| |
|

This overlay will guide you through the buttons:

।। सुब्रह्मण्य उवाच ।।
अथ मध्याह्नसमये स्नात्वा नियतमानसः ॥ गन्धपुष्पाक्षतादीनि पूजाद्रव्याण्युपाहरेत॥१॥
अथ मध्याह्न-समये स्नात्वा नियत-मानसः ॥ गन्ध-पुष्प-अक्षत-आदीनि पूजा-द्रव्याणि उपाहरेत॥१॥
atha madhyāhna-samaye snātvā niyata-mānasaḥ .. gandha-puṣpa-akṣata-ādīni pūjā-dravyāṇi upāhareta..1..
नैर्ऋत्ये पूजयेद्देवं विघ्रेशं देवपूजितम्॥गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः ॥ २॥
नैरृत्ये पूजयेत् देवम् विघ्रेशम् देव-पूजितम्॥गणानाम् त्वा इति मन्त्रेण आवाहयेत् सु विधानतः ॥ २॥
nairṛtye pūjayet devam vighreśam deva-pūjitam..gaṇānām tvā iti mantreṇa āvāhayet su vidhānataḥ .. 2..
रक्तवर्णं महाकायं सर्व्वाभरणभूषितम्॥पाशांकुशाक्षाभीष्टञ्च दधानं करपंकजैः ॥ ३ ॥
रक्त-वर्णम् महा-कायम् सर्व्व-आभरण-भूषितम्॥दधानम् कर-पंकजैः ॥ ३ ॥
rakta-varṇam mahā-kāyam sarvva-ābharaṇa-bhūṣitam..dadhānam kara-paṃkajaiḥ .. 3 ..
एवमावाह्य सन्ध्याय शंभुपुत्रं गजाननम्॥अभ्यर्च्य पायसापूपनालिकेरगुडादिभिः ॥ ४॥
एवम् आवाह्य सन्ध्याय शंभु-पुत्रम् गजाननम्॥अभ्यर्च्य पायस-अपूप-नालिकेर-गुड-आदिभिः ॥ ४॥
evam āvāhya sandhyāya śaṃbhu-putram gajānanam..abhyarcya pāyasa-apūpa-nālikera-guḍa-ādibhiḥ .. 4..
नैवेद्यमुत्तमं दद्यात्ताम्बूलादिमथापरम्॥परितोष्य नमस्कृत्य निर्विघ्नम्प्रार्थयेत्ततः ॥ ५ ॥
नैवेद्यम् उत्तमम् दद्यात् ताम्बूल-आदिम् अथ अपरम्॥परितोष्य नमस्कृत्य निर्विघ्नम् प्रार्थयेत् ततस् ॥ ५ ॥
naivedyam uttamam dadyāt tāmbūla-ādim atha aparam..paritoṣya namaskṛtya nirvighnam prārthayet tatas .. 5 ..
औपासनाग्नौ कर्त्तव्यं स्वगृह्योक्तविधानतः ॥ आज्यभागान्तमाग्नेयं मखतन्त्रमतः परम् ॥ ६ ॥
औपासन-अग्नौ कर्त्तव्यम् स्व-गृह्य-उक्त-विधानतः ॥ आज्यभाग-अन्तम् आग्नेयम् मख-तन्त्रम् अतस् परम् ॥ ६ ॥
aupāsana-agnau karttavyam sva-gṛhya-ukta-vidhānataḥ .. ājyabhāga-antam āgneyam makha-tantram atas param .. 6 ..
भूः स्वाहेति त्र्यृचा पूर्णाहुतिं हुत्वा समाप्य च॥गायत्रीं प्रजपेद्यावदपराह्णमतंद्रितः ॥ ७॥
भूः स्वाहा इति त्र्यृचा पूर्णाहुतिम् हुत्वा समाप्य च॥गायत्रीम् प्रजपेत् यावत् अपराह्णम् अतंद्रितः ॥ ७॥
bhūḥ svāhā iti tryṛcā pūrṇāhutim hutvā samāpya ca..gāyatrīm prajapet yāvat aparāhṇam ataṃdritaḥ .. 7..
अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् ॥ ।सायमौपासनं हुत्वा मौनी विज्ञापयेद्गुरुम् ॥ ६ ॥
अथ सायन्तनीम् सन्ध्याम् उपास्य स्नान-पूर्वकम् ॥ ।सायम् औपासनम् हुत्वा मौनी विज्ञापयेत् गुरुम् ॥ ६ ॥
atha sāyantanīm sandhyām upāsya snāna-pūrvakam .. .sāyam aupāsanam hutvā maunī vijñāpayet gurum .. 6 ..
श्रपयित्वा चरुन्तस्मिन्समिदन्नाज्यभेदतः ॥ जुहुयाद्रौद्रसूक्तेन सद्योजातादि पञ्चभिः ॥ ९ ॥
श्रपयित्वा चरुन् तस्मिन् समिध्-अन्न-आज्य-भेदतः ॥ जुहुयात् रौद्र-सूक्तेन सद्योजात-आदि पञ्चभिः ॥ ९ ॥
śrapayitvā carun tasmin samidh-anna-ājya-bhedataḥ .. juhuyāt raudra-sūktena sadyojāta-ādi pañcabhiḥ .. 9 ..
ब्रह्मभिश्च महादेवं सांबं वह्नौ विभावयेत् ॥ गौरीर्मिमाय मन्त्रेण हुत्वा गौरीमनुस्मरन् ॥ 6.13.१०॥
ब्रह्मभिः च महादेवम् स अंबम् वह्नौ विभावयेत् ॥ गौरीः मिमाय मन्त्रेण हुत्वा गौरीम् अनुस्मरन् ॥ ६।१३।१०॥
brahmabhiḥ ca mahādevam sa aṃbam vahnau vibhāvayet .. gaurīḥ mimāya mantreṇa hutvā gaurīm anusmaran .. 6.13.10..
ततोऽग्नये स्विष्टकृते स्वाहेति जुहुयात्सकृत्॥हुत्वोपरिष्टात्तन्त्रन्तु ततोऽग्नेरुत्तरे बुधः ॥ ११॥
ततस् अग्नये स्विष्टकृते स्वाहा इति जुहुयात् सकृत्॥हुत्वा उपरिष्टात् तन्त्रन् तु ततस् अग्नेः उत्तरे बुधः ॥ ११॥
tatas agnaye sviṣṭakṛte svāhā iti juhuyāt sakṛt..hutvā upariṣṭāt tantran tu tatas agneḥ uttare budhaḥ .. 11..
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ॥ आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः ॥ १२ ॥
स्थित्वा आसने जपेत् मौनी चैल-अजिन-कुश-उत्तरे ॥ आब्राह्मम् च मुहूर्ते तु गायत्री दृढ-मानसः ॥ १२ ॥
sthitvā āsane japet maunī caila-ajina-kuśa-uttare .. ābrāhmam ca muhūrte tu gāyatrī dṛḍha-mānasaḥ .. 12 ..
