| |
|

This overlay will guide you through the buttons:

वामदेव उवाच ।।
नियत्यधस्तात्प्रकृतेरुपरिस्थः पुमानिति ॥ पूर्वत्र भवता प्रोक्तमिदानीं कथमन्यथा॥१॥
नियति-अधस्तात् प्रकृतेः उपरि स्थः पुमान् इति ॥ पूर्वत्र भवता प्रोक्तम् इदानीम् कथम् अन्यथा॥१॥
niyati-adhastāt prakṛteḥ upari sthaḥ pumān iti .. pūrvatra bhavatā proktam idānīm katham anyathā..1..
मायया संकुचद्रूपस्तदधस्तादिति प्रभो ॥ इति मे संशयं नाथ छेत्तुमर्हसि तत्त्वतः ॥ २ ॥
मायया संकुचत्-रूपः तद्-अधस्तात् इति प्रभो ॥ इति मे संशयम् नाथ छेत्तुम् अर्हसि तत्त्वतः ॥ २ ॥
māyayā saṃkucat-rūpaḥ tad-adhastāt iti prabho .. iti me saṃśayam nātha chettum arhasi tattvataḥ .. 2 ..
श्रीसुबह्मण्य उवाच ।।
अद्वैतशैववादोऽयं द्वैतन्न सहते क्वचित् ॥ द्वैतं च नश्वरं ब्रह्माद्वैतम्परमनश्वरम् ॥ ३ ॥
अद्वैत-शैव-वादः अयम् द्वैतत् न सहते क्वचिद् ॥ द्वैतम् च नश्वरम् ब्रह्म अद्वैतम् परम् अनश्वरम् ॥ ३ ॥
advaita-śaiva-vādaḥ ayam dvaitat na sahate kvacid .. dvaitam ca naśvaram brahma advaitam param anaśvaram .. 3 ..
सर्वज्ञस्सर्वकर्ता च शिवस्सर्वेश्वरोऽगुणः ॥ त्रिदेवजनको ब्रह्मा सच्चिदानन्दविग्रहः ॥ ४ ॥
सर्वज्ञः सर्व-कर्ता च शिवः सर्व-ईश्वरः अगुणः ॥ ॥ ४ ॥
sarvajñaḥ sarva-kartā ca śivaḥ sarva-īśvaraḥ aguṇaḥ .. .. 4 ..
स एव शंकरो देवस्स्वेच्छया च स्वमायया ॥ संकुचद्रूप इव सन्पुरुषस्संबभूव ह ॥ ५॥
सः एव शंकरः देवः स्व-इच्छया च स्व-मायया ॥ संकुचत्-रूपः इव सन् पुरुषः संबभूव ह ॥ ५॥
saḥ eva śaṃkaraḥ devaḥ sva-icchayā ca sva-māyayā .. saṃkucat-rūpaḥ iva san puruṣaḥ saṃbabhūva ha .. 5..
कलादि पञ्चकेनैव भोक्तृत्वेन प्रकल्पितः ॥ प्रकृतिस्थः पुमानेष भुङ्क्ते प्रकृतिजान्गुणान् ॥ ६ ॥
कला-आदि पञ्चकेन एव भोक्तृ-त्वेन प्रकल्पितः ॥ प्रकृति-स्थः पुमान् एष भुङ्क्ते प्रकृति-जान् गुणान् ॥ ६ ॥
kalā-ādi pañcakena eva bhoktṛ-tvena prakalpitaḥ .. prakṛti-sthaḥ pumān eṣa bhuṅkte prakṛti-jān guṇān .. 6 ..
इति स्थानद्वयान्तस्थः पुरुषो न विरोधकः ॥ संकुचन्निजरूपाणां ज्ञानादीनां समष्टिमान् ॥ ७ ॥
इति स्थान-द्वय-अन्त-स्थः पुरुषः न विरोधकः ॥ संकुचत्-निज-रूपाणाम् ज्ञान-आदीनाम् समष्टिमान् ॥ ७ ॥
iti sthāna-dvaya-anta-sthaḥ puruṣaḥ na virodhakaḥ .. saṃkucat-nija-rūpāṇām jñāna-ādīnām samaṣṭimān .. 7 ..
