| |
|

This overlay will guide you through the buttons:

।। शौनक उवाच ।।
श्रुत्वा वेदान्तसारं तद्रहस्यम्परमाद्भुतम् ॥ किम्पृष्टवान्वामदेवो महेश्वरसुतं तदा ॥ १॥
श्रुत्वा वेदान्त-सारम् तत् रहस्यम् परम-अद्भुतम् ॥ किम् पृष्टवान् वामदेवः महेश्वर-सुतम् तदा ॥ १॥
śrutvā vedānta-sāram tat rahasyam parama-adbhutam .. kim pṛṣṭavān vāmadevaḥ maheśvara-sutam tadā .. 1..
धन्यो योगी वामदेवः शिवज्ञानरतस्सदा ॥ यत्स्सम्बन्धात्कथोत्पन्ना दिव्या परमपावनी ॥ २ ॥
धन्यः योगी वामदेवः शिव-ज्ञान-रतः सदा ॥ यद्-स्सम्बन्धात् कथा उत्पन्ना दिव्या परम-पावनी ॥ २ ॥
dhanyaḥ yogī vāmadevaḥ śiva-jñāna-rataḥ sadā .. yad-ssambandhāt kathā utpannā divyā parama-pāvanī .. 2 ..
इति श्रुत्वा मुनीनान्तद्वचनम्प्रेमगर्भितम् ॥ सूतः प्राह प्रसन्नस्ताञ्छिवासक्तमना बुधः ॥ ३ ॥
इति श्रुत्वा मुनीनाम् तत् वचनम् प्रेम-गर्भितम् ॥ सूतः प्राह प्रसन्नः तान् शिव-आसक्त-मनाः बुधः ॥ ३ ॥
iti śrutvā munīnām tat vacanam prema-garbhitam .. sūtaḥ prāha prasannaḥ tān śiva-āsakta-manāḥ budhaḥ .. 3 ..
सूत उवाच ।।
धन्या यूयं महादेवभक्ता लोकोपकारकाः ॥ शृणुध्वम्मुनयस्सर्वे संवादं च तयोः पुनः ॥ ४ ॥
धन्याः यूयम् महादेव-भक्ताः लोक-उपकारकाः ॥ शृणुध्वम् मुनयः सर्वे संवादम् च तयोः पुनर् ॥ ४ ॥
dhanyāḥ yūyam mahādeva-bhaktāḥ loka-upakārakāḥ .. śṛṇudhvam munayaḥ sarve saṃvādam ca tayoḥ punar .. 4 ..
श्रुत्वा महेशतनयवचनं द्वैतनाशकम् ॥ अद्वैतज्ञानजनकं सन्तुष्टोऽभून्महान्मुनिः ॥ ५॥
श्रुत्वा महेश-तनय-वचनम् द्वैत-नाशकम् ॥ अद्वैत-ज्ञान-जनकम् सन्तुष्टः अभूत् महान् मुनिः ॥ ५॥
śrutvā maheśa-tanaya-vacanam dvaita-nāśakam .. advaita-jñāna-janakam santuṣṭaḥ abhūt mahān muniḥ .. 5..
नत्वा स्तुत्वा च विविधं कार्तिकेयं शिवात्मजम् ॥ पुनः पप्रच्छ तत्त्वं हि विनयेन महामुनिः ॥ ६ ॥
नत्वा स्तुत्वा च विविधम् कार्तिकेयम् शिव-आत्मजम् ॥ पुनर् पप्रच्छ तत्त्वम् हि विनयेन महा-मुनिः ॥ ६ ॥
natvā stutvā ca vividham kārtikeyam śiva-ātmajam .. punar papraccha tattvam hi vinayena mahā-muniḥ .. 6 ..
वामदेव उवाच ।।
भगवन्सर्वतत्त्वज्ञ षण्मुखामृतवारिधे ॥ गुरुत्वं कथमेतेषां यतीनाम्भावितात्मनाम् ॥ ७ ॥
भगवन् सर्व-तत्त्व-ज्ञ षण्मुख अमृत-वारिधे ॥ गुरु-त्वम् कथम् एतेषाम् यतीनाम् भावितात्मनाम् ॥ ७ ॥
bhagavan sarva-tattva-jña ṣaṇmukha amṛta-vāridhe .. guru-tvam katham eteṣām yatīnām bhāvitātmanām .. 7 ..
