥ २९ ॥
एवम् क्रमेण शुद्ध-आत्मा सर्व्व-कर्म्माणि विन्यसेत् ॥ सन् यस्य सर्व्व-कर्म्माणि ज्ञान-पूजा-परः भवेत् ॥ २९ ॥
evam krameṇa śuddha-ātmā sarvva-karmmāṇi vinyaset .. san yasya sarvva-karmmāṇi jñāna-pūjā-paraḥ bhavet .. 29 ..
सा हि साक्षाच्छिवैक्येन जीवन्मुक्तिफलप्रदा ॥ सर्व्वोत्तमा हि विज्ञेया निर्विकारा यतात्म नाम् ॥ 6.12.३० ॥
सा हि साक्षात् शिव-ऐक्येन जीवन्मुक्ति-फल-प्रदा ॥ सर्व्व-उत्तमाः हि विज्ञेयाः निर्विकाराः यत-आत्म नाम् ॥ ६।१२।३० ॥
sā hi sākṣāt śiva-aikyena jīvanmukti-phala-pradā .. sarvva-uttamāḥ hi vijñeyāḥ nirvikārāḥ yata-ātma nām .. 6.12.30 ..
तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ॥ तव स्तेहान्महाप्राज्ञ सावधानतया शृणु ॥ ३१ ॥
तद्-प्रकारम् अहम् वक्ष्ये लोक-अनुग्रह-काम्यया ॥ तव स्तेहात् महा-प्राज्ञ सावधान-तया शृणु ॥ ३१ ॥
tad-prakāram aham vakṣye loka-anugraha-kāmyayā .. tava stehāt mahā-prājña sāvadhāna-tayā śṛṇu .. 31 ..
सर्व्वशास्त्रार्थतत्त्वज्ञं वेदांतज्ञानपारगम् ॥ आचार्य्यमुपगच्छेत्स यतिर्म्मतिमतां वरम् ॥ ३२॥
सर्व्व-शास्त्र-अर्थ-तत्त्व-ज्ञम् वेदांत-ज्ञान-पारगम् ॥ आचार्य्यम् उपगच्छेत् स यतिः म्मतिमताम् वरम् ॥ ३२॥
sarvva-śāstra-artha-tattva-jñam vedāṃta-jñāna-pāragam .. ācāryyam upagacchet sa yatiḥ mmatimatām varam .. 32..
तत्समीपमुपव्रज्य यथाविधि विचक्षणः ॥ दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतस्सुधीः॥३३॥
तद्-समीपम् उपव्रज्य यथाविधि विचक्षणः ॥ दीर्घ-दण्ड-प्रणाम-आद्यैः तोषयेत् यत्नतः सुधीः॥३३॥
tad-samīpam upavrajya yathāvidhi vicakṣaṇaḥ .. dīrgha-daṇḍa-praṇāma-ādyaiḥ toṣayet yatnataḥ sudhīḥ..33..
यो गुरु्स्स शिवः प्रोक्तो यश्शिवस्स गुरुस्स्मृतः ॥ इति निश्चित्य मनसा स्वविचारन्निवेदयेत्॥३४॥
यः गुरुः स शिवः प्रोक्तः यः शिवः स गुरुः स्मृतः ॥ इति निश्चित्य मनसा स्व-विचारन् निवेदयेत्॥३४॥
yaḥ guruḥ sa śivaḥ proktaḥ yaḥ śivaḥ sa guruḥ smṛtaḥ .. iti niścitya manasā sva-vicāran nivedayet..34..
लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती॥शुक्लपक्षे चतुर्थ्यां वा दशम्यां वा विधानतः ॥ ३५॥
लब्ध-अनुज्ञः तु गुरुणा द्वादश-अहम् पयः-व्रती॥शुक्ल-पक्षे चतुर्थ्याम् वा दशम्याम् वा विधानतः ॥ ३५॥
labdha-anujñaḥ tu guruṇā dvādaśa-aham payaḥ-vratī..śukla-pakṣe caturthyām vā daśamyām vā vidhānataḥ .. 35..
प्रातः स्नात्वा विशुद्धात्मा कृतनित्य क्रियस्सुधीः ॥ गुरुमाहूय विधिना नांदीश्राद्धं समारभेत् ॥ ३६॥
प्रातर् स्नात्वा विशुद्ध-आत्मा कृत-नित्य क्रियः सुधीः ॥ गुरुम् आहूय विधिना नांदीश्राद्धम् समारभेत् ॥ ३६॥
prātar snātvā viśuddha-ātmā kṛta-nitya kriyaḥ sudhīḥ .. gurum āhūya vidhinā nāṃdīśrāddham samārabhet .. 36..
विश्वेदेवाः सत्यवसुसंज्ञावंतः प्रकीर्त्तिताः ॥ देवश्राद्धे ब्रह्मविष्णु महेशाः कथितास्त्रयः ॥ ३७॥
विश्वेदेवाः सत्यवसु-संज्ञावंतः प्रकीर्त्तिताः ॥ देव-श्राद्धे ब्रह्म-विष्णु-महेशाः कथिताः त्रयः ॥ ३७॥
viśvedevāḥ satyavasu-saṃjñāvaṃtaḥ prakīrttitāḥ .. deva-śrāddhe brahma-viṣṇu-maheśāḥ kathitāḥ trayaḥ .. 37..
