| |
|

This overlay will guide you through the buttons:

।।ईश्वर उवाच ।।
दक्षिणे मंडलस्याथ वैयाघ्रं चर्मशोभनम्॥आस्तीर्य्य शुद्धतोयेन प्रोक्षयेदस्त्रमंत्रतः ॥ १॥
दक्षिणे मंडलस्य अथ वैयाघ्रम् चर्म-शोभनम्॥आस्तीर्य शुद्ध-तोयेन प्रोक्षयेत् अस्त्र-मंत्रतः ॥ १॥
dakṣiṇe maṃḍalasya atha vaiyāghram carma-śobhanam..āstīrya śuddha-toyena prokṣayet astra-maṃtrataḥ .. 1..
प्रणवं पूर्वमुद्धृत्य पश्चादाधार मुद्धरेत् ॥ तत्पश्चाच्छक्तिकमलं चतुर्थ्यंतं नमोन्तकम् ॥ २॥
प्रणवम् पूर्वम् उद्धृत्य पश्चात् आधारम् उद्धरेत् ॥ तद्-पश्चात् शक्ति-कमलम् चतुर्थी-अंतम् नमः-न्तकम् ॥ २॥
praṇavam pūrvam uddhṛtya paścāt ādhāram uddharet .. tad-paścāt śakti-kamalam caturthī-aṃtam namaḥ-ntakam .. 2..
मनुमेवं समुच्चार्य स्थित्वा तस्मिन्नुदङ्मुखः ॥ प्राणानायम्य विधिवत्प्र णवोच्चारपूर्वकम् ॥ ३॥
मनुम् एवम् समुच्चार्य स्थित्वा तस्मिन् उदक्-मुखः ॥ प्राणान् आयम्य विधिवत् प्र णव-उच्चार-पूर्वकम् ॥ ३॥
manum evam samuccārya sthitvā tasmin udak-mukhaḥ .. prāṇān āyamya vidhivat pra ṇava-uccāra-pūrvakam .. 3..
अग्निरित्यादिभिर्मंत्रैर्भस्म संधारयेत्ततः ॥ शिरसि श्रीगुरुं नत्वा मण्डलं रचयेत्पुनः ॥ ४॥
अग्निः इत्यादिभिः मंत्रैः भस्म संधारयेत् ततस् ॥ शिरसि श्री-गुरुम् नत्वा मण्डलम् रचयेत् पुनर् ॥ ४॥
agniḥ ityādibhiḥ maṃtraiḥ bhasma saṃdhārayet tatas .. śirasi śrī-gurum natvā maṇḍalam racayet punar .. 4..
त्रिकोणवृत्तं बाह्ये तु चतुरस्रात्मकं क्रमात् ॥ अभ्यर्च्योमिति साधारं स्थाप्य शंखं समर्चयेत् ॥ ५॥
त्रिकोण-वृत्तम् बाह्ये तु चतुर्-अस्र-आत्मकम् क्रमात् ॥ अभ्यर्च्य ऊम् इति स आधारम् स्थाप्य शंखम् समर्चयेत् ॥ ५॥
trikoṇa-vṛttam bāhye tu catur-asra-ātmakam kramāt .. abhyarcya ūm iti sa ādhāram sthāpya śaṃkham samarcayet .. 5..
आपूर्य शुद्धतोयेन प्रणवेन सुगंधिना॥अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेन च सप्तधा ॥ ६ ॥
आपूर्य शुद्ध-तोयेन प्रणवेन सुगंधिना॥अभ्यर्च्य गंध-पुष्प-आद्यैः प्रणवेन च सप्तधा ॥ ६ ॥
āpūrya śuddha-toyena praṇavena sugaṃdhinā..abhyarcya gaṃdha-puṣpa-ādyaiḥ praṇavena ca saptadhā .. 6 ..
अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत ॥ शंखमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः ॥ ७ ॥
ततस् तस्मिन् धेनुमुद्राम् प्रदर्शयेत ॥ शंख-मुद्राम् च तेन एव प्रोक्षयेत् अस्त्र-मंत्रतः ॥ ७ ॥
tatas tasmin dhenumudrām pradarśayeta .. śaṃkha-mudrām ca tena eva prokṣayet astra-maṃtrataḥ .. 7 ..
आत्मानं गंधपुष्पादिपूजोपकरणानि च ॥ प्राणायामत्रयं कृत्वा ऋष्यादिकमथाचरेत् ॥ ८ ॥
आत्मानम् गंध-पुष्प-आदि-पूजा-उपकरणानि च ॥ प्राणायाम-त्रयम् कृत्वा ऋषि-आदिकम् अथ आचरेत् ॥ ८ ॥
ātmānam gaṃdha-puṣpa-ādi-pūjā-upakaraṇāni ca .. prāṇāyāma-trayam kṛtvā ṛṣi-ādikam atha ācaret .. 8 ..
अस्य श्रीसौरमंत्रस्य देवभाग ऋषिस्ततः ॥ छन्दो गायत्रमित्युक्तं देवस्सूर्यो महेश्वरः ॥ ९॥
अस्य श्री-सौर-मंत्रस्य देवभागः ऋषिः ततस् ॥ छन्दः गायत्रम् इति उक्तम् देवः सूर्यः महेश्वरः ॥ ९॥
asya śrī-saura-maṃtrasya devabhāgaḥ ṛṣiḥ tatas .. chandaḥ gāyatram iti uktam devaḥ sūryaḥ maheśvaraḥ .. 9..
