| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
ततः परं प्रवक्ष्यामि सृष्टिपद्धतिमुत्तमाम् ॥ सदाशिवान्महेशादिचतुष्कस्य वरानने॥१॥
ततस् परम् प्रवक्ष्यामि सृष्टि-पद्धतिम् उत्तमाम् ॥ सदाशिवात् महेश-आदि-चतुष्कस्य वरानने॥१॥
tatas param pravakṣyāmi sṛṣṭi-paddhatim uttamām .. sadāśivāt maheśa-ādi-catuṣkasya varānane..1..
सदाशिवस्समष्टिस्स्यादाकाशधिपतिः प्रभुः ॥ अस्यैव व्यष्टितापन्नम्महेशादिचतुष्टयम् ॥ २॥
॥ अस्य एव व्यष्टि-ता-आपन्नम् महेश-आदि-चतुष्टयम् ॥ २॥
.. asya eva vyaṣṭi-tā-āpannam maheśa-ādi-catuṣṭayam .. 2..
सदाशिवसहस्रांशान्महेशस्य समुद्भवः ॥ पुरुषाननरूपत्वाद्वायोरधिपतिश्च सः ॥ ३॥
सदाशिव-सहस्र-अंशात् महेशस्य समुद्भवः ॥ पुरुष-आनन-रूप-त्वात् वायोः अधिपतिः च सः ॥ ३॥
sadāśiva-sahasra-aṃśāt maheśasya samudbhavaḥ .. puruṣa-ānana-rūpa-tvāt vāyoḥ adhipatiḥ ca saḥ .. 3..
मायाशक्तियुतो वामे सकलश्च क्रियाधिकः ॥ अस्यैव व्यष्टिरूपं स्यादीश्वरादिचतुष्टयम् ॥ ४॥
माया-शक्ति-युतः वामे सकलः च क्रिया-अधिकः ॥ अस्य एव व्यष्टि-रूपम् स्यात् ईश्वर-आदि-चतुष्टयम् ॥ ४॥
māyā-śakti-yutaḥ vāme sakalaḥ ca kriyā-adhikaḥ .. asya eva vyaṣṭi-rūpam syāt īśvara-ādi-catuṣṭayam .. 4..
ईशो विश्वेश्वरः पश्चात्परमेशस्ततः परम् ॥ सर्वेश्वर इतीदन्तु तिरोधाचक्रमुत्तमम् ॥ ५॥
ईशः विश्वेश्वरः पश्चात् परमेशः ततस् परम् ॥ सर्व-ईश्वरः इति इदम् तु तिरोधा-चक्रम् उत्तमम् ॥ ५॥
īśaḥ viśveśvaraḥ paścāt parameśaḥ tatas param .. sarva-īśvaraḥ iti idam tu tirodhā-cakram uttamam .. 5..
तिरोभावो द्विधा भिन्न एको रुद्रादिगोचरः ॥ अन्यश्च देहभावेन पशुवर्गस्य सन्ततेः ॥ ६॥
तिरोभावः द्विधा भिन्नः एकः रुद्र-आदि-गोचरः ॥ अन्यः च देह-भावेन पशु-वर्गस्य सन्ततेः ॥ ६॥
tirobhāvaḥ dvidhā bhinnaḥ ekaḥ rudra-ādi-gocaraḥ .. anyaḥ ca deha-bhāvena paśu-vargasya santateḥ .. 6..
भोगानुरंजनपरः कर्मसाम्यक्षणावधि ॥ कर्मसाम्ये स एकः स्यादनुग्रहमयो विभुः ॥ ७॥
भोग-अनुरंजन-परः कर्म-साम्य-क्षण-अवधि ॥ कर्म-साम्ये सः एकः स्यात् अनुग्रह-मयः विभुः ॥ ७॥
bhoga-anuraṃjana-paraḥ karma-sāmya-kṣaṇa-avadhi .. karma-sāmye saḥ ekaḥ syāt anugraha-mayaḥ vibhuḥ .. 7..
तत्र सर्वेश्वरा यास्ते देवताः परिकीर्त्तिताः ॥ परब्रह्मात्मकाः साक्षान्निर्विकल्पा निरामयाः ॥ ८॥
तत्र सर्व-ईश्वराः याः ते देवताः परिकीर्त्तिताः ॥ पर-ब्रह्म-आत्मकाः साक्षात् निर्विकल्पाः निरामयाः ॥ ८॥
tatra sarva-īśvarāḥ yāḥ te devatāḥ parikīrttitāḥ .. para-brahma-ātmakāḥ sākṣāt nirvikalpāḥ nirāmayāḥ .. 8..