ऋषिश्राद्धे तु सम्प्रोक्ता देवक्षेत्रमनुष्यजाः ॥ देवश्राद्धे तु वसुरुद्रादित्यास्सम्प्रकीर्त्तिताः ॥ ३८ ॥
ऋषिश्राद्धे तु सम्प्रोक्ताः देव-क्षेत्र-मनुष्य-जाः ॥ देवश्राद्धे तु वसु-रुद्र-आदित्याः सम्प्रकीर्त्तिताः ॥ ३८ ॥
ṛṣiśrāddhe tu samproktāḥ deva-kṣetra-manuṣya-jāḥ .. devaśrāddhe tu vasu-rudra-ādityāḥ samprakīrttitāḥ .. 38 ..
चत्वारो मानुषश्राद्धे सनकाद्या मुनीश्वराः ॥ भूतश्राद्धे पंच महाभूतानि च ततः परम्॥३९॥
चत्वारः मानुष-श्राद्धे सनक-आद्याः मुनि-ईश्वराः ॥ भूतश्राद्धे पंच महाभूतानि च ततस् परम्॥३९॥
catvāraḥ mānuṣa-śrāddhe sanaka-ādyāḥ muni-īśvarāḥ .. bhūtaśrāddhe paṃca mahābhūtāni ca tatas param..39..
चक्षुरादीन्द्रियग्रामो भूतग्रामश्चतुर्विधः॥ ।पितृश्राद्धे पिता तस्य पिता तस्य पिता त्रयः ॥ 6.12.४०॥
चक्षुः-आदि-इन्द्रिय-ग्रामः भूत-ग्रामः चतुर्विधः॥ ।पितृश्राद्धे पिता तस्य पिता तस्य पिता त्रयः ॥ ६।१२।४०॥
cakṣuḥ-ādi-indriya-grāmaḥ bhūta-grāmaḥ caturvidhaḥ.. .pitṛśrāddhe pitā tasya pitā tasya pitā trayaḥ .. 6.12.40..
मातृश्राद्धे मातृपितामह्यौ च प्रपितामही ॥ आत्मश्राद्धे तु चत्वार आत्मा पितृपितामहौ ॥ ४१ ॥
मातृ-श्राद्धे मातृ-पितामह्यौ च प्रपितामही ॥ आत्मश्राद्धे तु चत्वारः आत्मा पितृ-पितामहौ ॥ ४१ ॥
mātṛ-śrāddhe mātṛ-pitāmahyau ca prapitāmahī .. ātmaśrāddhe tu catvāraḥ ātmā pitṛ-pitāmahau .. 41 ..
प्रपितामहनामा च सपत्नीकाः प्रकीर्त्तिताः ॥ मातामहात्मकश्राद्धे त्रयो मातामहादयः ॥ ४२ ॥
प्रपितामह-नामा च स पत्नीकाः प्रकीर्त्तिताः ॥ मातामह-आत्मक-श्राद्धे त्रयः मातामह-आदयः ॥ ४२ ॥
prapitāmaha-nāmā ca sa patnīkāḥ prakīrttitāḥ .. mātāmaha-ātmaka-śrāddhe trayaḥ mātāmaha-ādayaḥ .. 42 ..
प्रतिश्राद्धं ब्राह्मणानां युग्मं कृत्वोपकल्पितान् ॥ आहूय पादौ प्रक्षाल्य स्वयमाचम्य यत्नतः ॥ ४३॥
प्रतिश्राद्धम् ब्राह्मणानाम् युग्मम् कृत्वा उपकल्पितान् ॥ आहूय पादौ प्रक्षाल्य स्वयम् आचम्य यत्नतः ॥ ४३॥
pratiśrāddham brāhmaṇānām yugmam kṛtvā upakalpitān .. āhūya pādau prakṣālya svayam ācamya yatnataḥ .. 43..
समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ॥ अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादरेणवः ॥ ४४॥
समस्त-संपद्-समवाप्ति-हेतवः समुत्थित-आपद्-कुल-धूम-केतवः ॥ अपार-संसार-समुद्र-सेतवः पुनन्तु माम् ब्राह्मण-पाद-रेणवः ॥ ४४॥
samasta-saṃpad-samavāpti-hetavaḥ samutthita-āpad-kula-dhūma-ketavaḥ .. apāra-saṃsāra-samudra-setavaḥ punantu mām brāhmaṇa-pāda-reṇavaḥ .. 44..
आपद्धनध्वान्तसहस्रभानवः समीहिता र्थार्पणकामधेनवः ॥ समस्ततीर्थांबुपवित्रमूर्त्तयो रक्षंतु मां ब्राह्मणपादपांसवः ॥ ४५॥
आपद्-धन-ध्वान्त-सहस्र-भानवः समीहिताः र्थ-अर्पण-कामधेनवः ॥ समस्त-तीर्थ-अंबु-पवित्र-मूर्त्तयः रक्षंतु माम् ब्राह्मण-पाद-पांसवः ॥ ४५॥
āpad-dhana-dhvānta-sahasra-bhānavaḥ samīhitāḥ rtha-arpaṇa-kāmadhenavaḥ .. samasta-tīrtha-aṃbu-pavitra-mūrttayaḥ rakṣaṃtu mām brāhmaṇa-pāda-pāṃsavaḥ .. 45..
