| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ संसारवैद्यस्सर्वज्ञः परमात्मेति मुख्यतः ॥ १ ॥
शिवः महेश्वरः च एव रुद्रः विष्णुः पितामहः ॥ संसार-वैद्यः सर्वज्ञः परमात्मा इति मुख्यतस् ॥ १ ॥
śivaḥ maheśvaraḥ ca eva rudraḥ viṣṇuḥ pitāmahaḥ .. saṃsāra-vaidyaḥ sarvajñaḥ paramātmā iti mukhyatas .. 1 ..
नामाष्टकमिदं नित्यं शिवस्य प्रतिपादकम् ॥ आद्यन्तपञ्चकन्तत्र शान्त्यतीताद्यनुक्रमात् ॥ २॥
नाम-अष्टकम् इदम् नित्यम् शिवस्य प्रतिपादकम् ॥ आदि-अन्त-पञ्चकम् तत्र शान्ति-अतीत-आदि-अनुक्रमात् ॥ २॥
nāma-aṣṭakam idam nityam śivasya pratipādakam .. ādi-anta-pañcakam tatra śānti-atīta-ādi-anukramāt .. 2..
संज्ञा सहाशिवादीनां पञ्चोपाधिपरिग्रहात् ॥ उपाधिविनिवृत्तौ तु यथास्वं विनि वर्तते ॥ ३ ॥
संज्ञा सहाशिव-आदीनाम् पञ्च-उपाधि-परिग्रहात् ॥ उपाधि-विनिवृत्तौ तु यथास्वम् विनि वर्तते ॥ ३ ॥
saṃjñā sahāśiva-ādīnām pañca-upādhi-parigrahāt .. upādhi-vinivṛttau tu yathāsvam vini vartate .. 3 ..
पदमेव हितं नित्यमनित्याः पदिनः स्मृताः ॥ पदानां परिवृत्ति स्यान्मुच्यंते पदिनो यतः ॥ ४ ॥
पदम् एव हितम् नित्यम् अनित्याः पदिनः स्मृताः ॥ पदानाम् स्यात् मुच्यंते पदिनः यतस् ॥ ४ ॥
padam eva hitam nityam anityāḥ padinaḥ smṛtāḥ .. padānām syāt mucyaṃte padinaḥ yatas .. 4 ..
परिवृत्त्यन्तरे त्वेवं भूयस्तस्याप्युपाधिना ॥ आत्मान्तराभिधानं स्यात्पादाद्यं नामपंचकम् ॥ ५॥
परिवृत्ति-अन्तरे तु एवम् भूयस् तस्य अपि उपाधिना ॥ आत्म-अन्तर-अभिधानम् स्यात् पाद-आद्यम् नाम-पंचकम् ॥ ५॥
parivṛtti-antare tu evam bhūyas tasya api upādhinā .. ātma-antara-abhidhānam syāt pāda-ādyam nāma-paṃcakam .. 5..
अन्यत्तु त्रितयं नाम्नामुपादानादिभेदतः॥त्रिविधोपाधिरचनाच्छिव एव तु वर्तते ॥ ६ ॥
अन्यत् तु त्रितयम् नाम्नाम् उपादान-आदि-भेदतः॥त्रिविध-उपाधि-रचनात् शिवः एव तु वर्तते ॥ ६ ॥
anyat tu tritayam nāmnām upādāna-ādi-bhedataḥ..trividha-upādhi-racanāt śivaḥ eva tu vartate .. 6 ..
अनादिमलसंश्लेषप्रागभावात्स्वभावतः ॥ अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते ॥ ७॥
अनादि-मल-संश्लेष-प्रागभावात् स्वभावतः ॥ अत्यन्त-परिशुद्ध-आत्मा इति अतस् अयम् शिवः उच्यते ॥ ७॥
anādi-mala-saṃśleṣa-prāgabhāvāt svabhāvataḥ .. atyanta-pariśuddha-ātmā iti atas ayam śivaḥ ucyate .. 7..
