| |
|

This overlay will guide you through the buttons:

वामदेव उवाच ।।
भगवन्षण्मुखाशेष विज्ञानामृतवारिधे ॥ विश्वामरेश्वरसुत प्रणतार्त्तिप्रभञ्जन ॥ १॥
भगवत् षण्मुख-अशेष विज्ञान-अमृत-वारिधे ॥ विश्व-अमर-ईश्वर-सुत प्रणत-आर्त्ति-प्रभञ्जन ॥ १॥
bhagavat ṣaṇmukha-aśeṣa vijñāna-amṛta-vāridhe .. viśva-amara-īśvara-suta praṇata-ārtti-prabhañjana .. 1..
षड्विधार्त्थपरिज्ञानमिष्टदं किमुदाहृतम् ॥ के तत्र षड्विधा अर्थाः परिज्ञानञ्च किं प्रभो ॥ २॥
षड्विध-अर्त्थ-परिज्ञानम् इष्ट-दम् किम् उदाहृतम् ॥ के तत्र षड्विधाः अर्थाः परिज्ञानञ्च च किम् प्रभो ॥ २॥
ṣaḍvidha-arttha-parijñānam iṣṭa-dam kim udāhṛtam .. ke tatra ṣaḍvidhāḥ arthāḥ parijñānañca ca kim prabho .. 2..
प्रतिपाद्यश्च कस्तस्य परिज्ञाने च किं फलम् ॥ एतत्सर्वं समाचक्ष्व यद्यत्पृष्टं मया गुह ॥ ३ ॥
प्रतिपाद्यः च कः तस्य परिज्ञाने च किम् फलम् ॥ एतत् सर्वम् समाचक्ष्व यत् यत् पृष्टम् मया गुह ॥ ३ ॥
pratipādyaḥ ca kaḥ tasya parijñāne ca kim phalam .. etat sarvam samācakṣva yat yat pṛṣṭam mayā guha .. 3 ..
एतमर्त्थमविज्ञाय पशुशास्त्रविमोहितः॥अद्याप्यहम्महासेन भ्रान्तश्च शिवमायया॥४॥
एतम् अर्त्थम् अ विज्ञाय पशु-शास्त्र-विमोहितः॥अद्या अपि अहम् महासेन भ्रान्तः च शिव-मायया॥४॥
etam arttham a vijñāya paśu-śāstra-vimohitaḥ..adyā api aham mahāsena bhrāntaḥ ca śiva-māyayā..4..
अहं शिवपदद्वंद्वज्ञानामृतरसायनम्॥पीत्त्वा विगतसम्मोहो भविष्यामि यथा तथा ॥ ५ ॥
अहम् शिव-पद-द्वंद्व-ज्ञान-अमृत-रसायनम्॥पीत्त्वा विगत-सम्मोहः भविष्यामि यथा तथा ॥ ५ ॥
aham śiva-pada-dvaṃdva-jñāna-amṛta-rasāyanam..pīttvā vigata-sammohaḥ bhaviṣyāmi yathā tathā .. 5 ..
कृपामृतार्द्रया दृष्ट्या विलोक्य सुचिरं मयि ॥ कर्त्तव्योऽनुग्रहः श्रीमत्पादाब्जशरणागते ॥ ६ ॥
कृपा-अमृत-आर्द्रया दृष्ट्या विलोक्य सु चिरम् मयि ॥ कर्त्तव्यः अनुग्रहः श्रीमत्-पाद-अब्ज-शरण-आगते ॥ ६ ॥
kṛpā-amṛta-ārdrayā dṛṣṭyā vilokya su ciram mayi .. karttavyaḥ anugrahaḥ śrīmat-pāda-abja-śaraṇa-āgate .. 6 ..
इति श्रुत्वा मुनीन्द्रोक्तं ज्ञानशक्तिधरो विभुः ॥ प्राहान्यदर्शनमहासंत्रासजनकं वचः ॥ ७॥
इति श्रुत्वा मुनि-इन्द्र-उक्तम् ज्ञानशक्ति-धरः विभुः ॥ प्राह अन्य-दर्शन-महा-संत्रास-जनकम् वचः ॥ ७॥
iti śrutvā muni-indra-uktam jñānaśakti-dharaḥ vibhuḥ .. prāha anya-darśana-mahā-saṃtrāsa-janakam vacaḥ .. 7..