सत्त्वादिगुणसाध्यं च बुध्यादित्रितयात्मकम्॥चित्तम्प्रकृतितत्त्वं तदासीत्सत्त्वादिकारणात् ॥ ८ ॥
सत्त्व-आदि-गुण-साध्यम् च बुधि-आदि-त्रितय-आत्मकम्॥चित्तम् प्रकृति-तत्त्वम् तत् आसीत् सत्त्व-आदि-कारणात् ॥ ८ ॥
sattva-ādi-guṇa-sādhyam ca budhi-ādi-tritaya-ātmakam..cittam prakṛti-tattvam tat āsīt sattva-ādi-kāraṇāt .. 8 ..
सात्त्विकादिविभेदेन गुणाः प्रकृतिसम्भवाः ॥ गुणेभ्यो बुद्धिरुत्पन्ना वस्तुनिश्चयकारिणी ॥ ९ ॥
सात्त्विक-आदि-विभेदेन गुणाः प्रकृति-सम्भवाः ॥ गुणेभ्यः बुद्धिः उत्पन्ना वस्तु-निश्चय-कारिणी ॥ ९ ॥
sāttvika-ādi-vibhedena guṇāḥ prakṛti-sambhavāḥ .. guṇebhyaḥ buddhiḥ utpannā vastu-niścaya-kāriṇī .. 9 ..
ततो महानहङ्कारस्ततो बुद्धीन्द्रियाणि च ॥ जातानि मनसो रूपं स्यात्संकल्पविकल्पकम् ॥ 6.17.१० ॥
ततस् महान् अहङ्कारः ततस् बुद्धीन्द्रियाणि च ॥ जातानि मनसः रूपम् स्यात् संकल्प-विकल्पकम् ॥ ६।१७।१० ॥
tatas mahān ahaṅkāraḥ tatas buddhīndriyāṇi ca .. jātāni manasaḥ rūpam syāt saṃkalpa-vikalpakam .. 6.17.10 ..
बुद्धीन्द्रियाणि श्रोत्रं त्वक् चक्षुर्जिह्वा च नासिका ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च गोचरः ॥ ११ ॥
बुद्धीन्द्रियाणि श्रोत्रम् त्वच् चक्षुः जिह्वा च नासिका ॥ शब्दः स्पर्शः च रूपम् च रसः गन्धः च गोचरः ॥ ११ ॥
buddhīndriyāṇi śrotram tvac cakṣuḥ jihvā ca nāsikā .. śabdaḥ sparśaḥ ca rūpam ca rasaḥ gandhaḥ ca gocaraḥ .. 11 ..
बुद्धीन्द्रियाणां कथितः श्रोत्रादिक्रमतस्ततः ॥ वैकारिकादहंकारात्तन्मात्राण्यभवन्क्रमात् ॥ १२॥
बुद्धीन्द्रियाणाम् कथितः श्रोत्र-आदि-क्रमतः ततस् ॥ वैकारिकात् अहंकारात् तन्मात्राणि अभवन् क्रमात् ॥ १२॥
buddhīndriyāṇām kathitaḥ śrotra-ādi-kramataḥ tatas .. vaikārikāt ahaṃkārāt tanmātrāṇi abhavan kramāt .. 12..
तानि प्रोक्तानि सूक्ष्माणि मुनिभि स्तत्त्वदर्शिभिः ॥ कर्मेन्द्रियाणि ज्ञेयानि स्वकार्य्यसहितानि च ॥ १३॥
तानि प्रोक्तानि सूक्ष्माणि मुनिभिः तत्त्व-दर्शिभिः ॥ कर्मेन्द्रियाणि ज्ञेयानि स्व-कार्य्य-सहितानि च ॥ १३॥
tāni proktāni sūkṣmāṇi munibhiḥ tattva-darśibhiḥ .. karmendriyāṇi jñeyāni sva-kāryya-sahitāni ca .. 13..