अथवाऽशेषकल्याणगुणैकघन ईश्वरः ॥ शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवेदिभिः ॥ ८॥
अथवा अशेष-कल्याण-गुण-एक-घनः ईश्वरः ॥ शिवः इति उच्यते सद्भिः शिव-तत्त्व-अर्थ-वेदिभिः ॥ ८॥
athavā aśeṣa-kalyāṇa-guṇa-eka-ghanaḥ īśvaraḥ .. śivaḥ iti ucyate sadbhiḥ śiva-tattva-artha-vedibhiḥ .. 8..
त्रयोविंशतितत्वेभ्यः पराप्रकृतिरुच्यते॥प्रकृतेस्तु परम्प्राहुः पुरुषम्पञ्चविंशकम्॥९॥
त्रयोविंशति-तत्वेभ्यः पराप्रकृतिः उच्यते॥प्रकृतेः तु परम् प्राहुः पुरुषम् पञ्चविंशकम्॥९॥
trayoviṃśati-tatvebhyaḥ parāprakṛtiḥ ucyate..prakṛteḥ tu param prāhuḥ puruṣam pañcaviṃśakam..9..
यद्वेदादौ स्वरम्प्राहुर्वाच्यवाचकभावतः ॥ वेदैकवेद्यं याथात्म्याद्वेदान्ते च प्रतिष्ठितम् ॥ ॥ 6.9.१० ॥
यत् वेद-आदौ स्वरम् प्राहुः वाच्य-वाचक-भावतः ॥ वेद-एक-वेद्यम् याथात्म्यात् वेदान्ते च प्रतिष्ठितम् ॥ ॥ ६।९।१० ॥
yat veda-ādau svaram prāhuḥ vācya-vācaka-bhāvataḥ .. veda-eka-vedyam yāthātmyāt vedānte ca pratiṣṭhitam .. .. 6.9.10 ..
स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्यतः ॥ तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ ११॥
सः एव प्रकृतौ लीनः भोक्ता यः प्रकृतेः यतस् ॥ तस्य प्रकृति-लीनस्य यः परः स महेश्वरः ॥ ११॥
saḥ eva prakṛtau līnaḥ bhoktā yaḥ prakṛteḥ yatas .. tasya prakṛti-līnasya yaḥ paraḥ sa maheśvaraḥ .. 11..
तदधीनप्रवृत्तित्त्वात्प्रकृतेः पुरुषस्य च ॥ अथवा त्रिगुणन्तत्त्वं मायेयमिदमव्ययम् ॥ १२ ॥
तद्-अधीन-प्रवृत्ति-त्वात् प्रकृतेः पुरुषस्य च ॥ अथवा त्रिगुणन् तत्त्वम् माया इयम् इदम् अव्ययम् ॥ १२ ॥
tad-adhīna-pravṛtti-tvāt prakṛteḥ puruṣasya ca .. athavā triguṇan tattvam māyā iyam idam avyayam .. 12 ..
मायान्तु प्रकृतिम्विद्यान्मायिनन्तु महेश्वरम्॥मायाविमोचकोऽनन्तोमहेश्वरसमन्वयात्॥१३॥
माया तु प्रकृतिम् विद्यात् मायिनम् तु महेश्वरम्॥माया-विमोचकः अनन्तः महेश्वर-समन्वयात्॥१३॥
māyā tu prakṛtim vidyāt māyinam tu maheśvaram..māyā-vimocakaḥ anantaḥ maheśvara-samanvayāt..13..
रु द्दुःखं दुःखहेतुर्वा तद्द्रावयति यः प्रभुः॥रुद्र इत्युच्यते तस्माच्छिवः परमकारणम्॥१४॥
दुःख-हेतुः वा तत् द्रावयति यः प्रभुः॥रुद्रः इति उच्यते तस्मात् शिवः परम-कारणम्॥१४॥
duḥkha-hetuḥ vā tat drāvayati yaḥ prabhuḥ..rudraḥ iti ucyate tasmāt śivaḥ parama-kāraṇam..14..
