| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
परीक्ष्य विधिवद्भूमिं गंधवर्णरसादिभिः ॥ मनोभिलषिते तत्र वितानवितताम्बरे ॥ १ ॥
परीक्ष्य विधिवत् भूमिम् गंध-वर्ण-रस-आदिभिः ॥ मनः-अभिलषिते तत्र वितान-वितत-अम्बरे ॥ १ ॥
parīkṣya vidhivat bhūmim gaṃdha-varṇa-rasa-ādibhiḥ .. manaḥ-abhilaṣite tatra vitāna-vitata-ambare .. 1 ..
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ॥ अरत्नियुग्ममानेन चतुरस्रं प्रकल्पयेत् ॥ २ ॥
सु प्रलिप्ते मही-पृष्ठे दर्पण-उदर-सन्निभे ॥ अरत्नि-युग्म-मानेन चतुर्-अस्रम् प्रकल्पयेत् ॥ २ ॥
su pralipte mahī-pṛṣṭhe darpaṇa-udara-sannibhe .. aratni-yugma-mānena catur-asram prakalpayet .. 2 ..
तालपत्रं समादाय तत्समायामविस्तरम्॥तस्मिन्भागान्प्रकुर्वीत त्रयोदशसमां कलाम्॥३॥
ताल-पत्रम् समादाय तद्-समायाम-विस्तरम्॥तस्मिन् भागान् प्रकुर्वीत त्रयोदश-समाम् कलाम्॥३॥
tāla-patram samādāya tad-samāyāma-vistaram..tasmin bhāgān prakurvīta trayodaśa-samām kalām..3..
तत्पत्रं तत्र निक्षिप्य पश्चिमाभिमुखः स्थितः ॥ तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम् ॥ ४ ॥
तत् पत्रम् तत्र निक्षिप्य पश्चिम-अभिमुखः स्थितः ॥ तद्-पूर्व-भागे सु दृढम् सूत्रम् आदाय रंजितम् ॥ ४ ॥
tat patram tatra nikṣipya paścima-abhimukhaḥ sthitaḥ .. tad-pūrva-bhāge su dṛḍham sūtram ādāya raṃjitam .. 4 ..
प्राक्प्रत्यग्दक्षिणोदक् च चतुर्दिशि निपातयेत् ॥ सूत्राणि देवदेवेशि नवषष्ट्युत्तरं शतम् ॥ ५ ॥
प्राच्-प्रत्यक्-दक्षिण-उदक् च चतुर्-दिशि निपातयेत् ॥ सूत्राणि देवदेवेशि नवषष्टि-उत्तरम् शतम् ॥ ५ ॥
prāc-pratyak-dakṣiṇa-udak ca catur-diśi nipātayet .. sūtrāṇi devadeveśi navaṣaṣṭi-uttaram śatam .. 5 ..
कोष्ठानि स्युस्ततस्तस्य मध्यकोष्ठं तु कर्णिका॥कोष्ठाष्टकं बहिस्तस्य दलाष्टकमिहोच्यते॥६॥
कोष्ठानि स्युः ततस् तस्य मध्य-कोष्ठम् तु कर्णिका॥कोष्ठ-अष्टकम् बहिस् तस्य दल-अष्टकम् इह उच्यते॥६॥
koṣṭhāni syuḥ tatas tasya madhya-koṣṭham tu karṇikā..koṣṭha-aṣṭakam bahis tasya dala-aṣṭakam iha ucyate..6..
दलानि श्वेतवर्णानि दलाष्टकमिहोच्यते ॥ दलानि श्वेतवर्णात्रि समग्राणि प्रकल्पयेत् ॥ पीतरूपां कर्णिकां च कृत्वा रक्तं च वृत्तकम् ॥ ७॥
दलानि श्वेत-वर्णानि दलाष्टकम् इह उच्यते ॥ दलानि श्वेत-वर्ण-अत्रि-समग्राणि प्रकल्पयेत् ॥ पीत-रूपाम् कर्णिकाम् च कृत्वा रक्तम् च वृत्तकम् ॥ ७॥
dalāni śveta-varṇāni dalāṣṭakam iha ucyate .. dalāni śveta-varṇa-atri-samagrāṇi prakalpayet .. pīta-rūpām karṇikām ca kṛtvā raktam ca vṛttakam .. 7..
