| |
|

This overlay will guide you through the buttons:

।। ईश्वर उवाच ।।
शृणु देवि प्रवक्ष्यामि यन्मां त्वम्परि पृच्छसि ॥ तस्य श्रवणमात्रेण जीवस्साक्षाच्छिवो भवेत् ॥ १ ॥
शृणु देवि प्रवक्ष्यामि यत् माम् त्वम् परि पृच्छसि ॥ तस्य श्रवण-मात्रेण जीवः साक्षात् शिवः भवेत् ॥ १ ॥
śṛṇu devi pravakṣyāmi yat mām tvam pari pṛcchasi .. tasya śravaṇa-mātreṇa jīvaḥ sākṣāt śivaḥ bhavet .. 1 ..
प्रणवार्थपरिज्ञानमेव ज्ञानं मदात्मकम् ॥ बीजन्तत्सर्वविद्यानां मंत्र म्प्रणवनामकम् ॥ २ ॥
प्रणव-अर्थ-परिज्ञानम् एव ज्ञानम् मद्-आत्मकम् ॥ बीजम् तत् सर्व-विद्यानाम् मंत्र प्रणव-नामकम् ॥ २ ॥
praṇava-artha-parijñānam eva jñānam mad-ātmakam .. bījam tat sarva-vidyānām maṃtra praṇava-nāmakam .. 2 ..
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ वेदादि वेदसारं च मद्रूपं च विशेषतः ॥ ३ ॥
अति सूक्ष्मम् महार्थम् च ज्ञेयम् तत् वट-बीज-वत् ॥ वेद-आदि वेद-सारम् च मद्-रूपम् च विशेषतः ॥ ३ ॥
ati sūkṣmam mahārtham ca jñeyam tat vaṭa-bīja-vat .. veda-ādi veda-sāram ca mad-rūpam ca viśeṣataḥ .. 3 ..
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ओमित्येकाक्षरे मंत्रे स्थितोहं सर्वगश्शिवः ॥ ४॥
॥ ओम् इति एकाक्षरे मंत्रे स्थितः उहम् सर्वगः शिवः ॥ ४॥
.. om iti ekākṣare maṃtre sthitaḥ uham sarvagaḥ śivaḥ .. 4..
यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ॥ समस्तं व्यस्त मपि च प्रणवार्थं प्रचक्षते॥५॥
यत् अस्ति वस्तु तत् सर्वम् गुण-प्राधान्य-योगतः ॥ समस्तम् व्यस्तम् अपि च प्रणव-अर्थम् प्रचक्षते॥५॥
yat asti vastu tat sarvam guṇa-prādhānya-yogataḥ .. samastam vyastam api ca praṇava-artham pracakṣate..5..
सर्वार्थसाधकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ तेनोमिति जगत्कृस्नं कुरुते प्रथमं शिवः॥६॥
सर्व-अर्थ-साधकम् तस्मात् एकम् ब्रह्म एतत् अक्षरम् ॥ तेन ऊम् इति जगत् कृस्नम् कुरुते प्रथमम् शिवः॥६॥
sarva-artha-sādhakam tasmāt ekam brahma etat akṣaram .. tena ūm iti jagat kṛsnam kurute prathamam śivaḥ..6..
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ॥ वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ ७॥
शिवः वा प्रणवः हि एष प्रणवः वा शिवः स्मृतः ॥ वाच्य-वाचकयोः भेदः न अत्यंतम् विद्यते यतस् ॥ ७॥
śivaḥ vā praṇavaḥ hi eṣa praṇavaḥ vā śivaḥ smṛtaḥ .. vācya-vācakayoḥ bhedaḥ na atyaṃtam vidyate yatas .. 7..
तस्मादेकाक्षरं देवं मां च ब्रह्मर्षयो विदुः ॥ वाच्यवाचकयोरैक्यं मन्यमाना विपश्चितः ॥ ८ ॥
तस्मात् एकाक्षरम् देवम् माम् च ब्रह्मर्षयः विदुः ॥ वाच्य-वाचकयोः ऐक्यम् मन्यमानाः विपश्चितः ॥ ८ ॥
tasmāt ekākṣaram devam mām ca brahmarṣayaḥ viduḥ .. vācya-vācakayoḥ aikyam manyamānāḥ vipaścitaḥ .. 8 ..
अतस्तदेव जानीयात्प्रणवं सर्वकारणम् ॥ निर्विकारी मुमुक्षुर्मां निर्गुणं परमेश्वरम्॥९॥
अतस् तत् एव जानीयात् प्रणवम् सर्व-कारणम् ॥ निर्विकारी मुमुक्षुः माम् निर्गुणम् परमेश्वरम्॥९॥
atas tat eva jānīyāt praṇavam sarva-kāraṇam .. nirvikārī mumukṣuḥ mām nirguṇam parameśvaram..9..
एनमेव हि देवेशि सर्वमंत्रशिरोमणिम् ॥ काश्यामहं प्रदास्यामि जीवानां मुक्तिहेतवे ॥ 6.3.१० ॥
एनम् एव हि देवेशि सर्व-मंत्र-शिरोमणिम् ॥ काश्याम् अहम् प्रदास्यामि जीवानाम् मुक्ति-हेतवे ॥ ६।३।१० ॥
enam eva hi deveśi sarva-maṃtra-śiromaṇim .. kāśyām aham pradāsyāmi jīvānām mukti-hetave .. 6.3.10 ..