शिवतत्त्वादिभूम्यन्तं शरीरादि घटादि च॥व्याप्याधितिष्ठति शिवस्तमाद्विष्णुरुदाहृतः॥१५॥
शिव-तत्त्व-आदि-भूमि-अन्तम् शरीर-आदि घट-आदि च॥व्याप्य अधितिष्ठति शिवः तमात् विष्णुः उदाहृतः॥१५॥
śiva-tattva-ādi-bhūmi-antam śarīra-ādi ghaṭa-ādi ca..vyāpya adhitiṣṭhati śivaḥ tamāt viṣṇuḥ udāhṛtaḥ..15..
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ ।पितृभावेन सर्वेषां पितामह उदीरितः ॥ १६॥
जगतः पितृ-भूतानाम् शिवः मूर्ति-आत्मनाम् अपि ॥ ।पितृ-भावेन सर्वेषाम् पितामहः उदीरितः ॥ १६॥
jagataḥ pitṛ-bhūtānām śivaḥ mūrti-ātmanām api .. .pitṛ-bhāvena sarveṣām pitāmahaḥ udīritaḥ .. 16..
निदानज्ञो यथा वैद्यो रोगस्य निवर्तकः॥उपायैर्भेषजैस्तद्वल्लयभोगाधिकारकः॥१७॥
निदान-ज्ञः यथा वैद्यः रोगस्य निवर्तकः॥उपायैः भेषजैः तद्वत् लय-भोग-अधिकारकः॥१७॥
nidāna-jñaḥ yathā vaidyaḥ rogasya nivartakaḥ..upāyaiḥ bheṣajaiḥ tadvat laya-bhoga-adhikārakaḥ..17..
संसारस्येश्वरो नित्यं स्थूलस्य विनिवर्तकः ॥ संसार वैद्य इत्युक्तस्सर्वतत्त्वार्थवेदिभिः॥१८॥
संसारस्य ईश्वरः नित्यम् स्थूलस्य विनिवर्तकः ॥ संसार वैद्यः इति उक्तः सर्व-तत्त्व-अर्थ-वेदिभिः॥१८॥
saṃsārasya īśvaraḥ nityam sthūlasya vinivartakaḥ .. saṃsāra vaidyaḥ iti uktaḥ sarva-tattva-artha-vedibhiḥ..18..
दशार्द्धज्ञानसिद्ध्यर्थमिन्द्रियेषु च सत्स्वपि ॥ त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ १९॥
दशार्द्ध-ज्ञान-सिद्धि-अर्थम् इन्द्रियेषु च सत्सु अपि ॥ त्रि-काल-भाविनः भावान् स्थूलान् सूक्ष्मान् अशेषतस् ॥ १९॥
daśārddha-jñāna-siddhi-artham indriyeṣu ca satsu api .. tri-kāla-bhāvinaḥ bhāvān sthūlān sūkṣmān aśeṣatas .. 19..
अणवो नैव जानन्ति मायार्णवमलावृताः ॥ असत्स्वपि च सर्वेषु सिद्धसर्वार्थवेदिषु ॥ 6.9.२० ॥
अणवः ना एव जानन्ति माया-अर्णव-मल-आवृताः ॥ असत्सु अपि च सर्वेषु सिद्ध-सर्व-अर्थ-वेदिषु ॥ ६।९।२० ॥
aṇavaḥ nā eva jānanti māyā-arṇava-mala-āvṛtāḥ .. asatsu api ca sarveṣu siddha-sarva-artha-vediṣu .. 6.9.20 ..
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ॥ अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ २१॥
यत् यथा अवस्थितम् वस्तु तत् तथा एव सदाशिवः ॥ अयत्नेन एव जानाति तस्मात् सर्वज्ञः उच्यते ॥ २१॥
yat yathā avasthitam vastu tat tathā eva sadāśivaḥ .. ayatnena eva jānāti tasmāt sarvajñaḥ ucyate .. 21..