इति जप्त्वा नमस्कृत्य साष्टांगं भुवि दण्डवत् ॥ स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन् ॥ ४६॥
इति जप्त्वा नमस्कृत्य स अष्टांगम् भुवि दण्ड-वत् ॥ स्थित्वा तु प्राच्-मुखः शम्भोः पाद-अब्ज-युगलम् स्मरन् ॥ ४६॥
iti japtvā namaskṛtya sa aṣṭāṃgam bhuvi daṇḍa-vat .. sthitvā tu prāc-mukhaḥ śambhoḥ pāda-abja-yugalam smaran .. 46..
सपवित्रकरश्शुद्ध उपवीती दृढासनः ॥ प्राणायामत्रयं कुर्य्या च्छ्रुत्वातिथ्यादिकं पुनः ॥ ४७॥
स पवित्र-करः शुद्धः उपवीती दृढ-आसनः ॥ प्राणायाम-त्रयम् कुर्य्यात् श्रुत्वा अतिथि-आदिकम् पुनर् ॥ ४७॥
sa pavitra-karaḥ śuddhaḥ upavītī dṛḍha-āsanaḥ .. prāṇāyāma-trayam kuryyāt śrutvā atithi-ādikam punar .. 47..
मत्संन्यासांगभूतं यद्विश्वेदेवादिकं तथा ॥ श्राद्धमष्टविधं मातामहगतं पार्वणेन वै ॥ ४८॥
मद्-संन्यास-अंग-भूतम् यत् विश्वेदेव-आदिकम् तथा ॥ श्राद्धम् अष्टविधम् मातामह-गतम् पार्वणेन वै ॥ ४८॥
mad-saṃnyāsa-aṃga-bhūtam yat viśvedeva-ādikam tathā .. śrāddham aṣṭavidham mātāmaha-gatam pārvaṇena vai .. 48..
विधानेन करिष्यामि युष्मदाज्ञापुरस्सरम् ॥ एवं विधाय संकल्पं दर्भानुत्तरतस्त्यजेत् ॥ ४९॥
विधानेन करिष्यामि युष्मद्-आज्ञा-पुरस्सरम् ॥ एवम् विधाय संकल्पम् दर्भान् उत्तरतस् त्यजेत् ॥ ४९॥
vidhānena kariṣyāmi yuṣmad-ājñā-purassaram .. evam vidhāya saṃkalpam darbhān uttaratas tyajet .. 49..
उपस्पृश्याप उत्थाय वरणक्रममारभेत्॥पवित्रपाणिः संस्पृश्य पाणी ब्राह्मणयोर्वदेत् ॥ 6.12.५०॥
उपस्पृश्य अपः उत्थाय वरण-क्रमम् आरभेत्॥पवित्र-पाणिः संस्पृश्य पाणी ब्राह्मणयोः वदेत् ॥ ६।१२।५०॥
upaspṛśya apaḥ utthāya varaṇa-kramam ārabhet..pavitra-pāṇiḥ saṃspṛśya pāṇī brāhmaṇayoḥ vadet .. 6.12.50..
विश्वेदेवार्थ इत्यादि भवद्भ्यां क्षण इत्यपि ॥ ५१॥
विश्वेदेव-अर्थः इत्यादि भवद्भ्याम् क्षणः इति अपि ॥ ५१॥
viśvedeva-arthaḥ ityādi bhavadbhyām kṣaṇaḥ iti api .. 51..
प्रसादनीय इत्यन्तं सर्व्व त्रैवं विधिक्रमः ॥ एवं समाप्य वरणं मण्डलानि प्रकल्पयेत् ॥ ५२ ॥
प्रसादनीयः इत्यन्तम् सर्व्व-त्र एवम् विधि-क्रमः ॥ एवम् समाप्य वरणम् मण्डलानि प्रकल्पयेत् ॥ ५२ ॥
prasādanīyaḥ ityantam sarvva-tra evam vidhi-kramaḥ .. evam samāpya varaṇam maṇḍalāni prakalpayet .. 52 ..
उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ॥ तेषु क्रमेण संस्थाप्य ब्राह्मणान्पादयोः पुनः ॥ ५३ ॥
उदक् आरभ्य दश च कृत्वा अभ्यर्चनम् अक्षतैः ॥ तेषु क्रमेण संस्थाप्य ब्राह्मणान् पादयोः पुनर् ॥ ५३ ॥
udak ārabhya daśa ca kṛtvā abhyarcanam akṣataiḥ .. teṣu krameṇa saṃsthāpya brāhmaṇān pādayoḥ punar .. 53 ..
विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ॥ इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः ॥ ५४ ॥
विश्वेदेव-आदि-नामानि स संवबोधनम् उच्चरेत् ॥ इदम् वः पाद्यम् इति स कुश-पुष्प-अक्षत-उदकैः ॥ ५४ ॥
viśvedeva-ādi-nāmāni sa saṃvabodhanam uccaret .. idam vaḥ pādyam iti sa kuśa-puṣpa-akṣata-udakaiḥ .. 54 ..
पाद्यं दत्त्वा स्वयमपि क्षालितांघ्रिरुदङ्मुखः ॥ आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च ॥ ५५ ॥
पाद्यम् दत्त्वा स्वयम् अपि क्षालित-अंघ्रिः उदक्-मुखः ॥ आचम्य युग्म-क्लृप्तान् तान् आसनेषु उपवेश्य च ॥ ५५ ॥
pādyam dattvā svayam api kṣālita-aṃghriḥ udak-mukhaḥ .. ācamya yugma-klṛptān tān āsaneṣu upaveśya ca .. 55 ..
विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ॥ इति दर्भासनं दत्त्वा दर्भपाणिस्स्वयं स्थितः ॥ ५६ ॥
विश्वेदेव-स्वरूपस्य ब्राह्मणस्य इदम् आसनम् ॥ इति दर्भ-आसनम् दत्त्वा दर्भ-पाणिः स्वयम् स्थितः ॥ ५६ ॥
viśvedeva-svarūpasya brāhmaṇasya idam āsanam .. iti darbha-āsanam dattvā darbha-pāṇiḥ svayam sthitaḥ .. 56 ..
अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ॥ भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ॥ ५७ ॥
अस्मिन् नान्दीमुख-श्राद्धे विश्वेदेव-अर्थः इति अपि ॥ भवद्भ्याम् क्षणः इति उक्त्वा क्रियताम् इति संवदेत् ॥ ५७ ॥
asmin nāndīmukha-śrāddhe viśvedeva-arthaḥ iti api .. bhavadbhyām kṣaṇaḥ iti uktvā kriyatām iti saṃvadet .. 57 ..
प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ॥ वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ ॥ ५८ ॥
प्राप्नुताम् इति सम्प्रोच्य भवन्तौ इति संवदेत् ॥ वदेताम् प्राप्नुयाव इति तौ च ब्राह्मण-पुंगवौ ॥ ५८ ॥
prāpnutām iti samprocya bhavantau iti saṃvadet .. vadetām prāpnuyāva iti tau ca brāhmaṇa-puṃgavau .. 58 ..
संपूर्णमस्तु संकल्पसिद्धिरस्त्विति तान्प्रति ॥ भवन्तोऽनुगृह्णंत्विति प्रार्थयेद्द्विजपुंगवान् ॥ ५९ ॥
संपूर्णम् अस्तु संकल्प-सिद्धिः अस्तु इति तान् प्रति ॥ भवन्तः अनुगृह्णंतु इति प्रार्थयेत् द्विज-पुंगवान् ॥ ५९ ॥
saṃpūrṇam astu saṃkalpa-siddhiḥ astu iti tān prati .. bhavantaḥ anugṛhṇaṃtu iti prārthayet dvija-puṃgavān .. 59 ..
ततश्शुद्धकदल्यादिपात्रेषु क्षालितेषु च ॥ अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक्पृथक् ॥ 6.12.६० ॥
ततस् शुद्ध-कदल-आदि-पात्रेषु क्षालितेषु च ॥ अन्न-आदि-भोज्य-द्रव्याणि दत्त्वा दर्भैः पृथक् पृथक् ॥ ६।१२।६० ॥
tatas śuddha-kadala-ādi-pātreṣu kṣāliteṣu ca .. anna-ādi-bhojya-dravyāṇi dattvā darbhaiḥ pṛthak pṛthak .. 6.12.60 ..
परिस्तीर्य्य स्वयं तत्र परिषिच्योदकेन च॥हस्ताभ्यामवलंब्याथ पात्रं प्रत्येकमादरात्॥६१॥
परिस्तीर्य स्वयम् तत्र परिषिच्य उदकेन च॥हस्ताभ्याम् अवलंब्य अथ पात्रम् प्रत्येकम् आदरात्॥६१॥
paristīrya svayam tatra pariṣicya udakena ca..hastābhyām avalaṃbya atha pātram pratyekam ādarāt..61..
पृथिवी ते पात्रमित्यादि कृत्वा तत्र व्यवस्थितान्॥देवादींश्च चतुर्थ्यन्ताननूद्याक्षतसंयुतान् ॥ ६२ ॥
पृथिवी ते पात्रम् इत्यादि कृत्वा तत्र व्यवस्थितान्॥देव-आदीन् च चतुर्थी-अन्तान् अनूद्य अक्षत-संयुतान् ॥ ६२ ॥
pṛthivī te pātram ityādi kṛtvā tatra vyavasthitān..deva-ādīn ca caturthī-antān anūdya akṣata-saṃyutān .. 62 ..
उदग्गृहीत्वा स्वाहेति देवार्थेऽन्नं यजेत्पुनः ॥ न ममेति वदेदन्ते सर्वत्रायं विधिक्रमः ॥ ६३॥
उदक् गृहीत्वा स्वाहा इति देव-अर्थे अन्नम् यजेत् पुनर् ॥ न मम इति वदेत् अन्ते सर्वत्र अयम् विधि-क्रमः ॥ ६३॥
udak gṛhītvā svāhā iti deva-arthe annam yajet punar .. na mama iti vadet ante sarvatra ayam vidhi-kramaḥ .. 63..
यत्पादपद्मस्मरणाद्यस्य नामजपादपि ॥ न्यूनं कर्म भवेत्पूर्णन्तं वन्दे साम्बमीश्वरम् ॥ ६४ ॥
यद्-पाद-पद्म-स्मरणात् यस्य नाम-जपात् अपि ॥ न्यूनम् कर्म वन्दे साम्बम् ईश्वरम् ॥ ६४ ॥
yad-pāda-padma-smaraṇāt yasya nāma-japāt api .. nyūnam karma vande sāmbam īśvaram .. 64 ..