तत्रादौ सम्प्रवक्ष्यामि प्रणवोद्धारमम्बिके ॥ यस्य विज्ञानमात्रेण सिद्धिश्च परमा भवेत् ॥ ११॥
तत्र आदौ सम्प्रवक्ष्यामि प्रणव-उद्धारम् अम्बिके ॥ यस्य विज्ञान-मात्रेण सिद्धिः च परमा भवेत् ॥ ११॥
tatra ādau sampravakṣyāmi praṇava-uddhāram ambike .. yasya vijñāna-mātreṇa siddhiḥ ca paramā bhavet .. 11..
निवृत्तिमुद्धरेत्पूर्वमिन्धनं च ततः परम् ॥ कालं समुद्धरेत्पश्चाद्दंडमीश्वरमेव च ॥ १२ ॥
निवृत्तिम् उद्धरेत् पूर्वम् इन्धनम् च ततस् परम् ॥ कालम् समुद्धरेत् पश्चात् दंडम् ईश्वरम् एव च ॥ १२ ॥
nivṛttim uddharet pūrvam indhanam ca tatas param .. kālam samuddharet paścāt daṃḍam īśvaram eva ca .. 12 ..
वर्णपंचकरूपोयमेवं प्रणव उद्धृतः ॥ त्रिमात्रबिन्दुनादात्मा मुक्तिदो जपतां सदा ॥ १३ ॥
वर्ण-पंचक-रूपः यम् एवम् प्रणवः उद्धृतः ॥ त्रि-मात्र-बिन्दु-नाद-आत्मा मुक्ति-दः जपताम् सदा ॥ १३ ॥
varṇa-paṃcaka-rūpaḥ yam evam praṇavaḥ uddhṛtaḥ .. tri-mātra-bindu-nāda-ātmā mukti-daḥ japatām sadā .. 13 ..
ब्रह्मादिस्थावरान्तानां सर्वेषां प्राणिनां खलु ॥ प्राणः प्रणव एवायं तस्मात्प्रणव ईरितः ॥ १४ ॥
ब्रह्म-आदि-स्थावर-अन्तानाम् सर्वेषाम् प्राणिनाम् खलु ॥ प्राणः प्रणवः एव अयम् तस्मात् प्रणवः ईरितः ॥ १४ ॥
brahma-ādi-sthāvara-antānām sarveṣām prāṇinām khalu .. prāṇaḥ praṇavaḥ eva ayam tasmāt praṇavaḥ īritaḥ .. 14 ..
आद्यम्वर्णमकारं च उकारमुत्तरे ततः ॥ मकारं मध्यतश्चैव नादांतं तस्य चोमिति ॥ १५ ॥
आद्यम् वर्णम् अकारम् च उकारम् उत्तरे ततस् ॥ मकारम् मध्यतस् च एव नाद-अंतम् तस्य च ऊम् इति ॥ १५ ॥
ādyam varṇam akāram ca ukāram uttare tatas .. makāram madhyatas ca eva nāda-aṃtam tasya ca ūm iti .. 15 ..
जलवद्वर्णमाद्यन्तु दक्षिणे चोत्तरे तथा ॥ मध्ये मकारं शुचिवदोंकारे मुनिसत्तम ॥ ॥ १६ ॥
जलवत्-वर्णम् आद्यन्तु दक्षिणे च उत्तरे तथा ॥ मध्ये मकारम् शुचि-वत् ओंकारे मुनि-सत्तम ॥ ॥ १६ ॥
jalavat-varṇam ādyantu dakṣiṇe ca uttare tathā .. madhye makāram śuci-vat oṃkāre muni-sattama .. .. 16 ..
अकारश्चाप्युकारोयं मकाराश्च त्रयं क्रमात् ॥ तिस्रो मात्रास्समाख्याता अर्द्धमात्रा ततः परम् ॥ १७ ॥
अकारः च अपि उकारः इयम् मकाराः च त्रयम् क्रमात् ॥ तिस्रः मात्राः समाख्याताः अर्द्ध-मात्रा ततस् परम् ॥ १७ ॥
akāraḥ ca api ukāraḥ iyam makārāḥ ca trayam kramāt .. tisraḥ mātrāḥ samākhyātāḥ arddha-mātrā tatas param .. 17 ..
अर्द्धमात्रा महेशानि बिन्दुनादस्वरूपिणी ॥ वर्णनीया न वै चाद्धा ज्ञेया ज्ञानिभिरेव सा ॥ १८ ॥
अर्द्ध-मात्रा महेशानि बिन्दु-नाद-स्वरूपिणी ॥ वर्णनीया न वै च अद्धा ज्ञेया ज्ञानिभिः एव सा ॥ १८ ॥
arddha-mātrā maheśāni bindu-nāda-svarūpiṇī .. varṇanīyā na vai ca addhā jñeyā jñānibhiḥ eva sā .. 18 ..