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात्॥स्वस्मात्परात्मविरहात्परमात्मा शिवस्स्वयम् ॥ २२॥
सर्वात्मा परमैः एभिः गुणैः नित्य-समन्वयात्॥स्वस्मात् परात्म-विरहात् परमात्मा शिवः स्वयम् ॥ २२॥
sarvātmā paramaiḥ ebhiḥ guṇaiḥ nitya-samanvayāt..svasmāt parātma-virahāt paramātmā śivaḥ svayam .. 22..
इति स्तुत्वा महादेवं प्रणवात्मानमव्ययम्॥दत्त्वा पराङ्मुखाद्यञ्च पश्चादीशानमस्तके॥२३॥
इति स्तुत्वा महादेवम् प्रणव-आत्मानम् अव्ययम्॥दत्त्वा पराङ्मुख-आद्यन् च पश्चात् ईशान-मस्तके॥२३॥
iti stutvā mahādevam praṇava-ātmānam avyayam..dattvā parāṅmukha-ādyan ca paścāt īśāna-mastake..23..
पुनरर्च्य देवेशम्प्रणवेन समाहितः॥हस्तेन बद्धाञ्जलिना पूजापुष्पम्प्रगृह्य च॥२४॥
पुनर् अर्च्य देवेशम् प्रणवेन समाहितः॥हस्तेन बद्धाञ्जलिना पूजा-पुष्पम् प्रगृह्य च॥२४॥
punar arcya deveśam praṇavena samāhitaḥ..hastena baddhāñjalinā pūjā-puṣpam pragṛhya ca..24..
उन्मनान्तं शिवं नीत्वा वामनासापुटाध्वना॥देवोमुद्वास्य च ततो दक्षनासापुटाध्वना ॥ २५॥
नीत्वा॥च ततस् दक्ष-नासा-पुट-अध्वना ॥ २५॥
nītvā..ca tatas dakṣa-nāsā-puṭa-adhvanā .. 25..
शिव एवाहमस्मीति तदैक्यमनुभूय च॥सर्वावरणदेवांश्च पुनरुद्वासयेद्धृदि॥२६॥
शिवः एव अहम् अस्मि इति तद्-ऐक्यम् अनुभूय च॥सर्व-आवरण-देवान् च पुनर् उद्वासयेत् हृदि॥२६॥
śivaḥ eva aham asmi iti tad-aikyam anubhūya ca..sarva-āvaraṇa-devān ca punar udvāsayet hṛdi..26..
विद्यापूजां गुरोःपूजां कृत्वा पश्चाद्यथाक्रमम्॥शंखार्घपात्रमंत्रांश्च हृदये विन्यसेत्क्रमात्॥२७॥
विद्या-पूजाम् गुरोः पूजाम् कृत्वा पश्चात् यथाक्रमम्॥शंख-अर्घपात्र-मंत्रान् च हृदये विन्यसेत् क्रमात्॥२७॥
vidyā-pūjām guroḥ pūjām kṛtvā paścāt yathākramam..śaṃkha-arghapātra-maṃtrān ca hṛdaye vinyaset kramāt..27..
निर्माल्यञ्च समर्प्याऽथ चण्डेशायेशगोचरे ॥ पुनश्च संयतप्राण ऋष्यादिकमथोच्चरेत् ॥ २८ ॥
निर्माल्यम् च समर्प्य अथ चण्डेशाय ईश-गोचरे ॥ पुनर् च संयत-प्राणः ऋषि-आदिकम् अथ उच्चरेत् ॥ २८ ॥
nirmālyam ca samarpya atha caṇḍeśāya īśa-gocare .. punar ca saṃyata-prāṇaḥ ṛṣi-ādikam atha uccaret .. 28 ..
कैलासप्रस्तरो नाम मण्डलम्परिभाषितम् ॥ अर्चयेन्नित्यमेवैतत्पक्षे वा मासिमासि वा ॥ २९॥
कैलासप्रस्तरः नाम मण्डलम् परिभाषितम् ॥ अर्चयेत् नित्यम् एव एतत् पक्षे वा मासि मासि वा ॥ २९॥
kailāsaprastaraḥ nāma maṇḍalam paribhāṣitam .. arcayet nityam eva etat pakṣe vā māsi māsi vā .. 29..
