| |
|

This overlay will guide you through the buttons:

सुब्रह्मण्य उवाच ।।
अथ महावाक्यानि
अथ महावाक्यानि
atha mahāvākyāni
(1) प्रज्ञानं ब्रह्म
(१) प्रज्ञानम् ब्रह्म
(1) prajñānam brahma
( २) अहं ब्रह्मास्मि
( २) अहम् ब्रह्म अस्मि
( 2) aham brahma asmi
(३) तत्त्वमसि
(३) तत् त्वम् असि
(3) tat tvam asi
( ४) अयात्मा ब्रह्म
( ४) अय आत्मा ब्रह्म
( 4) aya ātmā brahma
(५) ईशावास्यमिदं सर्वम्
(५) ईशावास्यम् इदम् सर्वम्
(5) īśāvāsyam idam sarvam
(६) प्राणोऽस्मि
(६) प्राणः अस्मि
(6) prāṇaḥ asmi
(७) प्रज्ञानात्मा
(७) प्रज्ञान-आत्मा
(7) prajñāna-ātmā
(८) यदेवेह तदमुत्र यदमुत्र तदन्विह
(८) यत् एव इह तत् अमुत्र यत् अमुत्र तत् अनु इह
(8) yat eva iha tat amutra yat amutra tat anu iha
( ९) अन्यदेव तद्विदितादथो अविदितादपि
( ९) अन्यत् एव तत् विदितात् अथ उ अ विदितात् अपि
( 9) anyat eva tat viditāt atha u a viditāt api
( १०) एष न आत्मान्तर्याम्यमृतः
( १०) एष नः आत्मा अन्तर्यामी अमृतः
( 10) eṣa naḥ ātmā antaryāmī amṛtaḥ
(११) स यश्चायम्पुरुषो यश्चासावा दित्ये स एकः
(११) स यः च अयम् पुरुषः यः च असौ आ दित्ये सः एकः
(11) sa yaḥ ca ayam puruṣaḥ yaḥ ca asau ā ditye saḥ ekaḥ
(१२) अहमस्मि परं ब्रह्म परं परपरात्परम्
(१२) अहम् अस्मि परम् ब्रह्म परम् पर-परात्परम्
(12) aham asmi param brahma param para-parātparam
(१३) वेदशास्त्रगुरुत्वात्तु स्वयमानंदलक्षणम् (१४)
(१३) वेद-शास्त्र-गुरु-त्वात् तु स्वयम् आनंद-लक्षणम् (१४)
(13) veda-śāstra-guru-tvāt tu svayam ānaṃda-lakṣaṇam (14)
सर्वभूतस्थितं ब्रह्म तदेवाहं न संशयः
सर्व-भूत-स्थितम् ब्रह्म तत् एव अहम् न संशयः
sarva-bhūta-sthitam brahma tat eva aham na saṃśayaḥ
(१५) तत्त्वतस्य प्राणोहमस्मि पृथिव्याः प्राणोहमस्मि (१६)
(१५) तत्त्वतस्य प्राणः ऊहम् अस्मि पृथिव्याः प्राणः ऊहम् अस्मि (१६)
(15) tattvatasya prāṇaḥ ūham asmi pṛthivyāḥ prāṇaḥ ūham asmi (16)
अपां च प्राणोहमस्मि तेजसश्च प्राणोहमस्मि (१७)
अपाम् च प्राणः ऊहम् अस्मि तेजसः च प्राणः ऊहम् अस्मि (१७)
apām ca prāṇaḥ ūham asmi tejasaḥ ca prāṇaḥ ūham asmi (17)
वायोश्च प्राणोहमस्मि आकाशस्य प्राणोहमस्मि ( १८)
वायोः च प्राणः ऊहम् अस्मि आकाशस्य प्राणः ऊहम् अस्मि ( १८)
vāyoḥ ca prāṇaḥ ūham asmi ākāśasya prāṇaḥ ūham asmi ( 18)
त्रिगुणस्य प्राणोहमस्मि (१९)
त्रिगुणस्य प्राणः ऊहम् अस्मि (१९)
triguṇasya prāṇaḥ ūham asmi (19)
सर्वोऽहं सर्वात्मकोऽहं संसारी यद्भूतं यच्च भव्यं यद्वर्तमानं सर्वात्मकत्वादद्वितीयोहम् (२०)
सर्वः अहम् सर्व-आत्मकः अहम् संसारी यत् भूतम् यत् च भव्यम् यत् वर्तमानम् सर्व-आत्मक-त्वात् अद्वितीयः उहम् (२०)
sarvaḥ aham sarva-ātmakaḥ aham saṃsārī yat bhūtam yat ca bhavyam yat vartamānam sarva-ātmaka-tvāt advitīyaḥ uham (20)
सर्वं खल्विदं ब्रह्म ( २१)
सर्वम् खलु इदम् ब्रह्म ( २१)
sarvam khalu idam brahma ( 21)
सर्वोऽहं विमुक्तोऽहम् ( २२)
सर्वः अहम् विमुक्तः अहम् ( २२)
sarvaḥ aham vimuktaḥ aham ( 22)
योऽसौ सोहं हंसस्सोहमस्मि ॥
यः असौ सः हम् हंसः सः हम् अस्मि ॥
yaḥ asau saḥ ham haṃsaḥ saḥ ham asmi ..