देवता स्यात्षडंगानि ह्रामित्यादीनि विन्यसेत् ॥ ततस्संप्रोक्षयेत्पद्ममस्त्रेणाग्नेरगोचरम् ॥ 6.6.१०॥
देवता स्यात् षष्-अंगानि ह्राम् इत्यादीनि विन्यसेत् ॥ ततस् संप्रोक्षयेत् पद्मम् अस्त्रेण अग्नेः अगोचरम् ॥ ६।६।१०॥
devatā syāt ṣaṣ-aṃgāni hrām ityādīni vinyaset .. tatas saṃprokṣayet padmam astreṇa agneḥ agocaram .. 6.6.10..
तस्मिन्समर्चयेद्विद्वान् प्रभूतां विमलामपि ॥ सारां चाथ समाराध्य पूर्वादिपरतः क्रमात् ॥ ११ ॥
तस्मिन् समर्चयेत् विद्वान् प्रभूताम् विमलाम् अपि ॥ साराम् च अथ समाराध्य पूर्व-आदि-परतस् क्रमात् ॥ ११ ॥
tasmin samarcayet vidvān prabhūtām vimalām api .. sārām ca atha samārādhya pūrva-ādi-paratas kramāt .. 11 ..
अथ कालाग्निरुद्रं च शक्तिमाधारसंज्ञिताम् ॥ अनन्तं पृथिवीं चैव रत्नद्वीपं तथैव च ॥ १२ ॥
अथ कालाग्नि-रुद्रम् च शक्तिम् आधार-संज्ञिताम् ॥ अनन्तम् पृथिवीम् च एव रत्नद्वीपम् तथा एव च ॥ १२ ॥
atha kālāgni-rudram ca śaktim ādhāra-saṃjñitām .. anantam pṛthivīm ca eva ratnadvīpam tathā eva ca .. 12 ..
संकल्पवृक्षोद्यानं च गृहं मणिमयं ततः॥रक्तपीठं च संपूज्य पादेषु प्रागुपक्रमात् ॥ १३॥
संकल्पवृक्ष-उद्यानम् च गृहम् मणि-मयम् ततस्॥रक्त-पीठम् च संपूज्य पादेषु प्राच्-उपक्रमात् ॥ १३॥
saṃkalpavṛkṣa-udyānam ca gṛham maṇi-mayam tatas..rakta-pīṭham ca saṃpūjya pādeṣu prāc-upakramāt .. 13..
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम्॥अधर्माद्यग्निकोणादिकोणेषु च समर्चयेत् ॥ १४ ॥
धर्मम् ज्ञानम् च वैराग्यम् ऐश्वर्यम् च चतुष्टयम्॥अधर्म-आदि-अग्नि-कोण-आदि-कोणेषु च समर्चयेत् ॥ १४ ॥
dharmam jñānam ca vairāgyam aiśvaryam ca catuṣṭayam..adharma-ādi-agni-koṇa-ādi-koṇeṣu ca samarcayet .. 14 ..
मायाधश्छदनं पश्चाद्विद्योर्ध्वच्छदनं ततः ॥ सत्त्वं रजस्तमश्चैव समभ्यर्च्य यथाक्रमम् ॥ १५॥
माया-अधस् छदनम् पश्चात् विद्या-ऊर्ध्व-छदनम् ततस् ॥ सत्त्वम् रजः तमः च एव समभ्यर्च्य यथाक्रमम् ॥ १५॥
māyā-adhas chadanam paścāt vidyā-ūrdhva-chadanam tatas .. sattvam rajaḥ tamaḥ ca eva samabhyarcya yathākramam .. 15..
पूर्वादिदिक्षु मध्ये च दीप्तां सूक्ष्मां जयामपि ॥ भद्रां विभूति विमलाममोघां वैद्युतामपि॥१६॥
पूर्व-आदि-दिक्षु मध्ये च दीप्ताम् सूक्ष्माम् जयाम् अपि ॥ भद्राम् विभूति विमलाम् अमोघाम् वैद्युताम् अपि॥१६॥
pūrva-ādi-dikṣu madhye ca dīptām sūkṣmām jayām api .. bhadrām vibhūti vimalām amoghām vaidyutām api..16..
सर्वतोमुखसंज्ञां च कन्दनालं तथैव च ॥ सुषिरं च ततस्तं तु कंटकांस्तदनंतरम् ॥ १७ ॥
सर्वतोमुख-संज्ञाम् च कन्द-नालम् तथा एव च ॥ सुषिरम् च ततस् तम् तु कंटकान् तद्-अनंतरम् ॥ १७ ॥
sarvatomukha-saṃjñām ca kanda-nālam tathā eva ca .. suṣiram ca tatas tam tu kaṃṭakān tad-anaṃtaram .. 17 ..
मूलच्छदनकिंजल्कप्रकाशसकलात्मनः ॥ पंचग्रंथिकर्णिकां च दलानि तदनंतरम् ॥ १८ ॥
मूल-छदन-किंजल्क-प्रकाश-सकल-आत्मनः ॥ पंच-ग्रंथि-कर्णिकाम् च दलानि तद्-अनन्तरम् ॥ १८ ॥
mūla-chadana-kiṃjalka-prakāśa-sakala-ātmanaḥ .. paṃca-graṃthi-karṇikām ca dalāni tad-anantaram .. 18 ..
केशरान्ब्रह्मविष्णू च रुद्रमात्मानमेव च ॥ अन्तरात्मानमपि च ज्ञानात्मपरमात्मनि ॥ १९ ॥
केशरान् ब्रह्म-विष्णू च रुद्रम् आत्मानम् एव च ॥ अन्तरात्मानम् अपि च ज्ञान-आत्म-परमात्मनि ॥ १९ ॥
keśarān brahma-viṣṇū ca rudram ātmānam eva ca .. antarātmānam api ca jñāna-ātma-paramātmani .. 19 ..