इति जप्त्वा ततो ब्रूयान्मया कृत मिदं पुनः ॥ नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः ॥ ६५ ॥
इति जप्त्वा ततस् ब्रूयात् मया कृतम् इदम् पुनर् ॥ नान्दीमुख-श्राद्धम् इति यथा उक्तम् च वदेत् ततस् ॥ ६५ ॥
iti japtvā tatas brūyāt mayā kṛtam idam punar .. nāndīmukha-śrāddham iti yathā uktam ca vadet tatas .. 65 ..
अस्विति ब्रूतेति च तान्प्रसाद्य द्विजपुंगवान् ॥ विसृज्य स्वकरस्थोदं प्रणम्य भुवि दण्डवत् ॥ ६६॥
असु इति ब्रूत इति च तान् प्रसाद्य द्विज-पुंगवान् ॥ विसृज्य स्व-कर-स्थ-उदम् प्रणम्य भुवि दण्ड-वत् ॥ ६६॥
asu iti brūta iti ca tān prasādya dvija-puṃgavān .. visṛjya sva-kara-stha-udam praṇamya bhuvi daṇḍa-vat .. 66..
उत्थाय च ततो ब्रूयादमृतम्भवतु द्विजान् ॥ प्रार्थयेच्च परं प्रीत्या कृतांजलिरुदारधीः॥६७॥
उत्थाय च ततस् ब्रूयात् अमृतम् भवतु द्विजान् ॥ प्रार्थयेत् च परम् प्रीत्या कृतांजलिः उदार-धीः॥६७॥
utthāya ca tatas brūyāt amṛtam bhavatu dvijān .. prārthayet ca param prītyā kṛtāṃjaliḥ udāra-dhīḥ..67..
श्रीरुद्रं चमकं सूक्तं पौरुषं च यथाविधि ॥ चित्ते सदाशिवन्ध्यात्वा जपेद्ब्रह्माणि पञ्च च ॥ ६८ ॥
श्री-रुद्रम् चमकम् सूक्तम् पौरुषम् च यथाविधि ॥ चित्ते सत्-आशिवन् ध्यात्वा जपेत् ब्रह्माणि पञ्च च ॥ ६८ ॥
śrī-rudram camakam sūktam pauruṣam ca yathāvidhi .. citte sat-āśivan dhyātvā japet brahmāṇi pañca ca .. 68 ..
भोजनान्ते रुद्रसूक्तं क्षमा पय्य द्विजान्मुनः ॥ तन्मन्त्रेण ततो दद्यादुत्तरापोशणं पुरः ॥ ६९॥
भोजन-अन्ते रुद्रसूक्तम् क्षमा द्विजान् मुनः ॥ तद्-मन्त्रेण ततस् दद्यात् उत्तर-अपोशणम् पुरस् ॥ ६९॥
bhojana-ante rudrasūktam kṣamā dvijān munaḥ .. tad-mantreṇa tatas dadyāt uttara-apośaṇam puras .. 69..
प्रक्षालितांघ्रिराचम्य पिण्डस्थानं व्रजेत्ततः ॥ आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत्॥ 6.12.७० ॥
प्रक्षालित-अंघ्रिः आचम्य पिण्ड-स्थानम् व्रजेत् ततस् ॥ आसीनः प्राच्-मुखः मौनी प्राणायाम-त्रयम् चरेत्॥ ६।१२।७० ॥
prakṣālita-aṃghriḥ ācamya piṇḍa-sthānam vrajet tatas .. āsīnaḥ prāc-mukhaḥ maunī prāṇāyāma-trayam caret.. 6.12.70 ..
नान्दीमुखोक्तश्राद्धांगं करिष्ये पिण्डदानकम् ॥ इति संकल्प्य दक्षादिसमारभ्योदकान्ति कम् ॥ ७१ ॥
नान्दीमुख-उक्त-श्राद्ध-अंगम् करिष्ये पिण्डदानकम् ॥ इति संकल्प्य दक्ष-आदि-समारभ्य उदक-अन्ति कम् ॥ ७१ ॥
nāndīmukha-ukta-śrāddha-aṃgam kariṣye piṇḍadānakam .. iti saṃkalpya dakṣa-ādi-samārabhya udaka-anti kam .. 71 ..
नव रेखाः समालिख्य प्रागग्रान्द्वादश क्रमात्॥संस्तीर्य्य दर्भान्दक्षादिदेवादिस्थानपञ्चकम् ॥ ७२ ॥
नव रेखाः समालिख्य प्राच्-अग्रान् द्वादश क्रमात्॥संस्तीर्य दर्भान् दक्ष-आदि-देव-आदि-स्थान-पञ्चकम् ॥ ७२ ॥
nava rekhāḥ samālikhya prāc-agrān dvādaśa kramāt..saṃstīrya darbhān dakṣa-ādi-deva-ādi-sthāna-pañcakam .. 72 ..
तूष्णीं दद्यात्साक्षतोदं त्रिषु स्थानेषु च क्रमात्॥स्थानेष्वन्येषु मातृषु मार्ज्जयन्तास्ततः परम् ॥ ७३॥
तूष्णीम् दद्यात् स अक्षत-उदम् त्रिषु स्थानेषु च क्रमात्॥स्थानेषु अन्येषु मातृषु मार्ज्जयन्ताः ततस् परम् ॥ ७३॥
tūṣṇīm dadyāt sa akṣata-udam triṣu sthāneṣu ca kramāt..sthāneṣu anyeṣu mātṛṣu mārjjayantāḥ tatas param .. 73..
