| |
|

This overlay will guide you through the buttons:

।। सुब्रह्मण्य उवाच ।।
एकादशेह्नि सम्प्राप्ते यो विधिस्समुदाहृतः ॥ तं वक्ष्ये मुनिशार्दूल यतीनां स्नेहतस्तव ॥ १ ॥
एकादश-इह्नि सम्प्राप्ते यः विधिः समुदाहृतः ॥ तम् वक्ष्ये मुनि-शार्दूल यतीनाम् स्नेहतः तव ॥ १ ॥
ekādaśa-ihni samprāpte yaḥ vidhiḥ samudāhṛtaḥ .. tam vakṣye muni-śārdūla yatīnām snehataḥ tava .. 1 ..
सम्मार्ज्य वेदीमालिप्य कृत्वा पुण्याहवाचनम् ॥ प्रोक्ष्य पश्चिममारभ्य पूर्वान्तम्पञ्च च क्रमात्॥२॥
सम्मार्ज्य वेदीम् आलिप्य कृत्वा पुण्य-अह-वाचनम् ॥ प्रोक्ष्य पश्चिमम् आरभ्य पूर्व-अन्तम् पञ्च च क्रमात्॥२॥
sammārjya vedīm ālipya kṛtvā puṇya-aha-vācanam .. prokṣya paścimam ārabhya pūrva-antam pañca ca kramāt..2..
मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः॥प्रादेशमात्रं संकल्प्य चतुरस्रं च मध्यतः ॥ ३॥
मण्डलानि उत्तराशा-आस्यः कुर्यात् स्वयम् अवस्थितः॥प्रादेश-मात्रम् संकल्प्य चतुर्-अस्रम् च मध्यतः ॥ ३॥
maṇḍalāni uttarāśā-āsyaḥ kuryāt svayam avasthitaḥ..prādeśa-mātram saṃkalpya catur-asram ca madhyataḥ .. 3..
बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ॥ शंखं च पुरतस्थाप्य पूजोक्तक्रममार्गतः ॥ ४॥
बिन्दु-त्रिकोण-षट्कोण-वृत्त-आकाराणि च क्रमात् ॥ शंखम् च पुरतस् स्थाप्य पूजा-उक्त-क्रम-मार्गतः ॥ ४॥
bindu-trikoṇa-ṣaṭkoṇa-vṛtta-ākārāṇi ca kramāt .. śaṃkham ca puratas sthāpya pūjā-ukta-krama-mārgataḥ .. 4..
प्राणानायम्य संकल्प्य पूजयित्वा सुरेश्वरी ॥ देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः ॥ ५ ॥
प्राणान् आयम्य संकल्प्य पूजयित्वा सुरेश्वरी ॥ देवताः पञ्च पूर्व-उक्ताः अतिवाहिक-रूपिणीः ॥ ५ ॥
prāṇān āyamya saṃkalpya pūjayitvā sureśvarī .. devatāḥ pañca pūrva-uktāḥ ativāhika-rūpiṇīḥ .. 5 ..
संत्यज्योत्तरतो दर्भान् यश्च संस्पृशते ततः ॥ पश्चिमादि समारभ्य षडुत्थासनमार्गतः ॥ ६॥
संत्यज्य उत्तरतस् दर्भान् यः च संस्पृशते ततस् ॥ पश्चिम-आदि समारभ्य षष्-उत्थ-आसन-मार्गतः ॥ ६॥
saṃtyajya uttaratas darbhān yaḥ ca saṃspṛśate tatas .. paścima-ādi samārabhya ṣaṣ-uttha-āsana-mārgataḥ .. 6..
मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ॥ ॐ ह्री मित्युक्त्वाग्निरूपान्तामतिवाहिकदेवताम् ॥ ७ ॥
maṇḍalāni ca teṣvantaḥ puṣpāṇyādhāya pīṭhavat || ॐ hrī mityuktvāgnirūpāntāmativāhikadevatām || 7 ||
maṇḍalāni ca teṣvantaḥ puṣpāṇyādhāya pīṭhavat || oṃ hrī mityuktvāgnirūpāntāmativāhikadevatām || 7 ||
आवाहयामि नम इत्यन्तं सर्वत्र भावयेत् ॥ दर्शयेत्स्थापनाद्यास्तु मुद्राः प्रत्येकमादरात् ॥ ८ ॥
आवाहयामि नमः इत्यन्तम् सर्वत्र भावयेत् ॥ दर्शयेत् स्थापन-आद्याः तु मुद्राः प्रत्येकम् आदरात् ॥ ८ ॥
āvāhayāmi namaḥ ityantam sarvatra bhāvayet .. darśayet sthāpana-ādyāḥ tu mudrāḥ pratyekam ādarāt .. 8 ..
ह्रांह्रीमित्यादिना कुर्य्यादासामंगानि च क्रमात् ॥ पाशांकुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः ॥ ९ ॥
ह्रां ह्रीम् इत्यादिना कुर्यात् आसाम् अंगानि च क्रमात् ॥ पाश-अंकुश-अभय-अभीष्टपाणि-चन्द्रोपल-प्रभाः ॥ ९ ॥
hrāṃ hrīm ityādinā kuryāt āsām aṃgāni ca kramāt .. pāśa-aṃkuśa-abhaya-abhīṣṭapāṇi-candropala-prabhāḥ .. 9 ..
रक्तांगुलीयकच्छायरञ्जिताखिलदिङ्मुखा ॥ रक्ताम्बरधराः कारपदपंकजशोभिताः ॥ 6.22.१०॥
रक्त-अंगुलीयक-छाय-रञ्जित-अखिल-दिङ्मुखा ॥ रक्त-अम्बर-धराः कार-पद-पंकज-शोभिताः ॥ ६।२२।१०॥
rakta-aṃgulīyaka-chāya-rañjita-akhila-diṅmukhā .. rakta-ambara-dharāḥ kāra-pada-paṃkaja-śobhitāḥ .. 6.22.10..
त्रिनेत्रोल्लासिवदनपूर्णचन्द्रमनोहराः ॥ माणिक्य मुकुटोद्भासिचन्द्रलेखावतंसिताः॥११॥
त्रिनेत्र-उल्लासि-वदन-पूर्ण-चन्द्र-मनोहराः ॥ माणिक्य-मुकुट-उद्भासि-चन्द्रलेखा-अवतंसिताः॥११॥
trinetra-ullāsi-vadana-pūrṇa-candra-manoharāḥ .. māṇikya-mukuṭa-udbhāsi-candralekhā-avataṃsitāḥ..11..
कुण्डलामृष्टगण्डाश्च पीनोन्नतपयोधराः ॥ हारकेयूरकटककांचीदाममनोहराः ॥ १२॥
कुण्डल-आमृष्ट-गण्डाः च पीन-उन्नत-पयोधराः ॥ हार-केयूर-कटक-कांची-दाम-मनोहराः ॥ १२॥
kuṇḍala-āmṛṣṭa-gaṇḍāḥ ca pīna-unnata-payodharāḥ .. hāra-keyūra-kaṭaka-kāṃcī-dāma-manoharāḥ .. 12..
तनुमध्याः पृथुश्रोण्यो रक्तदिव्याम्बरावृताः ॥ माणिक्यमयमंजीरसिंजत्पदसरोरुहाः॥पादांगुलीयकश्रोणीर्मंजुलातिमनोहराः॥१३॥
तनु-मध्याः पृथु-श्रोण्यः रक्त-दिव्य-अम्बर-आवृताः ॥ माणिक्य-मय-मंजीर-सिंजत्-पद-सरोरुहाः॥पाद-अंगुलीयक-श्रोणीः मंजुल-अति मनोहराः॥१३॥
tanu-madhyāḥ pṛthu-śroṇyaḥ rakta-divya-ambara-āvṛtāḥ .. māṇikya-maya-maṃjīra-siṃjat-pada-saroruhāḥ..pāda-aṃgulīyaka-śroṇīḥ maṃjula-ati manoharāḥ..13..