वनभिद्दलदक्षं तु समारभ्य सुरेश्वरि ॥ रक्तकृष्णाः क्रमेणैव दलसन्धीन्विचित्रयेत्॥८॥
वनभिद्-दल-दक्षम् तु समारभ्य सुरेश्वरि ॥ रक्त-कृष्णाः क्रमेण एव दल-सन्धीन् विचित्रयेत्॥८॥
vanabhid-dala-dakṣam tu samārabhya sureśvari .. rakta-kṛṣṇāḥ krameṇa eva dala-sandhīn vicitrayet..8..
कर्णिकायां लिखेद्यंत्रं प्रणवार्थप्रकाशकम् ॥ अधः पीठं समालिख्य श्रीकण्ठं च तदूर्ध्वतः ॥ ९ ॥
कर्णिकायाम् लिखेत् यंत्रम् प्रणव-अर्थ-प्रकाशकम् ॥ अधस् पीठम् समालिख्य श्रीकण्ठम् च तद्-ऊर्ध्वतस् ॥ ९ ॥
karṇikāyām likhet yaṃtram praṇava-artha-prakāśakam .. adhas pīṭham samālikhya śrīkaṇṭham ca tad-ūrdhvatas .. 9 ..
तदुपर्य्यमरेशं च महाकालं च मध्यतः ॥ तन्मस्तकस्थं दण्डं च तत ईश्वरमालिखेत् ॥ 6.5.१० ॥
तद्-उपरि अमर-ईशम् च महाकालम् च मध्यतस् ॥ तद्-मस्तक-स्थम् दण्डम् च ततस् ईश्वरम् आलिखेत् ॥ ६।५।१० ॥
tad-upari amara-īśam ca mahākālam ca madhyatas .. tad-mastaka-stham daṇḍam ca tatas īśvaram ālikhet .. 6.5.10 ..
श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ॥ अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात् ॥ ११ ॥
श्यामेन पीठम् पीतेन श्रीकण्ठम् च विचित्रयेत् ॥ अमरेशम् महाकालम् रक्तम् कृष्णम् च तौ क्रमात् ॥ ११ ॥
śyāmena pīṭham pītena śrīkaṇṭham ca vicitrayet .. amareśam mahākālam raktam kṛṣṇam ca tau kramāt .. 11 ..
कुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ॥ एवं यंत्रं समालिख्य रक्तं सद्येन वेष्टयेत् ॥ १२॥
कुर्यात् सु धूम्रम् दण्डम् च धवलम् च ईश्वरम् बुधः ॥ एवम् यंत्रम् समालिख्य रक्तम् सद्येन वेष्टयेत् ॥ १२॥
kuryāt su dhūmram daṇḍam ca dhavalam ca īśvaram budhaḥ .. evam yaṃtram samālikhya raktam sadyena veṣṭayet .. 12..
तदुत्थेनैव नादेन विद्यादीशानमीश्वरि ॥ तद्वासपंक्तीर्गृह्णीयादाग्नेयादिक्रमेण वै ॥ १३ ॥
तद्-उत्थेन एव नादेन विद्यात् ईशानम् ईश्वरि ॥ तद्-वास-पंक्तीः गृह्णीयात् आग्नेय-आदि-क्रमेण वै ॥ १३ ॥
tad-utthena eva nādena vidyāt īśānam īśvari .. tad-vāsa-paṃktīḥ gṛhṇīyāt āgneya-ādi-krameṇa vai .. 13 ..
कोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ॥ शुक्लेनापूर्य्य वर्णादि चतुष्कं रक्तधातुभिः ॥ १४॥
कोष्ठानि कोण-भागेषु चत्वारि एतानि सुन्दरि ॥ शुक्लेन आपूर्य्य वर्ण-आदि चतुष्कम् रक्त-धातुभिः ॥ १४॥
koṣṭhāni koṇa-bhāgeṣu catvāri etāni sundari .. śuklena āpūryya varṇa-ādi catuṣkam rakta-dhātubhiḥ .. 14..
आपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ॥ ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत् ॥ १५ ॥
आपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ॥ ततस् तद्-पार्श्वयोः द्वंद्वम् पीतेन एव प्रपूरयेत् ॥ १५ ॥
āpūryya tāni catvāri dvārāṇi parikalpayet .. tatas tad-pārśvayoḥ dvaṃdvam pītena eva prapūrayet .. 15 ..
आग्नेयकोष्ठमध्ये तु पीताभे चतुरस्रके ॥ अष्टपत्रं लिखेत्पद्मं रक्ताभं पीतकर्णिकम् ॥ १६ ॥
आग्नेय-कोष्ठ-मध्ये तु पीत-आभे चतुरस्रके ॥ अष्ट-पत्रम् लिखेत् पद्मम् रक्त-आभम् पीत-कर्णिकम् ॥ १६ ॥
āgneya-koṣṭha-madhye tu pīta-ābhe caturasrake .. aṣṭa-patram likhet padmam rakta-ābham pīta-karṇikam .. 16 ..
हकारं विलिखेन्मध्ये विन्दुयुक्तं समाहितः ॥ पद्मस्य नैर्ऋते कोष्ठे चतुरस्रन्तदा लिखेत्॥१७॥
हकारम् विलिखेत् मध्ये विन्दु-युक्तम् समाहितः ॥ पद्मस्य नैरृते कोष्ठे लिखेत्॥१७॥
hakāram vilikhet madhye vindu-yuktam samāhitaḥ .. padmasya nairṛte koṣṭhe likhet..17..
पद्ममष्टदलं रक्तं पीतकिंजल्ककर्णिकम् ॥ ।शवर्गस्य तृतीयन्तु षष्ठस्वरसमन्वितम् ॥ १८॥
पद्मम् अष्ट-दलम् रक्तम् पीत-किंजल्क-कर्णिकम् ॥ ।शवर्गस्य तृतीयम् तु षष्ठ-स्वर-समन्वितम् ॥ १८॥
padmam aṣṭa-dalam raktam pīta-kiṃjalka-karṇikam .. .śavargasya tṛtīyam tu ṣaṣṭha-svara-samanvitam .. 18..
चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ॥ एतद्बीजवरं भद्रे पद्ममध्ये समालिखेत्॥ ॥ १९ ॥
चतुर्दश-स्वर-उपेतम् बिन्दु-नाद-विभूषितम् ॥ एतत् बीजवरम् भद्रे पद्म-मध्ये समालिखेत्॥ ॥ १९ ॥
caturdaśa-svara-upetam bindu-nāda-vibhūṣitam .. etat bījavaram bhadre padma-madhye samālikhet.. .. 19 ..
पद्मस्येशानकोष्ठे तु तथा पद्मं समालिखेत् ॥ कवर्गस्य तृतीयं तु पंचमस्वरसंयुतम् ॥ 6.5.२० ॥
पद्मस्य ईशान-कोष्ठे तु तथा पद्मम् समालिखेत् ॥ कवर्गस्य तृतीयम् तु पंचम-स्वर-संयुतम् ॥ ६।५।२० ॥
padmasya īśāna-koṣṭhe tu tathā padmam samālikhet .. kavargasya tṛtīyam tu paṃcama-svara-saṃyutam .. 6.5.20 ..
विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलंकृतम् ॥ तद्बाह्यपंक्तित्रितये पूर्वादिपरितः क्रमात् ॥ २१ ॥
विलिखेत् मध्यतस् तस्य बिन्दु-कण्ठे सु अलंकृतम् ॥ तद्-बाह्य-पंक्ति-त्रितये पूर्व-आदि-परितस् क्रमात् ॥ २१ ॥
vilikhet madhyatas tasya bindu-kaṇṭhe su alaṃkṛtam .. tad-bāhya-paṃkti-tritaye pūrva-ādi-paritas kramāt .. 21 ..
कोष्ठानि पंच गृह्रीयाद्गिरिराजसुते शिवे ॥ मध्ये तु कर्णिकां कुर्यात्पीतां रक्तं च वृत्तकम्॥२२॥
कोष्ठानि पंच गृह्रीयात् गिरिराजसुते शिवे ॥ मध्ये तु कर्णिकाम् कुर्यात् पीताम् रक्तम् च वृत्तकम्॥२२॥
koṣṭhāni paṃca gṛhrīyāt girirājasute śive .. madhye tu karṇikām kuryāt pītām raktam ca vṛttakam..22..