इत्येवं सर्वत्र सदा ध्यायेदिति ॥
इति एवम् सर्वत्र सदा ध्यायेत् इति ॥
iti evam sarvatra sadā dhyāyet iti ..
अथ महावाक्यानामर्थमाह ॥
अथ महावाक्यानाम् अर्थम् आह ॥
atha mahāvākyānām artham āha ..
प्रज्ञानं ब्रह्मवाक्यार्थः पूर्वमेव प्रबोधितः ॥ अहंपदस्यार्थभूतः शक्त्यात्मा परमेश्वरः ॥ १ ॥
प्रज्ञानम् ब्रह्म-वाक्य-अर्थः पूर्वम् एव प्रबोधितः ॥ अहं पदस्य अर्थ-भूतः शक्ति-आत्मा परमेश्वरः ॥ १ ॥
prajñānam brahma-vākya-arthaḥ pūrvam eva prabodhitaḥ .. ahaṃ padasya artha-bhūtaḥ śakti-ātmā parameśvaraḥ .. 1 ..
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ॥ हकारो व्योमरूपः स्याच्छक्त्यात्मा संप्रकीर्तितः ॥ २॥
अकारः सर्व-वर्ण-अग्र्यः प्रकाशः परमः शिवः ॥ हकारः व्योम-रूपः स्यात् शक्ति-आत्मा संप्रकीर्तितः ॥ २॥
akāraḥ sarva-varṇa-agryaḥ prakāśaḥ paramaḥ śivaḥ .. hakāraḥ vyoma-rūpaḥ syāt śakti-ātmā saṃprakīrtitaḥ .. 2..
शिवशक्त्योस्तु संयोगादानन्दः सततोदितः ॥ ब्रह्मेति शिवशक्त्योस्तु सर्वात्मत्वमिति स्फुटम् ॥ ३ ॥
शिव-शक्त्योः तु संयोगात् आनन्दः सतत-उदितः ॥ ब्रह्म इति शिव-शक्त्योः तु सर्व-आत्म-त्वम् इति स्फुटम् ॥ ३ ॥
śiva-śaktyoḥ tu saṃyogāt ānandaḥ satata-uditaḥ .. brahma iti śiva-śaktyoḥ tu sarva-ātma-tvam iti sphuṭam .. 3 ..
पूर्वमेवोपदिष्टं तत्सोहमस्मीति भावयेत् ॥ तत्त्वमित्यत्र तदिति सशब्दार्थः प्रबोधितः॥४॥
पूर्वम् एव उपदिष्टम् तत् सा हम् अस्मि इति भावयेत् ॥ तत्त्वम् इति अत्र तत् इति स शब्द-अर्थः प्रबोधितः॥४॥
pūrvam eva upadiṣṭam tat sā ham asmi iti bhāvayet .. tattvam iti atra tat iti sa śabda-arthaḥ prabodhitaḥ..4..
अहंशब्दस्तु पुरुषस्तदिति स्यान्नपुंसकम्॥एवमन्योन्यवैरुध्यादन्वयो नभवेत्तयोः ॥ ५ ॥
अहंशब्दः तु पुरुषः तत् इति स्यात् नपुंसकम्॥एवम् अन्योन्य-वैरुध्यात् अन्वयः न भवेत् तयोः ॥ ५ ॥
ahaṃśabdaḥ tu puruṣaḥ tat iti syāt napuṃsakam..evam anyonya-vairudhyāt anvayaḥ na bhavet tayoḥ .. 5 ..
स्त्रीपुंरूपस्य जगतः कारणं चान्यथा भवेत् ॥ स तत्त्वमसि इत्येवमुपदेशार्थभावना ॥ ६ ॥
स्त्री-पुम् रूपस्य जगतः कारणम् च अन्यथा भवेत् ॥ स तत् त्वम् असि इति एवम् उपदेश-अर्थ-भावना ॥ ६ ॥
strī-pum rūpasya jagataḥ kāraṇam ca anyathā bhavet .. sa tat tvam asi iti evam upadeśa-artha-bhāvanā .. 6 ..
अयमात्मेति वाक्ये च पुंरूपं पदयुग्मकम् ॥ ईशेन रक्षणीयत्वादीशावस्यमिदं जगत् ॥ ७ ॥
अयम् आत्मा इति वाक्ये च पुम् रूपम् पद-युग्मकम् ॥ ईशेन रक्षणीय-त्वात् ईश-अवस्यम् इदम् जगत् ॥ ७ ॥
ayam ātmā iti vākye ca pum rūpam pada-yugmakam .. īśena rakṣaṇīya-tvāt īśa-avasyam idam jagat .. 7 ..
प्रज्ञानात्मा यदेवेह तदमुत्रेति चिन्तयेत् ॥ यः स एवेति विद्वद्भिस्सिद्धान्तिभिरिहोच्यते ॥ ८ ॥
प्रज्ञान-आत्मा यत् एवा इह तत् अमुत्र इति चिन्तयेत् ॥ यः सः एवा इति विद्वद्भिः सिद्धान्तिभिः इह उच्यते ॥ ८ ॥
prajñāna-ātmā yat evā iha tat amutra iti cintayet .. yaḥ saḥ evā iti vidvadbhiḥ siddhāntibhiḥ iha ucyate .. 8 ..