षण्मासे वत्सरे वापि चातुर्मास्यादिपर्वणि ॥ अवश्यञ्च समभ्यर्चेन्नित्यं मल्लिङ्गमास्तिकः ॥ 6.9.३०॥
षष्-मासे वत्सरे वा अपि चातुर्मास्य-आदि-पर्वणि ॥ अवश्यम् च समभ्यर्चेत् नित्यम् मद्-लिङ्गम् आस्तिकः ॥ ६।९।३०॥
ṣaṣ-māse vatsare vā api cāturmāsya-ādi-parvaṇi .. avaśyam ca samabhyarcet nityam mad-liṅgam āstikaḥ .. 6.9.30..
तस्मिन्क्रमे महादेवि विशेषः कोऽपि कथ्यते ॥ उपदेशदिने लिंगम्पूजितं गुरुणा सह ॥ ३१॥
तस्मिन् क्रमे महादेवि विशेषः कः अपि कथ्यते ॥ उपदेश-दिने लिंगम् पूजितम् गुरुणा सह ॥ ३१॥
tasmin krame mahādevi viśeṣaḥ kaḥ api kathyate .. upadeśa-dine liṃgam pūjitam guruṇā saha .. 31..
गृह्णीयादर्चयिष्यामि शिवमाप्राणसंक्षयम्॥एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ॥ ३२॥
गृह्णीयात् अर्चयिष्यामि शिवम् आ प्राणसंक्षयम्॥एवम् त्रि-वारम् उच्चार्य्य शपथम् गुरु-सन्निधौ ॥ ३२॥
gṛhṇīyāt arcayiṣyāmi śivam ā prāṇasaṃkṣayam..evam tri-vāram uccāryya śapatham guru-sannidhau .. 32..
ततस्समर्चयेन्नित्यम्पूर्वोक्तविधिना प्रिये॥अर्घं समर्पयेल्लिंगमूर्द्धन्यर्घ्योदकेन च॥३३॥
ततस् समर्चयेत् नित्यम् पूर्व-उक्त-विधिना प्रिये॥अर्घम् समर्पयेत् लिंग-मूर्द्धनि अर्घ्य-उदकेन च॥३३॥
tatas samarcayet nityam pūrva-ukta-vidhinā priye..argham samarpayet liṃga-mūrddhani arghya-udakena ca..33..
प्रणवेन समभ्यर्च्य धूपदीपौ समर्पयेत् ॥ ऐशान्यां चण्डमाराध्य निर्माल्यञ्च निवेदयेत् ॥ ३४॥
प्रणवेन समभ्यर्च्य धूप-दीपौ समर्पयेत् ॥ ऐशान्याम् चण्डम् आराध्य निर्माल्यम् च निवेदयेत् ॥ ३४॥
praṇavena samabhyarcya dhūpa-dīpau samarpayet .. aiśānyām caṇḍam ārādhya nirmālyam ca nivedayet .. 34..
प्रक्षाल्य ल्लिंगम्वेदीञ्च वस्त्रपूतैर्जलैस्ततः ॥ निःक्षिप्य पुष्पं शिरसि लिंगस्य प्रणवेन तु ॥ ३५॥
प्रक्षाल्य लिंगम् वेदीन् च वस्त्र-पूतैः जलैः ततस् ॥ निःक्षिप्य पुष्पम् शिरसि लिंगस्य प्रणवेन तु ॥ ३५॥
prakṣālya liṃgam vedīn ca vastra-pūtaiḥ jalaiḥ tatas .. niḥkṣipya puṣpam śirasi liṃgasya praṇavena tu .. 35..