तिरोभावात्मकं चक्रं भवेच्छान्तिकलामयम् ॥ महेश्वराधिष्ठितं च पदमेतदनुत्तमम् ॥ ९॥
तिरोभाव-आत्मकम् चक्रम् भवेत् शान्ति-कला-मयम् ॥ महेश्वर-धिष्ठितम् च पदम् एतत् अनुत्तमम् ॥ ९॥
tirobhāva-ātmakam cakram bhavet śānti-kalā-mayam .. maheśvara-dhiṣṭhitam ca padam etat anuttamam .. 9..
एतदेव पदं प्राप्यं महेशपदसेविनाम् ॥ माहेश्वराणां सालोक्यक्रमादेव विमुक्तिदम्॥6.15.१०॥
एतत् एव पदम् प्राप्यम् महेश-पद-सेविनाम् ॥ एव॥६।१५।१०॥
etat eva padam prāpyam maheśa-pada-sevinām .. eva..6.15.10..
महेश्वरसहस्रांशाद्रुद्रमूर्तिरजायत ॥ अघोरवदनाकारस्तेजस्तत्त्वाधिपश्च सः ॥ ११॥
महेश्वर-सहस्र-अंशात् रुद्र-मूर्तिः अजायत ॥ अघोर-वदन-आकारः तेजः-तत्त्व-अधिपः च सः ॥ ११॥
maheśvara-sahasra-aṃśāt rudra-mūrtiḥ ajāyata .. aghora-vadana-ākāraḥ tejaḥ-tattva-adhipaḥ ca saḥ .. 11..
गौरीशक्तियुतो वामे सर्व्वसंहारकृत्प्रभुः ॥ अस्यैव व्यष्टिरूपं स्याच्छिवाद्यथ चतुष्टयम् ॥ १२ ॥
गौरी-शक्ति-युतः वामे सर्व्व-संहार-कृत् प्रभुः ॥ अस्य एव व्यष्टि-रूपम् स्यात् शिव-आदि अथ चतुष्टयम् ॥ १२ ॥
gaurī-śakti-yutaḥ vāme sarvva-saṃhāra-kṛt prabhuḥ .. asya eva vyaṣṭi-rūpam syāt śiva-ādi atha catuṣṭayam .. 12 ..
शिवो हरो मृडभवौ विदितं चक्रमद्भुतम् ॥ संहाराख्यं महादिव्यं परमं हि मुनीश्वर ॥ १३ ॥
शिवः हरः मृड-भवौ विदितम् चक्रम् अद्भुतम् ॥ संहार-आख्यम् महा-दिव्यम् परमम् हि मुनि-ईश्वर ॥ १३ ॥
śivaḥ haraḥ mṛḍa-bhavau viditam cakram adbhutam .. saṃhāra-ākhyam mahā-divyam paramam hi muni-īśvara .. 13 ..
स संहारस्त्रिधा प्रोक्तो बुधैर्नित्यादिभेदतः ॥ नित्यो जीवसुषुप्त्याख्यो विधेर्नैमित्तिकः स्मृतः ॥ १४ ॥
स संहारः त्रिधा प्रोक्तः बुधैः नित्य-आदि-भेदतः ॥ नित्यः जीव-सुषुप्ति-आख्यः विधेः नैमित्तिकः स्मृतः ॥ १४ ॥
sa saṃhāraḥ tridhā proktaḥ budhaiḥ nitya-ādi-bhedataḥ .. nityaḥ jīva-suṣupti-ākhyaḥ vidheḥ naimittikaḥ smṛtaḥ .. 14 ..
विलयस्तस्य तु महानिति वेदनिदर्शितः ॥ जीवानां जन्मदुःखादिशांतानामुषितात्मनाम् ॥ १५ ॥
विलयः तस्य तु महान् इति वेद-निदर्शितः ॥ जीवानाम् जन्म-दुःख-आदि-शांतानाम् उषित-आत्मनाम् ॥ १५ ॥
vilayaḥ tasya tu mahān iti veda-nidarśitaḥ .. jīvānām janma-duḥkha-ādi-śāṃtānām uṣita-ātmanām .. 15 ..