जीवानां भोगमोक्षादिसिद्धिस्सिध्यति यद्वशात् ॥ पारम्पर्य्यं विना नैषा मुपदेशाधिकारिता ॥ ८ ॥
jīvānāṃ bhogamokṣādisiddhissidhyati yadvaśāt || pāramparyyaṃ vinā naiṣā mupadeśādhikāritā || 8 ||
jīvānāṃ bhogamokṣādisiddhissidhyati yadvaśāt || pāramparyyaṃ vinā naiṣā mupadeśādhikāritā || 8 ||
एवं च क्षौरकर्मांगं स्नानञ्च कथमीदृशम् ॥ इति विज्ञापय स्वामिन्संशयं छेत्तुमर्हसि ॥ ९ ॥
एवम् च क्षौर-कर्म-अंगम् स्नानञ्च च कथम् ईदृशम् ॥ इति विज्ञापय स्वामिन् संशयम् छेत्तुम् अर्हसि ॥ ९ ॥
evam ca kṣaura-karma-aṃgam snānañca ca katham īdṛśam .. iti vijñāpaya svāmin saṃśayam chettum arhasi .. 9 ..
इति श्रुत्वा कार्तिकेयो वामदेववचः स्मरन्॥शिवं शिवां च मनसा व्याचष्टुमुपचक्रमे ॥ 6.18.१०॥ ॥
इति श्रुत्वा कार्तिकेयः वामदेव-वचः स्मरन्॥शिवम् शिवाम् च मनसा व्याचष्टुम् उपचक्रमे ॥ ६।१८।१०॥ ॥
iti śrutvā kārtikeyaḥ vāmadeva-vacaḥ smaran..śivam śivām ca manasā vyācaṣṭum upacakrame .. 6.18.10.. ..
श्रीसुब्रह्मण्य उवाच ।
योगपट्टम्प्रवक्ष्यामि गुरुत्वं येन जायते ॥ तव स्नेहाद्वामदेव महद्गोप्यं विमुक्तिदम्॥११॥
योगपट्टम् प्रवक्ष्यामि गुरु-त्वम् येन जायते ॥ तव स्नेहात् वामदेव महत् गोप्यम् विमुक्ति-दम्॥११॥
yogapaṭṭam pravakṣyāmi guru-tvam yena jāyate .. tava snehāt vāmadeva mahat gopyam vimukti-dam..11..
वैशाखे श्रावणेमासि तथाश्वयुजि कार्तिके ॥ मार्गशीर्षे च माघे वा शुक्लपक्षे शुभे दिने॥ १२ ॥
वैशाखे श्रावण-इमासि तथा आश्वयुजि कार्तिके ॥ मार्गशीर्षे च माघे वा शुक्ल-पक्षे शुभे दिने॥ १२ ॥
vaiśākhe śrāvaṇa-imāsi tathā āśvayuji kārtike .. mārgaśīrṣe ca māghe vā śukla-pakṣe śubhe dine.. 12 ..
पंचम्यां पौर्णमास्यां वा कृतप्राभातिकक्रियः ॥ लब्धानुज्ञस्तु गुरुणा स्नात्वा नियतमानसः ॥ १३॥।
पंचम्याम् पौर्णमास्याम् वा कृत-प्राभातिक-क्रियः ॥ लब्ध-अनुज्ञः तु गुरुणा स्नात्वा नियत-मानसः ॥ १३॥।
paṃcamyām paurṇamāsyām vā kṛta-prābhātika-kriyaḥ .. labdha-anujñaḥ tu guruṇā snātvā niyata-mānasaḥ .. 13...
पर्य्यंकशौचं कृत्वा तद्वाससांगं प्रमृज्य च ॥ द्विगुणं दोरमाबध्य वाससी परिधाय च ॥ १४॥
पर्य्यंक-शौचम् कृत्वा तद्-वाससा अंगम् प्रमृज्य च ॥ द्विगुणम् दोरम् आबध्य वाससी परिधाय च ॥ १४॥
paryyaṃka-śaucam kṛtvā tad-vāsasā aṃgam pramṛjya ca .. dviguṇam doram ābadhya vāsasī paridhāya ca .. 14..