अनुग्रहेण मूर्तेन शिववत्किं नु साध्यते॥तस्माच्छक्त्यात्ममूर्तेन सर्वं साध्यं महेशवत् ॥ १४॥
अनुग्रहेण मूर्तेन शिव-वत् किम् नु साध्यते॥तस्मात् शक्त्या आत्म-मूर्तेन सर्वम् साध्यम् महेश-वत् ॥ १४॥
anugraheṇa mūrtena śiva-vat kim nu sādhyate..tasmāt śaktyā ātma-mūrtena sarvam sādhyam maheśa-vat .. 14..
सर्वानुग्रहकर्त्रैव स्वीकृताः पंचमूर्तय॥सर्वकार्य्यकरा दिव्याः परानुग्रहतत्पराः॥१५॥
सर्व-अनुग्रह-कर्त्रा एव स्वीकृताः॥सर्व-कार्य्य-कराः दिव्याः पर-अनुग्रह-तत्पराः॥१५॥
sarva-anugraha-kartrā eva svīkṛtāḥ..sarva-kāryya-karāḥ divyāḥ para-anugraha-tatparāḥ..15..
एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराश्शिवाः ॥ पादयोः पाद्यमेतासां दद्याच्छंखोदबिन्दुभिः ॥ १६॥
एवम् ध्यात्वा तु ताः सर्वाः अनुग्रह-पराः शिवाः ॥ पादयोः पाद्यम् एतासाम् दद्यात् शंख-उद-बिन्दुभिः ॥ १६॥
evam dhyātvā tu tāḥ sarvāḥ anugraha-parāḥ śivāḥ .. pādayoḥ pādyam etāsām dadyāt śaṃkha-uda-bindubhiḥ .. 16..
हस्तेष्वाचमनीयं च मौलिष्वर्घ्यं प्रदापयेत्॥शंखोद बिन्दुभिस्तासां स्नानकर्म च भावयेत्॥१७॥
हस्तेषु आचमनीयम् च मौलिषु अर्घ्यम् प्रदापयेत्॥शंख-उद बिन्दुभिः तासाम् स्नान-कर्म च भावयेत्॥१७॥
hasteṣu ācamanīyam ca mauliṣu arghyam pradāpayet..śaṃkha-uda bindubhiḥ tāsām snāna-karma ca bhāvayet..17..
रक्ताम्बराणि दिव्यानि सोत्तरीयाणि दापयेत् ॥ मुकुटादीन्यनर्घ्याणि दद्यादाभरणानि च॥१८॥
रक्त-अम्बराणि दिव्यानि स उत्तरीयाणि दापयेत् ॥ मुकुट-आदीनि अनर्घ्याणि दद्यात् आभरणानि च॥१८॥
rakta-ambarāṇi divyāni sa uttarīyāṇi dāpayet .. mukuṭa-ādīni anarghyāṇi dadyāt ābharaṇāni ca..18..
सुवासितं च श्रीखण्डमक्षतांश्चातिशोभनान्॥सुरभीणि मनोज्ञानि कुसुमानि च दापयेत् ॥ १९॥
सु वासितम् च श्रीखण्डम् अक्षतान् च अति शोभनान्॥सुरभीणि मनोज्ञानि कुसुमानि च दापयेत् ॥ १९॥
su vāsitam ca śrīkhaṇḍam akṣatān ca ati śobhanān..surabhīṇi manojñāni kusumāni ca dāpayet .. 19..