ततः स्नात्वा त्वशक्तश्चेद्भस्मना वा विधानतः ॥ श्रपयित्वा चरुं तस्मिन्नग्नावे वाभिधारितम् ॥ १३ ॥
ततस् स्नात्वा तु अशक्तः चेद् भस्मना वा विधानतः ॥ श्रपयित्वा चरुम् तस्मिन् अग्नौ वा अभिधारितम् ॥ १३ ॥
tatas snātvā tu aśaktaḥ ced bhasmanā vā vidhānataḥ .. śrapayitvā carum tasmin agnau vā abhidhāritam .. 13 ..
उदगुद्वास्य बर्हिष्यासाद्याज्येन चरुं ततः ॥ अभिघार्य्य व्याहृतीश्च रौद्रसूक्तञ्च पञ्च च ॥ १४ ॥
उदक् उद्वास्य बर्हिषि आसाद्य आज्येन चरुम् ततस् ॥ अभिघार्य व्याहृतीः च रौद्र-सूक्तम् च पञ्च च ॥ १४ ॥
udak udvāsya barhiṣi āsādya ājyena carum tatas .. abhighārya vyāhṛtīḥ ca raudra-sūktam ca pañca ca .. 14 ..
जपेद्ब्रह्माणि सन्धार्य्य चित्तं शिवपदांबुजे ॥ प्रजापतिमथेन्द्रञ्च विश्वेदेवास्ततः परम् ॥ १५।
जपेत् ब्रह्माणि सन्धार्य्य चित्तम् शिव-पद-अम्बुजे ॥ प्रजापतिम् अथ इन्द्रन् च विश्वेदेवाः ततस् परम् ॥ १५।
japet brahmāṇi sandhāryya cittam śiva-pada-ambuje .. prajāpatim atha indran ca viśvedevāḥ tatas param .. 15.
ब्रह्माणं सचतुर्थ्यन्तं स्वाहांतान्प्रणवा दिकान् ॥ संजप्य वाचयित्वाऽथ पुण्याहं च ततः परम् ॥ १६ ॥
ब्रह्माणम् स चतुर्थी-अन्तम् स्वाहा-अंतान् प्रणव-आदिकान् ॥ संजप्य वाचयित्वा अथ पुण्याहम् च ततस् परम् ॥ १६ ॥
brahmāṇam sa caturthī-antam svāhā-aṃtān praṇava-ādikān .. saṃjapya vācayitvā atha puṇyāham ca tatas param .. 16 ..
परस्तात्तंत्रमग्नये स्वाहेत्यग्निमुखावधि ॥ निर्वर्त्य पश्चात्प्राणाय स्वाहेत्यारभ्य पञ्चभिः ॥ १७॥
परस्तात् तंत्रम् अग्नये स्वाहा इति अग्नि-मुख-अवधि ॥ निर्वर्त्य पश्चात् प्राणाय स्वाहा इति आरभ्य पञ्चभिः ॥ १७॥
parastāt taṃtram agnaye svāhā iti agni-mukha-avadhi .. nirvartya paścāt prāṇāya svāhā iti ārabhya pañcabhiḥ .. 17..
साज्येन चरुणा पश्चादग्निं स्विष्टकृतं हुनेत् ॥ पुनश्च प्रजपेत्सूक्तं रौद्रं ब्रह्माणि पञ्च च ॥ १८॥
स आज्येन चरुणा पश्चात् अग्निम् स्विष्टकृतम् हुनेत् ॥ पुनर् च प्रजपेत् सूक्तम् रौद्रम् ब्रह्माणि पञ्च च ॥ १८॥
sa ājyena caruṇā paścāt agnim sviṣṭakṛtam hunet .. punar ca prajapet sūktam raudram brahmāṇi pañca ca .. 18..
महेशादिचतुर्व्यूहमन्त्रांश्च प्रजपेत्पुनः ॥ हुत्वोपरिष्टात्तन्त्रन्तु स्वशाखोक्तेन वर्त्मना ॥ १९॥
महेश-आदि-चतुर्-व्यूह-मन्त्रान् च प्रजपेत् पुनर् ॥ हुत्वा उपरिष्टात् तन्त्रम् तु स्व-शाखा-उक्तेन वर्त्मना ॥ १९॥
maheśa-ādi-catur-vyūha-mantrān ca prajapet punar .. hutvā upariṣṭāt tantram tu sva-śākhā-uktena vartmanā .. 19..
तत्तद्देवान्समुद्दिश्य सांगं कुर्य्याद्विचक्षणः॥एवमग्निमुखाद्यं यत्कर्मतन्त्रम्प्रवर्त्तितम् ॥ 6.13.२०॥
तत् तत् देवान् समुद्दिश्य स अंगम् कुर्यात् विचक्षणः॥एवम् अग्नि-मुख-आद्यम् यत् कर्म-तन्त्रम् प्रवर्त्तितम् ॥ ६।१३।२०॥
tat tat devān samuddiśya sa aṃgam kuryāt vicakṣaṇaḥ..evam agni-mukha-ādyam yat karma-tantram pravarttitam .. 6.13.20..
अतः परं प्रजुहुयाद्विरजाहोममात्मनः ॥ षड्विंशतत्त्वरूपेस्मिन्देहे लीनस्य शुद्धये ॥ २१॥
अतस् परम् प्रजुहुयात् विरजा-होमम् आत्मनः ॥ षड्विंश-तत्त्व-रूपे स्मिन् देहे लीनस्य शुद्धये ॥ २१॥
atas param prajuhuyāt virajā-homam ātmanaḥ .. ṣaḍviṃśa-tattva-rūpe smin dehe līnasya śuddhaye .. 21..
तत्त्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् ॥ तत्रात्मतत्त्वशुद्ध्यर्थं मन्त्रैरारुणकेतुकैः ॥ २२॥
तत्त्वानि एतानि मद्-देहे शुध्यन्ताम् इति अनुस्मरन् ॥ तत्र आत्म-तत्त्व-शुद्धि-अर्थम् मन्त्रैः आरुणकेतुकैः ॥ २२॥
tattvāni etāni mad-dehe śudhyantām iti anusmaran .. tatra ātma-tattva-śuddhi-artham mantraiḥ āruṇaketukaiḥ .. 22..
पठ्यमानैः पृथिव्यादिपुरुषांतं क्रमान्मुने ॥ साज्येन चरुणा मौनी शिवपादाम्बुजं स्मरन् ॥ २३॥
पठ्यमानैः पृथिवी-आदि-पुरुष-अंतम् क्रमात् मुने ॥ स आज्येन चरुणा मौनी शिव-पाद-अम्बुजम् स्मरन् ॥ २३॥
paṭhyamānaiḥ pṛthivī-ādi-puruṣa-aṃtam kramāt mune .. sa ājyena caruṇā maunī śiva-pāda-ambujam smaran .. 23..