ईशानस्सर्वविद्यानामित्यद्याश्श्रुतयः प्रिये ॥ मत्त एव भवन्तीति वेदास्सत्यम्वदन्ति हि॥१९॥
ईशानः सर्व-विद्यानाम् इति अद्याः श्रुतयः प्रिये ॥ मत्तः एव भवन्ति इति वेदाः सत्यम् वदन्ति हि॥१९॥
īśānaḥ sarva-vidyānām iti adyāḥ śrutayaḥ priye .. mattaḥ eva bhavanti iti vedāḥ satyam vadanti hi..19..
तस्माद्वेदादिरेवाहं प्रणवो मम वाचकः॥वाचकत्वान्ममैषोऽपि वेदादिरिति कथ्यते ॥ 6.3.२०॥
तस्मात् वेद-आदिः एव अहम् प्रणवः मम वाचकः॥वाचक-त्वात् मम एषः अपि वेद-आदिः इति कथ्यते ॥ ६।३।२०॥
tasmāt veda-ādiḥ eva aham praṇavaḥ mama vācakaḥ..vācaka-tvāt mama eṣaḥ api veda-ādiḥ iti kathyate .. 6.3.20..
अकारस्तु महद्बीजं रजस्स्रष्टा चतुर्मुखः॥उकारः प्रकृतिर्योनिस्सत्त्वं पालयिता हरिः॥२१॥
अकारः तु महत् बीजम् रजः-स्रष्टा चतुर्मुखः॥उकारः प्रकृतिः योनिः सत्त्वम् पालयिता हरिः॥२१॥
akāraḥ tu mahat bījam rajaḥ-sraṣṭā caturmukhaḥ..ukāraḥ prakṛtiḥ yoniḥ sattvam pālayitā hariḥ..21..
मकारः पुरुषो बीजी तमस्संहारको हरः ॥ बिन्दुर्महेश्वरो देवस्तिरो भाव उदाहृतः ॥ २२॥
॥ बिन्दुः महेश्वरः देवः तिरस् भावः उदाहृतः ॥ २२॥
.. binduḥ maheśvaraḥ devaḥ tiras bhāvaḥ udāhṛtaḥ .. 22..
नादस्सदाशिवः प्रोक्तस्सर्वानुग्रहकारकः॥नादमूर्द्धनि संचिन्त्य परात्परतरः शिवः ॥ २३॥
नादः सदाशिवः प्रोक्तः सर्व-अनुग्रह-कारकः॥नाद-मूर्द्धनि संचिन्त्य परात्परतरः शिवः ॥ २३॥
nādaḥ sadāśivaḥ proktaḥ sarva-anugraha-kārakaḥ..nāda-mūrddhani saṃcintya parātparataraḥ śivaḥ .. 23..
स सर्वज्ञः सर्वकर्त्ता सर्वेशो निर्मलोऽव्ययः ॥ अनिर्देश्यः परब्रह्म साक्षात्सदसतः परः॥२४॥
स सर्वज्ञः सर्वकर्त्ता सर्व-ईशः निर्मलः अव्ययः ॥ अनिर्देश्यः पर-ब्रह्म साक्षात् सत्-असतः परः॥२४॥
sa sarvajñaḥ sarvakarttā sarva-īśaḥ nirmalaḥ avyayaḥ .. anirdeśyaḥ para-brahma sākṣāt sat-asataḥ paraḥ..24..
अकारादिषु वर्णेषु व्यापकं चोत्तरोत्तरम् ॥ व्याप्यन्त्वधस्तनं वर्णमेवं सर्वत्र भावयेत् ॥ २९॥
अकार-आदिषु वर्णेषु व्यापकम् च उत्तरोत्तरम् ॥ व्याप्यन्तु अधस्तनम् वर्णम् एवम् सर्वत्र भावयेत् ॥ २९॥
akāra-ādiṣu varṇeṣu vyāpakam ca uttarottaram .. vyāpyantu adhastanam varṇam evam sarvatra bhāvayet .. 29..
सद्यादीशानपर्य्यंतान्यकारादिषु पंचसु ॥ स्थितानि पंच ब्रह्माणि तानि मन्मूर्त्तयः क्रमात् ॥ २६॥
सद्य-आदि-ईशान-पर्य्यंतानि अकार-आदिषु पंचसु ॥ स्थितानि पंच ब्रह्माणि तानि मद्-मूर्त्तयः क्रमात् ॥ २६॥
sadya-ādi-īśāna-paryyaṃtāni akāra-ādiṣu paṃcasu .. sthitāni paṃca brahmāṇi tāni mad-mūrttayaḥ kramāt .. 26..
अष्टौ कलास्समाख्याता अकारे सद्यजाश्शिवे ॥ उकारे वामरूपिण्यस्त्रयोदश समीरिताः ॥ २७॥
अष्टौ कलाः समाख्याताः अकारे सत्-यजाः शिवे ॥ उकारे वाम-रूपिण्यः त्रयोदश समीरिताः ॥ २७॥
aṣṭau kalāḥ samākhyātāḥ akāre sat-yajāḥ śive .. ukāre vāma-rūpiṇyaḥ trayodaśa samīritāḥ .. 27..