धूपं च परमामोदं साज्यवर्ति च दीपकम्॥सर्वं समर्पयामीति प्रणवं ह्रीमुपक्रमात् ॥ 6.22.२०॥
धूपम् च परम-आमोदम् स आज्य-वर्ति च दीपकम्॥सर्वम् समर्पयामि इति प्रणवम् ह्रीम् उपक्रमात् ॥ ६।२२।२०॥
dhūpam ca parama-āmodam sa ājya-varti ca dīpakam..sarvam samarpayāmi iti praṇavam hrīm upakramāt .. 6.22.20..
नमोऽन्तंचततोदद्यात्पायस्तमधुनाप्लुतम्॥साज्यशर्करयापूपकदलीगुडपूरितम्॥२१॥
नमः-अन्तम् च ततस् दद्यात् पायः तम् अधुना आप्लुतम्॥स आज्य-शर्करया अपूप-कदली-गुड-पूरितम्॥२१॥
namaḥ-antam ca tatas dadyāt pāyaḥ tam adhunā āplutam..sa ājya-śarkarayā apūpa-kadalī-guḍa-pūritam..21..
प्रत्येकं कदलीपत्रे भरितं च सुवासितम् ॥ भूर्भुवस्स्वरिति प्रोच्य प्रोक्ष्णादीनि कारयेत ॥ २२॥
प्रत्येकम् कदली-पत्रे भरितम् च सु वासितम् ॥ भूः भुवः स्वर् इति प्रोच्य प्रोक्ष्णा आदीनि कारयेत ॥ २२॥
pratyekam kadalī-patre bharitam ca su vāsitam .. bhūḥ bhuvaḥ svar iti procya prokṣṇā ādīni kārayeta .. 22..
ॐ ह्रीमिति समुच्चार्य्य नैवेद्यं वह्निजायया ॥ पानीयं नम इत्युक्त्वा परम्प्रेम्णा समर्पयेत् ॥ २३॥
ओम् ह्रीं इति समुच्चार्य नैवेद्यम् वह्निजायया ॥ पानीयम् नमः इति उक्त्वा परम्प्रेम्णा समर्पयेत् ॥ २३॥
om hrīṃ iti samuccārya naivedyam vahnijāyayā .. pānīyam namaḥ iti uktvā parampremṇā samarpayet .. 23..
तत उद्वासयेत्प्रीत्या पूर्वतो मुनिसत्तम ॥ स्थलं विशोध्य गंडूषाचमनार्घ्याणि दापयेत् ॥ २४ ॥
ततस् उद्वासयेत् प्रीत्या पूर्वतस् मुनि-सत्तम ॥ स्थलम् विशोध्य गंडूष-आचमन-अर्घ्याणि दापयेत् ॥ २४ ॥
tatas udvāsayet prītyā pūrvatas muni-sattama .. sthalam viśodhya gaṃḍūṣa-ācamana-arghyāṇi dāpayet .. 24 ..
तांबूलं धूप दीपौ च प्रदक्षिणनमस्कृती ॥ विधाय प्रार्थयेदेताश्शिरस्यंजलिमादधत्॥२५॥
तांबूलम् धूप दीपौ च प्रदक्षिण-नमस्कृती ॥ विधाय प्रार्थयेत् एताः शिरसि अंजलिम् आदधत्॥२५॥
tāṃbūlam dhūpa dīpau ca pradakṣiṇa-namaskṛtī .. vidhāya prārthayet etāḥ śirasi aṃjalim ādadhat..25..
श्रीमातरस्सुप्रसन्ना यतिं शिवपदैषिणम्॥रक्षणीय म्प्रब्रुवन्तु परमेशपदाब्जयोः॥२६॥
श्री-मातरः सु प्रसन्नाः यतिम् शिव-पद-एषिणम्॥रक्षणीय प्रब्रुवन्तु परमेश-पद-अब्जयोः॥२६॥
śrī-mātaraḥ su prasannāḥ yatim śiva-pada-eṣiṇam..rakṣaṇīya prabruvantu parameśa-pada-abjayoḥ..26..