पृथिव्यादि च शब्दादि वागाद्यं पञ्चकं पुनः ॥ श्रोत्राद्यञ्च शिरः पार्श्वपृष्ठोदरचतुष्टयम् ॥ २४॥
पृथिवी-आदि च शब्द-आदि वाच्-आद्यम् पञ्चकम् पुनर् ॥ शिरः पार्श्व-पृष्ठ-उदर-चतुष्टयम् ॥ २४॥
pṛthivī-ādi ca śabda-ādi vāc-ādyam pañcakam punar .. śiraḥ pārśva-pṛṣṭha-udara-catuṣṭayam .. 24..
जंघां च योजयेत्पश्चात्त्वगाद्यं धातुसप्तकम् ॥ प्राणाद्यं पञ्चकं पश्चादन्नाद्यं कोशपञ्चकम्॥२५॥।
जंघाम् च योजयेत् पश्चात् त्वच्-आद्यम् धातु-सप्तकम् ॥ प्राण-आद्यम् पञ्चकम् पश्चात् अन्नाद्यम् कोश-पञ्चकम्॥२५॥।
jaṃghām ca yojayet paścāt tvac-ādyam dhātu-saptakam .. prāṇa-ādyam pañcakam paścāt annādyam kośa-pañcakam..25...
मनाश्चित्तं च बुद्धिश्चाहंकृतिः ख्यातिरेव च ॥ संकल्पन्तु गुणाः पश्चात्प्रकृतिः पुरुषस्ततः ॥ २६॥
मनाः चित्तम् च बुद्धिः च अहंकृतिः ख्यातिः एव च ॥ गुणाः पश्चात् प्रकृतिः पुरुषः ततस् ॥ २६॥
manāḥ cittam ca buddhiḥ ca ahaṃkṛtiḥ khyātiḥ eva ca .. guṇāḥ paścāt prakṛtiḥ puruṣaḥ tatas .. 26..
पुरुषस्य तु भोक्तृत्वं प्रतिपन्नस्य भोजने ॥ अन्तरंगतया तत्त्वपंचकं परिकीर्तितम् ॥ २७ ॥
पुरुषस्य तु भोक्तृ-त्वम् प्रतिपन्नस्य भोजने ॥ अन्तरंग-तया तत्त्वपंचकम् परिकीर्तितम् ॥ २७ ॥
puruṣasya tu bhoktṛ-tvam pratipannasya bhojane .. antaraṃga-tayā tattvapaṃcakam parikīrtitam .. 27 ..
नियतिः कालरागश्च विद्या च तदनन्तरम् ॥ कला च पंचकमिदं मयोत्पन्नम्मुनीश्वर ॥ २८॥
नियतिः काल-रागः च विद्या च तद्-अनन्तरम् ॥ कला च पंचकम् इदम् मया उत्पन्नम् मुनि-ईश्वर ॥ २८॥
niyatiḥ kāla-rāgaḥ ca vidyā ca tad-anantaram .. kalā ca paṃcakam idam mayā utpannam muni-īśvara .. 28..
मायान्तु प्रकृतिं विद्यादिति माया श्रुतीरिता ॥ तज्जान्येतानि तत्त्वानि श्रुत्युक्तानि न संशयः ॥ २९॥।
मायाम् तु प्रकृतिम् विद्यात् इति माया श्रुतीः ईरिता ॥ तद्-जानि एतानि तत्त्वानि श्रुति-उक्तानि न संशयः ॥ २९॥।
māyām tu prakṛtim vidyāt iti māyā śrutīḥ īritā .. tad-jāni etāni tattvāni śruti-uktāni na saṃśayaḥ .. 29...
कालस्वभावो नियतिरिति च श्रुतितब्रवीत् ॥ एतत्पञ्चकमेवास्य पञ्चकञ्चक्रमुच्यते ॥ 6.13.३० ॥
काल-स्वभावः नियतिः इति च श्रुतितः ब्रवीत् ॥ एतत् पञ्चकम् एव अस्य पञ्चकञ्चक्रम् उच्यते ॥ ६।१३।३० ॥
kāla-svabhāvaḥ niyatiḥ iti ca śrutitaḥ bravīt .. etat pañcakam eva asya pañcakañcakram ucyate .. 6.13.30 ..
अजानन्पञ्चतत्त्वानि विद्वानपि च। मूढधीः ॥ निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम् ॥ ३१ ॥
अ जानन् पञ्चतत्त्वानि विद्वान् अपि च। मूढ-धीः ॥ निपत्य अधस्तात् प्रकृतेः उपरिष्टात् पुमान् अयम् ॥ ३१ ॥
a jānan pañcatattvāni vidvān api ca. mūḍha-dhīḥ .. nipatya adhastāt prakṛteḥ upariṣṭāt pumān ayam .. 31 ..
काकाक्षिन्यायमाश्रित्य वर्त्तते पार्श्वतोन्वहम् ॥ विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ ॥ ३२ ॥
काक-अक्षि-न्यायम् आश्रित्य वर्त्तते पार्श्वतस् न्वहम् ॥ विद्या-तत्त्वम् इदम् प्रोक्तम् शुद्धविद्या-महेश्वरौ ॥ ३२ ॥
kāka-akṣi-nyāyam āśritya varttate pārśvatas nvaham .. vidyā-tattvam idam proktam śuddhavidyā-maheśvarau .. 32 ..
सदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् ॥ शिव तत्त्वमिदम्ब्रह्मन्प्रज्ञानब्रह्मवाग्यतः ॥ ३३॥।
सदाशिवः च शक्तिः च शिवः च इदम् तु पञ्चकम् ॥ शिव तत्त्वम् इदम् ब्रह्मन् प्रज्ञान-ब्रह्म-वाग्यतः ॥ ३३॥।
sadāśivaḥ ca śaktiḥ ca śivaḥ ca idam tu pañcakam .. śiva tattvam idam brahman prajñāna-brahma-vāgyataḥ .. 33...
पृथिव्यादिशिवांतं यत्तत्त्वजातं मुनीश्वर ॥ स्वकारणलयद्वारा शुद्धिरस्य विधीयताम् ॥ ३४ ॥
पृथिवी-आदि-शिव-अंतम् यत् तत्त्व-जातम् मुनि-ईश्वर ॥ स्व-कारण-लय-द्वारा शुद्धिः अस्य विधीयताम् ॥ ३४ ॥
pṛthivī-ādi-śiva-aṃtam yat tattva-jātam muni-īśvara .. sva-kāraṇa-laya-dvārā śuddhiḥ asya vidhīyatām .. 34 ..
एकादशानां मन्त्राणाम्परस्मैपद पूर्वकम् ॥ शिवज्योतिश्चतुर्थ्यन्तमिदम्पदमथोच्चरेत् ॥ ३५ ॥
एकादशानाम् मन्त्राणाम् परस्मैपद-पूर्वकम् ॥ शिवज्योतिः-चतुर्थी-अन्तम् इदम्पदम् अथ उच्चरेत् ॥ ३५ ॥
ekādaśānām mantrāṇām parasmaipada-pūrvakam .. śivajyotiḥ-caturthī-antam idampadam atha uccaret .. 35 ..