विप्रर्षे वाक्करौ पादौ पायूपस्थौ च तत्क्रियाः ॥ वचनादानगमनविसर्ग्गानन्दसंज्ञिताः॥१४॥
विप्रर्षे वाच्-करौ पादौ पायु-उपस्थौ च तद्-क्रियाः ॥ वचन-आदान-गमन-विसर्ग्ग-आनन्द-संज्ञिताः॥१४॥
viprarṣe vāc-karau pādau pāyu-upasthau ca tad-kriyāḥ .. vacana-ādāna-gamana-visargga-ānanda-saṃjñitāḥ..14..
भूतादिकादहंकारात्तन्मात्राण्यभवन्क्रमात्॥तानि सूक्ष्माणि रूपाणी शब्दादीनामिति स्थितिः॥ ॥ १५ ॥
भूतादिकात् अहंकारात् तन्मात्राणि अभवन् क्रमात्॥तानि सूक्ष्माणि शब्द-आदीनाम् इति स्थितिः॥ ॥ १५ ॥
bhūtādikāt ahaṃkārāt tanmātrāṇi abhavan kramāt..tāni sūkṣmāṇi śabda-ādīnām iti sthitiḥ.. .. 15 ..
तेभ्यश्चाकाशवाय्वग्निजलभूमिजनिः क्रमात् ॥ विज्ञेया मुनिशार्दूल पञ्चभूतमितीष्यते ॥ १६॥
तेभ्यः च आकाश-वायु-अग्नि-जल-भूमि-जनिः क्रमात् ॥ विज्ञेया मुनि-शार्दूल पञ्चभूतम् इति इष्यते ॥ १६॥
tebhyaḥ ca ākāśa-vāyu-agni-jala-bhūmi-janiḥ kramāt .. vijñeyā muni-śārdūla pañcabhūtam iti iṣyate .. 16..
अवकाशप्रदानं च वाहकत्वञ्च पावनम् ॥ संरम्भो धारणन्तेषां व्यापाराः परिकीर्तिताः ॥ १७ ॥
अवकाश-प्रदानम् च वाहक-त्वञ्च पावनम् ॥ संरम्भः धारणम् तेषाम् व्यापाराः परिकीर्तिताः ॥ १७ ॥
avakāśa-pradānam ca vāhaka-tvañca pāvanam .. saṃrambhaḥ dhāraṇam teṣām vyāpārāḥ parikīrtitāḥ .. 17 ..
वामदेव उवाच ।।
भूतसृष्टिः पुरा प्रोक्ता कलादिभ्यः कथम्पुनः ॥ अन्यथा प्रोच्यते स्कन्द संदेहोऽत्र महान्मम ॥ १८ ॥
भूत-सृष्टिः पुरा प्रोक्ता कला-आदिभ्यः कथम् पुनर् ॥ अन्यथा प्रोच्यते स्कन्द संदेहः अत्र महान् मम ॥ १८ ॥
bhūta-sṛṣṭiḥ purā proktā kalā-ādibhyaḥ katham punar .. anyathā procyate skanda saṃdehaḥ atra mahān mama .. 18 ..
आत्मतत्त्वमकारस्स्याद्विद्या स्यादुस्ततः परम् ॥ शिवतत्त्वम्मकारस्स्याद्वामदेवेति चिंत्यताम् ॥ १९॥
आत्म-तत्त्वम् अकारः स्यात् विद्या स्यात् उस्ततः परम् ॥ शिवतत्त्वम् मकारः स्यात् वामदेव-इति चिंत्यताम् ॥ १९॥
ātma-tattvam akāraḥ syāt vidyā syāt ustataḥ param .. śivatattvam makāraḥ syāt vāmadeva-iti ciṃtyatām .. 19..