सुब्रह्मण्य उवाच ।।
श्रूयताम्मुनिशार्दूल त्वया यत्पृष्टमादरात्॥समष्टिव्यष्टिभावेन परिज्ञानम्महेशितुः ॥ ८॥
श्रूयताम् मुनि-शार्दूल त्वया यत् पृष्टम् आदरात्॥समष्टि-व्यष्टि-भावेन परिज्ञानम् महेशितुः ॥ ८॥
śrūyatām muni-śārdūla tvayā yat pṛṣṭam ādarāt..samaṣṭi-vyaṣṭi-bhāvena parijñānam maheśituḥ .. 8..
प्रणवार्त्थपरिज्ञानरूपं तद्विस्तरादहम् ॥ वदामि षड्विधार्थैक्य परिज्ञानेन सुव्रत ॥ ९ ॥
प्रणव-अर्त्थ-परिज्ञान-रूपम् तद्-विस्तरात् अहम् ॥ वदामि षड्विध-अर्थ-ऐक्य-परिज्ञानेन सुव्रत ॥ ९ ॥
praṇava-arttha-parijñāna-rūpam tad-vistarāt aham .. vadāmi ṣaḍvidha-artha-aikya-parijñānena suvrata .. 9 ..
प्रथमो मंत्ररूपः स्याद्द्वितीयो मंत्रभावितः ॥ देवतार्त्थस्तृतीयोऽर्थः प्रपञ्चार्थस्ततः परम्॥6.14.१०॥
प्रथमः मंत्र-रूपः स्यात् द्वितीयः मंत्र-भावितः ॥ देवता-अर्त्थः तृतीयः अर्थः प्रपञ्च-अर्थः ततस् परम्॥६।१४।१०॥
prathamaḥ maṃtra-rūpaḥ syāt dvitīyaḥ maṃtra-bhāvitaḥ .. devatā-artthaḥ tṛtīyaḥ arthaḥ prapañca-arthaḥ tatas param..6.14.10..
चतुर्थः पञ्चमार्थस्स्याद्गुरुरूपप्रदर्शकः।षष्ठश्शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्त्तिताः ॥ ११॥
चतुर्थः पञ्चम-अर्थः स्यात् गुरु-रूप-प्रदर्शकः।षष्ठः शिष्य-आत्म-रूपः अर्थः षड्विध-अर्थाः प्रकीर्त्तिताः ॥ ११॥
caturthaḥ pañcama-arthaḥ syāt guru-rūpa-pradarśakaḥ.ṣaṣṭhaḥ śiṣya-ātma-rūpaḥ arthaḥ ṣaḍvidha-arthāḥ prakīrttitāḥ .. 11..
तत्र मन्त्रस्वरूपन्ते वदामि मुनिसत्तम॥येन विज्ञातमात्रेण महाज्ञानी भवेन्नरः ॥ १२॥
तत्र मन्त्र-स्वरूप-अन्ते वदामि मुनि-सत्तम॥येन विज्ञात-मात्रेण महा-ज्ञानी भवेत् नरः ॥ १२॥
tatra mantra-svarūpa-ante vadāmi muni-sattama..yena vijñāta-mātreṇa mahā-jñānī bhavet naraḥ .. 12..
आद्यस्स्वरः पंचमश्च पञ्चमान्तस्ततः परः ॥ बिन्दुनादौ च पञ्चार्णाः प्रोक्ता वेदैर्न चान्यथा ॥ १३॥
आद्यः स्वरः पंचमः च पञ्चम-अन्तः ततस् परः ॥ बिन्दु-नादौ च पञ्च-अर्णाः प्रोक्ताः वेदैः न च अन्यथा ॥ १३॥
ādyaḥ svaraḥ paṃcamaḥ ca pañcama-antaḥ tatas paraḥ .. bindu-nādau ca pañca-arṇāḥ proktāḥ vedaiḥ na ca anyathā .. 13..
एतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ॥ नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम् ॥ १४ ॥
एतद्-समष्टि-रूपः हि वेदादिः समुदाहृतः ॥ नादः सर्व्व-समष्टिः स्यात् बिंदु-आढ्यम् यत् चतुष्टयम् ॥ १४ ॥
etad-samaṣṭi-rūpaḥ hi vedādiḥ samudāhṛtaḥ .. nādaḥ sarvva-samaṣṭiḥ syāt biṃdu-āḍhyam yat catuṣṭayam .. 14 ..
व्यष्टिरूपेण संसिद्धं प्रणवे शिववाचके ॥ यंत्ररूपं शृणु प्राज्ञ शिवलिंगं तदेव हि ॥ १५ ॥
व्यष्टि-रूपेण संसिद्धम् प्रणवे शिव-वाचके ॥ यंत्र-रूपम् शृणु प्राज्ञ शिव-लिंगम् तत् एव हि ॥ १५ ॥
vyaṣṭi-rūpeṇa saṃsiddham praṇave śiva-vācake .. yaṃtra-rūpam śṛṇu prājña śiva-liṃgam tat eva hi .. 15 ..
सर्व्वाधस्ताल्लिखेत्पीठं तदूर्ध्वम्प्रथमं स्वरम् ॥ उवर्णं च तदूर्द्ध्वं स्थम्पवर्गान्तं तदूर्ध्वगम् ॥ १६॥
सर्व्व-अधस्तात् लिखेत् पीठम् तद्-ऊर्ध्वम् प्रथमम् स्वरम् ॥ उ वर्णम् च तद्-ऊर्द्ध्वम् स्थम्-प-वर्ग-अन्तम् तद्-ऊर्ध्व-गम् ॥ १६॥
sarvva-adhastāt likhet pīṭham tad-ūrdhvam prathamam svaram .. u varṇam ca tad-ūrddhvam stham-pa-varga-antam tad-ūrdhva-gam .. 16..
तन्मस्तकस्थं बिंदुं च तदूर्द्ध्वं नादमालिखेत् ॥ यंत्रे संपूर्णतां याति सर्वकामः प्रसिध्यति ॥ १७॥
तद्-मस्तक-स्थम् बिंदुम् च तद्-ऊर्द्ध्वम् नादम् आलिखेत् ॥ यंत्रे संपूर्ण-ताम् याति सर्व-कामः प्रसिध्यति ॥ १७॥
tad-mastaka-stham biṃdum ca tad-ūrddhvam nādam ālikhet .. yaṃtre saṃpūrṇa-tām yāti sarva-kāmaḥ prasidhyati .. 17..
एतं यंत्रं समालिख्य प्रणवे नव वेष्टयेत् ॥ तदुत्थेनैव नादेन विद्यन्नादावसानकम् ॥ १८ ॥
एतम् यंत्रम् समालिख्य प्रणवे नव वेष्टयेत् ॥ तद्-उत्थेन एव नादेन विद्यत्-नाद-अवसानकम् ॥ १८ ॥
etam yaṃtram samālikhya praṇave nava veṣṭayet .. tad-utthena eva nādena vidyat-nāda-avasānakam .. 18 ..
देवतार्त्थम्प्रवक्ष्यामि गूढं सर्व्वत्र यन्मुने ॥ तव स्नेहाद्वामदेव यथा शंकरभाषितम् ॥ १९ ॥
देवता-अर्त्थम् प्रवक्ष्यामि गूढम् सर्व्वत्र यत् मुने ॥ तव स्नेहात् वामदेव यथा शंकर-भाषितम् ॥ १९ ॥
devatā-arttham pravakṣyāmi gūḍham sarvvatra yat mune .. tava snehāt vāmadeva yathā śaṃkara-bhāṣitam .. 19 ..
सद्योजातम्प्रपद्यामीत्युपक्रम्य सदाशिवोम् ॥ इति प्राह श्रुतिस्तारं ब्रह्मपंचकवाचकम् ॥ 6.14.२० ॥
सद्योजातम् प्रपद्यामि इति उपक्रम्य सदाशिव-ऊम् ॥ इति प्राह श्रुतिः तारम् ब्रह्मपंचक-वाचकम् ॥ ६।१४।२० ॥
sadyojātam prapadyāmi iti upakramya sadāśiva-ūm .. iti prāha śrutiḥ tāram brahmapaṃcaka-vācakam .. 6.14.20 ..