न ममेति वदेत्पश्चादुद्देशत्याग ईरितः ॥ अतः परं विविद्यैति कपोतकायेति मन्त्रयोः ॥ ३६ ॥
न मम इति वदेत् पश्चात् उद्देश-त्यागः ईरितः ॥ अतस् परम् विविद्य एति कपोतकाय इति मन्त्रयोः ॥ ३६ ॥
na mama iti vadet paścāt uddeśa-tyāgaḥ īritaḥ .. atas param vividya eti kapotakāya iti mantrayoḥ .. 36 ..
व्यापकाय पदस्यान्ते परमात्मन इत्यपि ॥ शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदम्पुनः ॥ ३७॥
व्यापकाय पदस्य अन्ते परमात्मने इति अपि ॥ शिव-ज्योतिः-चतुर्थी-अन्तम् विश्व-भूत-पदम् पुनर् ॥ ३७॥
vyāpakāya padasya ante paramātmane iti api .. śiva-jyotiḥ-caturthī-antam viśva-bhūta-padam punar .. 37..
घसनोत्सुकशब्दञ्च चतुर्थ्यंतमथो वदेत् ॥ परस्मैपदमुच्चार्य्य देवाय पदमुच्चरेत्॥३८॥
घसन-उत्सुक-शब्दन् च चतुर्थी-अंतम् अथो वदेत् ॥ परस्मैपदम् उच्चार्य्य देवाय पदम् उच्चरेत्॥३८॥
ghasana-utsuka-śabdan ca caturthī-aṃtam atho vadet .. parasmaipadam uccāryya devāya padam uccaret..38..
उत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः ॥ पुरुषाय पदम्ब्रूयादोस्वाहेत्यस्य संवदेत् ॥ ३९॥
उत्तिष्ठस्व इति मन्त्रस्य विश्वरूपाय शब्दतः ॥ पुरुषाय पदम् ब्रूयात् ओस्वाहा इति अस्य संवदेत् ॥ ३९॥
uttiṣṭhasva iti mantrasya viśvarūpāya śabdataḥ .. puruṣāya padam brūyāt osvāhā iti asya saṃvadet .. 39..
लोकत्रयपदस्यान्ते व्यापिने परमात्मने॥शिवायेदं न मम च पदम्ब्रूयादतः परम् ॥ 6.13.४०॥।
लोक-त्रय-पदस्य अन्ते व्यापिने परम-आत्मने॥शिवाय इदम् न मम च पदम् ब्रूयात् अतस् परम् ॥ ६।१३।४०॥।
loka-traya-padasya ante vyāpine parama-ātmane..śivāya idam na mama ca padam brūyāt atas param .. 6.13.40...
स्व शाखोक्तप्रकारेण पुरस्तात्तन्त्रकर्म्म च ॥ निर्वर्त्य सर्पिषा मिश्रं चरुम्प्राश्य पुरोधसे ॥ ४१ ॥
शाखा-उक्त-प्रकारेण पुरस्तात् तन्त्र-कर्म्म च ॥ निर्वर्त्य सर्पिषा मिश्रम् चरुम् प्राश्य पुरोधसे ॥ ४१ ॥
śākhā-ukta-prakāreṇa purastāt tantra-karmma ca .. nirvartya sarpiṣā miśram carum prāśya purodhase .. 41 ..
प्रदद्याद्दक्षिणान्तस्मै हेमादिपरिबृंहिताम् ॥ ब्रह्माणमुद्वास्य ततः प्रातरौपासनं हुनेत् ॥ ४२ ॥
प्रदद्यात् दक्षिणान् तस्मै हेम-आदि-परिबृंहिताम् ॥ ब्रह्माणम् उद्वास्य ततस् प्रातर् औपासनम् हुनेत् ॥ ४२ ॥
pradadyāt dakṣiṇān tasmai hema-ādi-paribṛṃhitām .. brahmāṇam udvāsya tatas prātar aupāsanam hunet .. 42 ..
सं मां सिञ्चन्तु मरुत इति मन्त्रञ्जपेन्नरः ॥ याते अग्न इत्यनेन मन्त्रेणाग्नौ प्रताप्य च ॥ ४३ ॥
सम् माम् सिञ्चन्तु मरुतः इति मन्त्रन् जपेत् नरः ॥ याते अग्ने इति अनेन मन्त्रेण अग्नौ प्रताप्य च ॥ ४३ ॥
sam mām siñcantu marutaḥ iti mantran japet naraḥ .. yāte agne iti anena mantreṇa agnau pratāpya ca .. 43 ..
हस्तमग्नौ समारोप्य स्वात्मन्यद्वैतधामनि ॥ प्राभातिकीं ततः सन्ध्यामुपास्यादित्यमप्यथ ॥ ४४ ॥
हस्तम् अग्नौ समारोप्य स्व-आत्मनि अद्वैत-धामनि ॥ प्राभातिकीम् ततस् सन्ध्याम् उपास्य आदित्यम् अपि अथ ॥ ४४ ॥
hastam agnau samāropya sva-ātmani advaita-dhāmani .. prābhātikīm tatas sandhyām upāsya ādityam api atha .. 44 ..
उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् ॥ तन्मन्त्रान्प्रजपेत्प्रीत्या निश्चलात्मा समुत्सुकः ॥ ४५॥
उपस्थाय प्रविश्य अप्सु नाभि-दघ्नम् प्रवेशयन् ॥ तद्-मन्त्रान् प्रजपेत् प्रीत्या निश्चल-आत्मा समुत्सुकः ॥ ४५॥
upasthāya praviśya apsu nābhi-daghnam praveśayan .. tad-mantrān prajapet prītyā niścala-ātmā samutsukaḥ .. 45..
आहिताग्निस्तु यः कुर्य्यात्प्राजापत्येष्टिमाहिते ॥ श्रौते वैश्वानरे सम्यक्सर्ववेदसदक्षिणाम् ॥ ४६॥
आहिताग्निः तु यः कुर्य्यात् प्राजापत्य-इष्टिम् आहिते ॥ श्रौते वैश्वानरे सम्यक् सर्ववेदस-दक्षिणाम् ॥ ४६॥
āhitāgniḥ tu yaḥ kuryyāt prājāpatya-iṣṭim āhite .. śraute vaiśvānare samyak sarvavedasa-dakṣiṇām .. 46..
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात्॥सावित्रीप्रथमं पादं सावित्रीमित्युदीर्य च॥४७॥
अथ अग्निम् आत्मनि आरोप्य ब्राह्मणः प्रव्रजेत् गृहात्॥सावित्री-प्रथमम् पादम् सावित्रीम् इति उदीर्य च॥४७॥
atha agnim ātmani āropya brāhmaṇaḥ pravrajet gṛhāt..sāvitrī-prathamam pādam sāvitrīm iti udīrya ca..47..
प्रवेशयामि शब्दान्ते भूरोमिति च संवदेत् ॥ द्वितीयम्पादमुच्चार्य्य सावित्रीमिति पूर्व्ववत् ॥ ४८ ॥
प्रवेशयामि शब्द-अन्ते भूरोम् इति च संवदेत् ॥ द्वितीयम् पादम् उच्चार्य्य सावित्रीम् इति पूर्व्ववत् ॥ ४८ ॥
praveśayāmi śabda-ante bhūrom iti ca saṃvadet .. dvitīyam pādam uccāryya sāvitrīm iti pūrvvavat .. 48 ..