अष्टावघोररूपिण्यो मकारे संस्थिताः कलाः ॥ बिन्दौ चतस्रस्संभूताः कलाः पुरुषगोचराः ॥ २८ ॥
अष्टौ अघोर-रूपिण्यः मकारे संस्थिताः कलाः ॥ बिन्दौ चतस्रः संभूताः कलाः पुरुष-गोचराः ॥ २८ ॥
aṣṭau aghora-rūpiṇyaḥ makāre saṃsthitāḥ kalāḥ .. bindau catasraḥ saṃbhūtāḥ kalāḥ puruṣa-gocarāḥ .. 28 ..
नादे पंच समाख्याताः कला ईशानसंभवाः ॥ षड्विधैक्यानुसंधानात्प्रपंचात्मकतोच्यते ॥ २९॥
नादे पंच समाख्याताः कलाः ईशान-संभवाः ॥ षड्विध-ऐक्य-अनुसंधानात् प्रपंच-आत्मक-ता उच्यते ॥ २९॥
nāde paṃca samākhyātāḥ kalāḥ īśāna-saṃbhavāḥ .. ṣaḍvidha-aikya-anusaṃdhānāt prapaṃca-ātmaka-tā ucyate .. 29..
मन्त्रो यन्त्रं देवता च प्रपंचो गुरुरेव च ॥ शिष्यश्च षट्पदार्था नामेषामर्थं शृणु प्रिये ॥ 6.3.३० ॥
मन्त्रः यन्त्रम् देवता च प्रपंचः गुरुः एव च ॥ शिष्यः च षष्-पद-अर्थाः नाम एषाम् अर्थम् शृणु प्रिये ॥ ६।३।३० ॥
mantraḥ yantram devatā ca prapaṃcaḥ guruḥ eva ca .. śiṣyaḥ ca ṣaṣ-pada-arthāḥ nāma eṣām artham śṛṇu priye .. 6.3.30 ..
पंचवर्णसमष्टिः स्यान्मन्त्रः पूर्वमुदाहतः ॥ स एव यंत्रतां प्राप्तो वक्ष्ये तन्मण्डलक्रमम् ॥ ३१ ॥
पंच-वर्ण-समष्टिः स्यात् मन्त्रः पूर्वम् उदाहतः ॥ सः एव यंत्र-ताम् प्राप्तः वक्ष्ये तद्-मण्डल-क्रमम् ॥ ३१ ॥
paṃca-varṇa-samaṣṭiḥ syāt mantraḥ pūrvam udāhataḥ .. saḥ eva yaṃtra-tām prāptaḥ vakṣye tad-maṇḍala-kramam .. 31 ..
यन्त्रं तु देवतारूपं देवता विश्वरूपिणी ॥ विश्वरूपो गुरुः प्रोक्तश्शिष्यो गुरुवपुस्त्वतः ॥ ३२ ॥
यन्त्रम् तु देवता-रूपम् देवता विश्व-रूपिणी ॥ विश्व-रूपः गुरुः प्रोक्तः शिष्यः गुरु-वपुः-त्वतस् ॥ ३२ ॥
yantram tu devatā-rūpam devatā viśva-rūpiṇī .. viśva-rūpaḥ guruḥ proktaḥ śiṣyaḥ guru-vapuḥ-tvatas .. 32 ..
ओमितीदं सर्वमिति सर्वं ब्रह्मेति च श्रुतेः ॥ वाच्यवाचकसम्बन्धोप्ययमेवार्थ ईरितः ॥ ३३॥
ओम् इति इदम् सर्वम् इति सर्वम् ब्रह्म इति च श्रुतेः ॥ वाच्य-वाचक-सम्बन्धः उपि अयम् एव अर्थः ईरितः ॥ ३३॥
om iti idam sarvam iti sarvam brahma iti ca śruteḥ .. vācya-vācaka-sambandhaḥ upi ayam eva arthaḥ īritaḥ .. 33..
आधारो मणिपूरश्च हृदयं तु ततः परम् ॥ विशुद्धिराज्ञा च ततः शक्तिः शान्तिरिति क्रमात् ॥ ३४॥
आधारः मणिपूरः च हृदयम् तु ततस् परम् ॥ विशुद्धि-राज्ञा च ततस् शक्तिः शान्तिः इति क्रमात् ॥ ३४॥
ādhāraḥ maṇipūraḥ ca hṛdayam tu tatas param .. viśuddhi-rājñā ca tatas śaktiḥ śāntiḥ iti kramāt .. 34..
स्थानान्येतानि देवेशि शान्त्यतीतं परात्परम् ॥ अधिकारी भवेद्यस्य वैराग्यं जायते दृढम् ॥ ३५ ॥
स्थानानि एतानि देवेशि शान्त्यतीतम् परात्परम् ॥ अधिकारी भवेत् यस्य वैराग्यम् जायते दृढम् ॥ ३५ ॥
sthānāni etāni deveśi śāntyatītam parātparam .. adhikārī bhavet yasya vairāgyam jāyate dṛḍham .. 35 ..
विषयः स्यामहं देवि जीवब्रह्मैक्यभावनात् ॥ सम्बन्धं शृणु देवेशि विषयः सम्यगीरितः ॥ ३६॥
विषयः स्याम् अहम् देवि जीव-ब्रह्म-ऐक्य-भावनात् ॥ सम्बन्धम् शृणु देवेशि विषयः सम्यक् ईरितः ॥ ३६॥
viṣayaḥ syām aham devi jīva-brahma-aikya-bhāvanāt .. sambandham śṛṇu deveśi viṣayaḥ samyak īritaḥ .. 36..