उपरिस्थितवाक्ये च योऽमुत्र स इह स्थितः ॥ इति पूर्ववदेवार्थः पुरुषो विदुषां मतः ॥ ९ ॥
उपरि स्थित-वाक्ये च यः अमुत्र सः इह स्थितः ॥ इति पूर्व-वत् एव अर्थः पुरुषः विदुषाम् मतः ॥ ९ ॥
upari sthita-vākye ca yaḥ amutra saḥ iha sthitaḥ .. iti pūrva-vat eva arthaḥ puruṣaḥ viduṣām mataḥ .. 9 ..
अन्यदेव तद्विदितादथो ॥ अविदितादपि ॥ अस्मिन्वाक्ये फलस्यापि वैपरीत्यविभावना ॥ 6.19.१० ॥
अन्यत् एव तद्-विदितात् अथो ॥ अ विदितात् अपि ॥ अस्मिन् वाक्ये फलस्य अपि वैपरीत्य-विभावना ॥ ६।१९।१० ॥
anyat eva tad-viditāt atho .. a viditāt api .. asmin vākye phalasya api vaiparītya-vibhāvanā .. 6.19.10 ..
यथास्यात्तद्वदेवात्र वक्ष्यामि श्रूयतां मुने ॥ अयथाविदिताछब्दो पूर्ववद्विदितादिति ॥ ११ ॥
यथा अस्यात् तद्वत् एव अत्र वक्ष्यामि श्रूयताम् मुने ॥ अ यथा विदितात् शब्दः पूर्ववत् विदितात् इति ॥ ११ ॥
yathā asyāt tadvat eva atra vakṣyāmi śrūyatām mune .. a yathā viditāt śabdaḥ pūrvavat viditāt iti .. 11 ..
प्रवृत्तिस्स्यात्तद्विदितात्तथैवाविदितात्परम् ॥ अन्यदेव हि संसिद्ध्यै न भवेदिति निश्चितम् ॥ १२ ॥
प्रवृत्तिः स्यात् तद्-विदितात् तथा एव अविदितात् परम् ॥ अन्यत् एव हि संसिद्ध्यै न भवेत् इति निश्चितम् ॥ १२ ॥
pravṛttiḥ syāt tad-viditāt tathā eva aviditāt param .. anyat eva hi saṃsiddhyai na bhavet iti niścitam .. 12 ..
एष त आत्मांतर्यामी योऽमृतश्च शिवस्स्वयम् ॥ यश्चायम्पुरुषे शंभुर्यश्चादित्ये व्यवस्थितः ॥ १३ ॥
एष ते आत्मा अंतर्यामी यः अमृतः च शिवः स्वयम् ॥ यः च अयम् पुरुषे शंभुः यः च आदित्ये व्यवस्थितः ॥ १३ ॥
eṣa te ātmā aṃtaryāmī yaḥ amṛtaḥ ca śivaḥ svayam .. yaḥ ca ayam puruṣe śaṃbhuḥ yaḥ ca āditye vyavasthitaḥ .. 13 ..
स चाऽसौ सेति पार्थक्यं नैकं सर्वं स ईरितः ॥ सोपाधिद्वयमस्यार्थ उपचारात्तथोच्यते ॥ १४ ॥
स च असौ सा इति पार्थक्यम् न एकम् सर्वम् सः ईरितः ॥ स उपाधि-द्वयम् अस्य अर्थः उपचारात् तथा उच्यते ॥ १४ ॥
sa ca asau sā iti pārthakyam na ekam sarvam saḥ īritaḥ .. sa upādhi-dvayam asya arthaḥ upacārāt tathā ucyate .. 14 ..
तं शम्भुनाथं श्रुतयो वदन्ति हि हिरण्मयम् ॥ हिरण्य बाहव इति सर्वांगस्यो पलक्षलम् ॥ १५ ॥
तम् शम्भुनाथम् श्रुतयः वदन्ति हि हिरण्मयम् ॥ हिरण्य-बाहवः इति सर्व-अंगस्य उ पलक्षलम् ॥ १५ ॥
tam śambhunātham śrutayaḥ vadanti hi hiraṇmayam .. hiraṇya-bāhavaḥ iti sarva-aṃgasya u palakṣalam .. 15 ..
अन्यथा तत्पतित्वं तु न भवेदिति यत्नतः ॥ य एषोन्तरिति शंभुश्छान्दोग्ये श्रूयते शिवः ॥ १६ ॥
अन्यथा तद्-पति-त्वम् तु न भवेत् इति यत्नतः ॥ यः एषः अन्तर् इति शंभुः छान्दोग्ये श्रूयते शिवः ॥ १६ ॥
anyathā tad-pati-tvam tu na bhavet iti yatnataḥ .. yaḥ eṣaḥ antar iti śaṃbhuḥ chāndogye śrūyate śivaḥ .. 16 ..