प्रवेशयामि शब्दान्ते भुवरोमिति संवदेत्॥तृतीयम्पादमुच्चार्य्य सावित्रीमित्यतः परम् ॥ ४९॥
प्रवेशयामि शब्द-अन्ते भुवर् ओम् इति संवदेत्॥तृतीयम् पादम् उच्चार्य्य सावित्रीम् इति अतस् परम् ॥ ४९॥
praveśayāmi śabda-ante bhuvar om iti saṃvadet..tṛtīyam pādam uccāryya sāvitrīm iti atas param .. 49..
प्रवेशयामि शब्दान्ते सुवरोमित्युदीरयेत्॥त्रिपादमुच्चरेत्पूर्वं सावित्रीमित्यतः परम् ॥ 6.13.५०॥
प्रवेशयामि शब्द-अन्ते सुवर् ओम् इति उदीरयेत्॥त्रि-पादम् उच्चरेत् पूर्वम् सावित्रीम् इति अतस् परम् ॥ ६।१३।५०॥
praveśayāmi śabda-ante suvar om iti udīrayet..tri-pādam uccaret pūrvam sāvitrīm iti atas param .. 6.13.50..
प्रवेशयामि शब्दान्ते भूर्भुवस्सुवरोमिति ॥ उदीरयेत्परम्प्रीत्या निश्चलात्मा मुनीश्वर ॥ ५१॥
प्रवेशयामि शब्द-अन्ते भूः भुवः सुवर् ओम् इति ॥ उदीरयेत् परम् प्रीत्या निश्चल-आत्मा मुनि-ईश्वर ॥ ५१॥
praveśayāmi śabda-ante bhūḥ bhuvaḥ suvar om iti .. udīrayet param prītyā niścala-ātmā muni-īśvara .. 51..
इयम्भगवती साक्षाच्छंकरार्द्धशरीरिणी ॥ पंचवक्त्रा दशभुजा विपञ्चनयनोज्ज्वला ॥ ५२॥
इयम् भगवती साक्षात् शंकर-अर्द्ध-शरीरिणी ॥ पंचवक्त्रा दश-भुजा विपञ्च-नयन-उज्ज्वला ॥ ५२॥
iyam bhagavatī sākṣāt śaṃkara-arddha-śarīriṇī .. paṃcavaktrā daśa-bhujā vipañca-nayana-ujjvalā .. 52..
नवरत्नकिरीटोद्यच्चन्द्र लेखावतंसिनी ॥ शुद्धस्फटिकसंकाशा दयायुधधरा शुभा ॥ ५३॥
नव-रत्न-किरीट-उद्यत्-चन्द्र लेखा-अवतंसिनी ॥ शुद्ध-स्फटिक-संकाशा दया-आयुध-धरा शुभा ॥ ५३॥
nava-ratna-kirīṭa-udyat-candra lekhā-avataṃsinī .. śuddha-sphaṭika-saṃkāśā dayā-āyudha-dharā śubhā .. 53..
हारकेयूरकटककिंकिणीनूपुरादिभिः ॥ भूषितावयवा दिव्यवसना रत्नभूषणा ॥ ५४ ॥
हार-केयूर-कटक-किंकिणी-नूपुर-आदिभिः ॥ भूषित-अवयवा दिव्य-वसना रत्न-भूषणा ॥ ५४ ॥
hāra-keyūra-kaṭaka-kiṃkiṇī-nūpura-ādibhiḥ .. bhūṣita-avayavā divya-vasanā ratna-bhūṣaṇā .. 54 ..
विष्णुना विधिना देवऋषिगंधर्व्वनायकैः ॥ मानवैश्च सदा सेव्या सर्व्वात्मव्यापिनी शिवा ॥ ५५ ॥
विष्णुना विधिना देव-ऋषि-गंधर्व-नायकैः ॥ मानवैः च सदा सेव्या सर्व्व-आत्म-व्यापिनी शिवा ॥ ५५ ॥
viṣṇunā vidhinā deva-ṛṣi-gaṃdharva-nāyakaiḥ .. mānavaiḥ ca sadā sevyā sarvva-ātma-vyāpinī śivā .. 55 ..
सदाशिवस्य देवस्य धर्मपत्नी मनोहरा ॥ जगदम्बा त्रिजननी त्रिगुणा निर्गुणाप्यजा ॥ ५६ ॥
सदाशिवस्य देवस्य धर्मपत्नी मनोहरा ॥ जगदम्बा त्रिजननी त्रिगुणा निर्गुणा अपि अजा ॥ ५६ ॥
sadāśivasya devasya dharmapatnī manoharā .. jagadambā trijananī triguṇā nirguṇā api ajā .. 56 ..
इत्येवं संविचार्य्याथ गायत्रीं प्रजपेत्सुधीः ॥ आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम् ॥ ५७॥
इति एवम् संविचार्य्य अथ गायत्रीम् प्रजपेत् सुधीः ॥ आदिदेवीम् च त्रिपदाम् ब्राह्मण-त्व-आदि-दाम् अजाम् ॥ ५७॥
iti evam saṃvicāryya atha gāyatrīm prajapet sudhīḥ .. ādidevīm ca tripadām brāhmaṇa-tva-ādi-dām ajām .. 57..
यो ह्यन्यथा जपेत्पापो गायत्री शिवरूपिणीम्॥स पच्यते महाघोरे नरके कल्पसंख्यया ॥ ५८ ॥
यः हि अन्यथा जपेत् पापः गायत्री शिव-रूपिणीम्॥स पच्यते महा-घोरे नरके कल्प-संख्यया ॥ ५८ ॥
yaḥ hi anyathā japet pāpaḥ gāyatrī śiva-rūpiṇīm..sa pacyate mahā-ghore narake kalpa-saṃkhyayā .. 58 ..
सा व्याहृतिभ्यः संजाता तास्वेव विलयं गता॥ताश्च प्रणवसम्भूताः प्रणवे विलयं गता ॥ ५९॥
सा व्याहृतिभ्यः संजाता तासु एव विलयम् गता॥ताः च प्रणव-सम्भूताः प्रणवे विलयम् गता ॥ ५९॥
sā vyāhṛtibhyaḥ saṃjātā tāsu eva vilayam gatā..tāḥ ca praṇava-sambhūtāḥ praṇave vilayam gatā .. 59..
प्रणवस्सर्ववेदादिः प्रणवः शिववाचकः ॥ मन्त्राधिराजराजश्च महाबीजं मनुः परः ॥ 6.13.६० ॥
सर्व ॥ मन्त्र-अधिराज-राजः च महाबीजम् मनुः परः ॥ ६।१३।६० ॥
sarva .. mantra-adhirāja-rājaḥ ca mahābījam manuḥ paraḥ .. 6.13.60 ..