विश्रांत्यर्थं मुनिश्रेष्ठ कर्मणां पाकहेतवे॥संहारः कल्पितस्त्रेधा रुद्रेणामिततेजसा ॥ १६॥
विश्रांति-अर्थम् मुनि-श्रेष्ठ कर्मणाम् पाक-हेतवे॥संहारः कल्पितः त्रेधा रुद्रेण अमित-तेजसा ॥ १६॥
viśrāṃti-artham muni-śreṣṭha karmaṇām pāka-hetave..saṃhāraḥ kalpitaḥ tredhā rudreṇa amita-tejasā .. 16..
रुद्रस्यैव तु कृत्यानां त्रयमेतदुदाहृतम् ॥ संहृतवपि सृष्ट्यादिकृत्यानां पञ्चकं विभोः ॥ १७॥
रुद्रस्य एव तु कृत्यानाम् त्रयम् एतत् उदाहृतम् ॥ संहृतौ अपि सृष्टि-आदि-कृत्यानाम् पञ्चकम् विभोः ॥ १७॥
rudrasya eva tu kṛtyānām trayam etat udāhṛtam .. saṃhṛtau api sṛṣṭi-ādi-kṛtyānām pañcakam vibhoḥ .. 17..
मुने तत्र भवाद्यास्ते देवताः परिकीर्त्तिताः ॥ परब्रह्मस्वरूपाश्च लोकानुग्रहकारकाः ॥ १८ ॥
मुने तत्र भव-आद्याः ते देवताः परिकीर्त्तिताः ॥ पर-ब्रह्म-स्व-रूपाः च लोक-अनुग्रह-कारकाः ॥ १८ ॥
mune tatra bhava-ādyāḥ te devatāḥ parikīrttitāḥ .. para-brahma-sva-rūpāḥ ca loka-anugraha-kārakāḥ .. 18 ..
संहाराख्यमिदं चक्रं विद्यारूपकलामयम् ॥ अधिष्ठितं च रुद्रेण पदमेतन्निरामयम् ॥ १९॥
संहार-आख्यम् इदम् चक्रम् विद्या-रूप-कला-मयम् ॥ अधिष्ठितम् च रुद्रेण पदम् एतत् निरामयम् ॥ १९॥
saṃhāra-ākhyam idam cakram vidyā-rūpa-kalā-mayam .. adhiṣṭhitam ca rudreṇa padam etat nirāmayam .. 19..
एतदेव पदं प्राप्यं रुद्राराधनकांक्षिणाम् ॥ रुद्राणां तद्धि सालोक्यक्रमात्सायुज्यदम्मुने ॥ 6.15.२०॥
एतत् एव पदम् प्राप्यम् रुद्र-आराधन-कांक्षिणाम् ॥ रुद्राणाम् तत् हि सालोक्य-क्रमात् सायुज्य-दम् मुने ॥ ६।१५।२०॥
etat eva padam prāpyam rudra-ārādhana-kāṃkṣiṇām .. rudrāṇām tat hi sālokya-kramāt sāyujya-dam mune .. 6.15.20..
रुद्रमूर्त्तेस्सहस्रांशाद्विष्णोश्चैवाभवज्जनिः ॥ स वामदेवचक्रात्मा वारितत्त्वैकनायकः ॥ २१॥
रुद्र-मूर्त्तेः सहस्रांशात् विष्णोः च एव अभवत् जनिः ॥ स वामदेव-चक्र-आत्मा वारि-तत्त्व-एक-नायकः ॥ २१॥
rudra-mūrtteḥ sahasrāṃśāt viṣṇoḥ ca eva abhavat janiḥ .. sa vāmadeva-cakra-ātmā vāri-tattva-eka-nāyakaḥ .. 21..
रमाशाक्तियुतो वामे सर्व्वरक्षाकरो महान्॥चतुर्भुजोऽरविंदाक्षः श्यामश्शंखादिचिह्नभृत् ॥ २२॥
रमा-शाक्ति-युतः वामे सर्व्व-रक्षा-करः महान्॥चतुर्-भुजः अरविंद-अक्षः श्यामः शंख-आदि-चिह्न-भृत् ॥ २२॥
ramā-śākti-yutaḥ vāme sarvva-rakṣā-karaḥ mahān..catur-bhujaḥ araviṃda-akṣaḥ śyāmaḥ śaṃkha-ādi-cihna-bhṛt .. 22..
