| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि संन्यासाह्निककर्म च ॥ तव स्नेहान्महादेवि संप्रदायानुरोधतः ॥ १॥
अतस् परम् प्रवक्ष्यामि संन्यास-आह्निक-कर्म च ॥ तव स्नेहात् महादेवि संप्रदाय-अनुरोधतः ॥ १॥
atas param pravakṣyāmi saṃnyāsa-āhnika-karma ca .. tava snehāt mahādevi saṃpradāya-anurodhataḥ .. 1..
ब्राह्मे मुहूर्त्त उत्थाय शिरसि श्वेतपंकजे ॥ सहस्रारे समासीनं गुरुं संचितयेद्यतिः ॥ २ ॥
ब्राह्मे मुहूर्त्ते उत्थाय शिरसि श्वेत-पंकजे ॥ सहस्रारे समासीनम् गुरुम् संचितयेत् यतिः ॥ २ ॥
brāhme muhūrtte utthāya śirasi śveta-paṃkaje .. sahasrāre samāsīnam gurum saṃcitayet yatiḥ .. 2 ..
शुद्धस्फटिकसंकाशं द्विनेत्रं वरदाभये ॥ दधानं शिवसद्भावमेवात्मनि मनोहरम् ॥ ३॥
शुद्ध-स्फटिक-संकाशम् द्विनेत्रम् वरदा-अभये ॥ दधानम् शिव-सद्भावम् एव आत्मनि मनोहरम् ॥ ३॥
śuddha-sphaṭika-saṃkāśam dvinetram varadā-abhaye .. dadhānam śiva-sadbhāvam eva ātmani manoharam .. 3..
भावोपनीतैः संपूज्य गन्धादिभिरनुक्रमात् ॥ बद्धांजलिपुटो भूत्वा नमस्कुर्याद्गुरुं ततः ॥ ४॥
भाव-उपनीतैः संपूज्य गन्ध-आदिभिः अनुक्रमात् ॥ बद्धांजलि-पुटः भूत्वा नमस्कुर्यात् गुरुम् ततस् ॥ ४॥
bhāva-upanītaiḥ saṃpūjya gandha-ādibhiḥ anukramāt .. baddhāṃjali-puṭaḥ bhūtvā namaskuryāt gurum tatas .. 4..
प्रातःप्रभृति सायान्ते सायादिप्रातरं ततः ॥ यत्करोमि महादेव तदस्तु तव पूजनम् ॥ ५॥
प्रातर् प्रभृति साय-अन्ते साय-आदि-प्रातरम् ततस् ॥ यत् करोमि महादेव तत् अस्तु तव पूजनम् ॥ ५॥
prātar prabhṛti sāya-ante sāya-ādi-prātaram tatas .. yat karomi mahādeva tat astu tava pūjanam .. 5..
प्रतिविज्ञाप्य गुरवे लब्धानुज्ञस्ततो गुरोः ॥ निरुद्धप्राण आसीनो विजितात्मा जितेन्द्रियः ॥ ६॥
प्रतिविज्ञाप्य गुरवे लब्ध-अनुज्ञः ततस् गुरोः ॥ निरुद्ध-प्राणः आसीनः विजित-आत्मा जित-इन्द्रियः ॥ ६॥
prativijñāpya gurave labdha-anujñaḥ tatas guroḥ .. niruddha-prāṇaḥ āsīnaḥ vijita-ātmā jita-indriyaḥ .. 6..
मूलादिब्रह्मरंध्रांतं षट्चक्रं परिचिंतयेत् ॥ विद्युत्कोटिसमप्रख्यं सर्वतेजोमयं परम् ॥ ७॥
मूल-आदि-ब्रह्मरंध्र-अन्तम् षट्चक्रम् परिचिंतयेत् ॥ विद्युत्-कोटि-सम-प्रख्यम् सर्व-तेजः-मयम् परम् ॥ ७॥
mūla-ādi-brahmaraṃdhra-antam ṣaṭcakram pariciṃtayet .. vidyut-koṭi-sama-prakhyam sarva-tejaḥ-mayam param .. 7..