इति संप्रार्थ्य तास्सर्वा विसृज्य च यथागतम्॥तासाम्प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत ॥ २७॥
इति संप्रार्थ्य ताः सर्वाः विसृज्य च यथागतम्॥तासाम् प्रसादम् उद्धृत्य कन्यकाभ्यः प्रदापयेत ॥ २७॥
iti saṃprārthya tāḥ sarvāḥ visṛjya ca yathāgatam..tāsām prasādam uddhṛtya kanyakābhyaḥ pradāpayeta .. 27..
गोभ्यो वा जलमध्ये वा निक्षिपेन्नान्यथा क्वचित् ॥ अत्रैव पार्वणं कुर्य्यान्नैकोद्दिष्टं यतेः क्वचित् ॥ २८॥
गोभ्यः वा जल-मध्ये वा निक्षिपेत् न अन्यथा क्वचिद् ॥ अत्र एव पार्वणम् कुर्य्यात् न एकोद्दिष्टम् यतेः क्वचिद् ॥ २८॥
gobhyaḥ vā jala-madhye vā nikṣipet na anyathā kvacid .. atra eva pārvaṇam kuryyāt na ekoddiṣṭam yateḥ kvacid .. 28..
अत्रायं पार्वणश्राद्धे नियमः प्रोच्यते मया ॥ तं शृणुष्व मुनिश्रेष्ठ येन श्रेयो भवेत्ततः॥२९॥
अत्रा अयम् पार्वण-श्राद्धे नियमः प्रोच्यते मया ॥ तम् शृणुष्व मुनि-श्रेष्ठ येन श्रेयः भवेत् ततस्॥२९॥
atrā ayam pārvaṇa-śrāddhe niyamaḥ procyate mayā .. tam śṛṇuṣva muni-śreṣṭha yena śreyaḥ bhavet tatas..29..
कर्ता स्नात्वा धृतप्राण उपवीती समाहितः॥सपवित्रकरस्त्वस्यां पुण्यतिथ्यामिति ब्रुवन् ॥ 6.22.३०॥
कर्ता स्नात्वा धृत-प्राणः उपवीती समाहितः॥स पवित्र-करः तु अस्याम् पुण्य-तिथ्याम् इति ब्रुवन् ॥ ६।२२।३०॥
kartā snātvā dhṛta-prāṇaḥ upavītī samāhitaḥ..sa pavitra-karaḥ tu asyām puṇya-tithyām iti bruvan .. 6.22.30..
करिष्ये पार्वणं श्राद्धमिति संकल्प्य चोत्तरे ॥ दद्याद्दर्भानुत्तमांश्च ह्यासनार्थं जलं स्पृशेत्॥३१॥
करिष्ये पार्वणम् श्राद्धम् इति संकल्प्य च उत्तरे ॥ दद्यात् दर्भान् उत्तमान् च हि आसन-अर्थम् जलम् स्पृशेत्॥३१॥
kariṣye pārvaṇam śrāddham iti saṃkalpya ca uttare .. dadyāt darbhān uttamān ca hi āsana-artham jalam spṛśet..31..
तत्रोपवेशयेद्भक्त्या साभ्यंगं कृतमज्जनान् ॥ आहूय चतुरो विप्राञ्छिवभक्तान्दृढव्रतान् ॥ ३२ ॥
तत्र उपवेशयेत् भक्त्या स अभ्यंगम् कृत-मज्जनान् ॥ आहूय चतुरः विप्रान् शिव-भक्तान् दृढ-व्रतान् ॥ ३२ ॥
tatra upaveśayet bhaktyā sa abhyaṃgam kṛta-majjanān .. āhūya caturaḥ viprān śiva-bhaktān dṛḍha-vratān .. 32 ..
विश्वेदेवार्थं भवता प्रसादः क्रियतामिति ॥ आत्मने भवता पश्चादन्तरात्मन इत्यपि ॥ ३३ ॥
विश्वेदेव-अर्थम् भवता प्रसादः क्रियताम् इति ॥ आत्मने भवता पश्चात् अन्तरात्मने इति अपि ॥ ३३ ॥
viśvedeva-artham bhavatā prasādaḥ kriyatām iti .. ātmane bhavatā paścāt antarātmane iti api .. 33 ..