हिरण्यश्मश्रुवांस्तद्वद्धिरण्यमयकेशवान् ॥ नखमारभ्य केशाग्रा सर्वत्रापि हिरण्मयः ॥ १७॥
हिरण्य-श्मश्रुवान् तद्वत् हिरण्य-मय-केशवान् ॥ नखम् आरभ्य केश-अग्रा सर्वत्र अपि हिरण्मयः ॥ १७॥
hiraṇya-śmaśruvān tadvat hiraṇya-maya-keśavān .. nakham ārabhya keśa-agrā sarvatra api hiraṇmayaḥ .. 17..
अहमस्मि परं ब्रह्म परापरपरात्परम् ॥ इति वाक्यस्य तात्पर्यं वदामि श्रूयतामिदम् ॥ १८ ॥
अहम् अस्मि परम् ब्रह्म पर-अपर-परात्परम् ॥ इति वाक्यस्य तात्पर्यम् वदामि श्रूयताम् इदम् ॥ १८ ॥
aham asmi param brahma para-apara-parātparam .. iti vākyasya tātparyam vadāmi śrūyatām idam .. 18 ..
अहंपदस्यार्थभूतः शक्त्यात्मा शिवईरितः ॥ स एवास्मीति वाक्यार्थ योजना भवति ध्रुवम् ॥ १९ ॥
अहम् पदस्य अर्थ-भूतः शक्ति-आत्मा शिव-ईरितः ॥ सः एव अस्मि इति वाक्य-अर्थ योजना भवति ध्रुवम् ॥ १९ ॥
aham padasya artha-bhūtaḥ śakti-ātmā śiva-īritaḥ .. saḥ eva asmi iti vākya-artha yojanā bhavati dhruvam .. 19 ..
सर्वोत्कृष्टश्च सर्वात्मा परब्रह्म स ईरितः ॥ परश्चाथापरश्चेति परात्परमिति त्रिधा ॥ 6.19.२० ॥
सर्व-उत्कृष्टः च सर्वात्मा पर-ब्रह्म सः ईरितः ॥ परः च अथ अपरः च इति परात्परम् इति त्रिधा ॥ ६।१९।२० ॥
sarva-utkṛṣṭaḥ ca sarvātmā para-brahma saḥ īritaḥ .. paraḥ ca atha aparaḥ ca iti parātparam iti tridhā .. 6.19.20 ..
रुद्रो ब्रह्मा च विष्णुश्च प्रोक्ताः श्रुत्यैव नान्यथा ॥ तेभ्यश्च परमो देवः परशब्देन बोधितः ॥ २१॥
रुद्रः ब्रह्मा च विष्णुः च प्रोक्ताः श्रुत्या एव न अन्यथा ॥ तेभ्यः च परमः देवः पर-शब्देन बोधितः ॥ २१॥
rudraḥ brahmā ca viṣṇuḥ ca proktāḥ śrutyā eva na anyathā .. tebhyaḥ ca paramaḥ devaḥ para-śabdena bodhitaḥ .. 21..
वेदशास्त्र गुरूणां च वाक्याभ्या सवशाच्छिशोः ॥ पूर्णानन्दमयश्शंभुः प्रादुर्भूतो भवेद्धृदि ॥ २२ ॥
गुरूणाम् च वाक्याभ्या स वशात् शिशोः ॥ पूर्णानन्द-मयः शंभुः प्रादुर्भूतः भवेत् हृदि ॥ २२ ॥
gurūṇām ca vākyābhyā sa vaśāt śiśoḥ .. pūrṇānanda-mayaḥ śaṃbhuḥ prādurbhūtaḥ bhavet hṛdi .. 22 ..
सर्वभूतस्थितश्शम्भुस्स एवाहं न संशयः ॥ तत्त्वजातस्य सर्वस्य प्राणोस्म्यहमहं शिवः ॥ २३ ॥
सर्व-भूत-स्थितः शम्भुः सः एव अहम् न संशयः ॥ तत्त्व-जातस्य सर्वस्य प्राणः अस्मि अहम् अहम् शिवः ॥ २३ ॥
sarva-bhūta-sthitaḥ śambhuḥ saḥ eva aham na saṃśayaḥ .. tattva-jātasya sarvasya prāṇaḥ asmi aham aham śivaḥ .. 23 ..
इत्युक्त्वा पुनरप्याह शिवस्तत्त्वत्रयस्य च ॥ प्राणोस्मीत्यत्र पृथ्व्यादिगुणान्तग्रहणान्मुने ॥ २४ ॥
इति उक्त्वा पुनर् अपि आह शिवः तत्त्व-त्रयस्य च ॥ प्राणः अस्मि इति अत्र पृथ्वी-आदि-गुण-अन्त-ग्रहणात् मुने ॥ २४ ॥
iti uktvā punar api āha śivaḥ tattva-trayasya ca .. prāṇaḥ asmi iti atra pṛthvī-ādi-guṇa-anta-grahaṇāt mune .. 24 ..