विज्ञेया ब्रह्मरूपिण्यस्सूक्ष्माः पंचैव देवताः ॥ एता एव शिवस्यापि मूर्तित्वे नोपबृंहिताः ॥ २१ ॥
विज्ञेयाः ब्रह्म-रूपिण्यः सूक्ष्माः पंच एव देवताः ॥ एताः एव शिवस्य अपि मूर्ति-त्वे न उपबृंहिताः ॥ २१ ॥
vijñeyāḥ brahma-rūpiṇyaḥ sūkṣmāḥ paṃca eva devatāḥ .. etāḥ eva śivasya api mūrti-tve na upabṛṃhitāḥ .. 21 ..
शिवस्य वाचको मन्त्रश्शिवमूर्त्तेश्च वाचकः ॥ मूर्त्तिमूर्तिमतोर्भेदो नात्यन्तं विद्यते यतः ॥ २२ ॥
शिवस्य वाचकः मन्त्रः शिव-मूर्त्तेः च वाचकः ॥ मूर्त्ति-मूर्तिमतोः भेदः न अत्यन्तम् विद्यते यतस् ॥ २२ ॥
śivasya vācakaḥ mantraḥ śiva-mūrtteḥ ca vācakaḥ .. mūrtti-mūrtimatoḥ bhedaḥ na atyantam vidyate yatas .. 22 ..
ईशानमुकुटोपेत इत्यारभ्य पुरोदितः ॥ शिवस्य विग्रहः पञ्चवक्त्राणि शृणु सांप्रतम्॥ २३ ॥
ईशान-मुकुट-उपेतः इति आरभ्य पुरा उदितः ॥ शिवस्य विग्रहः पञ्चवक्त्राणि शृणु सांप्रतम्॥ २३ ॥
īśāna-mukuṭa-upetaḥ iti ārabhya purā uditaḥ .. śivasya vigrahaḥ pañcavaktrāṇi śṛṇu sāṃpratam.. 23 ..
पंचमादि समारभ्य सद्योजाताद्यनुक्रमात् ॥ उर्द्ध्वांतमीशानांतं च मुखपंचकमीरितम् ॥ २४ ॥
पंचम-आदि समारभ्य सद्योजात-आदि-अनुक्रमात् ॥ उर्द्ध्व-अंतम् ईशान-अंतम् च मुख-पंचकम् ईरितम् ॥ २४ ॥
paṃcama-ādi samārabhya sadyojāta-ādi-anukramāt .. urddhva-aṃtam īśāna-aṃtam ca mukha-paṃcakam īritam .. 24 ..
ईशानस्यैव देवस्य चतुर्व्यूहपदे स्थितम् ॥ पुरुषाद्यं च सद्यांतं ब्रह्मरूपं चतुष्टयम् ॥ २५ ॥
ईशानस्य एव देवस्य चतुर्-व्यूह-पदे स्थितम् ॥ पुरुष-आद्यम् च सद्य-अंतम् ब्रह्म-रूपम् चतुष्टयम् ॥ २५ ॥
īśānasya eva devasya catur-vyūha-pade sthitam .. puruṣa-ādyam ca sadya-aṃtam brahma-rūpam catuṣṭayam .. 25 ..
पंच ब्रह्मसमष्टिस्स्यादीशानं ब्रह्म विश्रुतम् ॥ पुरुषाद्यं तु तद्व्यष्टिस्सद्योजातान्तिकं मुने ॥ २६ ॥
पंच ब्रह्म-समष्टिः स्यात् ईशानम् ब्रह्म विश्रुतम् ॥ पुरुष-आद्यम् तु तद्-व्यष्टिः सद्योजात-अन्तिकम् मुने ॥ २६ ॥
paṃca brahma-samaṣṭiḥ syāt īśānam brahma viśrutam .. puruṣa-ādyam tu tad-vyaṣṭiḥ sadyojāta-antikam mune .. 26 ..