बिन्दुनादौ तु विज्ञेयौ सर्वतत्त्वार्थकावुभौ॥तत्रत्या देवतायाश्च ता मुने शृणु साम्प्रतम्॥6.17.२०॥
बिन्दु-नादौ तु विज्ञेयौ सर्व-तत्त्व-अर्थकौ उभौ॥तत्रत्याः देवतायाः च ताः मुने शृणु साम्प्रतम्॥६।१७।२०॥
bindu-nādau tu vijñeyau sarva-tattva-arthakau ubhau..tatratyāḥ devatāyāḥ ca tāḥ mune śṛṇu sāmpratam..6.17.20..
ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ ॥ ते हि साक्षाच्छिवस्यैव मूर्तयः श्रुतिविश्रुताः ॥ २१॥
ब्रह्मा विष्णुः च रुद्रः च महेश्वर-सदाशिवौ ॥ ते हि साक्षात् शिवस्य एव मूर्तयः श्रुति-विश्रुताः ॥ २१॥
brahmā viṣṇuḥ ca rudraḥ ca maheśvara-sadāśivau .. te hi sākṣāt śivasya eva mūrtayaḥ śruti-viśrutāḥ .. 21..
इत्युक्तम्भवता पूर्वमिदानीमुच्यतेऽन्यथा ॥ तन्मात्रेभ्यो भवन्तीति सन्देहोऽत्र महान्मम ॥ २२॥
इति उक्तम् भवता पूर्वम् इदानीम् उच्यते अन्यथा ॥ तन्मात्रेभ्यः भवन्ति इति सन्देहः अत्र महान् मम ॥ २२॥
iti uktam bhavatā pūrvam idānīm ucyate anyathā .. tanmātrebhyaḥ bhavanti iti sandehaḥ atra mahān mama .. 22..
कृत्वा तत्करुणां स्कन्द संशयं छेत्तुमर्हसि ॥ इत्याकर्ण्य मुनेर्वाक्यं कुमारः प्रत्यभाषत ॥ २३॥
कृत्वा तद्-करुणाम् स्कन्द संशयम् छेत्तुम् अर्हसि ॥ इति आकर्ण्य मुनेः वाक्यम् कुमारः प्रत्यभाषत ॥ २३॥
kṛtvā tad-karuṇām skanda saṃśayam chettum arhasi .. iti ākarṇya muneḥ vākyam kumāraḥ pratyabhāṣata .. 23..
श्रीसुब्रह्मण्य उवाच ।।
तस्माद्वेति समारभ्य भूतसृष्टिक्रमे मुने ॥ ताञ्छृणुष्व महाप्राज्ञ सावधानतया द रात् ॥ २४॥
तस्मात् वा इति समारभ्य भूत-सृष्टि-क्रमे मुने ॥ तान् शृणुष्व महा-प्राज्ञ सावधान-तया ॥ २४॥
tasmāt vā iti samārabhya bhūta-sṛṣṭi-krame mune .. tān śṛṇuṣva mahā-prājña sāvadhāna-tayā .. 24..
जातानि पञ्च भूतानि कलाभ्य इति निश्चितम्॥स्थूलप्रपञ्चरूपाणि तानि भूतपतेर्वपुः ॥ २५॥
जातानि पञ्च भूतानि कलाभ्यः इति निश्चितम्॥स्थूल-प्रपञ्च-रूपाणि तानि भूतपतेः वपुः ॥ २५॥
jātāni pañca bhūtāni kalābhyaḥ iti niścitam..sthūla-prapañca-rūpāṇi tāni bhūtapateḥ vapuḥ .. 25..