परमात्मन इत्येवं प्रोच्य प्रार्थ्यं च तान्यतिः ॥ श्रद्धया चरणन्तेषां कुर्य्याद्याथार्थ्यमादरात् ॥ ३४॥
परमात्मनः इति एवम् प्रोच्य प्रार्थ्यम् च तानि अतिः ॥ श्रद्धया चरणम् तेषाम् कुर्यात् याथार्थ्यम् आदरात् ॥ ३४॥
paramātmanaḥ iti evam procya prārthyam ca tāni atiḥ .. śraddhayā caraṇam teṣām kuryāt yāthārthyam ādarāt .. 34..
पादौ प्रक्षाल्य तेषान्तु प्राङ्मुखानुपवेश्य च ॥ गन्धादिभिरलंकृत्य भोजयेच्च शिवा ग्रतः ॥ ३५॥
पादौ प्रक्षाल्य तेषाम् तु प्राच्-मुखान् उपवेश्य च ॥ गन्ध-आदिभिः अलंकृत्य भोजयेत् च शिवा ग्रतस् ॥ ३५॥
pādau prakṣālya teṣām tu prāc-mukhān upaveśya ca .. gandha-ādibhiḥ alaṃkṛtya bhojayet ca śivā gratas .. 35..
गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ॥ आस्तीर्य्य संयतप्राणः पिण्डानां च प्रदानकम् ॥ ३६॥
गोमयेन उपलिप्य अत्र दर्भान् प्राच्-अग्र-कल्पितान् ॥ आस्तीर्य्य संयत-प्राणः पिण्डानाम् च प्रदानकम् ॥ ३६॥
gomayena upalipya atra darbhān prāc-agra-kalpitān .. āstīryya saṃyata-prāṇaḥ piṇḍānām ca pradānakam .. 36..
करिष्य इति संकल्प्य मण्डलत्रयमर्च्य च ॥ आत्मानमन्तरात्मानं परमात्मनमप्यतः ॥ ३७॥
करिष्ये इति संकल्प्य मण्डल-त्रयम् अर्च्य च ॥ आत्मानम् अन्तरात्मानम् परमात्मनम् अपि अतस् ॥ ३७॥
kariṣye iti saṃkalpya maṇḍala-trayam arcya ca .. ātmānam antarātmānam paramātmanam api atas .. 37..
चतुर्थ्यन्तं वदन्पश्चादिमं पिण्डमितीरयन् ॥ ददामीति च सम्प्रोच्य दद्यात्पिण्डान्स्वभक्तितः ॥ ३८॥
चतुर्थी-अन्तम् वदन् पश्चात् इमम् पिण्डम् इति ईरयन् ॥ ददामि इति च सम्प्रोच्य दद्यात् पिण्डान् स्व-भक्तितः ॥ ३८॥
caturthī-antam vadan paścāt imam piṇḍam iti īrayan .. dadāmi iti ca samprocya dadyāt piṇḍān sva-bhaktitaḥ .. 38..
कुशोदकं ततो दद्याद्यथाविधिविधानतः ॥ तत उत्थाप्य वै कुर्य्यात्प्रदक्षिणनमस्कृती ॥ ३९ ॥
कुश-उदकम् ततस् दद्यात् यथाविधि विधानतः ॥ ततस् उत्थाप्य वै कुर्य्यात् प्रदक्षिण-नमस्कृती ॥ ३९ ॥
kuśa-udakam tatas dadyāt yathāvidhi vidhānataḥ .. tatas utthāpya vai kuryyāt pradakṣiṇa-namaskṛtī .. 39 ..