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ॥ वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ॥ ६१ ॥
शिवः वा प्रणवः हि एष प्रणवः वा शिवः स्मृतः ॥ वाच्य-वाचकयोः भेदः न अत्यन्तम् विद्यते यतस् ॥ ६१ ॥
śivaḥ vā praṇavaḥ hi eṣa praṇavaḥ vā śivaḥ smṛtaḥ .. vācya-vācakayoḥ bhedaḥ na atyantam vidyate yatas .. 61 ..
एनमेव महामन्त्रञ्जीवानाञ्च तनुत्यजाम् ॥ काश्यां संश्राव्य मरणे दत्ते मुक्तिं परां शिवः ॥ ६२ ॥
एनम् एव महा-मन्त्रञ्जीवानाम् च तनुत्यजाम् ॥ काश्याम् संश्राव्य मरणे दत्ते मुक्तिम् पराम् शिवः ॥ ६२ ॥
enam eva mahā-mantrañjīvānām ca tanutyajām .. kāśyām saṃśrāvya maraṇe datte muktim parām śivaḥ .. 62 ..
तस्मादेकाक्षरन्देवं शिवं परमकारणम् ॥ उपासते यतिश्रेष्ठा हृदयाम्भोजमध्यगम् ॥ ६३ ॥
तस्मात् एक-अक्षरन् देवम् शिवम् परम-कारणम् ॥ उपासते यति-श्रेष्ठाः हृदय-अम्भोज-मध्य-गम् ॥ ६३ ॥
tasmāt eka-akṣaran devam śivam parama-kāraṇam .. upāsate yati-śreṣṭhāḥ hṛdaya-ambhoja-madhya-gam .. 63 ..
मुमुक्षवोऽपरे धीरा विरक्ता लौकिका नराः॥विषयान्मनसा ज्ञात्वोपासते परमं शिवम् ॥ ६४॥
मुमुक्षवः अपरे धीराः विरक्ताः लौकिकाः नराः॥विषयान् मनसा ज्ञात्वा उपासते परमम् शिवम् ॥ ६४॥
mumukṣavaḥ apare dhīrāḥ viraktāḥ laukikāḥ narāḥ..viṣayān manasā jñātvā upāsate paramam śivam .. 64..
एवं विलाप्य गायत्रीं प्रणवे शिववाचके ॥ अहं वृक्षस्य रेरिवेत्यनुवाकं जपेत्पुनः ॥ ६५ ॥
एवम् विलाप्य गायत्रीम् प्रणवे शिव-वाचके ॥ अहम् वृक्षस्य रेरिवा इति अनुवाकम् जपेत् पुनर् ॥ ६५ ॥
evam vilāpya gāyatrīm praṇave śiva-vācake .. aham vṛkṣasya rerivā iti anuvākam japet punar .. 65 ..
यश्छन्दसामृषभ इत्यनुवाकमुपक्रमात् ॥ गोपायांतं जपन्पश्चादुत्थितोहमितीरयेत् ॥ ६६॥
यः छन्दसाम् ऋषभः इति अनुवाकम् उपक्रमात् ॥ जपन् पश्चात् उत्थितः हम् इति ईरयेत् ॥ ६६॥
yaḥ chandasām ṛṣabhaḥ iti anuvākam upakramāt .. japan paścāt utthitaḥ ham iti īrayet .. 66..
वदेज्जयेत्त्रिधा मन्दमध्योच्छ्रायक्रमान्मुने॥प्रणवम्पूर्व्वमुद्धत्य सृष्टिस्थितिलयक्रमात्॥६७॥
वदेत् जयेत् त्रिधा मन्द-मध्य-उच्छ्राय-क्रमात् मुने॥प्रणवम् पूर्व्वम् उद्धत्य सृष्टि-स्थिति-लय-क्रमात्॥६७॥
vadet jayet tridhā manda-madhya-ucchrāya-kramāt mune..praṇavam pūrvvam uddhatya sṛṣṭi-sthiti-laya-kramāt..67..
तेषामथ क्रमाद्भूयाद्भूस्संन्यस्तम्भुवस्तथा ॥ संन्यस्तं सुवरित्युक्त्वा संन्यस्तं पदमुच्चरम् ॥ ६८॥
तेषाम् अथ क्रमात् भूयात् भूः संन्यस्तम् भुवः तथा ॥ संन्यस्तम् सुवर् इति उक्त्वा संन्यस्तम् पदम् उच्चरम् ॥ ६८॥
teṣām atha kramāt bhūyāt bhūḥ saṃnyastam bhuvaḥ tathā .. saṃnyastam suvar iti uktvā saṃnyastam padam uccaram .. 68..
सर्वमंत्राद्यः प्रदेशे मयेति च पदं वदेत् ॥ प्रणवं पूर्वमुद्धृत्य समष्टिं व्याहृतीर्वदेत् ॥ ६९॥
सर्व-मंत्र-आद्यः प्रदेशे मया इति च पदम् वदेत् ॥ प्रणवम् पूर्वम् उद्धृत्य समष्टिम् व्याहृतीः वदेत् ॥ ६९॥
sarva-maṃtra-ādyaḥ pradeśe mayā iti ca padam vadet .. praṇavam pūrvam uddhṛtya samaṣṭim vyāhṛtīḥ vadet .. 69..
समस्तमित्यतो ब्रूयान्मयेति च समब्रवीत् ॥ सदाशिवं हृदि ध्यात्वा मंदादीति ततो मुने॥6.13.७०॥
समस्तम् इति अतस् ब्रूयात् मया इति च समब्रवीत् ॥ सदाशिवम् हृदि ध्यात्वा मंद-आदि-इति ततस् मुने॥६।१३।७०॥
samastam iti atas brūyāt mayā iti ca samabravīt .. sadāśivam hṛdi dhyātvā maṃda-ādi-iti tatas mune..6.13.70..
प्रैषमंत्रांस्तु जप्त्वैवं सावधानेन चेतसा ॥ अभयं सर्वभूतेभ्यो मत्तः स्वाहेति संजपन् ॥ ७१ ॥
प्रैष-मंत्रान् तु जप्त्वा एवम् स अवधानेन चेतसा ॥ अभयम् सर्व-भूतेभ्यः मत्तः स्वाहा इति संजपन् ॥ ७१ ॥
praiṣa-maṃtrān tu japtvā evam sa avadhānena cetasā .. abhayam sarva-bhūtebhyaḥ mattaḥ svāhā iti saṃjapan .. 71 ..
प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः ॥ शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना ॥ ७२॥
प्राच्याम् दिशि अपः उद्धृत्य प्रक्षिपेत् अजलिम् ततस् ॥ शिखाम् यज्ञोपवीतम् च यत्र उत्पाट्य च पाणिना ॥ ७२॥
prācyām diśi apaḥ uddhṛtya prakṣipet ajalim tatas .. śikhām yajñopavītam ca yatra utpāṭya ca pāṇinā .. 72..
गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ सम्वदेत् ॥ वह्निजायां समुच्चार्य्य सोदकाञ्जलिना ततः ॥ ७३ ॥
गृहीत्वा प्रणवम् भूः च समुद्रम् गच्छ सम्वदेत् ॥ वह्निजायाम् समुच्चार्य्य स उदक-अञ्जलिना ततस् ॥ ७३ ॥
gṛhītvā praṇavam bhūḥ ca samudram gaccha samvadet .. vahnijāyām samuccāryya sa udaka-añjalinā tatas .. 73 ..