शिवतत्त्वादि पृथ्व्यन्तं तत्त्वानामुदयक्रमे॥तन्मात्रेभ्यो भवन्तीति वक्तव्यानि क्रमान्मुने॥२६॥
शिवतत्त्व-आदि पृथ्वी-अन्तम् तत्त्वानाम् उदय-क्रमे॥तन्मात्रेभ्यः भवन्ति इति वक्तव्यानि क्रमात् मुने॥२६॥
śivatattva-ādi pṛthvī-antam tattvānām udaya-krame..tanmātrebhyaḥ bhavanti iti vaktavyāni kramāt mune..26..
तन्मात्राणां कलानामप्यैक्यं स्याद्भूतकारणम्॥अविरुद्धत्व मेवात्र विद्धि ब्रह्माविदांवर ॥ २७ ॥
तन्मात्राणाम् कलानाम् अपि ऐक्यम् स्यात् भूत-कारणम्॥अविरुद्ध-त्व मेव अत्र विद्धि ब्रह्म अ विदाम् वर ॥ २७ ॥
tanmātrāṇām kalānām api aikyam syāt bhūta-kāraṇam..aviruddha-tva meva atra viddhi brahma a vidām vara .. 27 ..
स्थूलसूक्ष्मात्मके विश्वे चन्द्रसूर्य्यादयो ग्रहाः ॥ सनक्षत्राश्च संजातास्तथान्ये ज्योतिषां गणाः ॥ २८॥
स्थूल-सूक्ष्म-आत्मके विश्वे चन्द्र-सूर्य्य-आदयः ग्रहाः ॥ स नक्षत्राः च संजाताः तथा अन्ये ज्योतिषाम् गणाः ॥ २८॥
sthūla-sūkṣma-ātmake viśve candra-sūryya-ādayaḥ grahāḥ .. sa nakṣatrāḥ ca saṃjātāḥ tathā anye jyotiṣām gaṇāḥ .. 28..
ब्रह्मविष्णुमहेशादिदेवता भूतजातयः ॥ इन्द्रादयोऽपि दिक्पाला देवाश्च पितरोऽसुराः ॥ २९॥
ब्रह्म-विष्णु-महेश-आदि-देवताः भूत-जातयः ॥ इन्द्र-आदयः अपि दिक्पालाः देवाः च पितरः असुराः ॥ २९॥
brahma-viṣṇu-maheśa-ādi-devatāḥ bhūta-jātayaḥ .. indra-ādayaḥ api dikpālāḥ devāḥ ca pitaraḥ asurāḥ .. 29..
राक्षसा मानुषाश्चान्ये जंगमत्वविभागिनः ॥ पशवः पक्षिणः कीटाः पन्नगादि प्रभेदिनः ॥ 6.17.३० ॥
राक्षसाः मानुषाः च अन्ये जंगम-त्व-विभागिनः ॥ पशवः पक्षिणः कीटाः पन्नग-आदि-प्रभेदिनः ॥ ६।१७।३० ॥
rākṣasāḥ mānuṣāḥ ca anye jaṃgama-tva-vibhāginaḥ .. paśavaḥ pakṣiṇaḥ kīṭāḥ pannaga-ādi-prabhedinaḥ .. 6.17.30 ..
तरुगुल्मलतौषध्यः पर्वताश्चाष्ट विश्रुताः ॥ गंगाद्यास्सरितस्सप्त सागराश्च महर्द्धयः ॥ ३१ ॥
तरु-गुल्म-लता-ओषध्यः पर्वताः च अष्ट विश्रुताः ॥ गंगा-आद्याः सरितः सप्त सागराः च महा-ऋद्धयः ॥ ३१ ॥
taru-gulma-latā-oṣadhyaḥ parvatāḥ ca aṣṭa viśrutāḥ .. gaṃgā-ādyāḥ saritaḥ sapta sāgarāḥ ca mahā-ṛddhayaḥ .. 31 ..