अस्यैव वासुदेवादिचतुष्कं व्यष्टितां गतम् ॥ उपासनरतानां वै वैष्णवानां विमुक्तिदम् ॥ २३॥
अस्य एव वासुदेव-आदि-चतुष्कम् व्यष्टि-ताम् गतम् ॥ उपासन-रतानाम् वै वैष्णवानाम् विमुक्ति-दम् ॥ २३॥
asya eva vāsudeva-ādi-catuṣkam vyaṣṭi-tām gatam .. upāsana-ratānām vai vaiṣṇavānām vimukti-dam .. 23..
वासुदेवोऽनिरुद्धश्च ततस्संकर्षणः परः ॥ प्रद्युम्नश्चेति विख्यातं स्थितिचक्रमनुत्तमम् ॥ २४ ॥
वासुदेवः अनिरुद्धः च ततस् संकर्षणः परः ॥ प्रद्युम्नः च इति विख्यातम् स्थिति-चक्रम् अनुत्तमम् ॥ २४ ॥
vāsudevaḥ aniruddhaḥ ca tatas saṃkarṣaṇaḥ paraḥ .. pradyumnaḥ ca iti vikhyātam sthiti-cakram anuttamam .. 24 ..
स्थितिस्सृष्टस्य जगतस्तत्कर्त्रा सह पालनम् ॥ आरब्धकर्मभोगान्तं जीवानां फलभोगिनाम् ॥ २५ ॥
स्थितिः सृष्टस्य जगतः तद्-कर्त्रा सह पालनम् ॥ आरब्ध-कर्म-भोग-अन्तम् जीवानाम् फल-भोगिनाम् ॥ २५ ॥
sthitiḥ sṛṣṭasya jagataḥ tad-kartrā saha pālanam .. ārabdha-karma-bhoga-antam jīvānām phala-bhoginām .. 25 ..
विष्णोरेवेदमाख्यातं कृत्यं रक्षाविधायिनः॥स्थितावपि तु सृष्ट्यादि कृत्यानां पंचकं विभोः ॥ २६॥
विष्णोः एव इदम् आख्यातम् कृत्यम् रक्षा-विधायिनः॥स्थितौ अपि तु सृष्टि-आदि कृत्यानाम् पंचकम् विभोः ॥ २६॥
viṣṇoḥ eva idam ākhyātam kṛtyam rakṣā-vidhāyinaḥ..sthitau api tu sṛṣṭi-ādi kṛtyānām paṃcakam vibhoḥ .. 26..
तत्र प्रद्युम्नमुख्यास्ते देवताः परिकीर्तिताः ॥ निर्विकल्पा निरातंका मुक्तानंदकरास्सदा ॥ २७॥
तत्र प्रद्युम्न-मुख्याः ते देवताः परिकीर्तिताः ॥ निर्विकल्पाः निरातंकाः मुक्त-आनंद-कराः सदा ॥ २७॥
tatra pradyumna-mukhyāḥ te devatāḥ parikīrtitāḥ .. nirvikalpāḥ nirātaṃkāḥ mukta-ānaṃda-karāḥ sadā .. 27..
स्थितिचक्रमिदं ब्रह्मन्प्रतिष्ठारूपमुत्तमम् ॥ जनार्दनाधिष्ठितं च परमं पदमुच्यते ॥ २८ ॥
स्थिति-चक्रम् इदम् ब्रह्मन् प्रतिष्ठा-रूपम् उत्तमम् ॥ जनार्दन-अधिष्ठितम् च परमम् पदम् उच्यते ॥ २८ ॥
sthiti-cakram idam brahman pratiṣṭhā-rūpam uttamam .. janārdana-adhiṣṭhitam ca paramam padam ucyate .. 28 ..
एवदेव पदं प्राप्यं विष्णुपादाब्जसेविनाम् ॥ वैष्णवानां चक्रमिदं सालोक्यादिपदप्रदम् ॥ २९॥
एवदेव पदम् प्राप्यम् विष्णु-पाद-अब्ज-सेविनाम् ॥ वैष्णवानाम् चक्रम् इदम् सालोक्य-आदि-पद-प्रदम् ॥ २९॥
evadeva padam prāpyam viṣṇu-pāda-abja-sevinām .. vaiṣṇavānām cakram idam sālokya-ādi-pada-pradam .. 29..