तन्मध्ये चिंतयेन्मां च सच्चिदानन्दविग्रहम् ॥ निर्गुणं परमं ब्रह्म सदाशिवमनामयम् ॥ ८ ॥
तद्-मध्ये चिंतयेत् माम् च सच्चिदानन्द-विग्रहम् ॥ निर्गुणम् परमम् ब्रह्म सदाशिवम् अनामयम् ॥ ८ ॥
tad-madhye ciṃtayet mām ca saccidānanda-vigraham .. nirguṇam paramam brahma sadāśivam anāmayam .. 8 ..
सोहमस्मीति मतिमान्म दैक्यमनुभूय च ॥ बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम् ॥ ९ ॥
सः हम् अस्मि इति मतिमान् म दैक्यम् अनुभूय च ॥ बहिस् निर्गत्य च ततस् दूरम् गच्छेत् यथासुखम् ॥ ९ ॥
saḥ ham asmi iti matimān ma daikyam anubhūya ca .. bahis nirgatya ca tatas dūram gacchet yathāsukham .. 9 ..
वस्त्रेणाच्छाद्य मतिमाञ्छिरो नासिकया सह॥विशोध्य देहं वि धिवत्तृणमाधाय भूतले ॥ 6.4.१०॥
वस्त्रेण आच्छाद्य मतिमान् शिरः नासिकया सह॥विशोध्य देहम् धिवत् तृणम् आधाय भू-तले ॥ ६।४।१०॥
vastreṇa ācchādya matimān śiraḥ nāsikayā saha..viśodhya deham dhivat tṛṇam ādhāya bhū-tale .. 6.4.10..
गृहीतशिश्न उत्थाय ततो गच्छेज्जलाशयम् ॥ उद्धृत्य वार्यथान्यायं शौचं कुर्यादतन्द्रितः ॥ ११ ॥
गृहीत-शिश्नः उत्थाय ततस् गच्छेत् जलाशयम् ॥ उद्धृत्य वारि अथान्यायम् शौचम् कुर्यात् अतन्द्रितः ॥ ११ ॥
gṛhīta-śiśnaḥ utthāya tatas gacchet jalāśayam .. uddhṛtya vāri athānyāyam śaucam kuryāt atandritaḥ .. 11 ..
हस्तौ पादौ च संशोध्य द्विराचम्योमिति स्मरन् ॥ उत्तराभिमुखो मौनी दन्तधावनमाचरेत्॥१२॥
हस्तौ पादौ च संशोध्य द्विस् आचम्य ऊम् इति स्मरन् ॥ उत्तर-अभिमुखः मौनी दन्तधावनम् आचरेत्॥१२॥
hastau pādau ca saṃśodhya dvis ācamya ūm iti smaran .. uttara-abhimukhaḥ maunī dantadhāvanam ācaret..12..
तृणपर्णैः सदा कुर्यादमामेकादशी विना ॥ अपां द्वादशगण्डूषैर्मुखं संशोधयेत्ततः ॥ १३ ॥
तृण-पर्णैः सदा कुर्यात् अमाम् एकादशी विना ॥ अपाम् द्वादश-गण्डूषैः मुखम् संशोधयेत् ततस् ॥ १३ ॥
tṛṇa-parṇaiḥ sadā kuryāt amām ekādaśī vinā .. apām dvādaśa-gaṇḍūṣaiḥ mukham saṃśodhayet tatas .. 13 ..
द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ॥ अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह ॥ १४ ॥
द्विस् आचम्य मृदा तोयैः कटि-शौचम् विधाय च ॥ अरुण-उदय-काले तु स्नानम् कुर्यात् मृदा सह ॥ १४ ॥
dvis ācamya mṛdā toyaiḥ kaṭi-śaucam vidhāya ca .. aruṇa-udaya-kāle tu snānam kuryāt mṛdā saha .. 14 ..