आत्मतत्त्वानि सर्वाणि गृहीतानीति भावय ॥ पुनश्च सर्वग्रहणं विद्यातत्त्वशिवात्मनोः ॥ २५ ॥
आत्म-तत्त्वानि सर्वाणि गृहीतानि इति भावय ॥ पुनर् च सर्व-ग्रहणम् विद्या-तत्त्व-शिव-आत्मनोः ॥ २५ ॥
ātma-tattvāni sarvāṇi gṛhītāni iti bhāvaya .. punar ca sarva-grahaṇam vidyā-tattva-śiva-ātmanoḥ .. 25 ..
तत्त्वयोश्चास्म्यहं प्राणास्सर्वस्स्सर्वात्मको ह्यहम् ॥ जीवस्य चान्तर्यामित्वाज्जीवोऽहं तस्य सर्वदा ॥ २६ ॥
तत्त्वयोः च अस्मि अहम् प्राणाः सर्वः सर्व-आत्मकः हि अहम् ॥ जीवस्य च अन्तर्यामि-त्वात् जीवः अहम् तस्य सर्वदा ॥ २६ ॥
tattvayoḥ ca asmi aham prāṇāḥ sarvaḥ sarva-ātmakaḥ hi aham .. jīvasya ca antaryāmi-tvāt jīvaḥ aham tasya sarvadā .. 26 ..
यद्भूतं यच्च भव्यं यद्भविप्यत्सर्वमेव च ॥ मन्मयत्वादहं सर्वः सर्वो वै रुद्र इत्यपि ॥ २७॥
यत् भूतम् यत् च भव्यम् यत् भविप्यत् सर्वम् एव च ॥ मद्-मय-त्वात् अहम् सर्वः सर्वः वै रुद्रः इति अपि ॥ २७॥
yat bhūtam yat ca bhavyam yat bhavipyat sarvam eva ca .. mad-maya-tvāt aham sarvaḥ sarvaḥ vai rudraḥ iti api .. 27..
श्रुतिराह मुने सा हि साक्षाच्छिवमुखोद्गता ॥ सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ॥ २८ ॥
श्रुतिः आह मुने सा हि साक्षात् शिव-मुख-उद्गता ॥ सर्वात्मा परमैः एभिः गुणैः नित्य-समन्वयात् ॥ २८ ॥
śrutiḥ āha mune sā hi sākṣāt śiva-mukha-udgatā .. sarvātmā paramaiḥ ebhiḥ guṇaiḥ nitya-samanvayāt .. 28 ..
स्वस्मात्परात्मविरहादद्वितीयोऽहमेव हि ॥ सर्वं खल्विदं ब्रह्मेति वाक्यार्थः पूर्व्वमीरितः ॥ २९ ॥
स्वस्मात् परात्म-विरहात् अद्वितीयः अहम् एव हि ॥ सर्वम् खलु इदम् ब्रह्म इति वाक्य-अर्थः पूर्व्वम् ईरितः ॥ २९ ॥
svasmāt parātma-virahāt advitīyaḥ aham eva hi .. sarvam khalu idam brahma iti vākya-arthaḥ pūrvvam īritaḥ .. 29 ..
पूर्णोऽहं भावरूपत्वान्नित्यमुक्तोऽहमेव हि ॥ पशवो मत्प्रसादेन मुक्ता मद्भावमाश्रिताः ॥ 6.19.३० ॥
पूर्णः अहम् भाव-रूप-त्वात् नित्य-मुक्तः अहम् एव हि ॥ पशवः मद्-प्रसादेन मुक्ताः मद्-भावम् आश्रिताः ॥ ६।१९।३० ॥
pūrṇaḥ aham bhāva-rūpa-tvāt nitya-muktaḥ aham eva hi .. paśavaḥ mad-prasādena muktāḥ mad-bhāvam āśritāḥ .. 6.19.30 ..
योऽसौ सर्वात्मकश्शम्भुस्सोऽहं स शिवोऽस्म्यहम् ॥ इति वै सर्ववाक्यार्थो वामदेव शिवोदितः ॥ ३१॥
यः असौ सर्व-आत्मकः शम्भुः सः अहम् स शिवः अस्मि अहम् ॥ इति वै सर्व-वाक्य-अर्थः वामदेव शिव-उदितः ॥ ३१॥
yaḥ asau sarva-ātmakaḥ śambhuḥ saḥ aham sa śivaḥ asmi aham .. iti vai sarva-vākya-arthaḥ vāmadeva śiva-uditaḥ .. 31..
इतीशश्रुतिवाक्याभ्यामुपदिष्टार्थमादरात् ॥ साक्षाच्छिवैक्यदं पुंसां शिशोगुरुरुपादिशेत् ॥ ३२॥
इति ईश-श्रुति-वाक्याभ्याम् उपदिष्ट-अर्थम् आदरात् ॥ साक्षात् शिव-ऐक्य-दम् पुंसाम् शिशो गुरुः उपादिशेत् ॥ ३२॥
iti īśa-śruti-vākyābhyām upadiṣṭa-artham ādarāt .. sākṣāt śiva-aikya-dam puṃsām śiśo guruḥ upādiśet .. 32..
आदाय शंखं साधारमस्त्रमन्त्रेण भस्मना ॥ शोध्य तत्पुरतस्स्थाप्य चतुरस्रे समर्चिते ॥ ३३॥
आदाय शंखम् स आधारम् अस्त्रमन्त्रेण भस्मना ॥ शोध्य तत् पुरतस् स्थाप्य चतुर्-अस्रे समर्चिते ॥ ३३॥
ādāya śaṃkham sa ādhāram astramantreṇa bhasmanā .. śodhya tat puratas sthāpya catur-asre samarcite .. 33..