विष्णोरेव सहस्रांशात्संबभूव पितामहः ॥ सद्योजातमुखात्मा यः पृथिवीतत्त्वनायकः ॥ 6.15.३०॥
विष्णोः एव सहस्र-अंशात् संबभूव पितामहः ॥ ॥ ६।१५।३०॥
viṣṇoḥ eva sahasra-aṃśāt saṃbabhūva pitāmahaḥ .. .. 6.15.30..
वाग्देवीसहितो वामे सृष्टिकर्त्ता जगत्प्रभुः ॥ चतुर्मुखो रक्तवर्णो रजोरूपस्वरूपवान् ॥ ३१॥
॥ चतुर्मुखः रक्त-वर्णः रजः-रूप-स्वरूपवान् ॥ ३१॥
.. caturmukhaḥ rakta-varṇaḥ rajaḥ-rūpa-svarūpavān .. 31..
हिण्यगर्भाद्यस्यैव व्यष्टिरूपं चतुष्टयम् ॥ हिरण्यगर्भोथ विराट् पुरुषः काल एव च॥३२॥
हिण्यगर्भ-आद्यस्य एव व्यष्टि-रूपम् चतुष्टयम् ॥ हिरण्यगर्भा उथ विराज् पुरुषः कालः एव च॥३२॥
hiṇyagarbha-ādyasya eva vyaṣṭi-rūpam catuṣṭayam .. hiraṇyagarbhā utha virāj puruṣaḥ kālaḥ eva ca..32..
सृष्टि चक्रमिदं ब्रह्म पुत्रादिऋषिसेवितम्॥सर्व्वकामार्थदं ब्रह्मन्परिवारसुखप्रदम्॥३३॥
सृष्टि चक्रम् इदम् ब्रह्म पुत्र-आदि-ऋषि-सेवितम्॥सर्व्व-काम-अर्थ-दम् ब्रह्मन् परिवार-सुख-प्रदम्॥३३॥
sṛṣṭi cakram idam brahma putra-ādi-ṛṣi-sevitam..sarvva-kāma-artha-dam brahman parivāra-sukha-pradam..33..
सृष्टिस्तु संहृतस्यास्य जीवस्य प्रकृतौ बहिः॥आनीय कर्मभोगार्थ साधनांगफलैस्सह ॥ ३४॥
सृष्टिः तु संहृतस्य अस्य जीवस्य प्रकृतौ बहिस्॥आनीय कर्म-भोग-अर्थ साधन-अंग-फलैः सह ॥ ३४॥
sṛṣṭiḥ tu saṃhṛtasya asya jīvasya prakṛtau bahis..ānīya karma-bhoga-artha sādhana-aṃga-phalaiḥ saha .. 34..
संयोजनमितीदं तु कृत्यं पैतामहं विदुः ॥ जगत्सृष्टिक्रियाविज्ञा यावद्व्यूहं सुखावहम् ॥ ३५॥
संयोजनम् इति इदम् तु कृत्यम् पैतामहम् विदुः ॥ जगत्-सृष्टि-क्रिया-विज्ञाः यावत् व्यूहम् सुख-आवहम् ॥ ३५॥
saṃyojanam iti idam tu kṛtyam paitāmaham viduḥ .. jagat-sṛṣṭi-kriyā-vijñāḥ yāvat vyūham sukha-āvaham .. 35..
जगत्सृष्टावपि मुने कृत्यानां च पंचकं विभोः ॥ अस्ति कालोदयस्तत्र देवताः परिकीर्त्तिताः॥३६॥
जगत्-सृष्टौ अपि मुने कृत्यानाम् च पंचकम् विभोः ॥ अस्ति काल-उदयः तत्र देवताः परिकीर्त्तिताः॥३६॥
jagat-sṛṣṭau api mune kṛtyānām ca paṃcakam vibhoḥ .. asti kāla-udayaḥ tatra devatāḥ parikīrttitāḥ..36..
निवृत्तिरूपमाख्यातं सृष्टिचक्रमिदं बुधैः ॥ पितामहाधिष्ठितं च पदमेतद्धि शोभनम् ॥ ३७॥
निवृत्ति-रूपम् आख्यातम् सृष्टि-चक्रम् इदम् बुधैः ॥ पितामह-धिष्ठितम् च पदम् एतत् हि शोभनम् ॥ ३७॥
nivṛtti-rūpam ākhyātam sṛṣṭi-cakram idam budhaiḥ .. pitāmaha-dhiṣṭhitam ca padam etat hi śobhanam .. 37..