यत्किंचिद्वस्तुजातन्तत्सर्वमत्र प्रतिष्ठितम् ॥ विचारणीयं सद्बुध्या न बहिर्मुनिसत्तम ॥ ३२॥
यत् किंचिद् वस्तु-जातम् तत् सर्वम् अत्र प्रतिष्ठितम् ॥ विचारणीयम् सत्-बुध्या न बहिस् मुनि-सत्तम ॥ ३२॥
yat kiṃcid vastu-jātam tat sarvam atra pratiṣṭhitam .. vicāraṇīyam sat-budhyā na bahis muni-sattama .. 32..
स्त्रीपुंरूपमिदं विश्वं शिवशक्त्यात्मकं बुधैः ॥ भवादृशैरुपास्यं स्याच्छिवज्ञानविशारदैः ॥ ३३ ॥
स्त्री-पुम् रूपम् इदम् विश्वम् शिव-शक्ति-आत्मकम् बुधैः ॥ भवादृशैः उपास्यम् स्यात् शिव-ज्ञान-विशारदैः ॥ ३३ ॥
strī-pum rūpam idam viśvam śiva-śakti-ātmakam budhaiḥ .. bhavādṛśaiḥ upāsyam syāt śiva-jñāna-viśāradaiḥ .. 33 ..
सर्वं ब्रह्मेत्युपासीत सर्वं वै रुद्र इत्यपि॥श्रुतिराह मुने तस्मात्प्रपञ्चात्मा सदाशिवः ॥ ३४॥
सर्वम् ब्रह्म इति उपासीत सर्वम् वै रुद्रः इति अपि॥श्रुतिः आह मुने तस्मात् प्रपञ्च-आत्मा सदाशिवः ॥ ३४॥
sarvam brahma iti upāsīta sarvam vai rudraḥ iti api..śrutiḥ āha mune tasmāt prapañca-ātmā sadāśivaḥ .. 34..
अष्टत्रिंशत्कलान्याससामर्थ्याद्वैतभावना॥सदाशिवोऽहमेवेति भावि तात्मा गुरुः शिवः॥३५॥
॥सदाशिवः अहम् एव इति गुरुः शिवः॥३५॥
..sadāśivaḥ aham eva iti guruḥ śivaḥ..35..
एवं विचारी सच्छिष्यो गुरुस्स्यात्स शिवस्स्वयम्॥प्रपञ्चदेवतायंत्रमंत्रात्मा न हि संशयः ॥ ३६ ॥
एवम् विचारी सत्-शिष्यः गुरुः स्यात् स शिवः स्वयम्॥प्रपञ्च-देवता-यंत्र-मंत्र-आत्मा न हि संशयः ॥ ३६ ॥
evam vicārī sat-śiṣyaḥ guruḥ syāt sa śivaḥ svayam..prapañca-devatā-yaṃtra-maṃtra-ātmā na hi saṃśayaḥ .. 36 ..
आचार्य्य रूपया विप्र संछिन्नाखिलबन्धनः ॥ शिशुः शिवपदासक्तो गुर्वात्मा भवति धुवम् ॥ ३७ ॥
आचार्य्य रूपया विप्र संछिन्न-अखिल-बन्धनः ॥ शिशुः शिव-पद-आसक्तः गुरु-आत्मा भवति धुवम् ॥ ३७ ॥
ācāryya rūpayā vipra saṃchinna-akhila-bandhanaḥ .. śiśuḥ śiva-pada-āsaktaḥ guru-ātmā bhavati dhuvam .. 37 ..
यदस्ति वस्तु तत्सर्वं गुण प्राधान्ययोगतः ॥ समस्तं व्यस्तमपि च प्रणवार्थम्प्रचक्षते ॥ ३८ ॥
यत् अस्ति वस्तु तत् सर्वम् गुण प्राधान्य-योगतः ॥ समस्तम् व्यस्तम् अपि च प्रणव-अर्थम् प्रचक्षते ॥ ३८ ॥
yat asti vastu tat sarvam guṇa prādhānya-yogataḥ .. samastam vyastam api ca praṇava-artham pracakṣate .. 38 ..