क्षालितांघ्रिर्द्विराचम्य भस्म सद्यादिम न्त्रतः ॥ धारयेद्धि समादाय समुद्धूलनमार्गतः ॥ १५॥
क्षालित-अंघ्रिः द्विस् आचम्य भस्म सद्य-आदि-मन्त्रतः ॥ धारयेत् हि समादाय समुद्धूलन-मार्गतः ॥ १५॥
kṣālita-aṃghriḥ dvis ācamya bhasma sadya-ādi-mantrataḥ .. dhārayet hi samādāya samuddhūlana-mārgataḥ .. 15..
गृहीतहस्तो गुरुणा सानुकूलेन वै मुने ॥ सच्छिष्यः साञ्जलिस्स्वाभ्यां हस्ताभ्याम्प्राङ्मुखो यथा ॥ १६॥
गृहीत-हस्तः गुरुणा स अनुकूलेन वै मुने ॥ सत्-शिष्यः स अञ्जलिः स्वाभ्याम् हस्ताभ्याम् प्राच्-मुखः यथा ॥ १६॥
gṛhīta-hastaḥ guruṇā sa anukūlena vai mune .. sat-śiṣyaḥ sa añjaliḥ svābhyām hastābhyām prāc-mukhaḥ yathā .. 16..
तथोपवेष्टितस्तिष्ठेन्मंडपे समलंकृते॥गुर्वासनवरे शुद्धे चैलाजिनकुशोत्तरे॥१७॥
तथा उपवेष्टितः तिष्ठेत् मंडपे समलंकृते॥गुरु-आसन-वरे शुद्धे चैल-अजिन-कुश-उत्तरे॥१७॥
tathā upaveṣṭitaḥ tiṣṭhet maṃḍape samalaṃkṛte..guru-āsana-vare śuddhe caila-ajina-kuśa-uttare..17..
अथ देशिक आदाय शंखं साधारमस्त्रतः ॥ विशोध्य तस्य पुरतः स्थापयेत्सानुकूलतः ॥ १८ ॥
अथ देशिकः आदाय शंखम् स आधारम् अस्त्रतः ॥ विशोध्य तस्य पुरतस् स्थापयेत् स अनुकूलतः ॥ १८ ॥
atha deśikaḥ ādāya śaṃkham sa ādhāram astrataḥ .. viśodhya tasya puratas sthāpayet sa anukūlataḥ .. 18 ..
साधारं शङ्खमपि च सम्पूज्य कुसुमादिभिः॥निःक्षिपेद स्त्रवर्मभ्यां शोधितं तत्र सज्जलम् ॥ १९ ॥
स आधारम् शङ्खम् अपि च सम्पूज्य कुसुम-आदिभिः॥निःक्षिपेत् अ स्त्र-वर्मभ्याम् शोधितम् तत्र सत् जलम् ॥ १९ ॥
sa ādhāram śaṅkham api ca sampūjya kusuma-ādibhiḥ..niḥkṣipet a stra-varmabhyām śodhitam tatra sat jalam .. 19 ..
आपूर्य पूर्ववत्पूज्य षडंगोक्तक्रमेण च ॥ प्रणवेन पुनस्तद्वै सप्तधैवाभिमन्त्रयेत् ॥ 6.18.२० ॥
आपूर्य पूर्ववत् पूज्य षडंग-उक्त-क्रमेण च ॥ प्रणवेन पुनर् तत् वै सप्तधा एव अभिमन्त्रयेत् ॥ ६।१८।२० ॥
āpūrya pūrvavat pūjya ṣaḍaṃga-ukta-krameṇa ca .. praṇavena punar tat vai saptadhā eva abhimantrayet .. 6.18.20 ..
अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपौ प्रदर्श्य च॥संरक्षास्त्रेण तं शंखं वर्मणाथावगुण्ठयेत् ॥ २१॥
अभ्यर्च्य गन्ध-पुष्प-आद्यैः धूप-दीपौ प्रदर्श्य च॥संरक्ष-अस्त्रेण तम् शंखम् वर्मणा अथ अवगुण्ठयेत् ॥ २१॥
abhyarcya gandha-puṣpa-ādyaiḥ dhūpa-dīpau pradarśya ca..saṃrakṣa-astreṇa tam śaṃkham varmaṇā atha avaguṇṭhayet .. 21..