अत्रेति पितरः पश्चात्साक्षतोदं समर्च्य च ॥ दद्यात्ततः क्रमेणैव देवादिस्थानपञ्चके ॥ ७४ ॥
अत्र इति पितरः पश्चात् स अक्षत-उदम् समर्च्य च ॥ दद्यात् ततस् क्रमेण एव देव-आदि-स्थान-पञ्चके ॥ ७४ ॥
atra iti pitaraḥ paścāt sa akṣata-udam samarcya ca .. dadyāt tatas krameṇa eva deva-ādi-sthāna-pañcake .. 74 ..
तत्तद्देवादिनामानि चतुर्थ्यन्तान्युदीर्य्य च॥पिण्डत्रयं ततो दद्यात्प्रत्येकं स्थानपञ्चके ॥ ७५ ॥
तद्-तद्-देव-आदि-नामानि चतुर्थी-अन्तानि उदीर्य च॥पिण्ड-त्रयम् ततस् दद्यात् प्रत्येकम् स्थान-पञ्चके ॥ ७५ ॥
tad-tad-deva-ādi-nāmāni caturthī-antāni udīrya ca..piṇḍa-trayam tatas dadyāt pratyekam sthāna-pañcake .. 75 ..
स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ॥ दद्यादिदं साक्षतं च पितृसाङ्गुण्यहेतवे ॥ ७६ ॥
स्व-गृह्य-उक्तेन मार्गेण दद्यात् पिण्डान् पृथक् पृथक् ॥ दद्यात् इदम् स अक्षतम् च पितृ-साङ्गुण्य-हेतवे ॥ ७६ ॥
sva-gṛhya-uktena mārgeṇa dadyāt piṇḍān pṛthak pṛthak .. dadyāt idam sa akṣatam ca pitṛ-sāṅguṇya-hetave .. 76 ..
ध्यायेत्सदाशिवं देवं हृदयाम्भोजमध्यतः ॥ तत्पादपद्मस्मरणादिति श्लोकं पठन्पुनः ॥ ७७ ॥
ध्यायेत् सदाशिवम् देवम् हृदय-अम्भोज-मध्यतस् ॥ तद्-पाद-पद्म-स्मरणात् इति श्लोकम् पठन् पुनर् ॥ ७७ ॥
dhyāyet sadāśivam devam hṛdaya-ambhoja-madhyatas .. tad-pāda-padma-smaraṇāt iti ślokam paṭhan punar .. 77 ..
नमस्कृत्य ब्राह्मणेभ्यो दक्षिणां च स्वश क्तितः ॥ दत्त्वा क्षमापय्य च तान्विसृज्य च ततः क्रमात् ॥ ७८ ॥
नमस्कृत्य ब्राह्मणेभ्यः दक्षिणाम् च स्व-श-क्तितः ॥ दत्त्वा क्षमापय्य च तान् विसृज्य च ततस् क्रमात् ॥ ७८ ॥
namaskṛtya brāhmaṇebhyaḥ dakṣiṇām ca sva-śa-ktitaḥ .. dattvā kṣamāpayya ca tān visṛjya ca tatas kramāt .. 78 ..
पिण्डानुत्सृज्य गोग्रासं दद्यान्नोचेज्जले क्षिपेत् ॥ पुण्याहवाचनं त्वां भुंजीत स्वजनैस्सह ॥ ७९॥
पिण्डान् उत्सृज्य गोग्रासम् दद्यात् नो चेद् जले क्षिपेत् ॥ पुण्य-अह-वाचनम् त्वाम् भुंजीत स्व-जनैः सह ॥ ७९॥
piṇḍān utsṛjya gogrāsam dadyāt no ced jale kṣipet .. puṇya-aha-vācanam tvām bhuṃjīta sva-janaiḥ saha .. 79..
अन्येद्युः प्रातरुत्थाय कृतनित्यक्रियस्सुधीः ॥ उपोष्य क्षौरकर्मादि कक्षोपस्थविवर्जितम् ॥ 6.12.८० ॥
अन्येद्युस् प्रातर् उत्थाय कृत-नित्यक्रियः सुधीः ॥ उपोष्य क्षौर-कर्म-आदि कक्ष-उपस्थ-विवर्जितम् ॥ ६।१२।८० ॥
anyedyus prātar utthāya kṛta-nityakriyaḥ sudhīḥ .. upoṣya kṣaura-karma-ādi kakṣa-upastha-vivarjitam .. 6.12.80 ..
केशश्मश्रुनखानेव कर्म्मावधि विसृज्य च॥समाष्टकेशान्विधिवत्कारयित्वा विधानतः॥८१॥
केश-श्मश्रु-नखान् एव कर्म्म-अवधि विसृज्य च॥सम-अष्ट-केशान् विधिवत् कारयित्वा विधानतः॥८१॥
keśa-śmaśru-nakhān eva karmma-avadhi visṛjya ca..sama-aṣṭa-keśān vidhivat kārayitvā vidhānataḥ..81..
