| |
|

This overlay will guide you through the buttons:

सुब्रह्मण्य उवाच ।।
क्षौरस्नानविधिं वक्ष्ये वामदेव महामुने ॥ यस्य सद्यो विधानेन शुद्धिस्स्याद्यतिनः परा ॥ १ ॥
क्षौर-स्नान-विधिम् वक्ष्ये वामदेव महा-मुने ॥ यस्य सद्यस् विधानेन शुद्धिः स्यात् यतिनः परा ॥ १ ॥
kṣaura-snāna-vidhim vakṣye vāmadeva mahā-mune .. yasya sadyas vidhānena śuddhiḥ syāt yatinaḥ parā .. 1 ..
योगपट्टप्रकारस्य विधिम्प्राप्य मुनीश्वर॥स शिष्यस्स्याद्व्रती पूर्णः क्षौरकर्म्मोद्यतो भवेत्॥२॥
योगपट्ट-प्रकारस्य विधिम् प्राप्य मुनि-ईश्वर॥स शिष्यः स्यात् व्रती पूर्णः क्षौर-कर्म्म-उद्यतः भवेत्॥२॥
yogapaṭṭa-prakārasya vidhim prāpya muni-īśvara..sa śiṣyaḥ syāt vratī pūrṇaḥ kṣaura-karmma-udyataḥ bhavet..2..
गुरुं नत्वा विशेषेण लब्धानुज्ञस्ततो गुरोः॥शिरस्संक्षाल्य चाचम्य सवासाः क्षौरमाचरेत्॥३॥
गुरुम् नत्वा विशेषेण लब्ध-अनुज्ञः ततस् गुरोः॥शिरः संक्षाल्य च आचम्य स वासाः क्षौरम् आचरेत्॥३॥
gurum natvā viśeṣeṇa labdha-anujñaḥ tatas guroḥ..śiraḥ saṃkṣālya ca ācamya sa vāsāḥ kṣauram ācaret..3..
क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम्॥तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत् ॥ ४ ॥
क्षालयेत् वसनम् पश्चात् मृद्-अम्भोभिः क्षुर-आदिकम्॥तद्-हस्तौ च मृदा आलिप्य क्षालय इति मृदम् ददेत् ॥ ४ ॥
kṣālayet vasanam paścāt mṛd-ambhobhiḥ kṣura-ādikam..tad-hastau ca mṛdā ālipya kṣālaya iti mṛdam dadet .. 4 ..
स्थापितम्प्रोक्षितन्तोयैश्शिवं शिवमितीरयन् ॥ स्वनेत्रे पिहिते चैवानामांगुष्ठाभिमंत्रिते ॥ ५ ॥
स्थापितम् प्रोक्षितन् तोयैः शिवम् शिवम् इति ईरयन् ॥ स्व-नेत्रे पिहिते च एव अ नाम-अंगुष्ठ-अभिमंत्रिते ॥ ५ ॥
sthāpitam prokṣitan toyaiḥ śivam śivam iti īrayan .. sva-netre pihite ca eva a nāma-aṃguṣṭha-abhimaṃtrite .. 5 ..
अस्त्रेणोन्मील्य संदृश्य क्षुरा दिक्षौ रसाधनम् ॥ अभिमन्त्र्य द्वादशाथ प्रोक्षयेदस्त्रमंत्रतः ॥ ६ ॥
अस्त्रेण उन्मील्य संदृश्य क्षुराः दिक्षौ रसाधनम् ॥ द्वादश अथ प्रोक्षयेत् अस्त्र-मंत्रतः ॥ ६ ॥
astreṇa unmīlya saṃdṛśya kṣurāḥ dikṣau rasādhanam .. dvādaśa atha prokṣayet astra-maṃtrataḥ .. 6 ..
क्षुरं गृहीत्वा तारेण दक्षभागे निकृन्तयेत् ॥ केशांश्च कांश्चि दग्रेषु वप्त्वा सर्वं च वापयेत् ॥ ७ ॥
क्षुरम् गृहीत्वा तारेण दक्ष-भागे निकृन्तयेत् ॥ केशान् च कांश्चिद् दग्रेषु वप्त्वा सर्वम् च वापयेत् ॥ ७ ॥
kṣuram gṛhītvā tāreṇa dakṣa-bhāge nikṛntayet .. keśān ca kāṃścid dagreṣu vaptvā sarvam ca vāpayet .. 7 ..