अप्सु हूयादथ प्रेषैरभिमंत्र्य त्रिधा त्वपः ।प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत् ॥ ७४ ॥
अप्सु हूयात् अथ प्रेषैः अभिमंत्र्य त्रिधा तु अपः ।प्राश्य तीरे समागत्य भूमौ वस्त्र-आदिकम् त्यजेत् ॥ ७४ ॥
apsu hūyāt atha preṣaiḥ abhimaṃtrya tridhā tu apaḥ .prāśya tīre samāgatya bhūmau vastra-ādikam tyajet .. 74 ..
उदङ्मुखः प्राङ्मुखो वा गच्छेस्सप्तपदाधिकम् ॥ किञ्चिद्दूरमथाचार्यस्तिष्ठ तिष्ठेति संवदेत् ॥ ७५॥
उदक्-मुखः प्राच्-मुखः वा गच्छेः सप्त-पद-अधिकम् ॥ किञ्चिद् दूरम् अथ आचार्यः तिष्ठ तिष्ठ इति संवदेत् ॥ ७५॥
udak-mukhaḥ prāc-mukhaḥ vā gaccheḥ sapta-pada-adhikam .. kiñcid dūram atha ācāryaḥ tiṣṭha tiṣṭha iti saṃvadet .. 75..
लोकस्य व्यवहारार्थं कौपीनं दण्डमेव च ॥ भगवन्स्वीकुरुष्वेति दद्यात्स्वेनैव पाणिना ॥ ७६ ॥
लोकस्य व्यवहार-अर्थम् कौपीनम् दण्डम् एव च ॥ भगवन् स्वीकुरुष्व इति दद्यात् स्वेन एव पाणिना ॥ ७६ ॥
lokasya vyavahāra-artham kaupīnam daṇḍam eva ca .. bhagavan svīkuruṣva iti dadyāt svena eva pāṇinā .. 76 ..
दत्त्वा सुदोरं कौपीनं काषायवसनं ततः ॥ आच्छाद्याचम्य च द्वेधा त शिष्यमिति संवदेत्॥ ७७ ॥
दत्त्वा सु दोरम् कौपीनम् काषाय-वसनम् ततस् ॥ आच्छाद्य आचम्य च द्वेधा शिष्यम् इति संवदेत्॥ ७७ ॥
dattvā su doram kaupīnam kāṣāya-vasanam tatas .. ācchādya ācamya ca dvedhā śiṣyam iti saṃvadet.. 77 ..
इन्द्रस्य वज्रोऽसि तत इति मन्त्रमुदाहरेत् ॥ सम्प्रार्थ्य दण्डं गृह्णीयात्सखाय इति संजपन् ॥ ७८ ॥
इन्द्रस्य वज्रः असि ततस् इति मन्त्रम् उदाहरेत् ॥ सम्प्रार्थ्य दण्डम् गृह्णीयात् सखायः इति संजपन् ॥ ७८ ॥
indrasya vajraḥ asi tatas iti mantram udāharet .. samprārthya daṇḍam gṛhṇīyāt sakhāyaḥ iti saṃjapan .. 78 ..
अथ गत्वा गुरोः पार्श्वं शिवपादांबुजं स्मरन् ॥ प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान् ॥ ७९ ॥
अथ गत्वा गुरोः पार्श्वम् शिव-पाद-अंबुजम् स्मरन् ॥ प्रणमेत् दण्ड-वत् भूमौ त्रि-वारम् संयत-आत्मवान् ॥ ७९ ॥
atha gatvā guroḥ pārśvam śiva-pāda-aṃbujam smaran .. praṇamet daṇḍa-vat bhūmau tri-vāram saṃyata-ātmavān .. 79 ..
पुनरुत्थाय च शनैः प्रेम्णा पश्यन्गुरुं निजम् ॥ कृताञ्जलिपुटस्तिष्ठेद्गुरुपाद समीपतः ॥ 6.13.८० ॥
पुनर् उत्थाय च शनैस् प्रेम्णा पश्यन् गुरुम् निजम् ॥ कृताञ्जलि-पुटः तिष्ठेत् गुरु-पाद समीपतस् ॥ ६।१३।८० ॥
punar utthāya ca śanais premṇā paśyan gurum nijam .. kṛtāñjali-puṭaḥ tiṣṭhet guru-pāda samīpatas .. 6.13.80 ..
कर्म्मारम्भात्पूर्वमेव गृहीत्वा गोमयं शुभम् ॥ स्थूलामलकमात्रेण कृत्वा पिण्डान्विशोषयेत॥८१॥
कर्म्म-आरम्भात् पूर्वम् एव गृहीत्वा गोमयम् शुभम् ॥ स्थूल-आमलक-मात्रेण कृत्वा पिण्डान् विशोषयेत॥८१॥
karmma-ārambhāt pūrvam eva gṛhītvā gomayam śubham .. sthūla-āmalaka-mātreṇa kṛtvā piṇḍān viśoṣayeta..81..
सौरैस्तु किरणैरेव होमारम्भाग्निमध्यगान्॥निक्षिप्य होमसम्पूर्त्तौ भस्म संगृह्य गोपयेत् ॥ ८२॥
सौरैः तु किरणैः एव होम-आरम्भ-अग्नि-मध्य-गान्॥निक्षिप्य होम-सम्पूर्त्तौ भस्म संगृह्य गोपयेत् ॥ ८२॥
sauraiḥ tu kiraṇaiḥ eva homa-ārambha-agni-madhya-gān..nikṣipya homa-sampūrttau bhasma saṃgṛhya gopayet .. 82..
ततो गुरुस्समादाय विरजानलजं सितम् ॥ भस्म तेनैव तं शिष्यमग्निरित्यादिभिः क्रमात् ॥ ८३॥
ततस् गुरुः समादाय विरज-अनल-जम् सितम् ॥ भस्म तेन एव तम् शिष्यम् अग्निः इत्यादिभिः क्रमात् ॥ ८३॥
tatas guruḥ samādāya viraja-anala-jam sitam .. bhasma tena eva tam śiṣyam agniḥ ityādibhiḥ kramāt .. 83..
मंत्रैरंगानि संस्पृश्य मूर्द्धादिचरणान्ततः ॥ ईशानाद्यैः पञ्चमंत्रै शिर आरभ्य सर्वतः ॥ ८४ ॥
मंत्रैः अंगानि संस्पृश्य मूर्द्ध-आदि-चरण-अन्ततः ॥ ईशान-आद्यैः पञ्च-मंत्रैः शिरः आरभ्य सर्वतस् ॥ ८४ ॥
maṃtraiḥ aṃgāni saṃspṛśya mūrddha-ādi-caraṇa-antataḥ .. īśāna-ādyaiḥ pañca-maṃtraiḥ śiraḥ ārabhya sarvatas .. 84 ..
