| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
श्रुत्वोपदिष्टं गुरुणा वेदार्थं मुनिपुंगवः ॥ परमात्मनि संदिग्धं परिपप्रच्छ सादरम् ॥ १॥
श्रुत्वा उपदिष्टम् गुरुणा वेद-अर्थम् मुनि-पुंगवः ॥ परमात्मनि संदिग्धम् परिपप्रच्छ सादरम् ॥ १॥
śrutvā upadiṣṭam guruṇā veda-artham muni-puṃgavaḥ .. paramātmani saṃdigdham paripapraccha sādaram .. 1..
वामदेव उवाच ।।
ज्ञानशक्तिधर स्वामिन्परमानन्दविग्रह ॥ प्रणवार्थामृतं पीतं श्रीमुखख्जात्परिस्रुतम् ॥ २॥
ज्ञान-शक्ति-धर स्वामिन् परमानन्द-विग्रह ॥ प्रणव-अर्थ-अमृतम् पीतम् ॥ २॥
jñāna-śakti-dhara svāmin paramānanda-vigraha .. praṇava-artha-amṛtam pītam .. 2..
दृढप्रज्ञश्च जातोऽस्मि संदेहो विगतो मम ॥ किंचिदन्यन्महासेन पृच्छामि त्वां शृणु प्रभो ॥ ३॥
दृढ-प्रज्ञः च जातः अस्मि संदेहः विगतः मम ॥ किंचिद् अन्यत् महासेन पृच्छामि त्वाम् शृणु प्रभो ॥ ३॥
dṛḍha-prajñaḥ ca jātaḥ asmi saṃdehaḥ vigataḥ mama .. kiṃcid anyat mahāsena pṛcchāmi tvām śṛṇu prabho .. 3..
सदाशिवादिकीटांतरूपस्य जगतः स्थितिः॥स्त्रीपुंरूपेण सर्वत्र दृश्यते न हि संशयः ॥ ४ ॥
सदाशिव-आदि-कीट-अन्त-रूपस्य जगतः स्थितिः॥स्त्री-पुम् रूपेण सर्वत्र दृश्यते न हि संशयः ॥ ४ ॥
sadāśiva-ādi-kīṭa-anta-rūpasya jagataḥ sthitiḥ..strī-pum rūpeṇa sarvatra dṛśyate na hi saṃśayaḥ .. 4 ..
एवं रूपस्य जगतः कारणं यत्सनातनम् ॥ स्त्रीरूपं तत्किमाहोस्वित्पुरुषो वा नपुंसकम् ॥ ५ ॥
एवम् रूपस्य जगतः कारणम् यत् सनातनम् ॥ स्त्री-रूपम् तत् किम् आहोस्वित् पुरुषः वा नपुंसकम् ॥ ५ ॥
evam rūpasya jagataḥ kāraṇam yat sanātanam .. strī-rūpam tat kim āhosvit puruṣaḥ vā napuṃsakam .. 5 ..
उत मिश्रं किमन्यद्वा न जातस्तत्र निर्णयः ॥ बहुधा विवदन्तीह विद्वांसश्शास्त्रमोहिताः ॥ ६ ॥
उत मिश्रम् किम् अन्यत् वा न जातः तत्र निर्णयः ॥ बहुधा विवदन्ति इह विद्वांसः शास्त्र-मोहिताः ॥ ६ ॥
uta miśram kim anyat vā na jātaḥ tatra nirṇayaḥ .. bahudhā vivadanti iha vidvāṃsaḥ śāstra-mohitāḥ .. 6 ..
जगत्सृष्टिविधायिन्यः श्रुतयो जगता सह ॥ विष्णुब्रह्मादयो देवाः सिद्धाश्च न विदन्ति हि ॥ ७॥
जगत्-सृष्टि-विधायिन्यः श्रुतयः जगता सह ॥ विष्णु-ब्रह्म-आदयः देवाः सिद्धाः च न विदन्ति हि ॥ ७॥
jagat-sṛṣṭi-vidhāyinyaḥ śrutayaḥ jagatā saha .. viṣṇu-brahma-ādayaḥ devāḥ siddhāḥ ca na vidanti hi .. 7..
यथैक्यभावं गच्छेयुरेतदन्यच्च वेदय ॥ जानामीति करोमीति व्यवहारः प्रदृश्यते ॥ ८ ॥
यथा ऐक्य-भावम् गच्छेयुः एतत् अन्यत् च वेदय ॥ जानामि इति करोमि इति व्यवहारः प्रदृश्यते ॥ ८ ॥
yathā aikya-bhāvam gaccheyuḥ etat anyat ca vedaya .. jānāmi iti karomi iti vyavahāraḥ pradṛśyate .. 8 ..
स हि सर्वात्मसंसिद्धो विवादो नात्र कस्यचित् ॥ सर्वदेहेन्द्रियमनोबुध्यहंकारसंभवः ॥ ९॥
स हि सर्व-आत्म-संसिद्धः विवादः न अत्र कस्यचिद् ॥ सर्व-देह-इन्द्रिय-मनः-बुधि-अहंकार-संभवः ॥ ९॥
sa hi sarva-ātma-saṃsiddhaḥ vivādaḥ na atra kasyacid .. sarva-deha-indriya-manaḥ-budhi-ahaṃkāra-saṃbhavaḥ .. 9..
आहोस्वि दात्मनोरूपं महानत्रापि संशयः ॥ द्वयमेतद्धि सर्व्वेषां विवादास्पदमद्भुतम् ॥ 6.16.१० ॥
आहोस्वित् आत्मनोरूपम् महान् अत्र अपि संशयः ॥ द्वयम् एतत् हि सर्व्वेषाम् विवाद-आस्पदम् अद्भुतम् ॥ ६।१६।१० ॥
āhosvit ātmanorūpam mahān atra api saṃśayaḥ .. dvayam etat hi sarvveṣām vivāda-āspadam adbhutam .. 6.16.10 ..
उत्पाट्याज्ञानसंभूतं संशयाख्यं विषद्रुमम्॥शिवाद्वैतमहाकल्पवृक्षभूमिर्यथाभवेत् ॥ ११ ॥
उत्पाट्य अज्ञान-संभूतम् संशय-आख्यम् विष-द्रुमम्॥शिव-अद्वैत-महा-कल्पवृक्ष-भूमिः यथा भवेत् ॥ ११ ॥
utpāṭya ajñāna-saṃbhūtam saṃśaya-ākhyam viṣa-drumam..śiva-advaita-mahā-kalpavṛkṣa-bhūmiḥ yathā bhavet .. 11 ..