रागादिदोषरहितं वेदसारः शिवो दिशः॥तुभ्यम्मे कथितम्प्रीत्याऽद्वैतज्ञानं शिवप्रियम् ॥ ३९ ॥
राग-आदि-दोष-रहितम् वेद-सारः शिवः दिशः॥तुभ्यम् मे कथितम् प्रीत्या अद्वैत-ज्ञानम् शिव-प्रियम् ॥ ३९ ॥
rāga-ādi-doṣa-rahitam veda-sāraḥ śivaḥ diśaḥ..tubhyam me kathitam prītyā advaita-jñānam śiva-priyam .. 39 ..
यो ह्यन्यथैतन्मनुते मद्वचो मदगर्वितः ॥ देवो वा मानवस्सिद्धो गन्धर्वो मनुजोऽपि वा ॥ 6.17.४० ॥
यः हि अन्यथा एतत् मनुते मद्-वचः मद-गर्वितः ॥ देवः वा मानवः सिद्धः गन्धर्वः मनुजः अपि वा ॥ ६।१७।४० ॥
yaḥ hi anyathā etat manute mad-vacaḥ mada-garvitaḥ .. devaḥ vā mānavaḥ siddhaḥ gandharvaḥ manujaḥ api vā .. 6.17.40 ..
दुरात्मनस्तस्य शिरश्छिंद्यां समतयाद्ध्रुवम् ॥ सच्छक्त्या रिपुकालाग्निकल्पया न हि संशयः ॥ ४१ ॥
दुरात्मनः तस्य शिरः छिंद्याम् सम-तयात् ध्रुवम् ॥ सत्-शक्त्या रिपु-काल-अग्नि-कल्पया न हि संशयः ॥ ४१ ॥
durātmanaḥ tasya śiraḥ chiṃdyām sama-tayāt dhruvam .. sat-śaktyā ripu-kāla-agni-kalpayā na hi saṃśayaḥ .. 41 ..
भवानेव मुने साक्षाच्छिवाद्वैतविदांवरः॥शिवज्ञानोपदेशे हि शिवाचारप्रदर्शकः ॥ ४२॥
भवान् एव मुने साक्षात् शिव-अद्वैत-विदाम् वरः॥शिव-ज्ञान-उपदेशे हि शिव-आचार-प्रदर्शकः ॥ ४२॥
bhavān eva mune sākṣāt śiva-advaita-vidām varaḥ..śiva-jñāna-upadeśe hi śiva-ācāra-pradarśakaḥ .. 42..
यद्देहभस्मसम्पर्कात्संछिन्नाघव्रजोऽशुचिः॥महापिशाचः सम्प्राप्य त्वत्कृपातस्सतां गतिम्॥४३॥
यद्-देह-भस्म-सम्पर्कात् संछिन्न-अघ-व्रजः अशुचिः॥महा-पिशाचः सम्प्राप्य त्वद्-कृपातः सताम् गतिम्॥४३॥
yad-deha-bhasma-samparkāt saṃchinna-agha-vrajaḥ aśuciḥ..mahā-piśācaḥ samprāpya tvad-kṛpātaḥ satām gatim..43..
शिवयोगीति संख्यातत्रिलोक विभवो भवान्॥भवत्कटाक्षसम्पर्कात्पशु पशुपतिर्भवेत्॥४४॥
शिवयोगी इति संख्यात-त्रिलोक विभवः भवान्॥भवत्-कटाक्ष-सम्पर्कात् पशु पशुपतिः भवेत्॥४४॥
śivayogī iti saṃkhyāta-triloka vibhavaḥ bhavān..bhavat-kaṭākṣa-samparkāt paśu paśupatiḥ bhavet..44..