दलानि रक्तवर्णानि कल्पयेत्कल्पवित्तमः॥दलबाह्ये तु कृष्णेन रंध्राणि परिपूरयेत्॥२३॥
दलानि रक्त-वर्णानि कल्पयेत् कल्प-वित्तमः॥दल-बाह्ये तु कृष्णेन रंध्राणि परिपूरयेत्॥२३॥
dalāni rakta-varṇāni kalpayet kalpa-vittamaḥ..dala-bāhye tu kṛṣṇena raṃdhrāṇi paripūrayet..23..
आग्नेयादीनि चत्वारि शुक्लेनैव प्रपूरयेत्॥पूर्वे षड्बिन्दुसहितं षट्कोणं कृष्णमालिखेत्॥२४॥
आग्नेय-आदीनि चत्वारि शुक्लेन एव प्रपूरयेत्॥पूर्वे षष्-बिन्दु-सहितम् षट्कोणम् कृष्णम् आलिखेत्॥२४॥
āgneya-ādīni catvāri śuklena eva prapūrayet..pūrve ṣaṣ-bindu-sahitam ṣaṭkoṇam kṛṣṇam ālikhet..24..
रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः॥श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे ॥ २५॥
रक्त-वर्णम् दक्षिणतस् त्रिकोणम् च उत्तरे ततस्॥श्वेत-आभम् अर्द्धचन्द्रम् च पीत-वर्णम् च पश्चिमे ॥ २५॥
rakta-varṇam dakṣiṇatas trikoṇam ca uttare tatas..śveta-ābham arddhacandram ca pīta-varṇam ca paścime .. 25..
चतुरस्रं क्रमात्तेषु लिखेद्बीजचतुष्टयम्॥पूर्वे बिन्दुं समालिख्य शुभ्रं कृष्णं तु दक्षिणे ॥ २६॥
चतुर्-अस्रम् क्रमात् तेषु लिखेत् बीज-चतुष्टयम्॥पूर्वे बिन्दुम् समालिख्य शुभ्रम् कृष्णम् तु दक्षिणे ॥ २६॥
catur-asram kramāt teṣu likhet bīja-catuṣṭayam..pūrve bindum samālikhya śubhram kṛṣṇam tu dakṣiṇe .. 26..
उकारमुत्तरे रक्तं मकारं पश्चिमे ततः॥अकारं पीतमेवं तु कृत्वा वर्णचतुष्टयम्॥२७॥
उकारम् उत्तरे रक्तम् मकारम् पश्चिमे ततस्॥अकारम् पीतम् एवम् तु कृत्वा वर्ण-चतुष्टयम्॥२७॥
ukāram uttare raktam makāram paścime tatas..akāram pītam evam tu kṛtvā varṇa-catuṣṭayam..27..
सर्वोर्द्ध्वपंक्त्यधः पंक्तौ समारभ्य च सुन्दरि॥पीतं श्वेतं च रक्तं च कृष्णं चेति चतुष्टयम् ॥ २८॥
सर्व-ऊर्द्ध्व-पंक्ति-अधस् पंक्तौ समारभ्य च सुन्दरि॥पीतम् श्वेतम् च रक्तम् च कृष्णम् च इति चतुष्टयम् ॥ २८॥
sarva-ūrddhva-paṃkti-adhas paṃktau samārabhya ca sundari..pītam śvetam ca raktam ca kṛṣṇam ca iti catuṣṭayam .. 28..
तदधो धवलं श्यामं पीतं रक्तं चतुष्टयम् ॥ अधस्त्रिकोणके रक्तं शुक्लं पीतं वरानने ॥ २९॥
तद्-अधस् धवलम् श्यामम् पीतम् रक्तम् चतुष्टयम् ॥ अधस् त्रिकोणके रक्तम् शुक्लम् पीतम् वरानने ॥ २९॥
tad-adhas dhavalam śyāmam pītam raktam catuṣṭayam .. adhas trikoṇake raktam śuklam pītam varānane .. 29..