पृथिव्यां पर्णमादाय विक्षिपेन्न भुवः स्थले ॥ श्मश्रूणि हस्तपादस्थनखानि च निकृंतयेत् ॥ ८ ॥
पृथिव्याम् पर्णम् आदाय विक्षिपेत् न भुवः स्थले ॥ श्मश्रूणि हस्त-पाद-स्थ-नखानि च निकृंतयेत् ॥ ८ ॥
pṛthivyām parṇam ādāya vikṣipet na bhuvaḥ sthale .. śmaśrūṇi hasta-pāda-stha-nakhāni ca nikṛṃtayet .. 8 ..
बिल्वाश्वत्थतुलस्यादिस्थाने संगृह्य मृतिकाम् ॥ द्विषट्वारं निमज्याप्सु तीरं गत्वोपविश्य च ॥ ९ ॥
बिल्व-अश्वत्थ-तुलसी-आदि-स्थाने संगृह्य मृतिकाम् ॥ द्वि-षष्-वारम् निमज्य अप्सु तीरम् गत्वा उपविश्य च ॥ ९ ॥
bilva-aśvattha-tulasī-ādi-sthāne saṃgṛhya mṛtikām .. dvi-ṣaṣ-vāram nimajya apsu tīram gatvā upaviśya ca .. 9 ..
शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च ॥ एवम्पुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत् ॥ 6.20.१० ॥
शुद्धे देशे तु संस्थाप्य मृदम् त्रेधा विभज्य च ॥ एवम् पुनर् त्रिधा कृत्वा प्रोक्ष्य अस्त्रेण अभिमन्त्रयेत् ॥ ६।२०।१० ॥
śuddhe deśe tu saṃsthāpya mṛdam tredhā vibhajya ca .. evam punar tridhā kṛtvā prokṣya astreṇa abhimantrayet .. 6.20.10 ..
तत्रैकां मृदमादाय दापयित्वान्यपाणिना ॥ करौ द्वादशधा लिप्य प्रत्येकं केन क्षालयेत् ॥ ११ ॥
तत्र एकाम् मृदम् आदाय दापयित्वा अन्य-पाणिना ॥ करौ द्वादशधा लिप्य प्रत्येकम् केन क्षालयेत् ॥ ११ ॥
tatra ekām mṛdam ādāya dāpayitvā anya-pāṇinā .. karau dvādaśadhā lipya pratyekam kena kṣālayet .. 11 ..
पुनरेकाम्पादयोश्च मुखे चान्यां करे क्रमात् ॥ संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत् ॥ १२॥
पुनर् एकाम् पादयोः च मुखे च अन्याम् करे क्रमात् ॥ संलिप्य आक्षाल्य च अम्भोभिः पुनर् च जलम् आविशेत् ॥ १२॥
punar ekām pādayoḥ ca mukhe ca anyām kare kramāt .. saṃlipya ākṣālya ca ambhobhiḥ punar ca jalam āviśet .. 12..
अन्यां मृदम्भागयित्वा शिरसि द्वादश क्रमात् ॥ आलिप्य मृदमास्यान्तनिमज्य च पुनः पुनः ॥ १३ ॥
अन्याम् मृदम्भागयित्वा शिरसि द्वादश क्रमात् ॥ आलिप्य मृदम् आस्य-अन्तनिम् अज्य च पुनर् पुनर् ॥ १३ ॥
anyām mṛdambhāgayitvā śirasi dvādaśa kramāt .. ālipya mṛdam āsya-antanim ajya ca punar punar .. 13 ..
तीरं गत्वा तु गंडूषान्षोडशाचमनं द्विधा ॥ प्राणानायम्य च पुनः प्रणवं द्व्यष्टसंख्यया ॥ १४ ॥ ।
तीरम् गत्वा तु गंडूषान् षोडश आचमनम् द्विधा ॥ प्राणान् आयम्य च पुनर् प्रणवम् द्वि-अष्ट-संख्यया ॥ १४ ॥ ।
tīram gatvā tu gaṃḍūṣān ṣoḍaśa ācamanam dvidhā .. prāṇān āyamya ca punar praṇavam dvi-aṣṭa-saṃkhyayā .. 14 .. .
मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया ॥ कटिशौचं पादशौचं विधायाचम्य च द्विधा ॥ १५॥
मृदम् अन्याम् पुनर् त्रेधा विभज्य च तद्-एकया ॥ कटि-शौचम् पाद-शौचम् विधाय आचम्य च द्विधा ॥ १५॥
mṛdam anyām punar tredhā vibhajya ca tad-ekayā .. kaṭi-śaucam pāda-śaucam vidhāya ācamya ca dvidhā .. 15..