अनुग्रहमयं चक्रमिदं पंचार्त्थकारणम् ॥ परब्रह्मात्मकं सूक्ष्मं निर्विकारमनामयम् ॥ २७ ॥
अनुग्रह-मयम् चक्रम् इदम् पंचार्त्थ-कारणम् ॥ पर-ब्रह्म-आत्मकम् सूक्ष्मम् निर्विकारम् अनामयम् ॥ २७ ॥
anugraha-mayam cakram idam paṃcārttha-kāraṇam .. para-brahma-ātmakam sūkṣmam nirvikāram anāmayam .. 27 ..
अनुग्रहोऽपि द्विविधस्तिरोभावादिगोचरः ॥ प्रभुश्चान्यस्तु जीवानां परावरविमुक्तिदः ॥ २८ ॥
अनुग्रहः अपि द्विविधः तिरोभाव-आदि-गोचरः ॥ प्रभुः च अन्यः तु जीवानाम् परावर-विमुक्ति-दः ॥ २८ ॥
anugrahaḥ api dvividhaḥ tirobhāva-ādi-gocaraḥ .. prabhuḥ ca anyaḥ tu jīvānām parāvara-vimukti-daḥ .. 28 ..
एतत्सदाशिवस्यैव कृत्यद्वयमुदाहृतम् ॥ अनुग्रहेऽपि सृष्ट्यादिकृत्यानां पंचकं विभोः ॥ २९॥
एतत् सदाशिवस्य एव कृत्य-द्वयम् उदाहृतम् ॥ अनुग्रहे अपि सृष्टि-आदि-कृत्यानाम् पंचकम् विभोः ॥ २९॥
etat sadāśivasya eva kṛtya-dvayam udāhṛtam .. anugrahe api sṛṣṭi-ādi-kṛtyānām paṃcakam vibhoḥ .. 29..
मुने तत्रापि सद्याद्या देवताः परिकीर्त्तिताः ॥ परब्रह्मस्वरूपास्ताः पंच कल्याणदास्सदा ॥ 6.14.३० ॥
मुने तत्र अपि सद्य-आद्याः देवताः परिकीर्त्तिताः ॥ पर-ब्रह्म-स्व-रूपाः ताः पंच कल्याण-दाः सदा ॥ ६।१४।३० ॥
mune tatra api sadya-ādyāḥ devatāḥ parikīrttitāḥ .. para-brahma-sva-rūpāḥ tāḥ paṃca kalyāṇa-dāḥ sadā .. 6.14.30 ..
अनुग्रहमयं चक्रं शांत्यतीतकलामयम् ॥ सदाशिवाधिष्ठितं च परमं पदमुच्यते ॥ ३१॥
अनुग्रह-मयम् चक्रम् शांति-अतीत-कला-मयम् ॥ सदाशिव-धिष्ठितम् च परमम् पदम् उच्यते ॥ ३१॥
anugraha-mayam cakram śāṃti-atīta-kalā-mayam .. sadāśiva-dhiṣṭhitam ca paramam padam ucyate .. 31..
एतदेव पदं प्राप्यं यतीनां भवितात्मनाम् ॥ सदाशिवोपासकानां प्रणवासक्तचेतसाम् ॥ ३२ ॥
एतत् एव पदम् प्राप्यम् यतीनाम् भवितात्मनाम् आत्मनाम् ॥ सदाशिव-उपासकानाम् प्रणव-आसक्त-चेतसाम् ॥ ३२ ॥
etat eva padam prāpyam yatīnām bhavitātmanām ātmanām .. sadāśiva-upāsakānām praṇava-āsakta-cetasām .. 32 ..
एतदेव पदं प्राप्य तेन साकं मुनीश्वराः ॥ भुक्त्वा सुविपुलान्भोगान्देवेन ब्रह्मरूपिणा ॥ ३३ ॥
एतत् एव पदम् प्राप्य तेन साकम् मुनि-ईश्वराः ॥ भुक्त्वा सु विपुलान् भोगान् देवेन ब्रह्म-रूपिणा ॥ ३३ ॥
etat eva padam prāpya tena sākam muni-īśvarāḥ .. bhuktvā su vipulān bhogān devena brahma-rūpiṇā .. 33 ..