गुरुं संस्मृत्य मां चैव स्नानसंध्याद्यमाचरेत् ॥ विस्तारभयतो नोक्तमत्र द्रष्टव्यमन्यतः ॥ १५ ॥
गुरुम् संस्मृत्य माम् च एव स्नान-संध्या-आद्यम् आचरेत् ॥ विस्तार-भयतः न उक्तम् अत्र द्रष्टव्यम् अन्यतस् ॥ १५ ॥
gurum saṃsmṛtya mām ca eva snāna-saṃdhyā-ādyam ācaret .. vistāra-bhayataḥ na uktam atra draṣṭavyam anyatas .. 15 ..
आबध्य शंखमुद्रां च प्रणवेनाभिषेचयेत् ॥ शिरसि द्वादशावृत्त्या तदर्धं वा तदर्धकम् ॥ १६ ॥
आबध्य शंखमुद्राम् च प्रणवेन अभिषेचयेत् ॥ शिरसि द्वादश-आवृत्त्या तद्-अर्धम् वा तद्-अर्धकम् ॥ १६ ॥
ābadhya śaṃkhamudrām ca praṇavena abhiṣecayet .. śirasi dvādaśa-āvṛttyā tad-ardham vā tad-ardhakam .. 16 ..
तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ॥ प्रोक्षयेत्प्रणवेनैव वस्त्रमंगोपमार्जनम् ॥ १७ ॥
तीरम् आगत्य कौपीनम् प्रक्षाल्य आचम्य च द्विधा ॥ प्रोक्षयेत् प्रणवेन एव वस्त्रम् अंग-उपमार्जनम् ॥ १७ ॥
tīram āgatya kaupīnam prakṣālya ācamya ca dvidhā .. prokṣayet praṇavena eva vastram aṃga-upamārjanam .. 17 ..
मुखम्प्रथमतो मृज्य शिर आरभ्य सर्वतः ॥ तेनैव मार्जयेद्देहं स्थित्वा च गुरुसन्निधौ ॥ १८ ॥
मुखम् प्रथमतस् मृज्य शिरः आरभ्य सर्वतस् ॥ तेन एव मार्जयेत् देहम् स्थित्वा च गुरु-सन्निधौ ॥ १८ ॥
mukham prathamatas mṛjya śiraḥ ārabhya sarvatas .. tena eva mārjayet deham sthitvā ca guru-sannidhau .. 18 ..
आबध्याद्वामतः शुद्धं कौपीनं च सडोरकम् ॥ ततः संधारयेद्भस्म तद्विधिः प्रोच्यतेऽद्रिजे ॥ १९॥
आबध्यात् वामतस् शुद्धम् कौपीनम् च स डोरकम् ॥ ततस् संधारयेत् भस्म तद्-विधिः प्रोच्यते अद्रिजे ॥ १९॥
ābadhyāt vāmatas śuddham kaupīnam ca sa ḍorakam .. tatas saṃdhārayet bhasma tad-vidhiḥ procyate adrije .. 19..
द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ॥ अग्निरित्यादिभिर्मंत्रैरभिमंत्र्य स्पृशेत्तनुम् ॥ 6.4.२०॥
द्विस् आचम्य समादाय भस्म सद्य-आदि-मंत्रतः ॥ अग्निः इत्यादिभिः मंत्रैः अभिमंत्र्य स्पृशेत् तनुम् ॥ ६।४।२०॥
dvis ācamya samādāya bhasma sadya-ādi-maṃtrataḥ .. agniḥ ityādibhiḥ maṃtraiḥ abhimaṃtrya spṛśet tanum .. 6.4.20..
आपोवेत्यभिमंत्र्याथ जलं तेनैव सेचयेत् ॥ ओमापोज्योतिरित्युक्त्वा मानस्तोकेति मंत्रतः॥२१॥
आपः वा इति अभिमंत्र्य अथ जलम् तेन एव सेचयेत् ॥ ओम् अपः ज्योतिः इति उक्त्वा मान-स्तोक-इति मंत्रतः॥२१॥
āpaḥ vā iti abhimaṃtrya atha jalam tena eva secayet .. om apaḥ jyotiḥ iti uktvā māna-stoka-iti maṃtrataḥ..21..