चित्तं मम यथा देव बोध्योऽस्मि कृपया तव ॥ कृपातस्तव देवेश दृढज्ञानी भवा म्यहम् ॥ १२ ॥
चित्तम् मम यथा देव बोध्यः अस्मि कृपया तव ॥ कृपातः तव देवेश दृढ-ज्ञानी भवा मि अहम् ॥ १२ ॥
cittam mama yathā deva bodhyaḥ asmi kṛpayā tava .. kṛpātaḥ tava deveśa dṛḍha-jñānī bhavā mi aham .. 12 ..
सूत उवाच ।।
श्रुत्वैवं मुनिना पृष्टं वचो वेदान्तनिर्वृतम् ॥ रहस्यं प्रभुराहेदं किंचित्प्रहसिताननः ॥ १३॥
श्रुत्वा एवम् मुनिना पृष्टम् वचः वेदान्त-निर्वृतम् ॥ रहस्यम् प्रभुः आह इदम् किंचिद् प्रहसित-आननः ॥ १३॥
śrutvā evam muninā pṛṣṭam vacaḥ vedānta-nirvṛtam .. rahasyam prabhuḥ āha idam kiṃcid prahasita-ānanaḥ .. 13..
सुब्रह्मण्य उवाच ।।
एतदेव मुने गुह्यं शिवेन परिभाषितम् ॥ अम्बायाः शृण्वतो देव्या वामदेव ममापि हि ॥ १४ ॥
एतत् एव मुने गुह्यम् शिवेन परिभाषितम् ॥ अम्बायाः शृण्वतः देव्याः वामदेव मम अपि हि ॥ १४ ॥
etat eva mune guhyam śivena paribhāṣitam .. ambāyāḥ śṛṇvataḥ devyāḥ vāmadeva mama api hi .. 14 ..
तस्याः स्तन्यं तदा पीत्वा संतृप्तोऽस्मि मुहुर्मुहुः॥श्रुतवान्निश्चलं तद्वै निश्चितं मे विचारितम्॥१५॥
तस्याः स्तन्यम् तदा पीत्वा संतृप्तः अस्मि मुहुर् मुहुर्॥श्रुतवान् निश्चलम् तत् वै निश्चितम् मे विचारितम्॥१५॥
tasyāḥ stanyam tadā pītvā saṃtṛptaḥ asmi muhur muhur..śrutavān niścalam tat vai niścitam me vicāritam..15..
तत्ते वदामि दयया वामदेव महामुने॥महद्गुह्यं च परमं सुत त्वं शृणु सांप्रतम् ॥ १६॥
तत् ते वदामि दयया वामदेव महा-मुने॥महत् गुह्यम् च परमम् सुत त्वम् शृणु सांप्रतम् ॥ १६॥
tat te vadāmi dayayā vāmadeva mahā-mune..mahat guhyam ca paramam suta tvam śṛṇu sāṃpratam .. 16..
कर्मास्ति तत्त्वादारभ्य शास्त्रवादस्सुविस्तरः ॥ यथाविवेकं श्रोतव्यो ज्ञानिना ज्ञानदो मुने॥१७॥
कर्म अस्ति तत्त्वात् आरभ्य शास्त्र-वादः सु विस्तरः ॥ यथा विवेकम् श्रोतव्यः ज्ञानिना ज्ञान-दः मुने॥१७॥
karma asti tattvāt ārabhya śāstra-vādaḥ su vistaraḥ .. yathā vivekam śrotavyaḥ jñāninā jñāna-daḥ mune..17..
त्वयोपदिष्टा ये शिष्यास्तत्र को वा भवत्समः ॥ कपिलादिषु शास्त्रेषु भ्रमंत्यद्यापि तेऽधमाः ॥ १८॥
त्वया उपदिष्टाः ये शिष्याः तत्र कः वा भवत्-समः ॥ कपिल-आदिषु शास्त्रेषु भ्रमंति अद्य अपि ते अधमाः ॥ १८॥
tvayā upadiṣṭāḥ ye śiṣyāḥ tatra kaḥ vā bhavat-samaḥ .. kapila-ādiṣu śāstreṣu bhramaṃti adya api te adhamāḥ .. 18..
ते शप्ता मुनिभिः षड्भिश्शिवनिन्दा पराः पुरा॥न श्रोतव्या हि तद्वार्त्ता तेऽन्यथावादिनो यतः॥१९॥
ते शप्ताः मुनिभिः षड्भिः शिव-निन्दा पराः पुरा॥न श्रोतव्या हि तद्-वार्त्ता ते अन्यथावादिनः यतस्॥१९॥
te śaptāḥ munibhiḥ ṣaḍbhiḥ śiva-nindā parāḥ purā..na śrotavyā hi tad-vārttā te anyathāvādinaḥ yatas..19..
अनुमानप्रयोगस्याप्यवकाशो न विद्यते॥पंचावयवयुक्तस्य स तु धूमस्य दर्शनात् ॥ 6.16.२० ॥
अनुमान-प्रयोगस्य अपि अवकाशः न विद्यते॥पंच-अवयव-युक्तस्य स तु धूमस्य दर्शनात् ॥ ६।१६।२० ॥
anumāna-prayogasya api avakāśaḥ na vidyate..paṃca-avayava-yuktasya sa tu dhūmasya darśanāt .. 6.16.20 ..
पर्व्वतस्याग्निमद्भावं वदंत्यत्रापि सुव्रत।प्रत्यक्षस्य प्रपंचस्य दर्शनालंबनं त्वतः ॥ २१ ॥
पर्व्वतस्य अग्निमत्-भावम् वदन्ति अत्र अपि सुव्रत।प्रत्यक्षस्य प्रपंचस्य दर्शन-आलंबनम् तु अतस् ॥ २१ ॥
parvvatasya agnimat-bhāvam vadanti atra api suvrata.pratyakṣasya prapaṃcasya darśana-ālaṃbanam tu atas .. 21 ..