प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः ॥ पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति ॥ १६ ॥
प्रणवेन अथ षोडश प्राणान् आयम्य वाग्यतः ॥ पुनर् अन्याम् स्व-ऊरु-देशे त्रिधा विन्यस्य च ऊम् इति ॥ १६ ॥
praṇavena atha ṣoḍaśa prāṇān āyamya vāgyataḥ .. punar anyām sva-ūru-deśe tridhā vinyasya ca ūm iti .. 16 ..
प्रोक्ष्याभिमंत्रयेत्सप्त स्वपाण्योस्तलमेकधा ॥ त्रिधालिप्याथ सम्पश्येत्सूर्य्यमूर्तिं च पावनीम् ॥ १७ ॥
प्रोक्ष्य अभिमंत्रयेत् सप्त स्व-पाण्योः तलम् एकधा ॥ त्रिधा आलिप्य अथ सम्पश्येत् सूर्य्य-मूर्तिम् च पावनीम् ॥ १७ ॥
prokṣya abhimaṃtrayet sapta sva-pāṇyoḥ talam ekadhā .. tridhā ālipya atha sampaśyet sūryya-mūrtim ca pāvanīm .. 17 ..
स्वकक्षयोः समालिप्य व्यत्यस्ताभ्यामथान्यया ॥ पाणिभ्याञ्च मृदा शिष्यस्सुमतिर्दृढमानसः ॥ १८ ॥
स्व-कक्षयोः समालिप्य व्यत्यस्ताभ्याम् अथ अन्यया ॥ पाणिभ्याम् च मृदा शिष्यः सुमतिः दृढ-मानसः ॥ १८ ॥
sva-kakṣayoḥ samālipya vyatyastābhyām atha anyayā .. pāṇibhyām ca mṛdā śiṣyaḥ sumatiḥ dṛḍha-mānasaḥ .. 18 ..
गृहीत्वान्यां मृदं शुद्धां तथासौ गुरुभक्तिमान् ॥ शिर आरभ्य पादान्तं विलिप्यादित्यदृष्टया ॥ १९ ॥
गृहीत्वा अन्याम् मृदम् शुद्धाम् तथा असौ गुरु-भक्तिमान् ॥ शिरः आरभ्य पाद-अन्तम् विलिप्य आदित्य-दृष्टया ॥ १९ ॥
gṛhītvā anyām mṛdam śuddhām tathā asau guru-bhaktimān .. śiraḥ ārabhya pāda-antam vilipya āditya-dṛṣṭayā .. 19 ..
समुत्थाय ततोऽसौ वै दण्डमादाय भूतले ॥ स्वगुरुं मन्त्रदम्भक्त्या संस्मरेज्ज्ञाननिष्ठया ॥ 6.20.२० ॥
समुत्थाय ततस् असौ वै दण्डम् आदाय भू-तले ॥ स्व-गुरुम् मन्त्र-दम् भक्त्या संस्मरेत् ज्ञान-निष्ठया ॥ ६।२०।२० ॥
samutthāya tatas asau vai daṇḍam ādāya bhū-tale .. sva-gurum mantra-dam bhaktyā saṃsmaret jñāna-niṣṭhayā .. 6.20.20 ..
ततस्साम्बं महेशानं शंकरं चन्द्रशेखरम्॥संस्मरेद्भक्तितश्शिष्य सर्वेश्वर्यपतिं शिवम् ॥ २१ ॥
ततस् स अम्बम् महेशानम् शंकरम् चन्द्रशेखरम्॥संस्मरेत् भक्तितः शिष्य सर्व-ईश्वर्य-पतिम् शिवम् ॥ २१ ॥
tatas sa ambam maheśānam śaṃkaram candraśekharam..saṃsmaret bhaktitaḥ śiṣya sarva-īśvarya-patim śivam .. 21 ..
त्रिवारम्प्रणमेत्प्रीत्या साष्टांगं च गुरु शिवम् ॥ पञ्चाङ्गेनैकवारञ्च समुत्थाय च वन्दयेत् ॥ २२ ॥
त्रि-वारम् प्रणमेत् प्रीत्या स अष्टांगम् च गुरु शिवम् ॥ पञ्चाङ्गेन एक-वारन् च समुत्थाय च वन्दयेत् ॥ २२ ॥
tri-vāram praṇamet prītyā sa aṣṭāṃgam ca guru śivam .. pañcāṅgena eka-vāran ca samutthāya ca vandayet .. 22 ..
तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य ताम्मृदम् ॥ स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत् ॥ २३ ॥
तीर्थम् प्रविश्य तद्-मध्ये निमज्ज्य उन्मज्ज्य ताम्मृदम् ॥ स्कन्धे संस्थाप्य पूर्व-उक्त-प्रकारेण विलेपयेत् ॥ २३ ॥
tīrtham praviśya tad-madhye nimajjya unmajjya tāmmṛdam .. skandhe saṃsthāpya pūrva-ukta-prakāreṇa vilepayet .. 23 ..
तत्रावशिष्टं संगृह्य जलमध्ये प्रविश्य च ॥ विलोड्य सम्यक् तां तत्र सर्वांगेषु विलिप्य च ॥ २४ ।
तत्र अवशिष्टम् संगृह्य जल-मध्ये प्रविश्य च ॥ विलोड्य सम्यक् ताम् तत्र सर्व-अंगेषु विलिप्य च ॥ २४ ।
tatra avaśiṣṭam saṃgṛhya jala-madhye praviśya ca .. viloḍya samyak tām tatra sarva-aṃgeṣu vilipya ca .. 24 .
त्रिवारमोमिति प्रोच्य शिवपादाम्बुजं स्मरन् ॥ संसाराम्बुधिसंतारं सदा यद्विधितो हि सः ॥ २५ ॥
त्रि-वारम् ओम् इति प्रोच्य शिव-पाद-अम्बुजम् स्मरन् ॥ संसार-अम्बुधि-संतारम् सदा यद्-विधितः हि सः ॥ २५ ॥
tri-vāram om iti procya śiva-pāda-ambujam smaran .. saṃsāra-ambudhi-saṃtāram sadā yad-vidhitaḥ hi saḥ .. 25 ..
अभिषिच्योमिति जलं विरजाभस्मलोलितम् ॥ अंगोपमार्ज्जनं कृत्वा सुस्नायाद्भस्मना ततः ॥ २६ ॥
अभिषिच्य ऊम् इति जलम् विरजा-भस्म-लोलितम् ॥ अंग-उपमार्जनम् कृत्वा सुस्नायात् भस्मना ततस् ॥ २६ ॥
abhiṣicya ūm iti jalam virajā-bhasma-lolitam .. aṃga-upamārjanam kṛtvā susnāyāt bhasmanā tatas .. 26 ..
त्रिपुंड्रं च विधायाथ यथोक्तविधिना शुभम् ॥ यथोक्तांगेषु सर्वेषु सावधान तया मुने ॥ २७ ॥
त्रिपुंड्रम् च विधाय अथ यथा उक्त-विधिना शुभम् ॥ यथा उक्त-अंगेषु सर्वेषु सावधान तया मुने ॥ २७ ॥
tripuṃḍram ca vidhāya atha yathā ukta-vidhinā śubham .. yathā ukta-aṃgeṣu sarveṣu sāvadhāna tayā mune .. 27 ..
ततश्शुद्धमना भूत्वा कुर्य्यान्मध्यंदिनक्रियाः ॥ महेश्वरं नमस्कृत्य गुरूंस्तीर्थादिकानि च ॥ २८ ॥
ततस् शुद्ध-मनाः भूत्वा कुर्य्यात् मध्यंदिन-क्रियाः ॥ महेश्वरम् नमस्कृत्य गुरून् तीर्थ-आदिकानि च ॥ २८ ॥
tatas śuddha-manāḥ bhūtvā kuryyāt madhyaṃdina-kriyāḥ .. maheśvaram namaskṛtya gurūn tīrtha-ādikāni ca .. 28 ..
सम्पूजयेन्महेशानं भक्त्या परमया मुने ॥ साम्बिकं ज्ञानदातारं पातारं त्रिभवस्य वै ॥ २९ ॥
सम्पूजयेत् महेशानम् भक्त्या परमया मुने ॥ स अम्बिकम् ज्ञान-दातारम् पातारम् त्रि-भवस्य वै ॥ २९ ॥
sampūjayet maheśānam bhaktyā paramayā mune .. sa ambikam jñāna-dātāram pātāram tri-bhavasya vai .. 29 ..
ततोसौ दृढचेतस्को यतिः स्ववृषसंस्थितः॥भिक्षार्थम्प्रव्रजेच्छुद्धो विप्रवर्गेषु साधुषु॥6.20.३०॥
ततस् असौ दृढ-चेतस्कः यतिः स्व-वृष-संस्थितः॥भिक्षा-अर्थम् प्रव्रजेत् शुद्धः विप्र-वर्गेषु साधुषु॥६।२०।३०॥
tatas asau dṛḍha-cetaskaḥ yatiḥ sva-vṛṣa-saṃsthitaḥ..bhikṣā-artham pravrajet śuddhaḥ vipra-vargeṣu sādhuṣu..6.20.30..
ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम्॥भैक्ष्यं यथोचितं कुर्य्याद्दूषितान्नं विवर्ज्जयेत् ॥ ३१ ॥
ततस् तत्र च शुद्ध-आत्मा पञ्चधा परिकल्पितम्॥भैक्ष्यम् यथोचितम् कुर्य्यात् दूषित-अन्नम् विवर्जयेत् ॥ ३१ ॥
tatas tatra ca śuddha-ātmā pañcadhā parikalpitam..bhaikṣyam yathocitam kuryyāt dūṣita-annam vivarjayet .. 31 ..
शौचं स्नानं तथा भिक्षां नित्यमेकान्तसेवनम् ॥ भिक्षौश्चत्वारि कर्म्माणि पञ्चमं नैव विद्यते ॥ ३२॥
शौचम् स्नानम् तथा भिक्षाम् नित्यम् एकान्त-सेवनम् ॥ भिक्षौः चत्वारि कर्म्माणि पञ्चमम् न एव विद्यते ॥ ३२॥
śaucam snānam tathā bhikṣām nityam ekānta-sevanam .. bhikṣauḥ catvāri karmmāṇi pañcamam na eva vidyate .. 32..
अलाबुं वेणुपात्रं च दारवम्मृण्मयन्तथा ॥ भिक्षोश्चत्त्वारि पात्राणि पञ्चमन्नैव विद्यते ॥ ३३॥
अलाबुम् वेणु-पात्रम् च दारवम् मृण्मयम् तथा ॥ भिक्षोः चत्त्वारि पात्राणि पञ्चमत् न एव विद्यते ॥ ३३॥
alābum veṇu-pātram ca dāravam mṛṇmayam tathā .. bhikṣoḥ cattvāri pātrāṇi pañcamat na eva vidyate .. 33..
ताम्बूलं तैजसम्पात्रं रेतस्सेकं सितांबरम् ॥ दिवास्वापो हि नक्तान्नं यतीनां षड्विवर्जिताः ॥ ३४॥
ताम्बूलम् तैजसम् पात्रम् रेतः-सेकम् सित-अंबरम् ॥ दिवास्वापः हि नक्त-अन्नम् यतीनाम् षष्-विवर्जिताः ॥ ३४॥
tāmbūlam taijasam pātram retaḥ-sekam sita-aṃbaram .. divāsvāpaḥ hi nakta-annam yatīnām ṣaṣ-vivarjitāḥ .. 34..
साक्षरा विपरीताश्च राक्षसास्त इति स्मृताः॥तस्माद्वै विपरीतं च कर्म्म नैवाचरेद्यतिः॥३५॥
साक्षराः विपरीताः च राक्षसाः ते इति स्मृताः॥तस्मात् वै विपरीतम् च कर्म्म न एव आचरेत् यतिः॥३५॥
sākṣarāḥ viparītāḥ ca rākṣasāḥ te iti smṛtāḥ..tasmāt vai viparītam ca karmma na eva ācaret yatiḥ..35..
यतिः प्रयत्नतः कुर्य्यात्क्षौरस्नानं च शुद्धये ॥ संस्मरन्मनसा शुद्धं परं ब्रह्म सदाशिवम् ॥ ३६॥
यतिः प्रयत्नतः कुर्य्यात् क्षौर-स्नानम् च शुद्धये ॥ संस्मरन् मनसा शुद्धम् परम् ब्रह्म सदाशिवम् ॥ ३६॥
yatiḥ prayatnataḥ kuryyāt kṣaura-snānam ca śuddhaye .. saṃsmaran manasā śuddham param brahma sadāśivam .. 36..
इत्यैव मुनिशार्द्दूल तव स्नेहान्मयाखिलः ॥ क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि ॥ ३७ ॥
मुनि-शार्द्दूल तव स्नेहात् मया अखिलः ॥ क्षौर-स्नान-विधिः प्रोक्तः किम् भूयस् श्रोतुम् इच्छसि ॥ ३७ ॥
muni-śārddūla tava snehāt mayā akhilaḥ .. kṣaura-snāna-vidhiḥ proktaḥ kim bhūyas śrotum icchasi .. 37 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां क्षौरस्नानविधिवर्णनं नाम विंशोऽध्यायः ॥ २०॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् क्षौरस्नानविधिवर्णनम् नाम विंशः अध्यायः ॥ २०॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām kṣaurasnānavidhivarṇanam nāma viṃśaḥ adhyāyaḥ .. 20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In