| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
अत्रास्ति च महादेवि खल्वावरणपंचकम् ॥ पंचावरणपूजान्तु प्रारभेत यथाक्रमम् ॥ १॥
अत्रा अस्ति च महादेवि खलु आवरण-पंचकम् ॥ पंच-आवरण-पूजाम् तु प्रारभेत यथाक्रमम् ॥ १॥
atrā asti ca mahādevi khalu āvaraṇa-paṃcakam .. paṃca-āvaraṇa-pūjām tu prārabheta yathākramam .. 1..
प्रथमम्पूजितौ यत्र तत्रैव क्रमशस्सुधीः ॥ गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ २ ॥
प्रथमम् पूजितौ यत्र तत्र एव क्रमशस् सुधीः ॥ गन्ध-आद्यैः अर्चयेत् पूर्वम् देवौ हेरंब-षण्मुखौ ॥ २ ॥
prathamam pūjitau yatra tatra eva kramaśas sudhīḥ .. gandha-ādyaiḥ arcayet pūrvam devau heraṃba-ṣaṇmukhau .. 2 ..
पंच ब्रह्माणि परितो वृत्ते सम्पूजयेत्क्रमात् ॥ ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा ॥ ३ ॥
पंच ब्रह्माणि परितस् वृत्ते सम्पूजयेत् क्रमात् ॥ ईशान-देशे पूर्वे च दक्षिणे च उत्तरे तथा ॥ ३ ॥
paṃca brahmāṇi paritas vṛtte sampūjayet kramāt .. īśāna-deśe pūrve ca dakṣiṇe ca uttare tathā .. 3 ..
पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ॥ आग्नेये च तथैशाने नैर्ऋते वायुदेशके ॥ ४ ॥
पश्चिमे च ततस् तस्मिन् षडंगानि समर्चयेत ॥ आग्नेये च तथा ऐशाने नैरृते वायु-देशके ॥ ४ ॥
paścime ca tatas tasmin ṣaḍaṃgāni samarcayeta .. āgneye ca tathā aiśāne nairṛte vāyu-deśake .. 4 ..
मध्ये नेत्रन्तद्वदस्त्रम्पूर्वादिपरितः क्रमात् ॥ प्रथमावरणम्प्रोक्तं द्वितीयावरणं शृणु ॥ ५ ॥
मध्ये नेत्रम् तद्वत् अस्त्रम् पूर्व-आदि-परितस् क्रमात् ॥ प्रथम-आवरणम् प्रोक्तम् द्वितीय-आवरणम् शृणु ॥ ५ ॥
madhye netram tadvat astram pūrva-ādi-paritas kramāt .. prathama-āvaraṇam proktam dvitīya-āvaraṇam śṛṇu .. 5 ..
अनन्तम्पूर्वदिक्पत्रे सूक्ष्मन्दक्षिणतस्तथा ॥ शिवोत्तमं पश्चिमत एकनेत्रन्तथोत्तरे ॥ ६ ॥
अनन्तम् पूर्व-दिश्-पत्रे सूक्ष्मन् दक्षिणतस् तथा ॥ शिवोत्तमम् पश्चिमतस् एकनेत्रम् तथा उत्तरे ॥ ६ ॥
anantam pūrva-diś-patre sūkṣman dakṣiṇatas tathā .. śivottamam paścimatas ekanetram tathā uttare .. 6 ..
एकरुद्रन्तथैशाने त्रिमूर्तिं वह्निदिग्दले ॥ श्रीकण्ठं नैर्ऋते वायौ शिखण्डीशं समर्चयेत् ॥ ७ ॥
एकरुद्रन् तथा ऐशाने त्रिमूर्तिम् वह्नि-दिश्-दले ॥ श्रीकण्ठम् नैरृते वायौ शिखण्डीशम् समर्चयेत् ॥ ७ ॥
ekarudran tathā aiśāne trimūrtim vahni-diś-dale .. śrīkaṇṭham nairṛte vāyau śikhaṇḍīśam samarcayet .. 7 ..
द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः ॥ पूर्वद्वारस्य मध्ये तु वृषेशानम्प्रपूजयेत् ॥ ८ ॥
द्वितीय-आवरणे च एव पूज्याः ते चक्रवर्तिनः ॥ पूर्व-द्वारस्य मध्ये तु वृष-ईशानम् प्रपूजयेत् ॥ ८ ॥
dvitīya-āvaraṇe ca eva pūjyāḥ te cakravartinaḥ .. pūrva-dvārasya madhye tu vṛṣa-īśānam prapūjayet .. 8 ..