ज्ञातव्यः परमेशानः परमात्मा न संशयः ॥ स्त्रीपुंरूपमयं विश्वं प्रत्यक्षेणैव दृश्यते ॥ २२ ॥
ज्ञातव्यः परमेशानः परमात्मा न संशयः ॥ स्त्री-पुम् रूप-मयम् विश्वम् प्रत्यक्षेण एव दृश्यते ॥ २२ ॥
jñātavyaḥ parameśānaḥ paramātmā na saṃśayaḥ .. strī-pum rūpa-mayam viśvam pratyakṣeṇa eva dṛśyate .. 22 ..
षट्कोशरूपः पिण्डो हि तत्र चाद्यत्रयम्भवेत् ॥ मात्रंशजं पुनश्चान्यत्पित्रंशजमिति श्रुतिः ॥ २३ ॥
षष्-कोश-रूपः पिण्डः हि तत्र च आद्य-त्रयम् भवेत् ॥ मातृ-अंश-जम् पुनर् च अन्यत् पितृ-अंश-जम् इति श्रुतिः ॥ २३ ॥
ṣaṣ-kośa-rūpaḥ piṇḍaḥ hi tatra ca ādya-trayam bhavet .. mātṛ-aṃśa-jam punar ca anyat pitṛ-aṃśa-jam iti śrutiḥ .. 23 ..
एवं सर्वशरीरेषु स्त्रीपुंभावविदो जनाः ॥ परमात्मन्यपि मुने स्त्रीपुंभावं विदुर्बुधा॥२४॥
एवम् सर्व-शरीरेषु स्त्री-पुंभाव-विदः जनाः ॥ परम-आत्मनि अपि मुने स्त्री-पुंभावम् विदुः बुधा॥२४॥
evam sarva-śarīreṣu strī-puṃbhāva-vidaḥ janāḥ .. parama-ātmani api mune strī-puṃbhāvam viduḥ budhā..24..
सच्चिदानदरूपत्वं वदति ब्रह्मणः श्रुतिः ॥ असन्निवर्त्तकः शब्दः सदात्मेति निगद्यते ॥ २५ ॥
सच्चिदानद-रूप-त्वम् वदति ब्रह्मणः श्रुतिः ॥ असत्-निवर्त्तकः शब्दः सत्-आत्मा इति निगद्यते ॥ २५ ॥
saccidānada-rūpa-tvam vadati brahmaṇaḥ śrutiḥ .. asat-nivarttakaḥ śabdaḥ sat-ātmā iti nigadyate .. 25 ..
निवर्त्तनं जगत्त्वस्य चिच्छब्देन विधीयते ॥ त्रिलिंगवर्त्ती सच्छब्दः पुरुषोत्र विधीयताम् ॥ २५ ॥
निवर्त्तनम् जगत्-त्वस्य चित्-शब्देन विधीयते ॥ त्रि-लिंग-वर्त्ती सत्-शब्दः पुरुषः उत्र विधीयताम् ॥ २५ ॥
nivarttanam jagat-tvasya cit-śabdena vidhīyate .. tri-liṃga-varttī sat-śabdaḥ puruṣaḥ utra vidhīyatām .. 25 ..
प्रकाशवाची स भवेत्सत्प्रकाश इति स्फुटम् ॥ ज्ञानशब्दस्य पर्य्यायश्चिच्छब्दः स्त्रीत्वमागतः ॥ २७ ॥
प्रकाश-वाची स भवेत् सत्-प्रकाशः इति स्फुटम् ॥ ज्ञान-शब्दस्य पर्य्यायः चित्-शब्दः स्त्री-त्वम् आगतः ॥ २७ ॥
prakāśa-vācī sa bhavet sat-prakāśaḥ iti sphuṭam .. jñāna-śabdasya paryyāyaḥ cit-śabdaḥ strī-tvam āgataḥ .. 27 ..
प्रकाशश्चिच्च मिथुनं जगत्कारणतां गतम् ॥ सच्चिदात्मन्यपि तथा जगत्कारणतां गतम् ॥ २८ ॥
प्रकाशः चित् च मिथुनम् जगत्-कारणताम् गतम् ॥ सच्चिदात्मनि अपि तथा जगत्-कारणताम् गतम् ॥ २८ ॥
prakāśaḥ cit ca mithunam jagat-kāraṇatām gatam .. saccidātmani api tathā jagat-kāraṇatām gatam .. 28 ..
एकत्रैव शिवश्शक्तिरिति भावो विधीयते ॥ तैलवर्त्त्यादिमालिन्यात्प्रकाशस्यापि वर्त्तते ॥ २९ ॥
एकत्र एव शिवः शक्तिः इति भावः विधीयते ॥ तैल-वर्त्ति-आदि-मालिन्यात् प्रकाशस्य अपि वर्त्तते ॥ २९ ॥
ekatra eva śivaḥ śaktiḥ iti bhāvaḥ vidhīyate .. taila-vartti-ādi-mālinyāt prakāśasya api varttate .. 29 ..
मालिन्यमशिवत्वं च चिताग्न्यादिषु दृश्यते ॥ एवं विवर्त्तकत्वेन शिवत्वं श्रुतिचोदितम् ॥ 6.16.३० ॥
च चिता-अग्नि-आदिषु दृश्यते ॥ एवम् विवर्त्तक-त्वेन शिव-त्वम् श्रुति-चोदितम् ॥ ६।१६।३० ॥
ca citā-agni-ādiṣu dṛśyate .. evam vivarttaka-tvena śiva-tvam śruti-coditam .. 6.16.30 ..
जीवाश्रितायाश्चिच्छक्तेर्दौर्बल्यं विद्यते सदा ॥ तन्निवृत्यर्थमेवात्र शक्तित्वं सार्वकालिकम् ॥ ३१ ॥
जीव-आश्रितायाः चिच्छक्तेः दौर्बल्यम् विद्यते सदा ॥ तद्-निवृति-अर्थम् एव अत्र शक्ति-त्वम् सार्वकालिकम् ॥ ३१ ॥
jīva-āśritāyāḥ cicchakteḥ daurbalyam vidyate sadā .. tad-nivṛti-artham eva atra śakti-tvam sārvakālikam .. 31 ..
बलवाञ्छक्तिमांश्चेति व्यवहारः प्रदृश्यते ॥ लोके वेदे च ससतं वामदेव महामुने ॥ ३२॥
बलवान् शक्तिमान् च इति व्यवहारः प्रदृश्यते ॥ लोके वेदे च ससतम् वामदेव महा-मुने ॥ ३२॥
balavān śaktimān ca iti vyavahāraḥ pradṛśyate .. loke vede ca sasatam vāmadeva mahā-mune .. 32..