धेनुशंखाख्यमुद्रे च दर्शयेदथ देशिकः॥पुनस्स्वपुरतश्शंखं दक्षिणे देश उत्तमे ॥ २२ ॥
धेनु-शंख-आख्य-मुद्रे च दर्शयेत् अथ देशिकः॥पुनर् स्व-पुरतस् शंखम् दक्षिणे देशे उत्तमे ॥ २२ ॥
dhenu-śaṃkha-ākhya-mudre ca darśayet atha deśikaḥ..punar sva-puratas śaṃkham dakṣiṇe deśe uttame .. 22 ..
पूज्यार्घ्योक्तविधानेन सुन्दरम्मण्डलं शुभम् ॥ कुर्य्यात्सम्पूजयेत्तञ्च सुगन्धकुसुमा दिभिः ॥ २३॥
पूज्य अर्घ्य-उक्त-विधानेन सुन्दरम् मण्डलम् शुभम् ॥ कुर्य्यात् सम्पूजयेत् तम् च सु गन्ध-कुसुम-आदिभिः ॥ २३॥
pūjya arghya-ukta-vidhānena sundaram maṇḍalam śubham .. kuryyāt sampūjayet tam ca su gandha-kusuma-ādibhiḥ .. 23..
साधारं शोधितं शुद्धं घटन्तन्तुपरिष्कृतम् ॥ धूपितं स्थापितं शुद्धवासितोदप्रपूरितम् ॥ २४ ॥
स आधारम् शोधितम् शुद्धम् घटन् तन्तु-परिष्कृतम् ॥ धूपितम् स्थापितम् शुद्ध-वासि-तोद-प्रपूरितम् ॥ २४ ॥
sa ādhāram śodhitam śuddham ghaṭan tantu-pariṣkṛtam .. dhūpitam sthāpitam śuddha-vāsi-toda-prapūritam .. 24 ..
पञ्चत्वक्पञ्चपत्रैश्च मृत्तिकाभिश्च पञ्चभिः॥मिलितं च सुगन्धेन लेपयेत्तम्मुनीश्वर ॥ २५॥
पञ्च-त्वच्-पञ्च-पत्रैः च मृत्तिकाभिः च पञ्चभिः॥मिलितम् च सुगन्धेन लेपयेत् तम् मुनि-ईश्वर ॥ २५॥
pañca-tvac-pañca-patraiḥ ca mṛttikābhiḥ ca pañcabhiḥ..militam ca sugandhena lepayet tam muni-īśvara .. 25..
वस्त्राम्रदलदूर्वाग्रनारिकेलसुमैस्ततः॥तं घटं वस्तुभिश्चान्यैस्संकुर्यात्समलंकृतम् ॥ २६ ॥
वस्त्र-आम्र-दल-दूर्वा-अग्र-नारिकेल-सुमैः ततस्॥तम् घटम् वस्तुभिः च अन्यैः संकुर्यात् समलंकृतम् ॥ २६ ॥
vastra-āmra-dala-dūrvā-agra-nārikela-sumaiḥ tatas..tam ghaṭam vastubhiḥ ca anyaiḥ saṃkuryāt samalaṃkṛtam .. 26 ..
विन्यसेत्पञ्चरत्नानि घटे तत्र मुनीश्वर ॥ हिरण्यञ्चापि तेषां वाभावे भक्त्या प्रविन्यसेत् । २७।
विन्यसेत् पञ्चरत्नानि घटे तत्र मुनि-ईश्वर ॥ हिरण्यम् च अपि तेषाम् वा अभावे भक्त्या प्रविन्यसेत् । २७।
vinyaset pañcaratnāni ghaṭe tatra muni-īśvara .. hiraṇyam ca api teṣām vā abhāve bhaktyā pravinyaset . 27.