ततो दत्त्वा ब्राह्मणेभ्यो दक्षिणां च यथाविधि ॥ नारायणबलिं कुर्य्यात्तस्मिन्नेव स्थले दिने ॥ 6.22.४० ॥
ततस् दत्त्वा ब्राह्मणेभ्यः दक्षिणाम् च यथाविधि ॥ नारायणबलिम् कुर्य्यात् तस्मिन् एव स्थले दिने ॥ ६।२२।४० ॥
tatas dattvā brāhmaṇebhyaḥ dakṣiṇām ca yathāvidhi .. nārāyaṇabalim kuryyāt tasmin eva sthale dine .. 6.22.40 ..
रक्षार्थमेव सर्वत्र विष्णोः पूजाविधिः स्मृतः ॥ कुर्य्याद्विष्णोर्महापूजां पायसान्नं निवेदयेत्॥४१॥
रक्षा-अर्थम् एव सर्वत्र विष्णोः पूजा-विधिः स्मृतः ॥ कुर्य्यात् विष्णोः महा-पूजाम् पायस-अन्नम् निवेदयेत्॥४१॥
rakṣā-artham eva sarvatra viṣṇoḥ pūjā-vidhiḥ smṛtaḥ .. kuryyāt viṣṇoḥ mahā-pūjām pāyasa-annam nivedayet..41..
द्वादशाथ समाहूय ब्राह्मणान्वेदपारगान् ॥ केशवादिभिरभ्यर्च्य गन्धपुष्पाक्षतादिभिः ॥ ४२॥
द्वादश अथ समाहूय ब्राह्मणान् वेदपारगान् ॥ केशव-आदिभिः अभ्यर्च्य गन्ध-पुष्प-अक्षत-आदिभिः ॥ ४२॥
dvādaśa atha samāhūya brāhmaṇān vedapāragān .. keśava-ādibhiḥ abhyarcya gandha-puṣpa-akṣata-ādibhiḥ .. 42..
उपानच्छत्रवस्त्रादि दत्त्वा तेभ्यो यथाविधि ॥ सन्तोषयेन्महाभक्त्या विविधैर्वच नैश्शुभैः ॥ ४३॥
उपानह् छत्र-वस्त्र-आदि दत्त्वा तेभ्यः यथाविधि ॥ सन्तोषयेत् महा-भक्त्या विविधैः वच शुभैः ॥ ४३॥
upānah chatra-vastra-ādi dattvā tebhyaḥ yathāvidhi .. santoṣayet mahā-bhaktyā vividhaiḥ vaca śubhaiḥ .. 43..
आस्तीर्य्य दर्भान्पूर्वाग्रान्भूस्स्वाहा च भुवस्सुवः ॥ प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत् ॥ ४४॥
आस्तीर्य दर्भान् पूर्व-अग्रान् भूः स्वाहा च भुवः सुवर् ॥ प्रणव-आदि प्रोच्य भूमौ पायस-अन्नम् बलिम् हरेत् ॥ ४४॥
āstīrya darbhān pūrva-agrān bhūḥ svāhā ca bhuvaḥ suvar .. praṇava-ādi procya bhūmau pāyasa-annam balim haret .. 44..
एकादशाह सुविधिर्मया प्रोक्तो मुनीश्वर ॥ द्वादशाहविधिं वक्ष्ये शृणुष्वादरतो द्विज ॥ ४५॥
एकादश-अह सु विधिः मया प्रोक्तः मुनि-ईश्वर ॥ द्वादश-अह-विधिम् वक्ष्ये शृणुष्व आदरतः द्विज ॥ ४५॥
ekādaśa-aha su vidhiḥ mayā proktaḥ muni-īśvara .. dvādaśa-aha-vidhim vakṣye śṛṇuṣva ādarataḥ dvija .. 45..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनामेकादशाहकृत्यवर्णनन्नाम द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् यतीनाम् एकादशाहकृत्यवर्णनम् नाम द्वाविंशः अध्यायः ॥ २२ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām yatīnām ekādaśāhakṛtyavarṇanam nāma dvāviṃśaḥ adhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In