महाप्रलयसंभूतौ शिवसाम्यं भजंति हि ॥ न पतंति पुनः क्वापि संसाराब्धौ जनाश्च ते ॥ ३४ ॥
महाप्रलय-संभूतौ शिव-साम्यम् भजंति हि ॥ न पतन्ति पुनर् क्वापि संसार-अब्धौ जनाः च ते ॥ ३४ ॥
mahāpralaya-saṃbhūtau śiva-sāmyam bhajaṃti hi .. na patanti punar kvāpi saṃsāra-abdhau janāḥ ca te .. 34 ..
ते ब्रह्मलोक इति च श्रुतिराह सनातनी ॥ ऐश्वर्य्यं तु शिवस्यापि समष्टिरिदमेव हि ॥ ३५ ॥
ते ब्रह्म-लोके इति च श्रुतिः आह सनातनी ॥ ऐश्वर्य्यम् तु शिवस्य अपि समष्टिः इदम् एव हि ॥ ३५ ॥
te brahma-loke iti ca śrutiḥ āha sanātanī .. aiśvaryyam tu śivasya api samaṣṭiḥ idam eva hi .. 35 ..
सर्वैश्वर्येण सम्पन्न इत्याहाथर्व्वणी शिखा ॥ सर्वैश्वर्य्यप्रदातृत्वमस्यैव प्रवदन्ति हि ॥ ३६ ॥
सर्व-ऐश्वर्येण सम्पन्नः इति आह आथर्व्वणी शिखा ॥ सर्व-ऐश्वर्य्य-प्रदातृ-त्वम् अस्य एव प्रवदन्ति हि ॥ ३६ ॥
sarva-aiśvaryeṇa sampannaḥ iti āha ātharvvaṇī śikhā .. sarva-aiśvaryya-pradātṛ-tvam asya eva pravadanti hi .. 36 ..
चमकस्य पदान्नान्य दधिकं विद्यते पदम् ॥ ब्रह्मपंचकविस्तारप्रपंचः खलु दृश्यते ॥ ३७॥
चमकस्य दधिकम् विद्यते पदम् ॥ ब्रह्मपंचक-विस्तार-प्रपंचः खलु दृश्यते ॥ ३७॥
camakasya dadhikam vidyate padam .. brahmapaṃcaka-vistāra-prapaṃcaḥ khalu dṛśyate .. 37..
ब्रह्मभ्य एवं संजाता निवृत्त्याद्याः कला मताः ॥ सूक्ष्मभूतस्वरूपिण्यः कारणत्वेन विश्रुताः ॥ ३८ ॥
ब्रह्मभ्यः एवम् संजाताः निवृत्त्य आद्याः कलाः मताः ॥ सूक्ष्म-भूत-स्वरूपिण्यः कारण-त्वेन विश्रुताः ॥ ३८ ॥
brahmabhyaḥ evam saṃjātāḥ nivṛttya ādyāḥ kalāḥ matāḥ .. sūkṣma-bhūta-svarūpiṇyaḥ kāraṇa-tvena viśrutāḥ .. 38 ..
स्थूलरूपस्वरूपस्य प्रपंचस्यास्य सुव्रत ॥ पंचधावस्थितं यत्तद्ब्रह्मपंचकमिष्यते ॥ ३९ ॥
स्थूल-रूप-स्वरूपस्य प्रपंचस्य अस्य सुव्रत ॥ पंचधा अवस्थितम् यत् तत् ब्रह्मपंचकम् इष्यते ॥ ३९ ॥
sthūla-rūpa-svarūpasya prapaṃcasya asya suvrata .. paṃcadhā avasthitam yat tat brahmapaṃcakam iṣyate .. 39 ..
पुरुषः श्रोत्रवाण्यौ च शब्दकाशौ च पंचकम् ॥ व्याप्तमीशानरूपेण ब्रह्मणा मुनिसत्तम ॥ 6.14.४० ॥
पुरुषः श्रोत्र-वाण्यौ च शब्द-काशौ च पंचकम् ॥ व्याप्तम् ईशान-रूपेण ब्रह्मणा मुनि-सत्तम ॥ ६।१४।४० ॥
puruṣaḥ śrotra-vāṇyau ca śabda-kāśau ca paṃcakam .. vyāptam īśāna-rūpeṇa brahmaṇā muni-sattama .. 6.14.40 ..