सम्पूज्य पश्चात्सौराख्यं योगपीठं समर्चयेत् ॥ पीठोपरि समाकल्प्य मूर्त्तिं मूलेन मूलवित् ॥ 6.6.२०॥
सम्पूज्य पश्चात् सौर-आख्यम् योगपीठम् समर्चयेत् ॥ पीठ-उपरि समाकल्प्य मूर्त्तिम् मूलेन मूल-विद् ॥ ६।६।२०॥
sampūjya paścāt saura-ākhyam yogapīṭham samarcayet .. pīṭha-upari samākalpya mūrttim mūlena mūla-vid .. 6.6.20..
निरुद्धप्राण आसीनो मूलेनैव स्वमूलतः ॥ शक्तिमुत्थाप्य तत्तेजः प्रभावात्पिंगलाध्वना ॥ २१ ॥
निरुद्धप्राणः आसीनः मूलेन एव स्व-मूलतः ॥ शक्तिम् उत्थाप्य तत् तेजः प्रभावात् पिंगलाध्वना ॥ २१ ॥
niruddhaprāṇaḥ āsīnaḥ mūlena eva sva-mūlataḥ .. śaktim utthāpya tat tejaḥ prabhāvāt piṃgalādhvanā .. 21 ..
पुष्पांजलौ निर्गमय्य मण्डलस्थस्य भास्वतः ॥ सिन्दूरारुणदेहस्य वामार्द्धदयितस्य च ॥ २२ ॥
पुष्प-अंजलौ निर्गमय्य मण्डल-स्थस्य भास्वतः ॥ सिन्दूर-अरुण-देहस्य वाम-अर्द्ध-दयितस्य च ॥ २२ ॥
puṣpa-aṃjalau nirgamayya maṇḍala-sthasya bhāsvataḥ .. sindūra-aruṇa-dehasya vāma-arddha-dayitasya ca .. 22 ..
अक्षस्रक्पाशखट्वांगकपालांकुशपंकजम् ॥ शंखं चक्रं दधानस्य चतुर्वक्त्रस्य लोचनैः ॥ २३ ॥
अक्ष-स्रक्-पाश-खट्वांग-कपाल-अंकुश-पंकजम् ॥ शंखम् चक्रम् दधानस्य चतुर्वक्त्रस्य लोचनैः ॥ २३ ॥
akṣa-srak-pāśa-khaṭvāṃga-kapāla-aṃkuśa-paṃkajam .. śaṃkham cakram dadhānasya caturvaktrasya locanaiḥ .. 23 ..
राजितस्य द्वादशभिस्तस्य हृत्पंकजोदरे ॥ प्रणवं पूर्वमुद्धृत्य ह्रांह्रींसस्तदनन्तरम् ॥ २४॥
राजितस्य द्वादशभिः तस्य हृद्-पंकज-उदरे ॥ प्रणवम् पूर्वम् उद्धृत्य ह्रां ह्रींसः तद्-अनन्तरम् ॥ २४॥
rājitasya dvādaśabhiḥ tasya hṛd-paṃkaja-udare .. praṇavam pūrvam uddhṛtya hrāṃ hrīṃsaḥ tad-anantaram .. 24..
प्रकाशशक्तिसहितं मार्तण्डं च ततः परम् ॥ आवाहयामि नम इत्यावाह्या वाहनाख्यया ॥ २५॥
प्रकाश-शक्ति-सहितम् मार्तण्डम् च ततस् परम् ॥ आवाहयामि नमः इति आवाह्याः वाहन-आख्यया ॥ २५॥
prakāśa-śakti-sahitam mārtaṇḍam ca tatas param .. āvāhayāmi namaḥ iti āvāhyāḥ vāhana-ākhyayā .. 25..
मुद्रया स्थापनाद्याश्च मुद्रास्संदर्शयेत्ततः ॥ विन्यस्यांगानि ह्रां ह्रीं ह्रूमंतेन मनुना ततः ॥ २६॥
मुद्रया स्थापन-आद्याः च मुद्राः संदर्शयेत् ततस् ॥ विन्यस्य अंगानि ह्रां ह्रीं ह्रूमंतेन मनुना ततस् ॥ २६॥
mudrayā sthāpana-ādyāḥ ca mudrāḥ saṃdarśayet tatas .. vinyasya aṃgāni hrāṃ hrīṃ hrūmaṃtena manunā tatas .. 26..
पंचोपचारान्संकल्प्य मूलेनाभ्यर्चयेत्त्रिधा ॥ केशरेषु च पद्मस्य षडंगानि महेश्वरि ॥ २७॥
पंच उपचारान् संकल्प्य मूलेन अभ्यर्चयेत् त्रिधा ॥ केशरेषु च पद्मस्य षष्-अंगानि महेश्वरि ॥ २७॥
paṃca upacārān saṃkalpya mūlena abhyarcayet tridhā .. keśareṣu ca padmasya ṣaṣ-aṃgāni maheśvari .. 27..
वह्नीशरक्षोवायूनां परितः क्रमतः सुधीः ॥ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ २८ ॥
वह्नि-ईश-रक्षः-वायूनाम् परितस् क्रमतः सुधीः ॥ द्वितीय-आवरणे पूज्याः चतस्रः मूर्तयः क्रमात् ॥ २८ ॥
vahni-īśa-rakṣaḥ-vāyūnām paritas kramataḥ sudhīḥ .. dvitīya-āvaraṇe pūjyāḥ catasraḥ mūrtayaḥ kramāt .. 28 ..
पूर्वाद्युत्तरपर्यंतं दलमूलेषु पार्वति ॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ २९ ॥
पूर्व-आदि-उत्तर-पर्यंतम् दल-मूलेषु पार्वति ॥ आदित्यः भास्करः भानुः रविः च इति अनुपूर्वशस् ॥ २९ ॥
pūrva-ādi-uttara-paryaṃtam dala-mūleṣu pārvati .. ādityaḥ bhāskaraḥ bhānuḥ raviḥ ca iti anupūrvaśas .. 29 ..