एतदेव प्रदं प्राप्यं ब्रह्मार्पितधियां नृणाम् ॥ पैतामहानामेतद्धि सालोक्या दिविमुक्तिदम् ॥ ३८॥
एतत् एव प्रदम् प्राप्यम् ब्रह्म-अर्पित-धियाम् नृणाम् ॥ पैतामहानाम् एतत् हि सालोक्या दिविमुक्ति-दम् ॥ ३८॥
etat eva pradam prāpyam brahma-arpita-dhiyām nṛṇām .. paitāmahānām etat hi sālokyā divimukti-dam .. 38..
अस्मिन्नपि चतुष्के तु चक्राणां प्रणवो भवेत् ॥ महेशादिक्रमादेव गौण्या वृत्त्या स वाचकः ॥ ३९॥
अस्मिन् अपि चतुष्के तु चक्राणाम् प्रणवः भवेत् ॥ महेश-आदि-क्रमात् एव गौण्या वृत्त्या स वाचकः ॥ ३९॥
asmin api catuṣke tu cakrāṇām praṇavaḥ bhavet .. maheśa-ādi-kramāt eva gauṇyā vṛttyā sa vācakaḥ .. 39..
इदं खलु जगच्चक्रं श्रुतिविश्रुतवैभवम् ॥ पञ्चारं चक्रमिति ह स्तौति श्रुतिरिदम्मुने॥6.15.४०॥
इदम् खलु जगत्-चक्रम् श्रुति-विश्रुत-वैभवम् ॥ पञ्च-अरम् चक्रम् इति ह स्तौति श्रुतिः इदम् मुने॥६।१५।४०॥
idam khalu jagat-cakram śruti-viśruta-vaibhavam .. pañca-aram cakram iti ha stauti śrutiḥ idam mune..6.15.40..
एकमेव जगच्चक्रं शम्भोश्शक्तिविजृंभितम् ॥ सृष्ट्यादिपंचांवयवं पंचारमिति कथ्यते ॥ ४१॥
एकम् एव जगत्-चक्रम् शम्भोः शक्ति-विजृंभितम् ॥ सृष्टि-आदि-पंच-अंवयवम् पंचारम् इति कथ्यते ॥ ४१॥
ekam eva jagat-cakram śambhoḥ śakti-vijṛṃbhitam .. sṛṣṭi-ādi-paṃca-aṃvayavam paṃcāram iti kathyate .. 41..
अलातचक्रभ्रमिवदविच्छिन्नलयोदयम् ॥ परितो वर्तते यस्मात्तस्माच्चक्रमितीरितम्॥४२॥
अलात-चक्र-भ्रमि-वत् अविच्छिन्न-लय-उदयम् ॥ परितस् वर्तते यस्मात् तस्मात् चक्रम् इति ईरितम्॥४२॥
alāta-cakra-bhrami-vat avicchinna-laya-udayam .. paritas vartate yasmāt tasmāt cakram iti īritam..42..
सृष्ट्यादिपृथुसृष्टित्वात्पृथुत्वेनोपदृश्यते ॥ हिरण्मयस्य देवस्य शम्भोरमिततेजसः ॥ ४३ ॥
सृष्टि-आदि-पृथु-सृष्टि-त्वात् पृथु-त्वेन उपदृश्यते ॥ हिरण्मयस्य देवस्य शम्भोः अमित-तेजसः ॥ ४३ ॥
sṛṣṭi-ādi-pṛthu-sṛṣṭi-tvāt pṛthu-tvena upadṛśyate .. hiraṇmayasya devasya śambhoḥ amita-tejasaḥ .. 43 ..
शक्तिकार्यमिदं चक्रं हिरण्यज्योतिराश्रितम् ॥ सलिलेनावृतमिदं सलिलं वह्निनावृतम् ॥ ४४॥
शक्ति-कार्यम् इदम् चक्रम् हिरण्य-ज्योतिः आश्रितम् ॥ सलिलेन आवृतम् इदम् सलिलम् वह्निना आवृतम् ॥ ४४॥
śakti-kāryam idam cakram hiraṇya-jyotiḥ āśritam .. salilena āvṛtam idam salilam vahninā āvṛtam .. 44..