एवं शिवत्वं शक्तित्वं परमात्मनि दर्शितम् ॥ शिवशक्त्योस्तु संयोगादानंदस्सततोदितः ॥ ३३॥
एवम् शिव-त्वम् शक्ति-त्वम् परमात्मनि दर्शितम् ॥ शिव-शक्त्योः तु संयोगात् आनंदः सतत-उदितः ॥ ३३॥
evam śiva-tvam śakti-tvam paramātmani darśitam .. śiva-śaktyoḥ tu saṃyogāt ānaṃdaḥ satata-uditaḥ .. 33..
अतो मुने तमुद्दिश्य मुनयः क्षीणकल्मषाः ॥ शिवे मनस्समाधाय प्राप्ताश्शिवमनामयम् ॥ ३४ ॥
अतस् मुने तम् उद्दिश्य मुनयः क्षीण-कल्मषाः ॥ शिवे मनः समाधाय प्राप्ताः शिवम् अनामयम् ॥ ३४ ॥
atas mune tam uddiśya munayaḥ kṣīṇa-kalmaṣāḥ .. śive manaḥ samādhāya prāptāḥ śivam anāmayam .. 34 ..
सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ॥ गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम् ॥ ३५ ॥
सर्व-आत्म-त्वम् तयोः एवम् ब्रह्म इति उपनिषत्सु च ॥ गीयते ब्रह्म-शब्देन बृंहि-धात्वर्थ-गोचरम् ॥ ३५ ॥
sarva-ātma-tvam tayoḥ evam brahma iti upaniṣatsu ca .. gīyate brahma-śabdena bṛṃhi-dhātvartha-gocaram .. 35 ..
बृंहणत्वं बृहत्त्वं च शंभ्वाख्यविग्रहे ॥ पंचब्रह्ममये विश्वप्रतीतिर्ब्रह्म शब्दिता ॥ ३६ ॥
बृंहण-त्वम् बृहत्-त्वम् च शंभु-आख्य-विग्रहे ॥ पंच-ब्रह्म-मये विश्व-प्रतीतिः ब्रह्म शब्दिता ॥ ३६ ॥
bṛṃhaṇa-tvam bṛhat-tvam ca śaṃbhu-ākhya-vigrahe .. paṃca-brahma-maye viśva-pratītiḥ brahma śabditā .. 36 ..
प्रतिलोमात्मके हंसे वक्ष्यामि प्रणवोद्भवम् ॥ तव स्नेहाद्वामदेव सावधानतया शृणु ॥ ३७॥
प्रतिलोम-आत्मके हंसे वक्ष्यामि प्रणव-उद्भवम् ॥ तव स्नेहात् वामदेव सावधान-तया शृणु ॥ ३७॥
pratiloma-ātmake haṃse vakṣyāmi praṇava-udbhavam .. tava snehāt vāmadeva sāvadhāna-tayā śṛṇu .. 37..
व्यंजनस्य सकारस्य हकारस्य च वर्जनात् ॥ ओमित्येव भवेत्स्थूलो वाचकः परमात्मनः ॥ ३८ ॥
व्यंजनस्य सकारस्य हकारस्य च वर्जनात् ॥ ओम् इति एव भवेत् स्थूलः वाचकः परमात्मनः ॥ ३८ ॥
vyaṃjanasya sakārasya hakārasya ca varjanāt .. om iti eva bhavet sthūlaḥ vācakaḥ paramātmanaḥ .. 38 ..
महामन्त्रस्स विज्ञेयो मुनिभिस्तत्त्वदर्शिभिः ॥ तत्र सूक्ष्मो महामन्त्रस्तदुद्धारं वदामि ते ॥ ३९ ॥
महा-मन्त्रः स विज्ञेयः मुनिभिः तत्त्व-दर्शिभिः ॥ तत्र सूक्ष्मः महा-मन्त्रः तद्-उद्धारम् वदामि ते ॥ ३९ ॥
mahā-mantraḥ sa vijñeyaḥ munibhiḥ tattva-darśibhiḥ .. tatra sūkṣmaḥ mahā-mantraḥ tad-uddhāram vadāmi te .. 39 ..
आद्ये त्रिपंचरूपे च स्वरे षोडशके त्रिषु ॥ महामन्त्रो भवेदादौ स सकारो भवेद्यदा ॥ 6.16.४०॥
आद्ये त्रि-पंच-रूपे च स्वरे षोडशके त्रिषु ॥ महामन्त्रः भवेत् आदौ स सकारः भवेत् यदा ॥ ६।१६।४०॥
ādye tri-paṃca-rūpe ca svare ṣoḍaśake triṣu .. mahāmantraḥ bhavet ādau sa sakāraḥ bhavet yadā .. 6.16.40..
हंसस्य प्रतिलोमः स्यात्सकारार्थश्शिवः स्मृतः ॥ शक्त्यात्मको महामन्त्रवाच्यः स्यादिति निर्णयः ॥ ४१॥
हंसस्य प्रतिलोमः स्यात् सकार-अर्थः शिवः स्मृतः ॥ शक्ति-आत्मकः महा-मन्त्र-वाच्यः स्यात् इति निर्णयः ॥ ४१॥
haṃsasya pratilomaḥ syāt sakāra-arthaḥ śivaḥ smṛtaḥ .. śakti-ātmakaḥ mahā-mantra-vācyaḥ syāt iti nirṇayaḥ .. 41..
गुरूपदेश काले तु सोहंशक्त्यात्मकश्शिवः ॥ इति जीवपरो भूयान्महामन्त्रस्तदा पशुः ॥ ४२॥
गुरु-उपदेश-काले तु सः हं शक्ति-आत्मकः शिवः ॥ इति जीव-परः भूयात् महा-मन्त्रः तदा पशुः ॥ ४२॥
guru-upadeśa-kāle tu saḥ haṃ śakti-ātmakaḥ śivaḥ .. iti jīva-paraḥ bhūyāt mahā-mantraḥ tadā paśuḥ .. 42..