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चेति पुनः प्रिये ॥ ईशानादिषु संपूज्यास्तृतीयावरणे पुनः ॥ 6.6.३०॥
अर्कः ब्रह्मा तथा रुद्रः विष्णुः च इति पुनर् प्रिये ॥ ईशान-आदिषु संपूज्याः तृतीय-आवरणे पुनर् ॥ ६।६।३०॥
arkaḥ brahmā tathā rudraḥ viṣṇuḥ ca iti punar priye .. īśāna-ādiṣu saṃpūjyāḥ tṛtīya-āvaraṇe punar .. 6.6.30..
सोमं कुजं बुधं जीवं कविं मंदं तम स्तमः ॥ समंततो यजेदेतान्पूर्वादिदलमध्यतः ॥ ३१॥
सोमम् कुजम् बुधम् जीवम् कविम् मंदम् तमः स्तमः ॥ समंततः यजेत् एतान् पूर्व-आदि-दल-मध्यतः ॥ ३१॥
somam kujam budham jīvam kavim maṃdam tamaḥ stamaḥ .. samaṃtataḥ yajet etān pūrva-ādi-dala-madhyataḥ .. 31..
अथवा द्वादशादित्यान्द्वितीयावरणे यजेत ॥ तृतीयावरणे चैव राशीर्द्वादश पूजयेत् ॥ ३२॥
अथवा द्वादश आदित्यान् द्वितीय-आवरणे यजेत ॥ तृतीय-आवरणे च एव राशीः द्वादश पूजयेत् ॥ ३२॥
athavā dvādaśa ādityān dvitīya-āvaraṇe yajeta .. tṛtīya-āvaraṇe ca eva rāśīḥ dvādaśa pūjayet .. 32..
सप्तसागरगंगाश्च बहिरस्य समंततः ॥ ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ३३॥
सप्त-सागर-गंगाः च बहिस् अस्य समंततः ॥ ऋषीन् देवान् च गंधर्वान् पन्नगान् अप्सरः-गणान् ॥ ३३॥
sapta-sāgara-gaṃgāḥ ca bahis asya samaṃtataḥ .. ṛṣīn devān ca gaṃdharvān pannagān apsaraḥ-gaṇān .. 33..
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ सप्तच्छन्दोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ ३४ ॥
ग्रामण्यः च तथा यक्षान् यातुधानान् तथा हयान् ॥ सप्त-छन्दः-मयान् च एव वालखिल्यान् च पूजयेत् ॥ ३४ ॥
grāmaṇyaḥ ca tathā yakṣān yātudhānān tathā hayān .. sapta-chandaḥ-mayān ca eva vālakhilyān ca pūjayet .. 34 ..
एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ॥ विरच्य मंडलं पश्चाच्चतुरस्रं समाहितः ॥ ३५ ॥
एवम् त्रि-आवरणम् देवम् समभ्यर्च्य दिवाकरम् ॥ विरच्य मंडलम् पश्चात् चतुर्-अस्रम् समाहितः ॥ ३५ ॥
evam tri-āvaraṇam devam samabhyarcya divākaram .. viracya maṃḍalam paścāt catur-asram samāhitaḥ .. 35 ..
स्थाप्य साधारकं ताम्रपात्रं प्रस्थोदविस्तृतम् ॥ पूरयित्वा जलैः शुद्धैर्वासितैः कुसुमादिभिः ॥ ३६॥
स्थाप्य स आधारकम् ताम्र-पात्रम् प्रस्थ-उद-विस्तृतम् ॥ पूरयित्वा जलैः शुद्धैः वासितैः कुसुम-आदिभिः ॥ ३६॥
sthāpya sa ādhārakam tāmra-pātram prastha-uda-vistṛtam .. pūrayitvā jalaiḥ śuddhaiḥ vāsitaiḥ kusuma-ādibhiḥ .. 36..
अभ्यर्च्य गंधपुष्पाद्यैर्जानुभ्यामवनीं गतः ॥ अर्घ्यपात्रं समादाय भूमध्यान्तं समुद्धरेत् ॥ ३७॥
अभ्यर्च्य गंध-पुष्प-आद्यैः जानुभ्याम् अवनीम् गतः ॥ अर्घ्य-पात्रम् समादाय भू-मध्य-अन्तम् समुद्धरेत् ॥ ३७॥
abhyarcya gaṃdha-puṣpa-ādyaiḥ jānubhyām avanīm gataḥ .. arghya-pātram samādāya bhū-madhya-antam samuddharet .. 37..
ततो ब्रूयादिमं मंत्रं सावित्रं सर्वसिद्धिदम् ॥ शृणु तच्च महादेवि भक्तिमुक्तिप्रदं सदा ॥ ३८॥
ततस् ब्रूयात् इमम् मंत्रम् सावित्रम् सर्व-सिद्धि-दम् ॥ शृणु तत् च महादेवि भक्ति-मुक्ति-प्रदम् सदा ॥ ३८॥
tatas brūyāt imam maṃtram sāvitram sarva-siddhi-dam .. śṛṇu tat ca mahādevi bhakti-mukti-pradam sadā .. 38..
सिन्दूरवर्णाय सुमण्डलाय नमोऽस्तु वज्राभरणाय तुभ्यम् ॥ पद्माभनेत्राय सुपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ३९ ॥
सिन्दूर-वर्णाय सु मण्डलाय नमः अस्तु वज्र-आभरणाय तुभ्यम् ॥ पद्म-आभ-नेत्राय सु पंकजाय ब्रह्म-इन्द्र-नारायण-कारणाय ॥ ३९ ॥
sindūra-varṇāya su maṇḍalāya namaḥ astu vajra-ābharaṇāya tubhyam .. padma-ābha-netrāya su paṃkajāya brahma-indra-nārāyaṇa-kāraṇāya .. 39 ..