आवृतो वायुना वह्निराकाशेनावृतं महत् ॥ भूतादिना तथाकाशो भूतादिर्महतावृतः ॥ ४५ ॥
आवृतः वायुना वह्निः आकाशेन आवृतम् महत् ॥ भूतादिना तथा आकाशः भूतादिः महता आवृतः ॥ ४५ ॥
āvṛtaḥ vāyunā vahniḥ ākāśena āvṛtam mahat .. bhūtādinā tathā ākāśaḥ bhūtādiḥ mahatā āvṛtaḥ .. 45 ..
अव्यक्तेनावृतस्तद्वन्महानित्येवमास्तिकैः ॥ ब्रह्माण्डमिति संप्रोक्तमाचार्य्यैर्मुनिसत्तम ॥ ४६ ॥
अव्यक्तेन आवृतः तद्वत् महान् इति एवम् आस्तिकैः ॥ ब्रह्माण्डम् इति संप्रोक्तम् आचार्यैः मुनि-सत्तम ॥ ४६ ॥
avyaktena āvṛtaḥ tadvat mahān iti evam āstikaiḥ .. brahmāṇḍam iti saṃproktam ācāryaiḥ muni-sattama .. 46 ..
उक्तानि सप्तावरणान्यस्य विश्वस्य गुप्तये ॥ चक्राद्दशगुणाधिक्यं सलिलस्य विधीयते ॥ ४७ ॥
उक्तानि सप्त आवरणानि अस्य विश्वस्य गुप्तये ॥ चक्रात् दशगुण-आधिक्यम् सलिलस्य विधीयते ॥ ४७ ॥
uktāni sapta āvaraṇāni asya viśvasya guptaye .. cakrāt daśaguṇa-ādhikyam salilasya vidhīyate .. 47 ..
उपर्युपरि चान्योन्यमेवं दशगुणाधिकम् ॥ ब्रह्माण्डमिति विज्ञेयं तद्द्विजैर्मुनिनायक ॥ ४८॥
उपरि उपरि च अन्योन्यम् एवम् दशगुण-अधिकम् ॥ ब्रह्माण्डम् इति विज्ञेयम् तत् द्विजैः मुनि-नायक ॥ ४८॥
upari upari ca anyonyam evam daśaguṇa-adhikam .. brahmāṇḍam iti vijñeyam tat dvijaiḥ muni-nāyaka .. 48..
इममर्थमुरीकृत्य चक्रसामीप्यवर्त्तनात्॥सलिलस्य च तन्मध्ये इति प्राह श्रुतिस्स्वयम्॥४९॥
इमम् अर्थम् उरीकृत्य चक्र-सामीप्य-वर्त्तनात्॥सलिलस्य च तद्-मध्ये इति प्राह श्रुतिः स्वयम्॥४९॥
imam artham urīkṛtya cakra-sāmīpya-varttanāt..salilasya ca tad-madhye iti prāha śrutiḥ svayam..49..
अनुग्रहतिरोभावसंहृतिस्थितिसृष्टिभिः ॥ करोत्यविरतं लीलामेकश्शक्तियुतश्शिवः॥6.15.५०॥
अनुग्रह-तिरोभाव-संहृति-स्थिति-सृष्टिभिः ॥ करोति अविरतम् लीलाम् एकः शक्ति-युतः शिवः॥६।१५।५०॥
anugraha-tirobhāva-saṃhṛti-sthiti-sṛṣṭibhiḥ .. karoti aviratam līlām ekaḥ śakti-yutaḥ śivaḥ..6.15.50..
बहुनेह किमुक्तेन मुने सारं वदामि ते॥शिव एवेदमखिलं शक्तिमानिति निश्चितम्॥५१॥
बहुना इह किम् उक्तेन मुने सारम् वदामि ते॥शिवः एव इदम् अखिलम् शक्तिमान् इति निश्चितम्॥५१॥
bahunā iha kim uktena mune sāram vadāmi te..śivaḥ eva idam akhilam śaktimān iti niścitam..51..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामुपासनामूर्त्तिवर्णनं नाम पंचदशोऽध्यायः ॥ १५॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् उपासनामूर्त्तिवर्णनम् नाम पंचदशः अध्यायः ॥ १५॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām upāsanāmūrttivarṇanam nāma paṃcadaśaḥ adhyāyaḥ .. 15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In