शक्त्यात्मकश्शिवांशश्च शिवैक्याच्छिवसाम्यभाक् ॥ प्रज्ञानं ब्रह्मवाक्ये तु प्रज्ञानार्थः प्रदृश्यते ॥ ४३॥
शक्ति-आत्मकः शिव-अंशः च शिव-ऐक्यात् शिव-साम्य-भाज् ॥ प्रज्ञानम् ब्रह्म-वाक्ये तु प्रज्ञान-अर्थः प्रदृश्यते ॥ ४३॥
śakti-ātmakaḥ śiva-aṃśaḥ ca śiva-aikyāt śiva-sāmya-bhāj .. prajñānam brahma-vākye tu prajñāna-arthaḥ pradṛśyate .. 43..
प्रज्ञानशब्दश्चैतन्यपर्य्यायस्स्यान्न संशयः ॥ चैतन्यमात्मेति मुने शिवसूत्रं प्रवर्त्तितम् ॥ ४४ ॥
प्रज्ञान-शब्दः चैतन्य-पर्य्यायः स्यात् न संशयः ॥ चैतन्यम् आत्मा इति मुने शिवसूत्रम् प्रवर्त्तितम् ॥ ४४ ॥
prajñāna-śabdaḥ caitanya-paryyāyaḥ syāt na saṃśayaḥ .. caitanyam ātmā iti mune śivasūtram pravarttitam .. 44 ..
चैतन्यमिति विश्वस्य सर्वज्ञानक्रियात्मकम् ॥ स्वातन्त्र्यं तत्स्वभावो यः स आत्मा परिकीर्त्तितः ॥ ४५ ॥
चैतन्यम् इति विश्वस्य सर्व-ज्ञान-क्रिया-आत्मकम् ॥ स्वातन्त्र्यम् तद्-स्वभावः यः सः आत्मा परिकीर्त्तितः ॥ ४५ ॥
caitanyam iti viśvasya sarva-jñāna-kriyā-ātmakam .. svātantryam tad-svabhāvaḥ yaḥ saḥ ātmā parikīrttitaḥ .. 45 ..
इत्यादिशिवसूत्राणां वार्तिकं कथितं मया॥ज्ञानं बंध इतीदं तु द्वितीयं सूत्रमीशितुः ॥ ४६॥
इति आदि-शिव-सूत्राणाम् वार्तिकम् कथितम् मया॥ज्ञानम् बंधः इति इदम् तु द्वितीयम् सूत्रम् ईशितुः ॥ ४६॥
iti ādi-śiva-sūtrāṇām vārtikam kathitam mayā..jñānam baṃdhaḥ iti idam tu dvitīyam sūtram īśituḥ .. 46..
ज्ञानमित्यात्मनस्तस्य किंचिज्ज्ञानक्रियात्मकम्॥इत्याहाद्यपदेनेशः पशुवर्गस्य लक्षणम्॥४७॥
ज्ञानम् इति आत्मनः तस्य किंचिद् ज्ञान-क्रिया-आत्मकम्॥इति आह आद्य-पदेन ईशः पशु-वर्गस्य लक्षणम्॥४७॥
jñānam iti ātmanaḥ tasya kiṃcid jñāna-kriyā-ātmakam..iti āha ādya-padena īśaḥ paśu-vargasya lakṣaṇam..47..
एतद्द्वयं पराशक्तेः प्रथमं स्पंदतां गतम्॥एतामेव परां शक्तिं श्वेताश्वतरशाखिनः ॥ ४८॥
एतत् द्वयम् पराशक्तेः प्रथमम् स्पंदताम् गतम्॥एताम् एव पराम् शक्तिम् श्वेताश्वतर-शाखिनः ॥ ४८॥
etat dvayam parāśakteḥ prathamam spaṃdatām gatam..etām eva parām śaktim śvetāśvatara-śākhinaḥ .. 48..
स्वाभाविकी ज्ञानबलक्रिया चेत्यस्तुवन्मुदा॥ज्ञानक्रियेच्छारूपं हि शंभोर्दृष्टित्रयं विदुः॥४९॥
स्वाभाविकी ज्ञान-बल-क्रिया च इति अस्तुवत् मुदा॥ज्ञान-क्रिया-इच्छा-रूपम् हि शंभोः दृष्टि-त्रयम् विदुः॥४९॥
svābhāvikī jñāna-bala-kriyā ca iti astuvat mudā..jñāna-kriyā-icchā-rūpam hi śaṃbhoḥ dṛṣṭi-trayam viduḥ..49..
एतन्मनोमध्यगं सदिन्द्रियज्ञानगोचरम् ॥ अनुप्रविश्य जानाति करोति च पशुः सदा॥6.16.५० ॥
एतत् मनः-मध्य-गम् सत्-इन्द्रिय-ज्ञान-गोचरम् ॥ अनुप्रविश्य जानाति करोति च पशुः सदा॥६।१६।५० ॥
etat manaḥ-madhya-gam sat-indriya-jñāna-gocaram .. anupraviśya jānāti karoti ca paśuḥ sadā..6.16.50 ..
तस्मादात्मन एवेदं रूपमित्येव निश्चितम् ॥ प्रपंचार्थं प्रवक्ष्यामि प्रणवै क्यप्रदर्शनम् ॥ ५१॥
तस्मात् आत्मनः एव इदम् रूपम् इति एव निश्चितम् ॥ प्रपंच-अर्थम् प्रवक्ष्यामि ॥ ५१॥
tasmāt ātmanaḥ eva idam rūpam iti eva niścitam .. prapaṃca-artham pravakṣyāmi .. 51..
ॐमितीदं सर्वमिति श्रुतिराह सनातनी ॥ तस्माद्वेतीत्युपक्रम्य जगत्सृष्टिः प्रक्रीर्तिता ॥ ५२॥
ओम् मिति इदम् सर्वम् इति श्रुतिः आह सनातनी ॥ तस्मात् वेति इति उपक्रम्य जगत्-सृष्टिः प्रक्रीर्तिता ॥ ५२॥
om miti idam sarvam iti śrutiḥ āha sanātanī .. tasmāt veti iti upakramya jagat-sṛṣṭiḥ prakrīrtitā .. 52..
तस्याः श्रुतेस्तु तात्पर्यं वक्ष्यामि श्रूयतामिदम् ॥ तव स्नेहाद्वामदेव विवेकार्थविजृंभितम् ॥ ५३॥
तस्याः श्रुतेः तु तात्पर्यम् वक्ष्यामि श्रूयताम् इदम् ॥ तव स्नेहात् वामदेव विवेक-अर्थ-विजृंभितम् ॥ ५३॥
tasyāḥ śruteḥ tu tātparyam vakṣyāmi śrūyatām idam .. tava snehāt vāmadeva viveka-artha-vijṛṃbhitam .. 53..