सरक्तचूर्णं ससुवर्णतोयं स्रक्कुंकुमाढ्यं सकुशं सपुष्पम् ॥ प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ 6.6.४० ॥
स रक्त-चूर्णम् स सुवर्ण-तोयम् स्रज्-कुंकुम-आढ्यम् स कुशम् स पुष्पम् ॥ प्रदत्तम् आदाय स हेम-पात्रम् प्रशस्तम् अर्घ्यम् भगवन् प्रसीद ॥ ६।६।४० ॥
sa rakta-cūrṇam sa suvarṇa-toyam sraj-kuṃkuma-āḍhyam sa kuśam sa puṣpam .. pradattam ādāya sa hema-pātram praśastam arghyam bhagavan prasīda .. 6.6.40 ..
एवमुक्त्वा ततो दत्त्वा तदर्थं सूर्यमूर्त्तये ॥ नमस्कुर्यादिमं मंत्रं पठित्वा सुसमाहितः ॥ ४१॥
एवम् उक्त्वा ततस् दत्त्वा तद्-अर्थम् सूर्य-मूर्त्तये ॥ नमस्कुर्यात् इमम् मंत्रम् पठित्वा सु समाहितः ॥ ४१॥
evam uktvā tatas dattvā tad-artham sūrya-mūrttaye .. namaskuryāt imam maṃtram paṭhitvā su samāhitaḥ .. 41..
नमश्शिवाय साम्बाय सगणायादिहेतवे ॥ रुद्राय विष्णवे तुभ्यं ब्रह्मणे च त्रिमूर्तये ॥ ४२ ॥
नमः शिवाय स अम्बाय स गणाय आदिहेतवे ॥ रुद्राय विष्णवे तुभ्यम् ब्रह्मणे च त्रिमूर्तये ॥ ४२ ॥
namaḥ śivāya sa ambāya sa gaṇāya ādihetave .. rudrāya viṣṇave tubhyam brahmaṇe ca trimūrtaye .. 42 ..
एवमुक्त्वा नमस्कृत्य स्वासने समवस्थितः ॥ ऋष्यादिकं पुनः कृत्वा करं संशोध्य वारिणा ॥ ४३ ॥
एवम् उक्त्वा नमस्कृत्य स्व-आसने समवस्थितः ॥ ऋषि-आदिकम् पुनर् कृत्वा करम् संशोध्य वारिणा ॥ ४३ ॥
evam uktvā namaskṛtya sva-āsane samavasthitaḥ .. ṛṣi-ādikam punar kṛtvā karam saṃśodhya vāriṇā .. 43 ..
पुनश्च भस्म संधार्य पूर्वोक्तेनैव वर्त्मना ॥ न्यासजातम्प्रकुर्वीत शिवभावविवृद्ध्धये ॥ ४४ ॥
पुनर् च भस्म संधार्य पूर्व-उक्तेन एव वर्त्मना ॥ न्यास-जातम् प्रकुर्वीत शिव-भाव-विवृद्ध्धये ॥ ४४ ॥
punar ca bhasma saṃdhārya pūrva-uktena eva vartmanā .. nyāsa-jātam prakurvīta śiva-bhāva-vivṛddhdhaye .. 44 ..
पंचोपचारैस्संपूज्य शिरसा श्रीगुरुम्बुधः ॥ प्रणवं श्रीचतुर्थ्यंतं नमोंतं प्रणमेत्ततः ॥ ४५ ॥
पंच-उपचारैः संपूज्य शिरसा श्री-गुरुम् बुधः ॥ प्रणवम् श्री-चतुर्थी-अंतम् नमः-ओंतम् प्रणमेत् ततस् ॥ ४५ ॥
paṃca-upacāraiḥ saṃpūjya śirasā śrī-gurum budhaḥ .. praṇavam śrī-caturthī-aṃtam namaḥ-oṃtam praṇamet tatas .. 45 ..
पंचात्मकं बिन्दुयुतं पंचमस्वरसंयुतम् ॥ तदेव बिन्दुसहितं पंचमस्वरवर्जितम् ॥ ४६ ॥
पंच-आत्मकम् बिन्दु-युतम् पंचम-स्वर-संयुतम् ॥ तत् एव बिन्दु-सहितम् पंचम-स्वर-वर्जितम् ॥ ४६ ॥
paṃca-ātmakam bindu-yutam paṃcama-svara-saṃyutam .. tat eva bindu-sahitam paṃcama-svara-varjitam .. 46 ..
पंचमस्वरसंयुक्तं मंत्रीशं च सबिन्दुकम् ॥ उद्धृत्य बिन्दुसहितं संवर्तकमथोद्धरेत् ॥ ४७॥
पंचम-स्वर-संयुक्तम् मंत्री ईशम् च स बिन्दुकम् ॥ उद्धृत्य बिन्दु-सहितम् संवर्तकम् अथ उद्धरेत् ॥ ४७॥
paṃcama-svara-saṃyuktam maṃtrī īśam ca sa bindukam .. uddhṛtya bindu-sahitam saṃvartakam atha uddharet .. 47..
एतैरेव क्रमाद्बीजैरुद्धृतैः प्रणमेद्बुधः ॥ भुजयोरूरुयुग्मे च गुरुं गणपतिन्तथा॥४८॥
एतैः एव क्रमात् बीजैः उद्धृतैः प्रणमेत् बुधः ॥ भुजयोः ऊरु-युग्मे च गुरुम् गणपतिम् तथा॥४८॥
etaiḥ eva kramāt bījaiḥ uddhṛtaiḥ praṇamet budhaḥ .. bhujayoḥ ūru-yugme ca gurum gaṇapatim tathā..48..