स्नात्वा धौतपटश्शुद्धो द्विराचम्याथ वाग्यतः ॥ भस्म संधार्य्य विधिना कृत्वा पुण्याहवाचनम्॥८२॥
स्नात्वा धौत-पटः शुद्धः द्विस् आचम्य अथ वाग्यतः ॥ भस्म संधार्य्य विधिना कृत्वा पुण्य-अह-वाचनम्॥८२॥
snātvā dhauta-paṭaḥ śuddhaḥ dvis ācamya atha vāgyataḥ .. bhasma saṃdhāryya vidhinā kṛtvā puṇya-aha-vācanam..82..
तेन संप्रोक्ष्य संप्राप्य शुद्धदेहस्वभावतः ॥ होमद्रव्यार्थमाचार्य्य दक्षिणार्थं विहाय च ॥ ८३ ॥
तेन संप्रोक्ष्य संप्राप्य शुद्ध-देह-स्वभावतः ॥ होम-द्रव्य-अर्थम् आचार्य्य दक्षिणा-अर्थम् विहाय च ॥ ८३ ॥
tena saṃprokṣya saṃprāpya śuddha-deha-svabhāvataḥ .. homa-dravya-artham ācāryya dakṣiṇā-artham vihāya ca .. 83 ..
द्रव्यजातं महेशाय द्विजेभ्यश्च विशेषतः ॥ भक्तेभ्यश्च प्रदायाथ शिवाय गुरुरूपिणे ॥ ८४॥
द्रव्य-जातम् महेशाय द्विजेभ्यः च विशेषतः ॥ भक्तेभ्यः च प्रदाय अथ शिवाय गुरु-रूपिणे ॥ ८४॥
dravya-jātam maheśāya dvijebhyaḥ ca viśeṣataḥ .. bhaktebhyaḥ ca pradāya atha śivāya guru-rūpiṇe .. 84..
वस्त्रादि दक्षिणां दत्त्वा प्रणम्य भुवि दण्डवत् ॥ दोरकौपीनवसनं दण्डाच्च क्षालितम्भुवि ॥ ८५ ॥
वस्त्र-आदि दक्षिणाम् दत्त्वा प्रणम्य भुवि दण्ड-वत् ॥ दोर-कौपीन-वसनम् दण्डात् च क्षालितम् भुवि ॥ ८५ ॥
vastra-ādi dakṣiṇām dattvā praṇamya bhuvi daṇḍa-vat .. dora-kaupīna-vasanam daṇḍāt ca kṣālitam bhuvi .. 85 ..
आदाय होमद्रव्याणि समिधादीनि च क्रमात्॥समुद्रतीरे नद्यां वा पर्व्वते वा शिवालये ॥ ८६॥
आदाय होम-द्रव्याणि समिध्-आदीनि च क्रमात्॥समुद्र-तीरे नद्याम् वा पर्व्वते वा शिवालये ॥ ८६॥
ādāya homa-dravyāṇi samidh-ādīni ca kramāt..samudra-tīre nadyām vā parvvate vā śivālaye .. 86..
अरण्ये चापी गोष्ठे वा विचार्य्य स्थानमुत्तमम् ॥ स्थित्वाचम्य ततः पूर्व्वं कृत्वा मानसमञ्जरीम् ॥ ८७॥
अरण्ये चापी गोष्ठे वा विचार्य्य स्थानम् उत्तमम् ॥ स्थित्वा आचम्य ततस् पूर्व्वम् कृत्वा मानसमञ्जरीम् ॥ ८७॥
araṇye cāpī goṣṭhe vā vicāryya sthānam uttamam .. sthitvā ācamya tatas pūrvvam kṛtvā mānasamañjarīm .. 87..
ब्राह्ममोंकारसहितं नमो ब्रह्मण इत्यपि ॥ जपित्वा त्रिस्ततो ब्रूयादग्निमीळे पुरोहितम् ॥ ८८॥
ब्राह्मम् ओंकार-सहितम् नमः ब्रह्मणे इति अपि ॥ जपित्वा त्रिस् ततस् ब्रूयात् अग्निमीळे पुरोहितम् ॥ ८८॥
brāhmam oṃkāra-sahitam namaḥ brahmaṇe iti api .. japitvā tris tatas brūyāt agnimīl̤e purohitam .. 88..
अथ महाव्रतमिति अग्निर्वै देवा नामतः ॥ तथैतस्य समाम्नायमिषेत्वोर्ज्जे त्वा वेति तत् ॥ ८९॥
अथ महाव्रतम् इति अग्निः वै देवाः नामतः ॥ तथा एतस्य समाम्नायम् इषेत्वा ऊर्जे त्वा वा इति तत् ॥ ८९॥
atha mahāvratam iti agniḥ vai devāḥ nāmataḥ .. tathā etasya samāmnāyam iṣetvā ūrje tvā vā iti tat .. 89..
अग्न आयाहि वीतये शन्नो देवीरभिष्टये॥पश्चात्प्रोच्य मयरसतजभनलगैः सह॥6.12.९०॥
अग्ने आयाहि वीतये शत् नः देवीः अभिष्टये॥पश्चात् प्रोच्य मय-रस-तज-भ-न-लगैः सह॥६।१२।९०॥
agne āyāhi vītaye śat naḥ devīḥ abhiṣṭaye..paścāt procya maya-rasa-taja-bha-na-lagaiḥ saha..6.12.90..