ओमित्यभ्यर्च्य गन्धाद्यैरस्त्रं वस्त्रोपशोभितम् ॥ वासितं जलमापूर्य सम्पूज्योमिति मन्त्रतः ॥ ३४ ॥
ओम् इति अभ्यर्च्य गन्ध-आद्यैः अस्त्रम् वस्त्र-उपशोभितम् ॥ वासितम् जलम् आपूर्य सम्पूज्य ऊम् इति मन्त्रतः ॥ ३४ ॥
om iti abhyarcya gandha-ādyaiḥ astram vastra-upaśobhitam .. vāsitam jalam āpūrya sampūjya ūm iti mantrataḥ .. 34 ..
सप्तधैवाभिमंत्र्याथ प्रणवेन पुनश्च तम् ॥ यस्त्वन्तरं किंचिदस्ति कुरुते त्यतिभीतिभाक् ॥ ३५ ॥
सप्तधा एव अभिमंत्र्य अथ प्रणवेन पुनर् च तम् ॥ यः तु अन्तरम् किंचिद् अस्ति कुरुते ॥ ३५ ॥
saptadhā eva abhimaṃtrya atha praṇavena punar ca tam .. yaḥ tu antaram kiṃcid asti kurute .. 35 ..
इत्याह श्रुतिसत्तत्त्वं दृढात्मा गतभीर्भव ॥ इत्याभाष्य स्वयं शिष्यं देवं ध्यायन्समर्चयेत् ॥ ३६ ॥
इति आह श्रुति-सत्-तत्त्वम् दृढ-आत्मा गत-भीः भव ॥ इति आभाष्य स्वयम् शिष्यम् देवम् ध्यायन् समर्चयेत् ॥ ३६ ॥
iti āha śruti-sat-tattvam dṛḍha-ātmā gata-bhīḥ bhava .. iti ābhāṣya svayam śiṣyam devam dhyāyan samarcayet .. 36 ..
शिष्यासनं सम्प्रपूज्य षडुत्थापनमार्गतः ॥ शिवासनं च संकल्प्य शिवमूर्तिं प्रकल्पयेत् ॥ ३७ ॥
शिष्य-आसनम् सम्प्रपूज्य षष्-उत्थापन-मार्गतः ॥ शिव-आसनम् च संकल्प्य शिव-मूर्तिम् प्रकल्पयेत् ॥ ३७ ॥
śiṣya-āsanam samprapūjya ṣaṣ-utthāpana-mārgataḥ .. śiva-āsanam ca saṃkalpya śiva-mūrtim prakalpayet .. 37 ..
पञ्च ब्रह्माणि विन्यस्य शिरः पादावसानकम् ॥ मुण्डवत्क्रकलाभेदैः प्रणवस्य कला अपि ॥ ३८ ॥
पञ्च ब्रह्माणि विन्यस्य शिरः पाद-अवसानकम् ॥ मुण्ड-वत् क्र-कला-भेदैः प्रणवस्य कलाः अपि ॥ ३८ ॥
pañca brahmāṇi vinyasya śiraḥ pāda-avasānakam .. muṇḍa-vat kra-kalā-bhedaiḥ praṇavasya kalāḥ api .. 38 ..
अष्टत्रिंशन्मंत्ररूपा श्शिष्यदेहेऽथ मस्तके ॥ समावाह्य शिवं मुद्राः स्थापनीयाः प्रदर्शयेत् ॥ ३९॥
अष्टत्रिंशत्-मंत्र-रूपा श्शिष्य-देहे अथ मस्तके ॥ समावाह्य शिवम् मुद्राः स्थापनीयाः प्रदर्शयेत् ॥ ३९॥
aṣṭatriṃśat-maṃtra-rūpā śśiṣya-dehe atha mastake .. samāvāhya śivam mudrāḥ sthāpanīyāḥ pradarśayet .. 39..
ततश्चाङ्गानि विन्यस्य सर्वज्ञानीत्यनुक्रमात्॥कल्पयेदुपचारांश्च षोडशासनपूर्वकान् ॥ 6.19.४० ॥
ततस् च अङ्गानि विन्यस्य सर्वज्ञानि इति अनुक्रमात्॥कल्पयेत् उपचारान् च षोडश-आसन-पूर्वकान् ॥ ६।१९।४० ॥
tatas ca aṅgāni vinyasya sarvajñāni iti anukramāt..kalpayet upacārān ca ṣoḍaśa-āsana-pūrvakān .. 6.19.40 ..
पायसान्नञ्च नैवेद्यं समर्प्यो मग्निजायया ॥ गण्डूषाचमनार्घ्यादि धूपदीपादिकं क्रमात् ॥ ४१ ॥
पायस-अन्नम् च नैवेद्यम् समर्प्यः मग्निजायया ॥ गण्डूष-आचमन-अर्घ्य-आदि धूप-दीप-आदिकम् क्रमात् ॥ ४१ ॥
pāyasa-annam ca naivedyam samarpyaḥ magnijāyayā .. gaṇḍūṣa-ācamana-arghya-ādi dhūpa-dīpa-ādikam kramāt .. 41 ..