दुर्गां च क्षेत्रपालं च बद्धांजलिपुटः स्थितः ॥ ओमस्त्राय फडित्युक्त्वा करौ संशोध्य षट् क्रमात् ॥ ४९ ॥
दुर्गाम् च क्षेत्रपालम् च बद्ध-अंजलि-पुटः स्थितः ॥ ओम् अस्त्राय फट् इति उक्त्वा करौ संशोध्य षष् क्रमात् ॥ ४९ ॥
durgām ca kṣetrapālam ca baddha-aṃjali-puṭaḥ sthitaḥ .. om astrāya phaṭ iti uktvā karau saṃśodhya ṣaṣ kramāt .. 49 ..
अपसर्प्पन्त्विति प्रोच्य प्रणवं तदनंतरम् ॥ अस्त्राय फडिति प्रोच्य पार्ष्णिघातत्रयेण तु ॥ 6.6.५०॥
अपसर्प्पन्तु इति प्रोच्य प्रणवम् तद्-अनन्तरम् ॥ अस्त्राय फट् इति प्रोच्य पार्ष्णि-घात-त्रयेण तु ॥ ६।६।५०॥
apasarppantu iti procya praṇavam tad-anantaram .. astrāya phaṭ iti procya pārṣṇi-ghāta-trayeṇa tu .. 6.6.50..
उद्धृत्य विघ्नान्भूयिष्ठान्कर तालत्रयेण तु ॥ अन्तरिक्षगता न्दृष्ट्वा विलोक्य दिवि संस्थितान् ॥ ५१ ॥
उद्धृत्य विघ्नान् भूयिष्ठान् कर ताल-त्रयेण तु ॥ अन्तरिक्ष-गतान् दृष्ट्वा विलोक्य दिवि संस्थितान् ॥ ५१ ॥
uddhṛtya vighnān bhūyiṣṭhān kara tāla-trayeṇa tu .. antarikṣa-gatān dṛṣṭvā vilokya divi saṃsthitān .. 51 ..
निरुद्धप्राण आसीनो हंसमंत्रमनुस्मरन् ॥ हृदिस्थं जीवचैतन्यं ब्रह्मनाड्या समान येत् ॥ ५२ ॥
निरुद्ध-प्राणः आसीनः हंस-मंत्रम् अनुस्मरन् ॥ हृदिस्थम् जीव-चैतन्यम् ब्रह्मनाड्या समान येत् ॥ ५२ ॥
niruddha-prāṇaḥ āsīnaḥ haṃsa-maṃtram anusmaran .. hṛdistham jīva-caitanyam brahmanāḍyā samāna yet .. 52 ..
द्वादशांतस्स्थविशदे सहस्रारमहाम्बुजे ॥ चिच्चन्द्रमण्डलान्तस्थं चिद्रूपं परमेश्वरम् ॥ ५३ ॥
॥ चित्-चन्द्र-मण्डल-अन्त-स्थम् चित्-रूपम् परमेश्वरम् ॥ ५३ ॥
.. cit-candra-maṇḍala-anta-stham cit-rūpam parameśvaram .. 53 ..
शोषदाहप्लवान्कुर्याद्रेचकादि क्रमेण तु ॥ सषोडशचतुष्षष्टिद्वात्रिंशद्गणनायुतैः ॥ ५४ ॥
शोष-दाह-प्लवान् कुर्यात् रेचक-आदि क्रमेण तु ॥ स षोडश-चतुःषष्टि-द्वात्रिंशत्-गणना-युतैः ॥ ५४ ॥
śoṣa-dāha-plavān kuryāt recaka-ādi krameṇa tu .. sa ṣoḍaśa-catuḥṣaṣṭi-dvātriṃśat-gaṇanā-yutaiḥ .. 54 ..
वाय्वग्निसलिलाद्यैस्तैस्स्तवेदाद्यैरनुक्रमात् ॥ प्राणानायम्य मूलस्थां कुण्डलीं ब्रह्मरंध्रगाम् ॥ ५५ ॥
वायु-अग्नि-सलिल-आद्यैः तैः स्त-वेद-आद्यैः अनुक्रमात् ॥ प्राणान् आयम्य मूल-स्थाम् कुण्डलीम् ब्रह्मरंध्र-गाम् ॥ ५५ ॥
vāyu-agni-salila-ādyaiḥ taiḥ sta-veda-ādyaiḥ anukramāt .. prāṇān āyamya mūla-sthām kuṇḍalīm brahmaraṃdhra-gām .. 55 ..
आनीय द्वादशांतस्थसहस्राराम्बुजोदरे ॥ चिच्चन्द्रमण्डलोद्भूतपरमामृतधारया ॥ ५६ ॥
आनीय द्वादशान्त-स्थ-सहस्रार-अम्बुज-उदरे ॥ चित्-चन्द्र-मण्डल-उद्भूत-परम-अमृत-धारया ॥ ५६ ॥
ānīya dvādaśānta-stha-sahasrāra-ambuja-udare .. cit-candra-maṇḍala-udbhūta-parama-amṛta-dhārayā .. 56 ..
संसिक्तायां तनौ भूयश्शुद्धदेहस्सुभावनः ॥ सोहमित्यवतीर्याथ स्वात्मानं हृदयाम्बुजे ॥ ५७ ॥
संसिक्तायाम् तनौ भूयस् शुद्ध-देहः सु भावनः ॥ सः हम् इति अवतीर्य अथ स्व-आत्मानम् हृदय-अम्बुजे ॥ ५७ ॥
saṃsiktāyām tanau bhūyas śuddha-dehaḥ su bhāvanaḥ .. saḥ ham iti avatīrya atha sva-ātmānam hṛdaya-ambuje .. 57 ..