तद्दक्षिणे नन्दिनञ्च महाकालन्तदुत्तरे ॥ भृंगीशन्दक्षिणद्वारपश्चिमे सम्प्रपूजयेत् ॥ ९॥
तद्-दक्षिणे नन्दिनन् च महाकालन् तद्-उत्तरे ॥ भृंगीशन् दक्षिण-द्वार-पश्चिमे सम्प्रपूजयेत् ॥ ९॥
tad-dakṣiṇe nandinan ca mahākālan tad-uttare .. bhṛṃgīśan dakṣiṇa-dvāra-paścime samprapūjayet .. 9..
तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ॥ पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम् ॥ 6.8.१० ॥
तद्-पूर्व-कोष्ठे गन्ध-आद्यैः सम्प्रपूज्य विनायकम् ॥ पश्चिम-उत्तर-कोष्ठे च वृषभन् दक्षिणे गुहम् ॥ ६।८।१० ॥
tad-pūrva-koṣṭhe gandha-ādyaiḥ samprapūjya vināyakam .. paścima-uttara-koṣṭhe ca vṛṣabhan dakṣiṇe guham .. 6.8.10 ..
उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः ॥ नामाष्टकविधानेन पूजयेदुच्यते हि तत् ॥ ११ ॥
उत्तर-द्वार-पूर्वे तु प्रदक्षिण-विधानतः ॥ नाम-अष्टक-विधानेन पूजयेत् उच्यते हि तत् ॥ ११ ॥
uttara-dvāra-pūrve tu pradakṣiṇa-vidhānataḥ .. nāma-aṣṭaka-vidhānena pūjayet ucyate hi tat .. 11 ..
भवं शर्वं तथेशानं रुद्रम्पशुपतिम्पुनः ॥ उग्रम्भीमम्महादेवन्तृतीयावरणन्त्विदम् ॥ १२ ॥
भवम् शर्वम् तथा ईशानम् रुद्रम् पशुपतिम् पुनर् ॥ उग्रम् भीमम् महादेवन् तृतीय-आवरणन् तु इदम् ॥ १२ ॥
bhavam śarvam tathā īśānam rudram paśupatim punar .. ugram bhīmam mahādevan tṛtīya-āvaraṇan tu idam .. 12 ..
यो वेदादौ स्वर इति समावाह्य महेश्वरम् ॥ पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि ॥ १३ ॥
यः वेद-आदौ स्वरः इति समावाह्य महेश्वरम् ॥ पूजयेत् पूर्व-दिग्भागे कमले कर्णिका-उपरि ॥ १३ ॥
yaḥ veda-ādau svaraḥ iti samāvāhya maheśvaram .. pūjayet pūrva-digbhāge kamale karṇikā-upari .. 13 ..
ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ॥ सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत् ॥ १४ ॥
ईश्वरम् पूर्व-दिश्-पत्रे विश्वेशन् दक्षिणे ततस् ॥ सौम्ये तु परमेशानम् सर्वेशम् प श्चिमे यजेत् ॥ १४ ॥
īśvaram pūrva-diś-patre viśveśan dakṣiṇe tatas .. saumye tu parameśānam sarveśam pa ścime yajet .. 14 ..
दक्षिणे तु यजेद्रुद्रमावोराजानमित्यृचा ॥ आवाह्य गन्धपुष्पाद्यैः कर्णिकायान्दलेषु च ॥ १५ ॥
दक्षिणे तु यजेत् रुद्रम् आवोराजानम् इति ऋचा ॥ आवाह्य गन्ध-पुष्प-आद्यैः कर्णिकायान् दलेषु च ॥ १५ ॥
dakṣiṇe tu yajet rudram āvorājānam iti ṛcā .. āvāhya gandha-puṣpa-ādyaiḥ karṇikāyān daleṣu ca .. 15 ..
शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः ॥ भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम् ॥ १६ ॥
शिवः पूर्वे दक्षिणतस् हरः उत्तरतस् मृडः ॥ भवः पश्चिम-दिश्-पत्रे पूज्याः एते यथाक्रमम् ॥ १६ ॥
śivaḥ pūrve dakṣiṇatas haraḥ uttaratas mṛḍaḥ .. bhavaḥ paścima-diś-patre pūjyāḥ ete yathākramam .. 16 ..
उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् ॥ प्रतद्विष्णुरिति प्रोच्य कर्णिकायान्दलेषु च ॥ १७॥
उत्तरे विष्णुम् आवाह्य गन्ध-पुष्प-आदिभिः यजेत् ॥ प्र तत् विष्णुः इति प्रोच्य कर्णिकायान् दलेषु च ॥ १७॥
uttare viṣṇum āvāhya gandha-puṣpa-ādibhiḥ yajet .. pra tat viṣṇuḥ iti procya karṇikāyān daleṣu ca .. 17..
वासुदेवम्पूर्वभागे दक्षिणे चानिरुद्धकम् ॥ सौम्ये संकर्षणञ्चैव प्रद्युम्नम्पश्चिमे यजेत् ॥ १८ ॥
वासुदेवम् पूर्व-भागे दक्षिणे च अनिरुद्धकम् ॥ सौम्ये संकर्षणम् च एव प्रद्युम्नम् पश्चिमे यजेत् ॥ १८ ॥
vāsudevam pūrva-bhāge dakṣiṇe ca aniruddhakam .. saumye saṃkarṣaṇam ca eva pradyumnam paścime yajet .. 18 ..
ब्रह्माणम्पश्चिमे पद्मे समावाह्य समर्चयेत् ॥ हिरण्यगर्भः समवर्तत इति मंत्रेण मंत्रवित् ॥ १९ ॥
ब्रह्माणम् पश्चिमे पद्मे समावाह्य समर्चयेत् ॥ हिरण्य-गर्भः समवर्तत इति मंत्रेण मंत्र-विद् ॥ १९ ॥
brahmāṇam paścime padme samāvāhya samarcayet .. hiraṇya-garbhaḥ samavartata iti maṃtreṇa maṃtra-vid .. 19 ..
हिरण्यगर्भं पूर्वस्यां विराजन्दक्षिणे ततः ॥ उत्तरे पुष्करञ्चैव कालम्पश्चिमतो यजेत् ॥ 6.8.२० ॥
हिरण्यगर्भम् पूर्वस्याम् विराजन् दक्षिणे ततस् ॥ उत्तरे पुष्करम् च एव कालम् पश्चिमतस् यजेत् ॥ ६।८।२० ॥
hiraṇyagarbham pūrvasyām virājan dakṣiṇe tatas .. uttare puṣkaram ca eva kālam paścimatas yajet .. 6.8.20 ..
सर्वोर्द्ध्वपंक्तौ पूर्वादिप्रदक्षिणविधानतः॥तत्तत्स्थानेषु संपूज्य लोकपालाननुक्रमात् ॥ २१ ॥
सर्व-ऊर्द्ध्व-पंक्तौ पूर्व-आदि-प्रदक्षिण-विधानतः॥तद्-तद्-स्थानेषु संपूज्य लोकपालान् अनुक्रमात् ॥ २१ ॥
sarva-ūrddhva-paṃktau pūrva-ādi-pradakṣiṇa-vidhānataḥ..tad-tad-sthāneṣu saṃpūjya lokapālān anukramāt .. 21 ..
रान्तंपान्तं तथा ज्ञान्तं लान्तं लान्तमपूर्वकम् ॥ षान्तं सान्तञ्च वेदाद्यं श्रीबीजञ्च दशक्रमात् ॥ २२ ॥
रान्तम् पान्तम् तथा ज्ञान्तम् लान्तम् लान्तम् अपूर्वकम् ॥ ष-अन्तम् स-अन्तम् च वेद-आद्यम् श्री-बीजम् च दश-क्रमात् ॥ २२ ॥
rāntam pāntam tathā jñāntam lāntam lāntam apūrvakam .. ṣa-antam sa-antam ca veda-ādyam śrī-bījam ca daśa-kramāt .. 22 ..