नीलाख्यरत्नं च तथा रत्ने माणिक्यहेमनी ॥ प्रवालगोमेदके च पञ्चरत्नमिदं स्मृतम् ॥ २८॥
नील-आख्य-रत्नम् च तथा रत्ने माणिक्य-हेमनी ॥ प्रवाल-गोमेदके च पञ्चरत्नम् इदम् स्मृतम् ॥ २८॥
nīla-ākhya-ratnam ca tathā ratne māṇikya-hemanī .. pravāla-gomedake ca pañcaratnam idam smṛtam .. 28..
नृम्लस्कमिति सम्प्रोच्य ग्लूमित्यन्ते ऽथ देशिकः ॥ सम्यग्विधानतः प्रीत्या सानुकूलः समर्चयेत् ॥ २९ ॥
नृम्लस्कम् इति सम्प्रोच्य ग्लूम् इति अन्ते अथ देशिकः ॥ सम्यक् विधानतः प्रीत्या स अनुकूलः समर्चयेत् ॥ २९ ॥
nṛmlaskam iti samprocya glūm iti ante atha deśikaḥ .. samyak vidhānataḥ prītyā sa anukūlaḥ samarcayet .. 29 ..
आधारशक्तिमारभ्य यजनोक्तविधानतः ॥ पञ्चावरणमार्गेण देवमावाह्य पूजयेत् ॥ 6.18.३० ॥
आधार-शक्तिम् आरभ्य यजन-उक्त-विधानतः ॥ पञ्च-आवरण-मार्गेण देवम् आवाह्य पूजयेत् ॥ ६।१८।३० ॥
ādhāra-śaktim ārabhya yajana-ukta-vidhānataḥ .. pañca-āvaraṇa-mārgeṇa devam āvāhya pūjayet .. 6.18.30 ..
निवेद्य पायसान्नञ्च तांबूलादि यथा पुरा ॥ नामाष्टकार्चनान्तं च कृत्वा तमभिमन्त्रयेत् ॥ ३१ ॥
निवेद्य पायस-अन्नम् च तांबूल-आदि यथा पुरा ॥ नाम अष्टक-अर्चन-अन्तम् च कृत्वा तम् अभिमन्त्रयेत् ॥ ३१ ॥
nivedya pāyasa-annam ca tāṃbūla-ādi yathā purā .. nāma aṣṭaka-arcana-antam ca kṛtvā tam abhimantrayet .. 31 ..
प्रणवाष्टोत्तरशतं ब्रह्मभिः पञ्चभिः क्रमात् ॥ सद्यादीशान्तमप्यस्त्रं रक्षितं वर्मणा पुनः ॥ ३२ ॥
प्रणव-अष्टोत्तरशतम् ब्रह्मभिः पञ्चभिः क्रमात् ॥ सद्य-आदि-ईश-अन्तम् अपि अस्त्रम् रक्षितम् वर्मणा पुनर् ॥ ३२ ॥
praṇava-aṣṭottaraśatam brahmabhiḥ pañcabhiḥ kramāt .. sadya-ādi-īśa-antam api astram rakṣitam varmaṇā punar .. 32 ..
अवगुंठ्य प्रदर्श्याथ धूपदीपौ च भक्तितः ॥ धेनुयोन्याख्यमुद्रे च सम्यक्तत्र प्रदर्शयेत् ॥ २३ ॥
अवगुंठ्य प्रदर्श्य अथ धूप-दीपौ च भक्तितः ॥ धेनुयोनि-आख्य-मुद्रे च सम्यक् तत्र प्रदर्शयेत् ॥ २३ ॥
avaguṃṭhya pradarśya atha dhūpa-dīpau ca bhaktitaḥ .. dhenuyoni-ākhya-mudre ca samyak tatra pradarśayet .. 23 ..
ततश्च देशिकस्तस्य दर्भैराच्छाद्य मस्तके ॥ मण्डलस्थेशदिग्भागे चतुरस्रं प्रकल्पयेत् ॥ ३४ ॥
ततस् च देशिकः तस्य दर्भैः आच्छाद्य मस्तके ॥ प्रकल्पयेत् ॥ ३४ ॥
tatas ca deśikaḥ tasya darbhaiḥ ācchādya mastake .. prakalpayet .. 34 ..