आत्मन्यावेश्य चात्मानममृतं सृतिधारया ॥ प्राणप्रतिष्ठां विधिवत्कुर्यादत्र समाहितः ॥ ५८ ॥
आत्मनि आवेश्य च आत्मानम् अमृतम् सृति-धारया ॥ प्राण-प्रतिष्ठाम् विधिवत् कुर्यात् अत्र समाहितः ॥ ५८ ॥
ātmani āveśya ca ātmānam amṛtam sṛti-dhārayā .. prāṇa-pratiṣṭhām vidhivat kuryāt atra samāhitaḥ .. 58 ..
एकाग्रमानसो योगी विमृश्यात्तां च मातृकाम् ॥ पुटितां प्रणवेनाथ न्यसेद्बाह्ये च मातृकाम् ॥ ५९ ॥
एकाग्र-मानसः योगी विमृश्य आत् ताम् च मातृकाम् ॥ पुटिताम् प्रणवेन अथ न्यसेत् बाह्ये च मातृकाम् ॥ ५९ ॥
ekāgra-mānasaḥ yogī vimṛśya āt tām ca mātṛkām .. puṭitām praṇavena atha nyaset bāhye ca mātṛkām .. 59 ..
पुनश्च संयतप्राणः कुर्याद्दृष्ट्यादिकं बुधः ॥ शंकरं संस्मरंश्चित्ते संन्यसेच्च विमत्सरः ॥ 6.6.६० ॥
पुनर् च संयत-प्राणः कुर्यात् दृष्टि-आदिकम् बुधः ॥ शंकरम् संस्मरन् चित्ते संन्यसेत् च विमत्सरः ॥ ६।६।६० ॥
punar ca saṃyata-prāṇaḥ kuryāt dṛṣṭi-ādikam budhaḥ .. śaṃkaram saṃsmaran citte saṃnyaset ca vimatsaraḥ .. 6.6.60 ..
प्रणवस्य ऋषिर्ब्रह्मा देवि गायत्रमीरितम् ॥ छन्दोत्र देवताहं वै परमात्मा सदाशिवः ॥ ६१ ॥
प्रणवस्य ऋषिः ब्रह्मा देवि गायत्रम् ईरितम् ॥ छन्दः उत्र देवता अहम् वै परमात्मा सदाशिवः ॥ ६१ ॥
praṇavasya ṛṣiḥ brahmā devi gāyatram īritam .. chandaḥ utra devatā aham vai paramātmā sadāśivaḥ .. 61 ..
अकारो बीजमाख्यातमुकारः शक्तिरुच्यते ॥ मकारः कीलकं प्रोक्तं मोक्षार्थे विनियुज्यते ॥ ६२॥
अकारः बीजम् आख्यातम् उकारः शक्तिः उच्यते ॥ मकारः कीलकम् प्रोक्तम् मोक्ष-अर्थे विनियुज्यते ॥ ६२॥
akāraḥ bījam ākhyātam ukāraḥ śaktiḥ ucyate .. makāraḥ kīlakam proktam mokṣa-arthe viniyujyate .. 62..
अंगुष्ठद्वयमारभ्य तलांतं परिमार्जयेत् ॥ ओमित्युक्त्वाथ देवेशि करन्यासं समारभेत् ॥ ६३॥
अंगुष्ठ-द्वयम् आरभ्य तल-अन्तम् परिमार्जयेत् ॥ ओम् इति उक्त्वा अथ देवेशि करन्यासम् समारभेत् ॥ ६३॥
aṃguṣṭha-dvayam ārabhya tala-antam parimārjayet .. om iti uktvā atha deveśi karanyāsam samārabhet .. 63..
दक्षहस्तस्थितांगुष्ठं समारभ्य यथाक्रमम् ॥ वामहस्तकनिष्ठांतं विन्यसेत्पूर्ववत्क्रमात् ॥ ६४ ॥
दक्ष-हस्त-स्थित-अंगुष्ठम् समारभ्य यथाक्रमम् ॥ वाम-हस्त-कनिष्ठा-अन्तम् विन्यसेत् पूर्ववत् क्रमात् ॥ ६४ ॥
dakṣa-hasta-sthita-aṃguṣṭham samārabhya yathākramam .. vāma-hasta-kaniṣṭhā-antam vinyaset pūrvavat kramāt .. 64 ..
अकारमप्युकारं च मकारं बिन्दुसंयुतम् ॥ नमोन्तं प्रोच्य सर्वत्र हृदयादौ न्यसेदथ ॥ ६५ ॥
अकारम् अपि उकारम् च मकारम् बिन्दु-संयुतम् ॥ नमः-न्तम् प्रोच्य सर्वत्र हृदय-आदौ न्यसेत् अथ ॥ ६५ ॥
akāram api ukāram ca makāram bindu-saṃyutam .. namaḥ-ntam procya sarvatra hṛdaya-ādau nyaset atha .. 65 ..
अकारं पूर्वमुद्धृत्य ब्रह्मात्मानमथाचरेत् ॥ ङेंतं नमोंतं हृदये विनियुज्यात्तथा पुनः॥६६॥
अकारम् पूर्वम् उद्धृत्य ब्रह्म-आत्मानम् अथ आचरेत् ॥ ङेंतम् नमः-ओम् तम् हृदये विनियुज्यात् तथा पुनर्॥६६॥
akāram pūrvam uddhṛtya brahma-ātmānam atha ācaret .. ṅeṃtam namaḥ-om tam hṛdaye viniyujyāt tathā punar..66..