समद्य कमलद्वन्द्वं कुर्या केकं तु पंचधा॥शिरोवदनहृद्गुह्यपादेषु परमेश्वरि॥२२॥
सम् अद्य कमल-द्वन्द्वम् कुर्याः केकम् तु पंचधा॥शिरः-वदन-हृद्-गुह्य-पादेषु परमेश्वरि॥२२॥
sam adya kamala-dvandvam kuryāḥ kekam tu paṃcadhā..śiraḥ-vadana-hṛd-guhya-pādeṣu parameśvari..22..
ईशानादिसमारभ्य सद्यान्तं पंचभिः क्रमात्॥उद्धूल्य कवलं पश्चात्प्रणवेनाभिषेचयेत्।२३।
ईशान-आदि-समारभ्य सद्य-अन्तम् पंचभिः क्रमात्॥उद्धूल्य कवलम् पश्चात् प्रणवेन अभिषेचयेत्।२३।
īśāna-ādi-samārabhya sadya-antam paṃcabhiḥ kramāt..uddhūlya kavalam paścāt praṇavena abhiṣecayet.23.
सर्वांगं च ततो हस्तौ प्रक्षाल्यान्यत्समाहरेत्समर्च्य पूर्वत्तत्तु त्रिपुण्ड्रांस्तेन धारयेत्॥२४॥
सर्व-अंगम् च ततस् हस्तौ प्रक्षाल्य अन्यत् समाहरेत् समर्च्य पूर्वत् तत् तु त्रिपुण्ड्रान् तेन धारयेत्॥२४॥
sarva-aṃgam ca tatas hastau prakṣālya anyat samāharet samarcya pūrvat tat tu tripuṇḍrān tena dhārayet..24..
त्रियायुषैस्त्र्यम्बकैश्च प्रणवेन शिवेन च॥शिरस्यथ ललाटे च वक्षसि स्कन्ध एव च॥२९॥
त्रियायुषैः त्र्यम्बकैः च प्रणवेन शिवेन च॥शिरसि अथ ललाटे च वक्षसि स्कन्धे एव च॥२९॥
triyāyuṣaiḥ tryambakaiḥ ca praṇavena śivena ca..śirasi atha lalāṭe ca vakṣasi skandhe eva ca..29..
नाभौ बाह्वौः संधिषु च पृष्ठ चैव यथाक्रमम् ॥ प्रक्षाल्य हस्तौ च ततो द्विराचम्य यथाविधि ॥ २६॥
नाभौ संधिषु च च एव यथाक्रमम् ॥ प्रक्षाल्य हस्तौ च ततस् द्विस् आचम्य यथाविधि ॥ २६॥
nābhau saṃdhiṣu ca ca eva yathākramam .. prakṣālya hastau ca tatas dvis ācamya yathāvidhi .. 26..
पंचीकरणमुच्चार्य भावयेत्स्वगुरुं बुधः ॥ वक्ष्यमाणप्रकारेण प्राणायामान्षडाचरेत् ॥ २७ ॥
पंचीकरणम् उच्चार्य भावयेत् स्व-गुरुम् बुधः ॥ वक्ष्यमाण-प्रकारेण प्राणायामान् षट् आचरेत् ॥ २७ ॥
paṃcīkaraṇam uccārya bhāvayet sva-gurum budhaḥ .. vakṣyamāṇa-prakāreṇa prāṇāyāmān ṣaṭ ācaret .. 27 ..
दक्षहस्तेन संगृह्य जलं वामेन पाणिना ॥ समाच्छाद्य द्विषड्वारं प्रणवे नाभिमंत्रयेत् ॥ २८ ॥
दक्ष-हस्तेन संगृह्य जलम् वामेन पाणिना ॥ समाच्छाद्य द्वि-षष्-वारम् प्रणवे न अभिमंत्रयेत् ॥ २८ ॥
dakṣa-hastena saṃgṛhya jalam vāmena pāṇinā .. samācchādya dvi-ṣaṣ-vāram praṇave na abhimaṃtrayet .. 28 ..