तदुपर्य्यासनं रम्यं कल्पयित्वा विधानतः ॥ तत्र संस्थापयेच्छिष्यं शिशुं सानुकूलतः ॥ ३५ ॥
तद्-उपरि आसनम् रम्यम् कल्पयित्वा विधानतः ॥ तत्र संस्थापयेत् शिष्यम् शिशुम् स अनुकूलतः ॥ ३५ ॥
tad-upari āsanam ramyam kalpayitvā vidhānataḥ .. tatra saṃsthāpayet śiṣyam śiśum sa anukūlataḥ .. 35 ..
ततः कुम्भं समुत्थाय स्वस्तिवाचनपूर्वकम् ॥ अभिषिंचेद्गुरुः शिष्यं प्रादक्षिण्येन मस्तके ॥ ३६ ॥
ततस् कुम्भम् समुत्थाय स्वस्तिवाचन-पूर्वकम् ॥ अभिषिंचेत् गुरुः शिष्यम् प्रादक्षिण्येन मस्तके ॥ ३६ ॥
tatas kumbham samutthāya svastivācana-pūrvakam .. abhiṣiṃcet guruḥ śiṣyam prādakṣiṇyena mastake .. 36 ..
प्रणवं पूर्वमुच्चार्य्य सप्तधा ब्रह्मभि स्ततः ॥ पञ्चभिश्चाभिषेकान्ते शंखोदेनाभिवेष्टयेत् ॥ ३७॥
प्रणवम् पूर्वम् उच्चार्य्य सप्तधा ब्रह्मभिः स्ततस् ॥ पञ्चभिः च अभिषेक-अन्ते शंखोदेन अभिवेष्टयेत् ॥ ३७॥
praṇavam pūrvam uccāryya saptadhā brahmabhiḥ statas .. pañcabhiḥ ca abhiṣeka-ante śaṃkhodena abhiveṣṭayet .. 37..
चारुदीपं प्रदर्श्याथ वाससा परिमृज्य च ॥ नूतनं दोरकौपीनं वाससी परिधापयेत् ॥ ३८ ॥
चारु-दीपम् प्रदर्श्य अथ वाससा परिमृज्य च ॥ नूतनम् दोर-कौपीनम् वाससी परिधापयेत् ॥ ३८ ॥
cāru-dīpam pradarśya atha vāsasā parimṛjya ca .. nūtanam dora-kaupīnam vāsasī paridhāpayet .. 38 ..
क्षालितांघ्रिर्द्विराचम्य धृतभस्मगुरुश्शिशुम् ॥ हस्ताभ्यामवलंब्याथ हस्तौ मंडपमध्यतः ॥ ३९॥
क्षालित-अंघ्रिः द्विस् आचम्य धृत-भस्म-गुरुः शिशुम् ॥ हस्ताभ्याम् अवलंब्य अथ हस्तौ मंडप-मध्यतः ॥ ३९॥
kṣālita-aṃghriḥ dvis ācamya dhṛta-bhasma-guruḥ śiśum .. hastābhyām avalaṃbya atha hastau maṃḍapa-madhyataḥ .. 39..
तदंगेषु समालिप्य तद्भस्म विधिना गुरुः ॥ आसने संप्रवेश्याथ कल्पिते स्थापयेत्सुखम्॥6.18.४०॥
तद्-अंगेषु समालिप्य तत् भस्म विधिना गुरुः ॥ आसने संप्रवेश्य अथ कल्पिते स्थापयेत् सुखम्॥६।१८।४०॥
tad-aṃgeṣu samālipya tat bhasma vidhinā guruḥ .. āsane saṃpraveśya atha kalpite sthāpayet sukham..6.18.40..
पूर्वाभिमुखमात्मीयतत्त्वज्ञानाभिलाषिणम्॥स्वसनस्थो गुरुर्ब्रूयादमलात्मा भवेति तम् ॥ ४१॥
पूर्व-अभिमुखम् आत्मीय-तत्त्व-ज्ञान-अभिलाषिणम्॥स्वसन-स्थः गुरुः ब्रूयात् अमल-आत्मा भव इति तम् ॥ ४१॥
pūrva-abhimukham ātmīya-tattva-jñāna-abhilāṣiṇam..svasana-sthaḥ guruḥ brūyāt amala-ātmā bhava iti tam .. 41..