सम्मितं च ततः पञ्चसंवत्सरमयं ततः ॥ समाम्नायस्समाम्नातः अथ शिक्षां वदेत्पुनः ॥ प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च सम्वदेत् ॥ ९१ ॥
सम्मितम् च ततस् पञ्च-संवत्सर-मयम् ततस् ॥ समाम्नायः समाम्नातः अथ शिक्षाम् वदेत् पुनर् ॥ प्रवक्ष्यामि इति उदीर्य अथ वृद्धिः आदैत् च सम्वदेत् ॥ ९१ ॥
sammitam ca tatas pañca-saṃvatsara-mayam tatas .. samāmnāyaḥ samāmnātaḥ atha śikṣām vadet punar .. pravakṣyāmi iti udīrya atha vṛddhiḥ ādait ca samvadet .. 91 ..
अथातो धर्मजिज्ञासेत्युच्चार्य पुनरंजसा ॥ अथातो ब्रह्मजिज्ञासा वेदादीनपि संजपेत् ॥ ९२ ॥
अथ अतस् धर्म-जिज्ञासा इति उच्चार्य पुनर् अंजसा ॥ अथ अतस् ब्रह्म-जिज्ञासा वेद-आदीन् अपि संजपेत् ॥ ९२ ॥
atha atas dharma-jijñāsā iti uccārya punar aṃjasā .. atha atas brahma-jijñāsā veda-ādīn api saṃjapet .. 92 ..
ब्रह्माणमिन्द्रं सूर्य्यञ्च सोमं चैव प्रजापतिम् ॥ आत्मानमन्तरात्मानं ज्ञानात्मानमतः परम् ॥ ९३ ॥
ब्रह्माणम् इन्द्रम् सूर्यम् च सोमम् च एव प्रजापतिम् ॥ आत्मानम् अन्तरात्मानम् ज्ञान-आत्मानम् अतस् परम् ॥ ९३ ॥
brahmāṇam indram sūryam ca somam ca eva prajāpatim .. ātmānam antarātmānam jñāna-ātmānam atas param .. 93 ..
परमात्मानमपि च प्रणवाद्यं नमोंतकम् ॥ चतुर्थ्यन्तं जपित्वाऽथ सक्तुमुष्टिं प्रगृह्य च ॥ ९४ ॥
परम-आत्मानम् अपि च प्रणव-आद्यम् नमः-ओंतकम् ॥ चतुर्थी-अन्तम् जपित्वा अथ सक्तु-मुष्टिम् प्रगृह्य च ॥ ९४ ॥
parama-ātmānam api ca praṇava-ādyam namaḥ-oṃtakam .. caturthī-antam japitvā atha saktu-muṣṭim pragṛhya ca .. 94 ..
प्राश्याथ प्रणवेनैव द्विराचम्याथ संस्पृशेत् ॥ नाभिं मन्त्रान्वक्ष्यमाणन्प्रणवाद्यान्नमोन्तकान् ॥ ९५ ॥
प्राश्य अथ प्रणवेन एव द्विस् आचम्य अथ संस्पृशेत् ॥ नाभिम् मन्त्रान् वक्ष्यमाणन् प्रणव-आद्यान् नमः-न्तकान् ॥ ९५ ॥
prāśya atha praṇavena eva dvis ācamya atha saṃspṛśet .. nābhim mantrān vakṣyamāṇan praṇava-ādyān namaḥ-ntakān .. 95 ..
आत्मानमन्तरात्मानं ज्ञानात्मानं पुरं पुनः ॥ आत्मानं च समुच्चार्य प्रजापतिमतः परम् ॥ ९६ ॥
आत्मानम् अन्तरात्मानम् ज्ञान-आत्मानम् पुरम् पुनर् ॥ आत्मानम् च समुच्चार्य प्रजापतिम् अतस् परम् ॥ ९६ ॥
ātmānam antarātmānam jñāna-ātmānam puram punar .. ātmānam ca samuccārya prajāpatim atas param .. 96 ..
स्वाहांतान्प्रजपेत्पश्चात्पयोदधिघृतं पृथक् ॥ त्रिवारं प्रणवेनैव प्राश्याचम्य द्विधा पुनः ॥ ॥ ९७ ॥
स्वाहा-अंतान् प्रजपेत् पश्चात् पयः-दधि-घृतम् पृथक् ॥ त्रि-वारम् प्रणवेन एव प्राश्य आचम्य द्विधा पुनर् ॥ ॥ ९७ ॥
svāhā-aṃtān prajapet paścāt payaḥ-dadhi-ghṛtam pṛthak .. tri-vāram praṇavena eva prāśya ācamya dvidhā punar .. .. 97 ..
प्रागास्य उपविश्याथ दृढचित्तः स्थिरासनः ॥ यथोक्तविधिना सम्यक्प्राणायामत्रयञ्चरेत् ॥ ९८ ॥
प्राच्-आस्यः उपविश्य अथ दृढ-चित्तः स्थिर-आसनः ॥ यथा उक्त-विधिना सम्यक् प्राणायाम-त्रयम् चरेत् ॥ ९८ ॥
prāc-āsyaḥ upaviśya atha dṛḍha-cittaḥ sthira-āsanaḥ .. yathā ukta-vidhinā samyak prāṇāyāma-trayam caret .. 98 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासविधिवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् संन्यासविधिवर्णनम् नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām saṃnyāsavidhivarṇanam nāma dvādaśaḥ adhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In