नामाष्टकेन सम्पूज्य ब्राह्मणैर्वेदपारगैः ॥ जपेद्ब्रह्मविदाप्नोति भृगुर्वै वारुणिस्ततः ॥ ४२ ॥
नाम-अष्टकेन सम्पूज्य ब्राह्मणैः वेदपारगैः ॥ जपेत् ब्रह्म-विद् आप्नोति भृगुः वै वारुणिः ततस् ॥ ४२ ॥
nāma-aṣṭakena sampūjya brāhmaṇaiḥ vedapāragaiḥ .. japet brahma-vid āpnoti bhṛguḥ vai vāruṇiḥ tatas .. 42 ..
यो देवानामुपक्रम्यः यः परः स महेश्वरः ॥ इत्यंतं तस्य पुरतः कह्लारादिविर्निताम् ॥ ४३ ॥
यः देवानाम् उपक्रम्यः यः परः स महेश्वरः ॥ इत्यंतम् तस्य पुरतस् ॥ ४३ ॥
yaḥ devānām upakramyaḥ yaḥ paraḥ sa maheśvaraḥ .. ityaṃtam tasya puratas .. 43 ..
आदाय मालामुत्थाय श्रीविरूपाक्ष निर्मिते ॥ शास्त्रे पंचाशिके रूपे सिद्धिस्कन्धं जपेच्छनैः ॥ ४४ ॥
आदाय मालाम् उत्थाय श्री-विरूपाक्ष-निर्मिते ॥ शास्त्रे पंचाशिके रूपे सिद्धिस्कन्धम् जपेत् शनैस् ॥ ४४ ॥
ādāya mālām utthāya śrī-virūpākṣa-nirmite .. śāstre paṃcāśike rūpe siddhiskandham japet śanais .. 44 ..
ख्यातिः पूर्णोहमित्यंतं सानुकूलेन चेतसा ॥ देशिकस्तस्य शिष्यस्य कण्ठदेशे समर्पयेत् ॥ ४५ ॥
ख्यातिः पूर्णः हम् इति अन्तम् स अनुकूलेन चेतसा ॥ देशिकः तस्य शिष्यस्य कण्ठ-देशे समर्पयेत् ॥ ४५ ॥
khyātiḥ pūrṇaḥ ham iti antam sa anukūlena cetasā .. deśikaḥ tasya śiṣyasya kaṇṭha-deśe samarpayet .. 45 ..
तिलकं वन्दनेनाथ सर्वाङ्गालेपनं पुनः ॥ स्वसम्प्रदायानुगुणं कारयेच्च यथाविधि ॥ ४६ ॥
तिलकम् वन्दनेन अथ सर्व-अङ्ग-आलेपनम् पुनर् ॥ स्व-सम्प्रदाय-अनुगुणम् कारयेत् च यथाविधि ॥ ४६ ॥
tilakam vandanena atha sarva-aṅga-ālepanam punar .. sva-sampradāya-anuguṇam kārayet ca yathāvidhi .. 46 ..
ततश्च देशिकः प्रीत्या नामश्रीपादसंज्ञितम् ॥ छत्रञ्च पादुकां दद्याद्दूर्वाकल्पविकल्पनम् ॥ ४।
ततस् च देशिकः प्रीत्या नाम श्रीपाद-संज्ञितम् ॥ छत्रम् च पादुकाम् दद्यात् दूर्वा-कल्प-विकल्पनम् ॥ ४।
tatas ca deśikaḥ prītyā nāma śrīpāda-saṃjñitam .. chatram ca pādukām dadyāt dūrvā-kalpa-vikalpanam .. 4.
व्याख्यातत्वञ्च कर्म्मादिगुर्वासनपरिग्रहम् ॥ अनुगृह्य गुरुस्तस्मै शिष्याय शिवरूपिणे ॥ ४८ ॥
व्याख्यात-त्वञ्च कर्म्म-आदि-गुरु-आसन-परिग्रहम् ॥ अनुगृह्य गुरुः तस्मै शिष्याय शिव-रूपिणे ॥ ४८ ॥
vyākhyāta-tvañca karmma-ādi-guru-āsana-parigraham .. anugṛhya guruḥ tasmai śiṣyāya śiva-rūpiṇe .. 48 ..
शिवोहमस्मीति सदा समाधिस्थो भवेति तम् ॥ सम्प्रोच्याथ स्वयं तस्मै नमस्कारं समाचरेत् ॥ ४९ ॥
शिवः उहम् अस्मि इति सदा समाधि-स्थः भव इति तम् ॥ सम्प्रोच्य अथ स्वयम् तस्मै नमस्कारम् समाचरेत् ॥ ४९ ॥
śivaḥ uham asmi iti sadā samādhi-sthaḥ bhava iti tam .. samprocya atha svayam tasmai namaskāram samācaret .. 49 ..