शिवशक्तिसमायोगः परमात्मेति निश्चितम्॥पराशक्तेस्तु संजाता चिच्छक्तिस्तु तदुद्भवा ॥ ५४ ॥
शिव-शक्ति-समायोगः परमात्मा इति निश्चितम्॥परा-शक्तेः तु संजाता चिच्छक्तिः तु तद्-उद्भवा ॥ ५४ ॥
śiva-śakti-samāyogaḥ paramātmā iti niścitam..parā-śakteḥ tu saṃjātā cicchaktiḥ tu tad-udbhavā .. 54 ..
आनन्दशक्तिस्तज्जास्यादिच्छाशक्तिस्तदुद्भवा ॥ ज्ञानशक्तिस्ततो जाता क्रियाशक्तिस्तु पंचमी ॥ एताभ्य एव संजाता निवृत्त्याद्याः कला मुने॥५५॥
आनन्द-शक्तिः तद्-जा आस्यात् इच्छा-शक्तिः तद्-उद्भवा ॥ ज्ञानशक्तिः ततस् जाता क्रियाशक्तिः तु पंचमी ॥ एताभ्यः एव संजाताः निवृत्त्य आद्याः कलाः मुने॥५५॥
ānanda-śaktiḥ tad-jā āsyāt icchā-śaktiḥ tad-udbhavā .. jñānaśaktiḥ tatas jātā kriyāśaktiḥ tu paṃcamī .. etābhyaḥ eva saṃjātāḥ nivṛttya ādyāḥ kalāḥ mune..55..
चिदानन्दसमुत्पन्नौ नादबिन्दू प्रकीर्त्तितौ॥इच्छाशक्तेर्मकारस्तु ज्ञानशक्तेस्तु पंचमः ॥ ५६ ॥
॥इच्छा-शक्तेः मकारः तु ज्ञान-शक्तेः तु पंचमः ॥ ५६ ॥
..icchā-śakteḥ makāraḥ tu jñāna-śakteḥ tu paṃcamaḥ .. 56 ..
स्वरः क्रियाशक्तिजातो ह्यकारस्तु मुनीश्वर ॥ इत्युक्ता प्रणवोत्पत्तिः पंचब्रह्मोद्भवं शृणु ॥ ५७ ।
स्वरः क्रियाशक्ति-जातः हि अकारः तु मुनि-ईश्वर ॥ इति उक्ता प्रणव-उत्पत्तिः पंच-ब्रह्म-उद्भवम् शृणु ॥ ५७ ।
svaraḥ kriyāśakti-jātaḥ hi akāraḥ tu muni-īśvara .. iti uktā praṇava-utpattiḥ paṃca-brahma-udbhavam śṛṇu .. 57 .
शिवादीशान उत्पन्नस्ततस्तत्पुरुषोद्भवः ॥ ततोऽघोरस्ततो वामस्सद्योजातोद्भवस्ततः ॥ ५८॥
शिवात् ईशानः उत्पन्नः ततस् तत्पुरुष-उद्भवः ॥ ततस् अघोरः ततस् वामः सद्योजात-उद्भवः ततस् ॥ ५८॥
śivāt īśānaḥ utpannaḥ tatas tatpuruṣa-udbhavaḥ .. tatas aghoraḥ tatas vāmaḥ sadyojāta-udbhavaḥ tatas .. 58..
एतस्मान्मातृकादष्टत्रिंशन्मातृसमुद्भवः॥ईशानाच्छान्त्यतीताख्या कला जाताथ पूरुषात्॥उत्पद्यते शान्तिकला विद्याऽघोरसमुद्भवा ॥ ५९॥
एतस्मात् मातृकात् अष्टत्रिंशत्-मातृ-समुद्भवः॥ईशानात् शान्ति-अतीत-आख्या कला जाता अथ पूरुषात्॥उत्पद्यते शान्ति-कला विद्या-अघोर-समुद्भवा ॥ ५९॥
etasmāt mātṛkāt aṣṭatriṃśat-mātṛ-samudbhavaḥ..īśānāt śānti-atīta-ākhyā kalā jātā atha pūruṣāt..utpadyate śānti-kalā vidyā-aghora-samudbhavā .. 59..
प्रतिष्ठा च निवृत्तिश्च वाम सद्योद्भवे मते ॥ ईशाच्चिच्छक्तिमुखतो विभोर्मिथुनपञ्चकम्॥6.16.६०॥
प्रतिष्ठा च निवृत्तिः च वाम सद्योद्भवे मते ॥ ईशात् चित्-शक्ति-मुखतः विभोः मिथुन-पञ्चकम्॥६।१६।६०॥
pratiṣṭhā ca nivṛttiḥ ca vāma sadyodbhave mate .. īśāt cit-śakti-mukhataḥ vibhoḥ mithuna-pañcakam..6.16.60..
अनुग्रहादिकृत्यानां हेतुः पञ्चकमिष्यते ॥ तद्विद्भिर्मुनिभिः प्राज्ञैर्वरतत्त्वप्रदर्शिभिः ॥ ६१ ॥
अनुग्रह-आदि-कृत्यानाम् हेतुः पञ्चकम् इष्यते ॥ तद्-विद्भिः मुनिभिः प्राज्ञैः वर-तत्त्व-प्रदर्शिभिः ॥ ६१ ॥
anugraha-ādi-kṛtyānām hetuḥ pañcakam iṣyate .. tad-vidbhiḥ munibhiḥ prājñaiḥ vara-tattva-pradarśibhiḥ .. 61 ..
वाच्यवाचकसम्बन्धान्मिथुनत्वमुपेयुषि ॥ कलावर्णस्वरूपेऽस्मिन्पञ्चके भूतपञ्चकम् ॥ ६२॥
वाच्य-वाचक-सम्बन्धात् मिथुन-त्वम् उपेयुषि ॥ कला-वर्ण-स्वरूपे अस्मिन् पञ्चके भूतपञ्चकम् ॥ ६२॥
vācya-vācaka-sambandhāt mithuna-tvam upeyuṣi .. kalā-varṇa-svarūpe asmin pañcake bhūtapañcakam .. 62..