बीजानि लोकपालानामेतैरेतान्समर्चयेत् ॥ नैर्ऋते चोत्तरे तद्वदीशानस्य च दक्षिणे ॥ २३ ॥
बीजानि लोकपालानाम् एतैः एतान् समर्चयेत् ॥ नैरृते च उत्तरे तद्वत् ईशानस्य च दक्षिणे ॥ २३ ॥
bījāni lokapālānām etaiḥ etān samarcayet .. nairṛte ca uttare tadvat īśānasya ca dakṣiṇe .. 23 ..
ब्रह्म विष्णू च विधिना पूजयेदुपचारकैः ॥ बाह्यरेखासु देवेशम्पञ्चमावरणे यजेत् ॥ २४ ॥
ब्रह्म विष्णू च विधिना पूजयेत् उपचारकैः ॥ बाह्य-रेखासु देवेशम् पञ्चम-आवरणे यजेत् ॥ २४ ॥
brahma viṣṇū ca vidhinā pūjayet upacārakaiḥ .. bāhya-rekhāsu deveśam pañcama-āvaraṇe yajet .. 24 ..
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ २५ ॥
श्रीमत्-त्रिशूलम् ईशाने वज्रम् माहेन्द्र-दिश्-मुखे ॥ परशुम् वह्नि-दिग्भागे याम्ये सायकम् अर्चयेत् ॥ २५ ॥
śrīmat-triśūlam īśāne vajram māhendra-diś-mukhe .. paraśum vahni-digbhāge yāmye sāyakam arcayet .. 25 ..
नैर्ऋते तु यजेत्खड्गम्पाशं वरुणगोचरे ॥ अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ २६॥
नैरृते तु यजेत् खड्गम् पाशम् वरुण-गोचरे ॥ अंकुशम् मारुते भागे पिनाकम् च उत्तरे यजेत् ॥ २६॥
nairṛte tu yajet khaḍgam pāśam varuṇa-gocare .. aṃkuśam mārute bhāge pinākam ca uttare yajet .. 26..
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च ॥ २७ ॥
पश्चिम-अभिमुखम् रौद्रम् क्षेत्रपालम् समर्चयेत् ॥ यथाविधि विधान-ज्ञः शिव-प्रीति-अर्थम् एव च ॥ २७ ॥
paścima-abhimukham raudram kṣetrapālam samarcayet .. yathāvidhi vidhāna-jñaḥ śiva-prīti-artham eva ca .. 27 ..
कृताञ्जलिपुटास्सर्वे चिन्त्याः स्मितमुखाम्बुजाः ॥ सादरं प्रेक्षमाणाश्च देवं देवीञ्च सर्वदा ॥ २८॥
कृत-अञ्जलि-पुटाः सर्वे चिन्त्याः स्मित-मुख-अम्बुजाः ॥ स आदरम् प्रेक्षमाणाः च देवम् देवीम् च सर्वदा ॥ २८॥
kṛta-añjali-puṭāḥ sarve cintyāḥ smita-mukha-ambujāḥ .. sa ādaram prekṣamāṇāḥ ca devam devīm ca sarvadā .. 28..
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ॥ पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत्॥२९॥
इत्थम् आवरण-अभ्यर्चाम् कृत्वा विक्षेप-शान्तये ॥ पुनर् अभ्यर्च्य देवेशम् प्रणवम् च शिवम् वदेत्॥२९॥
ittham āvaraṇa-abhyarcām kṛtvā vikṣepa-śāntaye .. punar abhyarcya deveśam praṇavam ca śivam vadet..29..
एवमभ्यर्च्य विधिवद्गन्धाद्यैरुपचारकैः॥उपचर्य्य ततो दद्यान्नैवेद्यं विधिसाधितम्॥6.8.३०॥
एवम् अभ्यर्च्य विधिवत् गन्ध-आद्यैः उपचारकैः॥उपचर्य्य ततस् दद्यात् नैवेद्यम् विधि-साधितम्॥६।८।३०॥
evam abhyarcya vidhivat gandha-ādyaiḥ upacārakaiḥ..upacaryya tatas dadyāt naivedyam vidhi-sādhitam..6.8.30..
पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा ॥ ततो निवेद्य पानीयन्ताम्बूलं चोपदेशतः ॥ ३१ ॥
पुनर् आचमनीयम् च दद्यात् अर्घ्यम् यथा पुरा ॥ ततस् निवेद्य पानीयम् ताम्बूलम् च उपदेशतः ॥ ३१ ॥
punar ācamanīyam ca dadyāt arghyam yathā purā .. tatas nivedya pānīyam tāmbūlam ca upadeśataḥ .. 31 ..