तव तस्य मयि प्रेक्षा लोकाशिक्षार्थमादरात् ॥ लोकोपकारकरणे विचरन्तीह साधवः ॥ ४५ ॥
तव तस्य मयि प्रेक्षा लोक-अ शिक्षा-अर्थम् आदरात् ॥ लोक-उपकार-करणे विचरन्ति इह साधवः ॥ ४५ ॥
tava tasya mayi prekṣā loka-a śikṣā-artham ādarāt .. loka-upakāra-karaṇe vicaranti iha sādhavaḥ .. 45 ..
इदं रहस्यम्परमं प्रतिष्ठितमतस्त्वयि ॥ त्वमपि श्रद्धया भक्त्या प्रणवेष्वेव सादरम् ॥ ४६ ॥
इदम् रहस्यम् परमम् प्रतिष्ठितम् अतस् त्वयि ॥ त्वम् अपि श्रद्धया भक्त्या प्रणवेषु एव सादरम् ॥ ४६ ॥
idam rahasyam paramam pratiṣṭhitam atas tvayi .. tvam api śraddhayā bhaktyā praṇaveṣu eva sādaram .. 46 ..
उपविश्य च तान्सर्वान्संयोज्य परमेश्वरे ॥ शिवाचारं ग्राहयस्व भूतिरुद्राक्षमिश्रितम् ॥ ४७ ॥
उपविश्य च तान् सर्वान् संयोज्य परमेश्वरे ॥ शिव-आचारम् ग्राहयस्व भूति-रुद्राक्ष-मिश्रितम् ॥ ४७ ॥
upaviśya ca tān sarvān saṃyojya parameśvare .. śiva-ācāram grāhayasva bhūti-rudrākṣa-miśritam .. 47 ..
त्वं शिवो हि शिवाचारी सम्प्राप्ताद्वैतभावतः ॥ विचरँलोकरक्षायै सुखमक्षयमाप्नुहि ॥ ४८ ॥
त्वम् शिवः हि शिव-आचारी सम्प्राप्त-अद्वैत-भावतः ॥ विचरन् लोक-रक्षायै सुखम् अक्षयम् आप्नुहि ॥ ४८ ॥
tvam śivaḥ hi śiva-ācārī samprāpta-advaita-bhāvataḥ .. vicaran loka-rakṣāyai sukham akṣayam āpnuhi .. 48 ..
।। सूत उवाच ।।
श्रुत्वेदमद्भुतमतं हि षडाननोक्तं वेदान्तनिष्ठितमृषिस्तु विनम्रमूर्त्तिः ॥ भूत्वा प्रणम्य बहुशो भुवि दण्डवत्तत्पादारविन्दविहरन्मधुपत्वमाप ॥ ४९ ॥
श्रुत्वा इदम् अद्भुत-मतम् हि षडानन-उक्तम् वेदान्त-निष्ठितम् ऋषिः तु विनम्र-मूर्त्तिः ॥ भूत्वा प्रणम्य बहुशस् भुवि दण्ड-वत् तद्-पाद-अरविन्द-विहरत्-मधुप-त्वम् आप ॥ ४९ ॥
śrutvā idam adbhuta-matam hi ṣaḍānana-uktam vedānta-niṣṭhitam ṛṣiḥ tu vinamra-mūrttiḥ .. bhūtvā praṇamya bahuśas bhuvi daṇḍa-vat tad-pāda-aravinda-viharat-madhupa-tvam āpa .. 49 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवाद्वैतज्ञानकथनादि सृष्टिकथनं नाम सप्तदशोऽध्यायः ॥ १७॥
इति श्री-शिवमहापुराणे षष्ठ्याम् कैलाससंहितायाम् शिवाद्वैतज्ञानकथनादि सृष्टिकथनम् नाम सप्तदशः अध्यायः ॥ १७॥
iti śrī-śivamahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām śivādvaitajñānakathanādi sṛṣṭikathanam nāma saptadaśaḥ adhyāyaḥ .. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In