वियदादि क्रमादासीदुत्पन्नम्मुनिपुङ्गव ॥ आद्यं मिथुनमारभ्य पञ्चमं यन्मयं विदुः ॥ ६३ ॥
वियत्-आदि क्रमात् आसीत् उत्पन्नम् मुनि-पुङ्गव ॥ आद्यम् मिथुनम् आरभ्य पञ्चमम् यद्-मयम् विदुः ॥ ६३ ॥
viyat-ādi kramāt āsīt utpannam muni-puṅgava .. ādyam mithunam ārabhya pañcamam yad-mayam viduḥ .. 63 ..
शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत्॥शब्दस्पर्शरूपगुणप्रधानो वह्निरुच्यते ॥ ६४ ॥
शब्द-एक-गुणः आकाशः शब्द-स्पर्श-गुणः मरुत्॥शब्द-स्पर्श-रूप-गुण-प्रधानः वह्निः उच्यते ॥ ६४ ॥
śabda-eka-guṇaḥ ākāśaḥ śabda-sparśa-guṇaḥ marut..śabda-sparśa-rūpa-guṇa-pradhānaḥ vahniḥ ucyate .. 64 ..
शब्दस्पर्शरूपरसगुणकं सलिलं स्मृतम्॥शब्द्स्पर्शरूपरसगन्धाढ्या पृथिवी स्मृता ॥ ६५ ॥
शब्द-स्पर्श-रूप-रस-गुणकम् सलिलम् स्मृतम्॥शब्द-स्पर्श-रूप-रस-गन्ध-आढ्या पृथिवी स्मृता ॥ ६५ ॥
śabda-sparśa-rūpa-rasa-guṇakam salilam smṛtam..śabda-sparśa-rūpa-rasa-gandha-āḍhyā pṛthivī smṛtā .. 65 ..
व्यापकत्वञ्च भूतानामिदमेव प्रकीर्तितम् ॥ व्याप्यत्वं वैपरीत्येन गन्धादिक्रमतो भवेत् ॥ ६६॥
व्यापक-त्वञ्च भूतानाम् इदम् एव प्रकीर्तितम् ॥ व्याप्य-त्वम् वैपरीत्येन गन्ध-आदि-क्रमतः भवेत् ॥ ६६॥
vyāpaka-tvañca bhūtānām idam eva prakīrtitam .. vyāpya-tvam vaiparītyena gandha-ādi-kramataḥ bhavet .. 66..
भूतपञ्चकरूपोऽयम्प्रपञ्चः परिकीर्त्यते॥विराट् सर्वसमष्ट्यात्मा ब्रह्माण्डमिति च स्फुटम्॥६७॥
भूत-पञ्चक-रूपः अयम् प्रपञ्चः परिकीर्त्यते॥विराज् सर्व-समष्टि-आत्मा ब्रह्माण्डम् इति च स्फुटम्॥६७॥
bhūta-pañcaka-rūpaḥ ayam prapañcaḥ parikīrtyate..virāj sarva-samaṣṭi-ātmā brahmāṇḍam iti ca sphuṭam..67..
पृथिवीतत्त्वमारभ्य शिवतत्त्वावधि क्रमात्॥निलीय तत्त्वसंदोहे जीव एव विलीयते॥६८॥
पृथिवी-तत्त्वम् आरभ्य शिव-तत्त्व-अवधि क्रमात्॥निलीय तत्त्व-संदोहे जीवः एव विलीयते॥६८॥
pṛthivī-tattvam ārabhya śiva-tattva-avadhi kramāt..nilīya tattva-saṃdohe jīvaḥ eva vilīyate..68..
संशक्तिकः पुनस्सृष्टौ शक्तिद्वारा विनिर्गतः॥स्थूलप्रपञ्चरूपेण तिष्ठत्याप्रलयं सुखम्॥६९॥
संशक्तिकः पुनर् सृष्टौ शक्ति-द्वारा विनिर्गतः॥स्थूल-प्रपञ्च-रूपेण तिष्ठति आप्रलयम् सुखम्॥६९॥
saṃśaktikaḥ punar sṛṣṭau śakti-dvārā vinirgataḥ..sthūla-prapañca-rūpeṇa tiṣṭhati āpralayam sukham..69..
निजेच्छया जगत्सृष्टमुद्युक्तस्य महेशितुः॥प्रथमो यः परिस्पन्दश्शिव तत्त्वन्तदुच्यते॥6.16.७०॥
निज-इच्छया जगत् सृष्टम् उद्युक्तस्य महेशितुः॥प्रथमः यः परिस्पन्दः शिव तत्त्वम् तत् उच्यते॥६।१६।७०॥
nija-icchayā jagat sṛṣṭam udyuktasya maheśituḥ..prathamaḥ yaḥ parispandaḥ śiva tattvam tat ucyate..6.16.70..
एषैवेच्छाशक्तितत्वं सर्वकृत्यानुवर्तनात् ॥ ज्ञानक्रियाशक्तियुग्मे ज्ञानाधिक्ये सदाशिवः ॥ ७१॥
सर्व-कृत्या-अनुवर्तनात् ॥ ज्ञान-क्रिया-शक्ति-युग्मे ज्ञान-आधिक्ये सदाशिवः ॥ ७१॥
sarva-kṛtyā-anuvartanāt .. jñāna-kriyā-śakti-yugme jñāna-ādhikye sadāśivaḥ .. 71..
महेश्वरं क्रियोद्रेके तत्त्वं विद्धि मुनीश्वर॥ज्ञानक्रियाशक्तिसाम्यं शुद्धविद्यात्मकं मतम्॥७२॥
महेश्वरम् क्रिया-उद्रेके तत्त्वम् विद्धि मुनि-ईश्वर॥ज्ञान-क्रिया-शक्ति-साम्यम् शुद्धविद्या-आत्मकम् मतम्॥७२॥
maheśvaram kriyā-udreke tattvam viddhi muni-īśvara..jñāna-kriyā-śakti-sāmyam śuddhavidyā-ātmakam matam..72..
स्वाङ्गरूपेषु भावेषु मायातत्त्वविभेदधीः॥शिवो यदा निजं रूपं परमैश्वर्य्यपूर्वकम्॥७३॥
स्व-अङ्ग-रूपेषु भावेषु माया-तत्त्व-विभेद-धीः॥शिवः यदा निजम् रूपम् परम-ऐश्वर्य्य-पूर्वकम्॥७३॥
sva-aṅga-rūpeṣu bhāveṣu māyā-tattva-vibheda-dhīḥ..śivaḥ yadā nijam rūpam parama-aiśvaryya-pūrvakam..73..