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत् ॥ ३२॥
नीराजन-आदिकम् कृत्वा पूजा-शेषम् समापयेत् ॥ ध्यात्वा देवम् च देवीम् च मनुम् अष्ट-उत्तरम् जपेत् ॥ ३२॥
nīrājana-ādikam kṛtvā pūjā-śeṣam samāpayet .. dhyātvā devam ca devīm ca manum aṣṭa-uttaram japet .. 32..
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः॥जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात् ॥ ३३ ॥
ततस् उत्थाय रचित-पुष्प-अञ्जलि-पुटः स्थितः॥जपेत् ध्यात्वा महादेवम् यः देवानाम् इति क्रमात् ॥ ३३ ॥
tatas utthāya racita-puṣpa-añjali-puṭaḥ sthitaḥ..japet dhyātvā mahādevam yaḥ devānām iti kramāt .. 33 ..
यो वेदादौ स्वरः प्रोक्त इत्यंतम्परमेश्वरि ॥ पुष्पाञ्जलिन्ततो दत्त्वा त्रिः प्रदक्षिणमाचरेत् ॥ ३४ ॥
यः वेद-आदौ स्वरः प्रोक्तः इति अन्तम् परमेश्वरि ॥ पुष्प-अञ्जलिन् ततस् दत्त्वा त्रिस् प्रदक्षिणम् आचरेत् ॥ ३४ ॥
yaḥ veda-ādau svaraḥ proktaḥ iti antam parameśvari .. puṣpa-añjalin tatas dattvā tris pradakṣiṇam ācaret .. 34 ..
साष्टांगम्प्रणमेत्तं स भक्त्या परमयान्वितः ॥ पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा ॥ ३५ ॥
स अष्टांगम् प्रणमेत् तम् स भक्त्या परमया अन्वितः ॥ पुनर् प्रदक्षिणाम् कृत्वा प्रणमेत् पुनर् एकधा ॥ ३५ ॥
sa aṣṭāṃgam praṇamet tam sa bhaktyā paramayā anvitaḥ .. punar pradakṣiṇām kṛtvā praṇamet punar ekadhā .. 35 ..
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ॥ साधु वासाधु वा कर्म यद्यदाचरितं मया ॥ ३६॥
स्थित्वा आसने समभ्यर्च्य देवम् नाम-अष्टकेन च ॥ साधु वा असाधु वा कर्म यत् यत् आचरितम् मया ॥ ३६॥
sthitvā āsane samabhyarcya devam nāma-aṣṭakena ca .. sādhu vā asādhu vā karma yat yat ācaritam mayā .. 36..
तत्सर्वं भगवञ्छम्भो भवदाराधनम्परम् ॥ इति शंखोदकेनैव सपुष्पेण समर्पयेत् ॥ ३७ ॥
तत् सर्वम् भगवन् शम्भो भवत्-आराधनम् परम् ॥ इति शंख-उदकेन एव स पुष्पेण समर्पयेत् ॥ ३७ ॥
tat sarvam bhagavan śambho bhavat-ārādhanam param .. iti śaṃkha-udakena eva sa puṣpeṇa samarpayet .. 37 ..
पूज्यं पुनस्समभ्यर्च्य सार्थं नामाष्टकं जपेत् ॥ तदेव शृणु देवेशि संब्रुवे तव भक्तितः ॥ ३८ ॥
पूज्यम् पुनर् समभ्यर्च्य सार्थम् नाम अष्टकम् जपेत् ॥ तत् एव शृणु देवेशि संब्रुवे तव भक्तितः ॥ ३८ ॥
pūjyam punar samabhyarcya sārtham nāma aṣṭakam japet .. tat eva śṛṇu deveśi saṃbruve tava bhaktitaḥ .. 38 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामावरणपूजावर्णनं नामाष्टमोऽध्यायः ॥ ८॥
इति श्री-शिवमहापुराणे षष्ठ्याम् कैलाससंहितायाम् आवरणपूजावर्णनम् नाम अष्टमः अध्यायः ॥ ८॥
iti śrī-śivamahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām āvaraṇapūjāvarṇanam nāma aṣṭamaḥ adhyāyaḥ .. 8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In