जीवात्मनोर्मया सार्द्धमैक्यस्य प्रणवस्य च ॥ वाच्यवाचकभावोत्र सम्वन्धस्समुदीरितः॥३७॥
जीव-आत्मनोः मया सार्द्धम् ऐक्यस्य प्रणवस्य च ॥ वाच्य-वाचक-भावः उत्र सम्वन्धः समुदीरितः॥३७॥
jīva-ātmanoḥ mayā sārddham aikyasya praṇavasya ca .. vācya-vācaka-bhāvaḥ utra samvandhaḥ samudīritaḥ..37..
व्रतादिनिरतः शान्तस्तपस्वी विजितेन्द्रियः ॥ शौचाचारसमायुक्तो भूदेवो वेदनिष्ठितः ॥ ३८॥
व्रत-आदि-निरतः शान्तः तपस्वी विजित-इन्द्रियः ॥ शौच-आचार-समायुक्तः भूदेवः वेद-निष्ठितः ॥ ३८॥
vrata-ādi-nirataḥ śāntaḥ tapasvī vijita-indriyaḥ .. śauca-ācāra-samāyuktaḥ bhūdevaḥ veda-niṣṭhitaḥ .. 38..
विषयेषु विरक्तः सन्नैहिकामुष्मिकेषु च ॥ देवानां ब्राह्मणोऽपीह लोकजेषु शिवव्रती ॥ ३९ ॥
विषयेषु विरक्तः सन् ऐहिक-आमुष्मिकेषु च ॥ देवानाम् ब्राह्मणः अपि इह लोकजेषु शिव-व्रती ॥ ३९ ॥
viṣayeṣu viraktaḥ san aihika-āmuṣmikeṣu ca .. devānām brāhmaṇaḥ api iha lokajeṣu śiva-vratī .. 39 ..
सर्वशास्त्रार्थ तत्त्वज्ञं वेदान्तज्ञानपारगम् ॥ आचार्य्यमुपसंगम्य यतिं मतिमतां वरम् ॥ 6.3.४० ॥
सर्व-शास्त्र-अर्थ तत्त्व-ज्ञम् वेदान्त-ज्ञान-पारगम् ॥ आचार्य्यम् उपसंगम्य यतिम् मतिमताम् वरम् ॥ ६।३।४० ॥
sarva-śāstra-artha tattva-jñam vedānta-jñāna-pāragam .. ācāryyam upasaṃgamya yatim matimatām varam .. 6.3.40 ..
दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतस्सुधीः ॥ शान्त्यादिगुणसंयुक्तः शिष्यस्सौशील्यवान्वरः ॥ ४१॥
दीर्घ-दण्ड-प्रणाम-आद्यैः तोषयेत् यत्नतः सुधीः ॥ शान्ति-आदि-गुण-संयुक्तः शिष्यः सौशील्यवान् वरः ॥ ४१॥
dīrgha-daṇḍa-praṇāma-ādyaiḥ toṣayet yatnataḥ sudhīḥ .. śānti-ādi-guṇa-saṃyuktaḥ śiṣyaḥ sauśīlyavān varaḥ .. 41..
यो गुरुः स शिवः प्रोक्तो यश्शिवस्स गुरुः स्मृतः ॥ इति निश्चित्य मनसा स्वविचारं निवेदयेत् ॥ ४२॥
यः गुरुः स शिवः प्रोक्तः यः शिवः स गुरुः स्मृतः ॥ इति निश्चित्य मनसा स्व-विचारम् निवेदयेत् ॥ ४२॥
yaḥ guruḥ sa śivaḥ proktaḥ yaḥ śivaḥ sa guruḥ smṛtaḥ .. iti niścitya manasā sva-vicāram nivedayet .. 42..
लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोवती ॥ समुद्रतीरे नद्यां च पर्वते वा शिवालये ॥ ४३ ॥
लब्ध-अनुज्ञः तु गुरुणा द्वादश-अहम् पयोवती ॥ समुद्र-तीरे नद्याम् च पर्वते वा शिवालये ॥ ४३ ॥
labdha-anujñaḥ tu guruṇā dvādaśa-aham payovatī .. samudra-tīre nadyām ca parvate vā śivālaye .. 43 ..
शुक्लपक्षे तु पंचम्यामेकादश्यां तथापि वा ॥ प्रातः स्नात्वा तु शुद्धात्मा कृतनित्य क्रियस्सुधीः ॥ ४४॥
शुक्ल-पक्षे तु पंचम्याम् एकादश्याम् तथा अपि वा ॥ प्रातर् स्नात्वा तु शुद्ध-आत्मा कृत-नित्य-क्रियः सुधीः ॥ ४४॥
śukla-pakṣe tu paṃcamyām ekādaśyām tathā api vā .. prātar snātvā tu śuddha-ātmā kṛta-nitya-kriyaḥ sudhīḥ .. 44..
गुरुमाहूय विधिना नान्दीश्राद्धं विधाय च ॥ क्षौरं च कारयित्वाथ कक्षोपस्थविवर्जितम् ॥ ४५॥
गुरुम् आहूय विधिना नान्दीश्राद्धम् विधाय च ॥ क्षौरम् च कारयित्वा अथ कक्ष-उपस्थ-विवर्जितम् ॥ ४५॥
gurum āhūya vidhinā nāndīśrāddham vidhāya ca .. kṣauram ca kārayitvā atha kakṣa-upastha-vivarjitam .. 45..