सम्प्रदायानुगुण्येन नमस्कुर्युस्तथापरे ॥ शिष्यस्तदा समुत्थाय नमस्कुर्याद्गुरुन्तथा ॥ गुरोरपि गुरुं तस्य शिष्यांश्च स्वगुरोरपि ॥ 6.19.५० ॥
सम्प्रदाय-आनुगुण्येन नमस्कुर्युः तथा अपरे ॥ शिष्यः तदा समुत्थाय नमस्कुर्यात् गुरुन् तथा ॥ गुरोः अपि गुरुम् तस्य शिष्यान् च स्व-गुरोः अपि ॥ ६।१९।५० ॥
sampradāya-ānuguṇyena namaskuryuḥ tathā apare .. śiṣyaḥ tadā samutthāya namaskuryāt gurun tathā .. guroḥ api gurum tasya śiṣyān ca sva-guroḥ api .. 6.19.50 ..
एवं कृतनमस्कारं शिष्यन्दद्याद्गुरुः स्वयम् ॥ सुशीलं यतवाचं तं विनयावनतं स्थितम् ॥ ५१ ॥
एवम् कृत-नमस्कारम् शिष्यन् दद्यात् गुरुः स्वयम् ॥ सुशीलम् यत-वाचम् तम् विनय-अवनतम् स्थितम् ॥ ५१ ॥
evam kṛta-namaskāram śiṣyan dadyāt guruḥ svayam .. suśīlam yata-vācam tam vinaya-avanatam sthitam .. 51 ..
अद्यप्रभृति लोकानामनुग्रहपरो भव ॥ परीक्ष्य वत्सरं शिष्यमंगीकुरु विधानतः ॥ ५२॥
अद्य प्रभृति लोकानाम् अनुग्रह-परः भव ॥ परीक्ष्य वत्सरम् शिष्यम् अंगीकुरु विधानतः ॥ ५२॥
adya prabhṛti lokānām anugraha-paraḥ bhava .. parīkṣya vatsaram śiṣyam aṃgīkuru vidhānataḥ .. 52..
रागादिदोषान्संत्यज्य शिवध्यानपरो भव ॥ सत्सम्प्रदायसंसिद्धैस्संगं कुरु न चेतरैः ॥ ५३॥
राग-आदि-दोषान् संत्यज्य शिव-ध्यान-परः भव ॥ सत्-सम्प्रदाय-संसिद्धैः संगम् कुरु न च इतरैः ॥ ५३॥
rāga-ādi-doṣān saṃtyajya śiva-dhyāna-paraḥ bhava .. sat-sampradāya-saṃsiddhaiḥ saṃgam kuru na ca itaraiḥ .. 53..
अनभ्यर्च्य शिवं जातुमा भुंक्ष्वाप्राण संक्षयम् ॥ गुरुभक्तिं समास्थाय सुखी भव सुखी भव ॥ ५४ ॥
अन् अभ्यर्च्य शिवम् जातुमा भुंक्ष्व अप्राण संक्षयम् ॥ गुरु-भक्तिम् समास्थाय सुखी भव सुखी भव ॥ ५४ ॥
an abhyarcya śivam jātumā bhuṃkṣva aprāṇa saṃkṣayam .. guru-bhaktim samāsthāya sukhī bhava sukhī bhava .. 54 ..
इति क्रमाद्गुरुवरो दयालुर्ज्ञानसागरः ॥ सानुकूलेन चित्तेन समं शिष्यं समाचरेत् ॥ ५५ ॥
इति क्रमात् गुरु-वरः दयालुः ज्ञान-सागरः ॥ स अनुकूलेन चित्तेन समम् शिष्यम् समाचरेत् ॥ ५५ ॥
iti kramāt guru-varaḥ dayāluḥ jñāna-sāgaraḥ .. sa anukūlena cittena samam śiṣyam samācaret .. 55 ..
तव स्नेहान्मयायं वै वामदेव मुनीश्वर॥योगपट्टप्रकारस्ते प्रोक्तो गुह्यतरोऽपि हि ॥ ५६॥
तव स्नेहात् मया अयम् वै वामदेव मुनि-ईश्वर॥योगपट्ट-प्रकारः ते प्रोक्तः गुह्यतरः अपि हि ॥ ५६॥
tava snehāt mayā ayam vai vāmadeva muni-īśvara..yogapaṭṭa-prakāraḥ te proktaḥ guhyataraḥ api hi .. 56..
इत्युक्त्वा षण्मुखस्तस्मै क्षौरस्नानविधिक्रमम्॥वक्तुमारभत प्रीत्या यतीनां कृपया शुभम्॥५७॥
इति उक्त्वा षण्मुखः तस्मै क्षौर-स्नान-विधि-क्रमम्॥वक्तुम् आरभत प्रीत्या यतीनाम् कृपया शुभम्॥५७॥
iti uktvā ṣaṇmukhaḥ tasmai kṣaura-snāna-vidhi-kramam..vaktum ārabhata prītyā yatīnām kṛpayā śubham..57..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां योगपट्टविधिवर्णनंनामैकोनविंशोऽध्यायः॥१९॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् योगपट्टविधिवर्णनम् नाम एकोनविंशः अध्यायः॥१९॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām yogapaṭṭavidhivarṇanam nāma ekonaviṃśaḥ adhyāyaḥ..19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In