एवन्दक्षिणमारभ्य कुर्यात्सोमान्तमीश्वरि॥तद्बाह्यपंक्तौ पूर्वादिमध्यमान्तं विचित्रयेत् ॥ 6.5.३०॥
एवम् दक्षिणम् आरभ्य कुर्यात् सोम-अन्तम् ईश्वरि॥तद्-बाह्य-पंक्तौ पूर्व-आदि-मध्यम-अन्तम् विचित्रयेत् ॥ ६।५।३०॥
evam dakṣiṇam ārabhya kuryāt soma-antam īśvari..tad-bāhya-paṃktau pūrva-ādi-madhyama-antam vicitrayet .. 6.5.30..
पीतं रक्तं च कृष्णं च श्यामं श्वेतं च पीतकम् ॥ आग्रेय्यादि समारभ्य रक्तं श्यामं सितं प्रिये ॥ ३१ ॥
पीतम् रक्तम् च कृष्णम् च श्यामम् श्वेतम् च पीतकम् ॥ आग्रेयी-आदि समारभ्य रक्तम् श्यामम् सितम् प्रिये ॥ ३१ ॥
pītam raktam ca kṛṣṇam ca śyāmam śvetam ca pītakam .. āgreyī-ādi samārabhya raktam śyāmam sitam priye .. 31 ..
रक्तं कृष्णं च रक्तं च षट्कमेव प्रकीर्तितम् ॥ दक्षिणाद्यं महेशानि पूर्वावधि समीरितम् ॥ ३२ ॥
रक्तम् कृष्णम् च रक्तम् च षट्कम् एव प्रकीर्तितम् ॥ ॥ ३२ ॥
raktam kṛṣṇam ca raktam ca ṣaṭkam eva prakīrtitam .. .. 32 ..
नैर्ऋताद्यन्तु विज्ञेयमाग्नेयावधि चेश्वरि ॥ वारुणं तु समारभ्य दक्षिणावधि चेरितम॥३३॥
विज्ञेयम् आग्नेय-अवधि च ईश्वरि ॥ वारुणम् तु समारभ्य दक्षिण-अवधि च ईरितम्॥३३॥
vijñeyam āgneya-avadhi ca īśvari .. vāruṇam tu samārabhya dakṣiṇa-avadhi ca īritam..33..
वायव्याद्यं महादेवि नैर्ऋतावधि चेरितम् ॥ सोमार्थं परमेशानि वारुणावधि चेरितम् ॥ ३४॥
वायवी-आद्यम् महादेवि नैरृत-अवधि च ईरितम् ॥ सोम-अर्थम् परमेशानि वारुण-अवधि च ईरितम् ॥ ३४॥
vāyavī-ādyam mahādevi nairṛta-avadhi ca īritam .. soma-artham parameśāni vāruṇa-avadhi ca īritam .. 34..
ईशानाद्यं तु विज्ञेयं वायव्यावधि चाम्बिके ॥ इत्युक्तो मण्डलविधिर्मया तुभ्यं च पार्वति ॥ ३५॥
ईशान-आद्यम् तु विज्ञेयम् वायव्य-अवधि च अम्बिके ॥ इति उक्तः मण्डल-विधिः मया तुभ्यम् च पार्वति ॥ ३५॥
īśāna-ādyam tu vijñeyam vāyavya-avadhi ca ambike .. iti uktaḥ maṇḍala-vidhiḥ mayā tubhyam ca pārvati .. 35..
एवं मण्डलमालिख्य नियतात्मा यतिस्स्वतः ॥ सौरपूजां प्रकुर्वीत स हि तद्वस्तुतत्परः ॥ ३६ ॥
एवम् मण्डलम् आलिख्य नियत-आत्मा यतिः स्वतस् ॥ सौर-पूजाम् प्रकुर्वीत स हि तद्-वस्तु-तत्परः ॥ ३६ ॥
evam maṇḍalam ālikhya niyata-ātmā yatiḥ svatas .. saura-pūjām prakurvīta sa hi tad-vastu-tatparaḥ .. 36 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासमण्डलविधिवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् संन्यासमण्डलविधिवर्णनम् नाम पंचमः अध्यायः ॥ ५ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām saṃnyāsamaṇḍalavidhivarṇanam nāma paṃcamaḥ adhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In