केशश्मश्रुनखानां वै स्नात्वा नियतमानसः ॥ सक्तुं प्राश्याथ सायाह्ने स्नात्वा सन्ध्यामुपास्य च ॥ ४६ ॥
केश-श्मश्रु-नखानाम् वै स्नात्वा नियत-मानसः ॥ सक्तुम् प्राश्य अथ सायाह्ने स्नात्वा सन्ध्याम् उपास्य च ॥ ४६ ॥
keśa-śmaśru-nakhānām vai snātvā niyata-mānasaḥ .. saktum prāśya atha sāyāhne snātvā sandhyām upāsya ca .. 46 ..
सायमौपासनं कृत्वा गुरुणा सहितो द्विजः ॥ शास्त्रोक्तदक्षिणान्दत्त्वा शिवाय गुरुरूपिणे ॥ ४७ ॥
सायम् औपासनम् कृत्वा गुरुणा सहितः द्विजः ॥ शास्त्र-उक्त-दक्षिणान् दत्त्वा शिवाय गुरु-रूपिणे ॥ ४७ ॥
sāyam aupāsanam kṛtvā guruṇā sahitaḥ dvijaḥ .. śāstra-ukta-dakṣiṇān dattvā śivāya guru-rūpiṇe .. 47 ..
होमद्रव्याणि संपाद्य स्वसूत्रोक्तविधानतः ॥ अग्निमाधाय विधिवल्लौकिकादिविभेदतः ॥ ४८॥
होम-द्रव्याणि संपाद्य स्व-सूत्र-उक्त-विधानतः ॥ अग्निम् आधाय विधिवत् लौकिक-आदि-विभेदतः ॥ ४८॥
homa-dravyāṇi saṃpādya sva-sūtra-ukta-vidhānataḥ .. agnim ādhāya vidhivat laukika-ādi-vibhedataḥ .. 48..
आहिताग्निस्तु यः कुर्यात्प्राजापत्ये ष्टिनाहिते ॥ श्रौते वैश्वानरे सम्यक् सर्ववेदसदक्षिणम् ॥ ४९ ॥
आहिताग्निः तु यः कुर्यात् प्राजापत्ये ष्टिना आहिते ॥ श्रौते वैश्वानरे सम्यक् सर्ववेदस-दक्षिणम् ॥ ४९ ॥
āhitāgniḥ tu yaḥ kuryāt prājāpatye ṣṭinā āhite .. śraute vaiśvānare samyak sarvavedasa-dakṣiṇam .. 49 ..
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ श्रपयित्वा चरुं तस्मिन्समिदन्नाज्यभेदतः ॥ 6.3.५०॥
अथ अग्निम् आत्मनि आरोप्य ब्राह्मणः प्रव्रजेत् गृहात् ॥ श्रपयित्वा चरुम् तस्मिन् समिध्-अन्न-आज्य-भेदतः ॥ ६।३।५०॥
atha agnim ātmani āropya brāhmaṇaḥ pravrajet gṛhāt .. śrapayitvā carum tasmin samidh-anna-ājya-bhedataḥ .. 6.3.50..
पौरुषेणैव सूक्तेन हुत्वा प्रत्यृचमात्मवान् ॥ हुत्वा च सौविष्टकृतीं स्वसूत्रोक्तविधानतः ॥ ५१ ॥
पौरुषेण एव सूक्तेन हुत्वा प्रत्यृचम् आत्मवान् ॥ हुत्वा च सौविष्टकृतीम् स्व-सूत्र-उक्त-विधानतः ॥ ५१ ॥
pauruṣeṇa eva sūktena hutvā pratyṛcam ātmavān .. hutvā ca sauviṣṭakṛtīm sva-sūtra-ukta-vidhānataḥ .. 51 ..
हुत्वोपरिष्टात्तन्त्रं च तेनाग्नेरुत्तरे बुधः ॥ स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ॥ यावद्ब्राह्ममुहूर्त्तं तु गायत्रीं दृढमानसः ॥ ५२॥
हुत्वा उपरिष्टात् तन्त्रम् च तेन अग्नेः उत्तरे बुधः ॥ स्थित्वा आसने जपेत् मौनी चैल-अजिन-कुश-उत्तरे ॥ यावत् ब्राह्ममुहूर्त्तम् तु गायत्रीम् दृढ-मानसः ॥ ५२॥
hutvā upariṣṭāt tantram ca tena agneḥ uttare budhaḥ .. sthitvā āsane japet maunī caila-ajina-kuśa-uttare .. yāvat brāhmamuhūrttam tu gāyatrīm dṛḍha-mānasaḥ .. 52..
ततः स्नात्वा यथा पूर्वं श्रपयित्वा चरुं ततः ॥ पौरुषं सूक्तमारभ्य विरजान्तं हुनेद्बुधः ॥ ५३ ॥
ततस् स्नात्वा यथा पूर्वम् श्रपयित्वा चरुम् ततस् ॥ पौरुषम् सूक्तम् आरभ्य विरज-अन्तम् हुनेत् बुधः ॥ ५३ ॥
tatas snātvā yathā pūrvam śrapayitvā carum tatas .. pauruṣam sūktam ārabhya viraja-antam hunet budhaḥ .. 53 ..