समुद्धृत्य विधानेन त्रिपुण्ड्रं धारयेत्ततः॥त्रियायुषैस्त्र्यम्बकैश्च मूर्ध्न आरभ्य च क्रमात्॥८५॥
समुद्धृत्य विधानेन त्रिपुण्ड्रम् धारयेत् ततस्॥त्रियायुषैः त्र्यम्बकैः च मूर्ध्नः आरभ्य च क्रमात्॥८५॥
samuddhṛtya vidhānena tripuṇḍram dhārayet tatas..triyāyuṣaiḥ tryambakaiḥ ca mūrdhnaḥ ārabhya ca kramāt..85..
ततस्सद्भक्तियुक्तेन चेतसा शिष्यसत्तमः॥हृत्पंकजे समासीनं ध्यायेच्छिवमुमासखम्॥८६॥
ततस् सत्-भक्ति-युक्तेन चेतसा शिष्य-सत्तमः॥हृद्-पंकजे समासीनम् ध्यायेत् शिवम् उमासखम्॥८६॥
tatas sat-bhakti-yuktena cetasā śiṣya-sattamaḥ..hṛd-paṃkaje samāsīnam dhyāyet śivam umāsakham..86..
हस्तं निधाय शिरसि शिष्यस्य स गुरुर्वदेत् ॥ त्रिवारं प्रणवं दक्षकर्णे ऋष्यादिसंयुतम् ॥ ८७॥
हस्तम् निधाय शिरसि शिष्यस्य स गुरुः वदेत् ॥ त्रि-वारम् प्रणवम् दक्ष-कर्णे ऋषि-आदि-संयुतम् ॥ ८७॥
hastam nidhāya śirasi śiṣyasya sa guruḥ vadet .. tri-vāram praṇavam dakṣa-karṇe ṛṣi-ādi-saṃyutam .. 87..
ततः कृत्वा च करुणां प्रणवस्यार्थ मादिशेत् ॥ षड्विधार्त्थपरि ज्ञानसहितं गुरुसत्तमः॥८८॥
ततस् कृत्वा च करुणाम् प्रणवस्य अर्थ मा आदिशेत् ॥ षड्विध-अर्त्थ-परि ज्ञान-सहितम् गुरु-सत्तमः॥८८॥
tatas kṛtvā ca karuṇām praṇavasya artha mā ādiśet .. ṣaḍvidha-arttha-pari jñāna-sahitam guru-sattamaḥ..88..
द्विषट्प्रकारं स गुरुं प्रणमेद्भुवि दण्डवत्॥तदधीनो भवेन्नित्यं नान्यत्कर्म्म समाचरेत् ॥ ८९॥
द्वि-षष्-प्रकारम् स गुरुम् प्रणमेत् भुवि दण्ड-वत्॥तद्-अधीनः भवेत् नित्यम् न अन्यत् कर्म्म समाचरेत् ॥ ८९॥
dvi-ṣaṣ-prakāram sa gurum praṇamet bhuvi daṇḍa-vat..tad-adhīnaḥ bhavet nityam na anyat karmma samācaret .. 89..
तदाज्ञया ततः शिष्यो वेदान्तार्थानुसारतः ॥ शिवज्ञानपरो भूयात्सगुणागुणभेदतः ॥ 6.13.९०॥
तद्-आज्ञया ततस् शिष्यः वेदान्त-अर्थ-अनुसारतः ॥ शिव-ज्ञान-परः भूयात् स गुण-अगुण-भेदतः ॥ ६।१३।९०॥
tad-ājñayā tatas śiṣyaḥ vedānta-artha-anusārataḥ .. śiva-jñāna-paraḥ bhūyāt sa guṇa-aguṇa-bhedataḥ .. 6.13.90..
ततस्तेनैव शिष्येण श्रवणाद्यंगपूर्व्वकम् ॥ प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः ॥ ९१ ॥
ततस् तेन एव शिष्येण श्रवण-आदि-अंग-पूर्व्वकम् ॥ प्रभातिक-आदि-अनुष्ठानम् जप-अन्ते कारयेत् गुरुः ॥ ९१ ॥
tatas tena eva śiṣyeṇa śravaṇa-ādi-aṃga-pūrvvakam .. prabhātika-ādi-anuṣṭhānam japa-ante kārayet guruḥ .. 91 ..
पूजां च मण्डले तस्मिन्कैलासप्रस्तराह्वये ॥ शिवोदितेन मार्गेण शिष्यस्तत्रैव पूजयेत् ॥ ९२॥
पूजाम् च मण्डले तस्मिन् कैलास-प्रस्तर-आह्वये ॥ शिव-उदितेन मार्गेण शिष्यः तत्र एव पूजयेत् ॥ ९२॥
pūjām ca maṇḍale tasmin kailāsa-prastara-āhvaye .. śiva-uditena mārgeṇa śiṣyaḥ tatra eva pūjayet .. 92..
देवन्नित्यमशक्तश्चेत्पूजितुं गुरुणा शुभम् ॥ स्फाटिकं पीठिकोपेतं गृह्णीयाल्लिंगमैश्वरम् ॥ ९३॥
देवन् नित्यम् अशक्तः चेद् पूजितुम् गुरुणा शुभम् ॥ स्फाटिकम् पीठिका-उपेतम् गृह्णीयात् लिंगम् ऐश्वरम् ॥ ९३॥
devan nityam aśaktaḥ ced pūjitum guruṇā śubham .. sphāṭikam pīṭhikā-upetam gṛhṇīyāt liṃgam aiśvaram .. 93..
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि मे ॥ न त्वनभ्यर्च्य भुञ्जीयां भगवन्तं त्रिलोचनम् ॥ ९४ ॥
वरम् प्राण-परित्यागः छेदनम् शिरसः अपि मे ॥ न तु अन् अभ्यर्च्य भुञ्जीयाम् भगवन्तम् त्रिलोचनम् ॥ ९४ ॥
varam prāṇa-parityāgaḥ chedanam śirasaḥ api me .. na tu an abhyarcya bhuñjīyām bhagavantam trilocanam .. 94 ..
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ।कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन्॥९५॥
एवम् त्रि-वारम् उच्चार्य्य शपथम् गुरु-सन्निधौ ।कुर्य्यात् दृढ-मनाः शिष्यः शिव-भक्ति-समुद्वहन्॥९५॥
evam tri-vāram uccāryya śapatham guru-sannidhau .kuryyāt dṛḍha-manāḥ śiṣyaḥ śiva-bhakti-samudvahan..95..
तत एव महादेवं नित्यमुद्युक्तमानसः॥पूजयेत्परया भक्त्या पञ्चावरणमार्गतः ॥ ९६॥
ततस् एव महादेवम् नित्यम् उद्युक्त-मानसः॥पूजयेत् परया भक्त्या पञ्च-आवरण-मार्गतः ॥ ९६॥
tatas eva mahādevam nityam udyukta-mānasaḥ..pūjayet parayā bhaktyā pañca-āvaraṇa-mārgataḥ .. 96..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् त्रयोदशः अध्यायः ॥ १३ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām trayodaśaḥ adhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In