एवं त्रिवारं संप्रोक्ष्य शिरसि त्रिः पिबेत्ततः ॥ समाहितेन मनसा ध्यायन्नोंकारमीश्वरम्॥ २९ ॥
एवम् त्रि-वारम् संप्रोक्ष्य शिरसि त्रिस् पिबेत् ततस् ॥ समाहितेन मनसा ध्यायन् ओंकारम् ईश्वरम्॥ २९ ॥
evam tri-vāram saṃprokṣya śirasi tris pibet tatas .. samāhitena manasā dhyāyan oṃkāram īśvaram.. 29 ..
सौरमण्डलमध्यस्थं सर्वतेजोमयं परम् ॥ अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम् ॥ 6.4.३०॥
सौर-मण्डल-मध्य-स्थम् सर्व-तेजः-मयम् परम् ॥ अष्ट-बाहुम् चतुर्-वक्त्रम् अर्द्धनारीकम् अद्भुतम् ॥ ६।४।३०॥
saura-maṇḍala-madhya-stham sarva-tejaḥ-mayam param .. aṣṭa-bāhum catur-vaktram arddhanārīkam adbhutam .. 6.4.30..
सर्वाश्चर्य्यगुणोपेतं सर्वालंकारशोभितम् ॥ एवं ध्यात्वाथ विधिवद्दद्यादर्घ्यत्रयं ततः ॥ ३१ ॥
सर्व-आश्चर्य्य-गुण-उपेतम् सर्व-अलंकार-शोभितम् ॥ एवम् ध्यात्वा अथ विधिवत् दद्यात् अर्घ्य-त्रयम् ततस् ॥ ३१ ॥
sarva-āścaryya-guṇa-upetam sarva-alaṃkāra-śobhitam .. evam dhyātvā atha vidhivat dadyāt arghya-trayam tatas .. 31 ..
अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ॥ पुनराचम्य विधिवत्प्राणायामत्रयं चरेत् ॥ ३२ ॥
अष्टोत्तरशतम् जप्त्वा द्वि-षष्-वारम् तु तर्पयेत् ॥ पुनर् आचम्य विधिवत् प्राणायाम-त्रयम् चरेत् ॥ ३२ ॥
aṣṭottaraśatam japtvā dvi-ṣaṣ-vāram tu tarpayet .. punar ācamya vidhivat prāṇāyāma-trayam caret .. 32 ..
पूजासदनमागच्छेन्मनसा संस्मरञ्च्छिवम्॥द्वारमासाद्य प्रक्षाल्य पादौ मौनी द्विराचमेत्॥३३॥
पूजा-सदनम् आगच्छेत् मनसा संस्मरन् शिवम्॥द्वारम् आसाद्य प्रक्षाल्य पादौ मौनी द्विस् आचमेत्॥३३॥
pūjā-sadanam āgacchet manasā saṃsmaran śivam..dvāram āsādya prakṣālya pādau maunī dvis ācamet..33..
प्रविशेद्विधिना तत्र दक्षपादपुरस्स रम्॥मण्डपान्तस्सुधीस्तत्र मण्डलं रचयेत्क्रमात् ॥ ३४॥
प्रविशेत् विधिना तत्र दक्ष-पाद-पुरस् स रम्॥मण्डप-अन्तर् सुधीः तत्र मण्डलम् रचयेत् क्रमात् ॥ ३४॥
praviśet vidhinā tatra dakṣa-pāda-puras sa ram..maṇḍapa-antar sudhīḥ tatra maṇḍalam racayet kramāt .. 34..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासाचारवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् संन्यासाचारवर्णनम् नाम चतुर्थः अध्यायः ॥ ४ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām saṃnyāsācāravarṇanam nāma caturthaḥ adhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In