वामदेवमतेनापि शौनकादिमतेन वा ॥ तत्र मुख्यं वामदेव्यं गर्भयुक्तो यतो मुनिः ॥ ५४॥
वामदेव-मतेन अपि शौनक-आदि-मतेन वा ॥ तत्र मुख्यम् वामदेव्यम् गर्भ-युक्तः यतस् मुनिः ॥ ५४॥
vāmadeva-matena api śaunaka-ādi-matena vā .. tatra mukhyam vāmadevyam garbha-yuktaḥ yatas muniḥ .. 54..
होमशेषं समाप्याथ हुनेत् ॥ ततोग्निमात्मन्यारोप्य प्रातस्सन्ध्यमुपास्य च ॥ ५५ ॥
होम-शेषम् समाप्य अथ हुनेत् ॥ ततस् अग्निम् आत्मनि आरोप्य प्रातस्सन्ध्यम् उपास्य च ॥ ५५ ॥
homa-śeṣam samāpya atha hunet .. tatas agnim ātmani āropya prātassandhyam upāsya ca .. 55 ..
सवितर्युदिते पश्चात्सावित्रीं प्राविशेत्क्रमात् ॥ एषणानां त्रयं त्यक्त्वा प्रेषमुच्चार्य च क्रमात् ॥ ५६ ॥
सवितरि उदिते पश्चात् सावित्रीम् प्राविशेत् क्रमात् ॥ एषणानाम् त्रयम् त्यक्त्वा प्रेषम् उच्चार्य च क्रमात् ॥ ५६ ॥
savitari udite paścāt sāvitrīm prāviśet kramāt .. eṣaṇānām trayam tyaktvā preṣam uccārya ca kramāt .. 56 ..
शिखोपवीते संत्यज्य कटिसूत्रादिकं ततः ॥ विसृज्य प्राङ्मुखो गच्छेदुत्तराशामुखोपि वा ॥ ५७ ॥
शिखोपवीते संत्यज्य कटि-सूत्र-आदिकम् ततस् ॥ विसृज्य प्राच्-मुखः गच्छेत् उत्तराशा-मुखः अपि वा ॥ ५७ ॥
śikhopavīte saṃtyajya kaṭi-sūtra-ādikam tatas .. visṛjya prāc-mukhaḥ gacchet uttarāśā-mukhaḥ api vā .. 57 ..
गृह्णीयाद्दण्डकौपीनाद्युचितं लोकवर्तने ॥ विरक्तश्चेन गृह्णीयाल्लोकवृत्तिविचारणे ॥ ५८ ॥
गृह्णीयात् दण्ड-कौपीन-आदि-उचितम् लोक-वर्तने ॥ गृह्णीयात् लोक-वृत्ति-विचारणे ॥ ५८ ॥
gṛhṇīyāt daṇḍa-kaupīna-ādi-ucitam loka-vartane .. gṛhṇīyāt loka-vṛtti-vicāraṇe .. 58 ..
गुरोः समीपं गत्वाथ दण्डवत्प्रणमेत्त्रयम् ॥ समुत्थाय ततस्तिष्ठेद्गुरुपादसमीपतः ॥ ५९ ॥
गुरोः समीपम् गत्वा अथ दण्ड-वत् प्रणमेत् त्रयम् ॥ समुत्थाय ततस् तिष्ठेत् गुरु-पाद-समीपतः ॥ ५९ ॥
guroḥ samīpam gatvā atha daṇḍa-vat praṇamet trayam .. samutthāya tatas tiṣṭhet guru-pāda-samīpataḥ .. 59 ..
ततो गुरुः समादाय विरजानलजं शितम् ॥ भस्म तेनैव तं शिष्यं समुद्धृत्य यथाविधि ॥ 6.3.६० ॥
ततस् गुरुः समादाय विरज-अनल-जम् शितम् ॥ भस्म तेन एव तम् शिष्यम् समुद्धृत्य यथाविधि ॥ ६।३।६० ॥
tatas guruḥ samādāya viraja-anala-jam śitam .. bhasma tena eva tam śiṣyam samuddhṛtya yathāvidhi .. 6.3.60 ..
अग्निरित्यादिभिर्मन्त्रैस्त्रिपुण्ड्रं धारयेत्ततः ॥ हृत्पंकजे समासीनं मां त्वया सह चिन्तयेत् ॥ ६१ ॥
अग्निः इत्यादिभिः मन्त्रैः त्रिपुण्ड्रम् धारयेत् ततस् ॥ हृद्-पंकजे समासीनम् माम् त्वया सह चिन्तयेत् ॥ ६१ ॥
agniḥ ityādibhiḥ mantraiḥ tripuṇḍram dhārayet tatas .. hṛd-paṃkaje samāsīnam mām tvayā saha cintayet .. 61 ..