गुरुश्च परिपूर्णोऽस्मि शिव इत्यचलस्थितिः॥समाधिमाचरेत्सम्यङ्मुहूर्त्तं गूढमानसः ॥ ४२ ॥
गुरुः च परिपूर्णः अस्मि शिवः इति अचल-स्थितिः॥समाधिम् आचरेत् सम्यक् मुहूर्त्तम् गूढ-मानसः ॥ ४२ ॥
guruḥ ca paripūrṇaḥ asmi śivaḥ iti acala-sthitiḥ..samādhim ācaret samyak muhūrttam gūḍha-mānasaḥ .. 42 ..
पश्चादुन्मील्य नयने सानुकूलेन चेतसा ॥ सांजलिं संस्थितं शुद्धं पश्येच्छिष्यमनाकुलः ॥ ४३ ॥
पश्चात् उन्मील्य नयने स अनुकूलेन चेतसा ॥ स अंजलिम् संस्थितम् शुद्धम् पश्येत् शिष्यम् अन् आकुलः ॥ ४३ ॥
paścāt unmīlya nayane sa anukūlena cetasā .. sa aṃjalim saṃsthitam śuddham paśyet śiṣyam an ākulaḥ .. 43 ..
स्वहस्तम्भसितालिप्तं विन्यस्य शिशुमस्तके ॥ दक्षश्रुतावुपदिशेद्धंसस्सोहमिति स्फुटम् ॥ ४४ ॥
विन्यस्य शिशु-मस्तके ॥ दक्ष-श्रुतौ उपदिशेत् हंसः सः हम् इति स्फुटम् ॥ ४४ ॥
vinyasya śiśu-mastake .. dakṣa-śrutau upadiśet haṃsaḥ saḥ ham iti sphuṭam .. 44 ..
तत्राद्याहंपदस्यार्थः शक्तयात्मा स शिवस्स्वयम् ॥ स एवाहं शिवोस्मीति स्वात्मानं संविभावय॥४५॥
तत्र अद्य अहम् पदस्य अर्थः शक्तया आत्मा स शिवः स्वयम् ॥ सः एव अहम् शिवः अस्मि इति स्व-आत्मानम् संविभावय॥४५॥
tatra adya aham padasya arthaḥ śaktayā ātmā sa śivaḥ svayam .. saḥ eva aham śivaḥ asmi iti sva-ātmānam saṃvibhāvaya..45..
य इत्यणोरर्थतत्त्वमुपदिश्य ततो वदेत्॥अवांतराणां वाक्यानामर्थतात्पर्यमादरात् ॥ ४६ ॥
यः इति अणोः अर्थ-तत्त्वम् उपदिश्य ततस् वदेत्॥अवांतराणाम् वाक्यानाम् अर्थ-तात्पर्यम् आदरात् ॥ ४६ ॥
yaḥ iti aṇoḥ artha-tattvam upadiśya tatas vadet..avāṃtarāṇām vākyānām artha-tātparyam ādarāt .. 46 ..
वाक्यानि वच्मि ते ब्रह्मन्सावधानमतिश्शृणु ॥ तानि धारय चित्ते हि स ब्रूयादिति संस्फुटम् ॥ ४७॥
वाक्यानि वच्मि ते ब्रह्मन् स अवधान-मतिः शृणु ॥ तानि धारय चित्ते हि स ब्रूयात् इति संस्फुटम् ॥ ४७॥
vākyāni vacmi te brahman sa avadhāna-matiḥ śṛṇu .. tāni dhāraya citte hi sa brūyāt iti saṃsphuṭam .. 47..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ शिष्यकरणविधिर्नामाष्टादशोऽध्यायः ॥ १८॥
इति श्री-शिवमहापुराणे षष्ठ्याम् कैलाससंहितायाम् संन्यासपद्धतौ शिष्यकरणविधिः नाम अष्टादशः अध्यायः ॥ १८॥
iti śrī-śivamahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām saṃnyāsapaddhatau śiṣyakaraṇavidhiḥ nāma aṣṭādaśaḥ adhyāyaḥ .. 18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In