प्रकृतिस्त्वक्च पाणिश्च स्पर्शो वायुश्च पंचकम् ॥ व्याप्तं पुरुषरूपेण ब्रह्मणैव मुनीश्वर ॥ ४१ ॥
प्रकृतिः त्वच् च पाणिः च स्पर्शः वायुः च पंचकम् ॥ व्याप्तम् पुरुष-रूपेण ब्रह्मणा एव मुनि-ईश्वर ॥ ४१ ॥
prakṛtiḥ tvac ca pāṇiḥ ca sparśaḥ vāyuḥ ca paṃcakam .. vyāptam puruṣa-rūpeṇa brahmaṇā eva muni-īśvara .. 41 ..
अहंकारस्तथा चक्षुः पादो रूपं च पावकः ॥ अघोरब्रह्मणा व्याप्तमेतत्पंचकमंचितम् ॥ ४२॥
अहंकारः तथा चक्षुः पादः रूपम् च पावकः ॥ अघोर-ब्रह्मणा व्याप्तम् एतत् पंचक-मंचितम् ॥ ४२॥
ahaṃkāraḥ tathā cakṣuḥ pādaḥ rūpam ca pāvakaḥ .. aghora-brahmaṇā vyāptam etat paṃcaka-maṃcitam .. 42..
बुद्धिश्च रसना पायू रस आपश्च पंचकम् ॥ ब्रह्मणा वामदेवेन व्याप्तं भवति नित्यशः ॥ ४३॥
बुद्धिः च रसना पायुः रसः आपः च पंचकम् ॥ ब्रह्मणा वामदेवेन व्याप्तम् भवति नित्यशस् ॥ ४३॥
buddhiḥ ca rasanā pāyuḥ rasaḥ āpaḥ ca paṃcakam .. brahmaṇā vāmadevena vyāptam bhavati nityaśas .. 43..
मनो नासा तथोपस्थो गन्धो भूमिश्च पंचकम्॥सद्येन ब्रह्मणा व्याप्तं पंचब्रह्ममयं जगत् ॥ ४४॥
मनः नासा तथा उपस्थः गन्धः भूमिः च पंचकम्॥सद्येन ब्रह्मणा व्याप्तम् पंच-ब्रह्म-मयम् जगत् ॥ ४४॥
manaḥ nāsā tathā upasthaḥ gandhaḥ bhūmiḥ ca paṃcakam..sadyena brahmaṇā vyāptam paṃca-brahma-mayam jagat .. 44..
यंत्ररूपेणोपदिष्टः प्रणवश्शिववाचकः॥समष्टिः पंचवर्णानां बिंद्वाद्यं यच्चतुष्टयम् ॥ ४५॥
यंत्र-रूपेण उपदिष्टः प्रणवः शिव-वाचकः॥समष्टिः पंच-वर्णानाम् बिंदु-आद्यम् यत् चतुष्टयम् ॥ ४५॥
yaṃtra-rūpeṇa upadiṣṭaḥ praṇavaḥ śiva-vācakaḥ..samaṣṭiḥ paṃca-varṇānām biṃdu-ādyam yat catuṣṭayam .. 45..
शिवोपदिष्टमार्गेण यंत्ररूपं विभावयेत्॥प्रणवम्परमं मन्त्राधिराजं शिवरूपिणम्॥४६॥
शिव-उपदिष्ट-मार्गेण यंत्र-रूपम् विभावयेत्॥प्रणवम् परमम् मन्त्र-अधिराजम् शिव-रूपिणम्॥४६॥
śiva-upadiṣṭa-mārgeṇa yaṃtra-rūpam vibhāvayet..praṇavam paramam mantra-adhirājam śiva-rūpiṇam..46..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवरूपप्रणववर्णनं नाम चतुर्द्दशोध्यायः ॥ १४ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् शिवरूपप्रणववर्णनम् नाम चतुर्द्दशः उध्यायः ॥ १४ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām śivarūpapraṇavavarṇanam nāma caturddaśaḥ udhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In