उकारं विष्णुसहितं शिरोदेशे प्रविन्यसेत्॥मकारं रुद्रसहितं शिखायान्तु प्रविन्यसेत् ॥ ६७ ॥
उकारम् विष्णु-सहितम् शिरः-देशे प्रविन्यसेत्॥मकारम् रुद्र-सहितम् शिखायाम् तु प्रविन्यसेत् ॥ ६७ ॥
ukāram viṣṇu-sahitam śiraḥ-deśe pravinyaset..makāram rudra-sahitam śikhāyām tu pravinyaset .. 67 ..
एवमुक्त्वा मुनिर्मंत्री कवचं नेत्रमस्तके ॥ विन्यसेद्देवदेवेशि सावधानेन चेतसा ॥ ६८ ॥
एवम् उक्त्वा मुनिः मंत्री कवचम् नेत्र-मस्तके ॥ विन्यसेत् देवदेवेशि सावधानेन चेतसा ॥ ६८ ॥
evam uktvā muniḥ maṃtrī kavacam netra-mastake .. vinyaset devadeveśi sāvadhānena cetasā .. 68 ..
अंगवक्त्रकलाभेदात्पंच ब्रह्माणि विन्यसेत् ॥ शिरोवदनहृदगुह्यपादेष्वेतानि विन्यसेत् ॥ ६९॥
अंग-वक्त्र-कला-भेदात् पंच ब्रह्माणि विन्यसेत् ॥ शिरः-वदन-हृद-गुह्य-पादेषु एतानि विन्यसेत् ॥ ६९॥
aṃga-vaktra-kalā-bhedāt paṃca brahmāṇi vinyaset .. śiraḥ-vadana-hṛda-guhya-pādeṣu etāni vinyaset .. 69..
ईशान्यस्य कलाः पंच पंचस्वेतेषु च क्रमात् ॥ ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ 6.6.७०॥
ईशानी अस्य कलाः पंच पंचसु एतेषु च क्रमात् ॥ ततस् चतुर्षु वक्त्रेषु पुरुषस्य कलाः अपि ॥ ६।६।७०॥
īśānī asya kalāḥ paṃca paṃcasu eteṣu ca kramāt .. tatas caturṣu vaktreṣu puruṣasya kalāḥ api .. 6.6.70..
चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ ७१॥
चतस्रः प्रणिधातव्याः पूर्व-आदि-क्रम-योगतः ॥ हृद्-कंठ-अंसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ ७१॥
catasraḥ praṇidhātavyāḥ pūrva-ādi-krama-yogataḥ .. hṛd-kaṃṭha-aṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi .. 71..
अघोरस्य कलाश्चाष्टौ पूजनीया यथाक्रमम् ॥ पश्चात्त्रयोदशकलाः पायुमेढ्रोरुजानुषु॥७२॥
अघोरस्य कलाः च अष्टौ पूजनीयाः यथाक्रमम् ॥ पश्चात् त्रयोदश-कलाः पायु-मेढ्र-ऊरु-जानुषु॥७२॥
aghorasya kalāḥ ca aṣṭau pūjanīyāḥ yathākramam .. paścāt trayodaśa-kalāḥ pāyu-meḍhra-ūru-jānuṣu..72..
जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत्॥सद्यस्यापि कला चाष्टौ नेत्रेषु च यथाक्रमम्॥७३॥
जंघा-स्फिच् कटि-पार्श्वेषु वामदेवस्य भावयेत्॥सद्यस्य अपि कला च अष्टौ नेत्रेषु च यथाक्रमम्॥७३॥
jaṃghā-sphic kaṭi-pārśveṣu vāmadevasya bhāvayet..sadyasya api kalā ca aṣṭau netreṣu ca yathākramam..73..
कीर्तितास्ताः कलाश्चैव पादयोरपि हस्तयोः॥प्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥ ७४॥
कीर्तिताः ताः कलाः च एव पादयोः अपि हस्तयोः॥प्राणे शिरसि बाह्वोः च कल्पयेत् कल्प-वित्तमः ॥ ७४॥
kīrtitāḥ tāḥ kalāḥ ca eva pādayoḥ api hastayoḥ..prāṇe śirasi bāhvoḥ ca kalpayet kalpa-vittamaḥ .. 74..
अष्टत्रिंशत्कलान्यासमेवं कृत्वा तु सर्वशः ॥ पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत्॥
अष्टत्रिंशत्-कला-न्यासम् एवम् कृत्वा तु सर्वशस् ॥ पश्चात् प्रणव-विद् धीमान् प्रणव-न्यासम् आचरेत्॥
aṣṭatriṃśat-kalā-nyāsam evam kṛtvā tu sarvaśas .. paścāt praṇava-vid dhīmān praṇava-nyāsam ācaret..
बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः॥पार्श्वतोदरजंघेषु पादयोः पृष्ठतस्तथा॥७६॥
बाहु-द्वये कूर्परयोः तथा च मणिबन्धयोः॥पार्श्वतस् उदर-जंघेषु पादयोः पृष्ठतस् तथा॥७६॥
bāhu-dvaye kūrparayoḥ tathā ca maṇibandhayoḥ..pārśvatas udara-jaṃgheṣu pādayoḥ pṛṣṭhatas tathā..76..
इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः॥हंसन्यासं प्रकुर्वीत परमात्मविबोधिनि ॥ ७७ ॥
इत्थम् प्रणव-विन्यासम् कृत्वा न्यास-विचक्षणः॥प्रकुर्वीत ॥ ७७ ॥
ittham praṇava-vinyāsam kṛtvā nyāsa-vicakṣaṇaḥ..prakurvīta .. 77 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ न्यासवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् संन्यासपद्धतौ न्यासवर्णनम् नाम षष्ठः अध्यायः ॥ ६ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām saṃnyāsapaddhatau nyāsavarṇanam nāma ṣaṣṭhaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In