हस्तं निधाय शिरसि शिष्यस्य प्रीतमानसः ॥ ऋष्यादिसहितं तस्य दक्षकर्णे समुच्चरेत् ॥ ६२॥
हस्तम् निधाय शिरसि शिष्यस्य प्रीत-मानसः ॥ ऋषि-आदि-सहितम् तस्य दक्ष-कर्णे समुच्चरेत् ॥ ६२॥
hastam nidhāya śirasi śiṣyasya prīta-mānasaḥ .. ṛṣi-ādi-sahitam tasya dakṣa-karṇe samuccaret .. 62..
प्रणवं त्रिःप्रकारं तु ततस्तस्यार्थमादिशेत् ॥ षड्विधार्थं परिज्ञानसहितं गुरुसत्तमः ॥ ६३॥
प्रणवम् त्रिस् प्रकारम् तु ततस् तस्य अर्थम् आदिशेत् ॥ षड्विध-अर्थम् परिज्ञान-सहितम् गुरु-सत्तमः ॥ ६३॥
praṇavam tris prakāram tu tatas tasya artham ādiśet .. ṣaḍvidha-artham parijñāna-sahitam guru-sattamaḥ .. 63..
द्विषट्प्रकारं स गुरुं प्रणम्य भुवि दण्डवत् ॥ तदधीनो भवेन्नित्यं वेदान्तं सम्यगभ्यसेत् ॥ ६४॥
द्वि-षष्-प्रकारम् स गुरुम् प्रणम्य भुवि दण्ड-वत् ॥ तद्-अधीनः भवेत् नित्यम् वेदान्तम् सम्यक् अभ्यसेत् ॥ ६४॥
dvi-ṣaṣ-prakāram sa gurum praṇamya bhuvi daṇḍa-vat .. tad-adhīnaḥ bhavet nityam vedāntam samyak abhyaset .. 64..
मामेव चिंतयेन्नित्यं परमात्मानमात्मनि॥विशुद्धे निर्विकारे वै ब्रह्मसाक्षिणमव्ययम् ॥ ६५॥
माम् एव चिंतयेत् नित्यम् परमात्मानम् आत्मनि॥विशुद्धे निर्विकारे वै ब्रह्म-साक्षिणम् अव्ययम् ॥ ६५॥
mām eva ciṃtayet nityam paramātmānam ātmani..viśuddhe nirvikāre vai brahma-sākṣiṇam avyayam .. 65..
शमादिधर्मनिरतो वेदान्तज्ञानपारगः ॥ अत्राधिकारी स प्रोक्तो यतिर्विगतमत्सरः ॥ ६६॥
शम-आदि-धर्म-निरतः वेदान्त-ज्ञान-पारगः ॥ अत्रा अधिकारी स प्रोक्तः यतिः विगत-मत्सरः ॥ ६६॥
śama-ādi-dharma-nirataḥ vedānta-jñāna-pāragaḥ .. atrā adhikārī sa proktaḥ yatiḥ vigata-matsaraḥ .. 66..
हृत्पुण्डरीकं विरजं विशोकं विशदम्परम् ॥ अष्टपत्रं केशराढ्यं कर्णिकोपरि शो भितम् ॥ ६७॥
हृद्-पुण्डरीकम् विरजम् विशोकम् विशदम्परम् ॥ अष्ट-पत्रम् केशर-आढ्यम् ॥ ६७॥
hṛd-puṇḍarīkam virajam viśokam viśadamparam .. aṣṭa-patram keśara-āḍhyam .. 67..
आधारशक्तिमारभ्य त्रितत्वांतमयं पदम् ॥ विचिन्त्य मध्यतस्तस्य दहरं व्योम भावयेत् ॥ ६८
आधार-शक्तिम् आरभ्य त्रि-तत्व-अंत-मयम् पदम् ॥ विचिन्त्य मध्यतस् तस्य दहरम् व्योम भावयेत् ॥ ६८
ādhāra-śaktim ārabhya tri-tatva-aṃta-mayam padam .. vicintya madhyatas tasya daharam vyoma bhāvayet .. 68
ओमित्येकाक्षरं ब्रह्म व्याहरन्मां त्वया सह ॥ चिंतयेन्मध्यतस्तस्य नित्यमुद्युक्तमानसः ॥ ६९ ॥
ओम् इति एकाक्षरम् ब्रह्म व्याहरत् माम् त्वया सह ॥ चिंतयेत् मध्यतस् तस्य नित्यम् उद्युक्त-मानसः ॥ ६९ ॥
om iti ekākṣaram brahma vyāharat mām tvayā saha .. ciṃtayet madhyatas tasya nityam udyukta-mānasaḥ .. 69 ..
एवंविधोपासकस्य मल्लोकगतिमेव च ॥ मत्तो विज्ञानमासाद्य मत्सायुज्यफलं प्रिये ॥ 6.3.७० ॥
एवंविध-उपासकस्य मद्-लोक-गतिम् एव च ॥ मत्तः विज्ञानम् आसाद्य मद्-सायुज्य-फलम् प्रिये ॥ ६।३।७० ॥
evaṃvidha-upāsakasya mad-loka-gatim eva ca .. mattaḥ vijñānam āsādya mad-sāyujya-phalam priye .. 6.3.70 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतिवर्णनं नाम तृतीयोऽध्यायः॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् संन्यासपद्धतिवर्णनम् नाम तृतीयः अध्यायः॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām saṃnyāsapaddhativarṇanam nāma tṛtīyaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In