निगृह्य माययाशेषपदार्थग्राहको भवेत्॥तदा पुरुष इत्याख्या तत्सृष्ट्वेत्यभवच्छ्रुतिः॥७४॥
निगृह्य मायया अशेष-पदार्थ-ग्राहकः भवेत्॥तदा पुरुषः इति आख्या तत् सृष्ट्वा इति अभवत् श्रुतिः॥७४॥
nigṛhya māyayā aśeṣa-padārtha-grāhakaḥ bhavet..tadā puruṣaḥ iti ākhyā tat sṛṣṭvā iti abhavat śrutiḥ..74..
अयमेव हि संसारी मायया मोहितः पशुः॥शिवज्ञानविहीनो हि नानाकर्मविमूढधीः॥७५॥
अयम् एव हि संसारी मायया मोहितः पशुः॥शिव-ज्ञान-विहीनः हि नाना कर्म-विमूढ-धीः॥७५॥
ayam eva hi saṃsārī māyayā mohitaḥ paśuḥ..śiva-jñāna-vihīnaḥ hi nānā karma-vimūḍha-dhīḥ..75..
शिवादभिन्नं न जगदात्मानं भिन्नमित्यपि ॥ जानतोऽस्य पशोरेव मोहो भवति न प्रभो॥७६॥
शिवात् अभिन्नम् न जगत्-आत्मानम् भिन्नम् इति अपि ॥ जानतः अस्य पशोः एव मोहः भवति न प्रभो॥७६॥
śivāt abhinnam na jagat-ātmānam bhinnam iti api .. jānataḥ asya paśoḥ eva mohaḥ bhavati na prabho..76..
यथैन्द्रजालिकस्यापि योगिनो न भवेद्भ्रमः ॥ गुरुणा ज्ञापितैश्वर्यश्शिवो भवति चिद्धनः ॥ ७७॥
यथा ऐन्द्रजालिकस्य अपि योगिनः न भवेत् भ्रमः ॥ गुरुणा ज्ञापित-ऐश्वर्यः शिवः भवति चित्-धनः ॥ ७७॥
yathā aindrajālikasya api yoginaḥ na bhavet bhramaḥ .. guruṇā jñāpita-aiśvaryaḥ śivaḥ bhavati cit-dhanaḥ .. 77..
सर्वकर्तृत्वरूपा च सर्वजत्वस्वरूपिणी ॥ पूर्णत्वरूपान्नित्यत्वव्यापकत्व स्वरूपिणी ॥ ७८॥
सर्व-कर्तृ-त्व-रूपा च सर्वज-त्व-स्वरूपिणी ॥ स्वरूपिणी ॥ ७८॥
sarva-kartṛ-tva-rūpā ca sarvaja-tva-svarūpiṇī .. svarūpiṇī .. 78..
शिवस्य शक्तयः पञ्च संकुचदूपभास्कराः॥७९॥अपि संकोचरूपेण विभांत्य इति नित्यशः ॥
शिवस्य शक्तयः पञ्च संकुचत्-दूप-भास्कराः॥७९॥अपि संकोच-रूपेण इति नित्यशस् ॥
śivasya śaktayaḥ pañca saṃkucat-dūpa-bhāskarāḥ..79..api saṃkoca-rūpeṇa iti nityaśas ..
पशोः कलाख्य विद्येति रागकालौ नियत्यपि ॥ तत्त्वपञ्चकरूपेण भवत्यत्र कलेति सा ॥ 6.16.८०॥
पशोः विद्या इति राग-कालौ नियती अपि ॥ तत्त्व-पञ्चक-रूपेण भवति अत्र कला इति सा ॥ ६।१६।८०॥
paśoḥ vidyā iti rāga-kālau niyatī api .. tattva-pañcaka-rūpeṇa bhavati atra kalā iti sā .. 6.16.80..
किंचित्कर्तृत्त्त्वहेतुस्स्यात्किंचित्तत्त्वैकसाधनम् ॥ सा तु विद्या भवेद्रागो विषयेष्वनुरंजकः॥८१॥
किंचित्कर्तृत्त्व-हेतुः स्यात् किंचिद् तत्त्व-एक-साधनम् ॥ सा तु विद्या भवेत् रागः विषयेषु अनुरंजकः॥८१॥
kiṃcitkartṛttva-hetuḥ syāt kiṃcid tattva-eka-sādhanam .. sā tu vidyā bhavet rāgaḥ viṣayeṣu anuraṃjakaḥ..81..
कालो हि भावभावानां भासानां भासनात्मकः ॥ क्रमावच्छेदको भूत्वा भूतादिरिति कथ्यते ॥ ।८२॥
कालः हि भाव-भावानाम् भासानाम् भासन-आत्मकः ॥ भूत्वा इति कथ्यते ॥ ।८२॥
kālaḥ hi bhāva-bhāvānām bhāsānām bhāsana-ātmakaḥ .. bhūtvā iti kathyate .. .82..
इदन्तु मम कर्तव्यमिदन्नेति नियामिका ॥ नियतिस्स्याद्विभोश्शक्तिस्तदाक्षेपात्पतेत्पशुः ॥ ८३॥
इदम् तु मम कर्तव्यम् इदम् न इति नियामिका ॥ नियतिः स्यात् विभोः शक्तिः तद्-आक्षेपात् पतेत् पशुः ॥ ८३॥
idam tu mama kartavyam idam na iti niyāmikā .. niyatiḥ syāt vibhoḥ śaktiḥ tad-ākṣepāt patet paśuḥ .. 83..
एतत्पंचकमेवास्य स्वरूपा वारकत्वतः ॥ पञ्चकञ्चुकमाख्यातमन्तरंगं च साधनम् ॥ ८४॥
एतत् पंचकम् एव अस्य स्वरूपाः वारक-त्वतः ॥ पञ्च-कञ्चुकम् आख्यातम् अन्तरंगम् च साधनम् ॥ ८४॥
etat paṃcakam eva asya svarūpāḥ vāraka-tvataḥ .. pañca-kañcukam ākhyātam antaraṃgam ca sādhanam .. 84..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवतत्त्ववर्णनन्नाम षोडशोऽध्यायः ॥ १६॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् शिवतत्त्ववर्णनम् नाम षोडशः अध्यायः ॥ १६॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām śivatattvavarṇanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In