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ॥ विभाव्य सर्वं मनसा स्थापयेत्परमेश्वरम् ॥ ३६ ॥
आधार-शक्तिम् आरभ्य शुद्धविद्या-आसन-अवधि ॥ विभाव्य सर्वम् मनसा स्थापयेत् परमेश्वरम् ॥ ३६ ॥
ādhāra-śaktim ārabhya śuddhavidyā-āsana-avadhi .. vibhāvya sarvam manasā sthāpayet parameśvaram .. 36 ..
पञ्चगव्यादिभिर्द्रव्यैर्यथाविभवसम्भृतैः ॥ केवलैर्वा जलैश्शुद्धैस्सुरभि द्रव्यवासितैः ॥ ३७ ॥
पञ्चगव्य-आदिभिः द्रव्यैः यथा विभव-सम्भृतैः ॥ केवलैः वा जलैः शुद्धैः सुरभि द्रव्य-वासितैः ॥ ३७ ॥
pañcagavya-ādibhiḥ dravyaiḥ yathā vibhava-sambhṛtaiḥ .. kevalaiḥ vā jalaiḥ śuddhaiḥ surabhi dravya-vāsitaiḥ .. 37 ..
पावमानेन रुद्रेण नीलेन त्वरितेन च ॥ ऋग्भिश्च सामभिर्वापि ब्रह्मभिश्चैव पञ्चभिः ॥ ३८ ॥
पावमानेन रुद्रेण नीलेन त्वरितेन च ॥ ऋग्भिः च सामभिः वा अपि ब्रह्मभिः च एव पञ्चभिः ॥ ३८ ॥
pāvamānena rudreṇa nīlena tvaritena ca .. ṛgbhiḥ ca sāmabhiḥ vā api brahmabhiḥ ca eva pañcabhiḥ .. 38 ..
स्नापयेद्देवदेवेशं प्रणवेन शिवेन च ॥ विशेषार्घ्योदकेनापि प्रणवेनाभिषेचयेत् ॥ ३९॥
स्नापयेत् देवदेवेशम् प्रणवेन शिवेन च ॥ विशेष-अर्घ्य-उदकेन अपि प्रणवेन अभिषेचयेत् ॥ ३९॥
snāpayet devadeveśam praṇavena śivena ca .. viśeṣa-arghya-udakena api praṇavena abhiṣecayet .. 39..
विशोध्य वाससा पुष्पं लिंगमूर्द्धनि विन्यसेत्॥पीठे लिंगं समारोप्य सूर्याद्यर्चां समाचरेत् ॥ 6.9.४०॥
विशोध्य वाससा पुष्पम् लिंग-मूर्द्धनि विन्यसेत्॥पीठे लिंगम् समारोप्य सूर्य-आदि-अर्चाम् समाचरेत् ॥ ६।९।४०॥
viśodhya vāsasā puṣpam liṃga-mūrddhani vinyaset..pīṭhe liṃgam samāropya sūrya-ādi-arcām samācaret .. 6.9.40..
आधारशक्त्यनन्तौ द्वौ पीठाधस्तात्समर्चयेत् ॥ सिंहासनन्तदूर्ध्वन्तु समभ्यर्च्य यथाक्रमम् ॥ ४१
आधार-शक्ति-अनन्तौ द्वौ पीठ-अधस्तात् समर्चयेत् ॥ सिंहासनम् तत् ऊर्ध्वन्तु समभ्यर्च्य यथाक्रमम् ॥ ४१
ādhāra-śakti-anantau dvau pīṭha-adhastāt samarcayet .. siṃhāsanam tat ūrdhvantu samabhyarcya yathākramam .. 41
अथोर्ध्वच्छदनम्पीठपादे स्कन्दं समर्चयेत् ॥ लिंगे मूर्तिं समाकल्प्य मान्त्वया सह पूजयेत् ॥ ४२ ॥
अथ ऊर्ध्व-छदनम् पीठ-पादे स्कन्दम् समर्चयेत् ॥ लिंगे मूर्तिम् समाकल्प्य मान्त्वया सह पूजयेत् ॥ ४२ ॥
atha ūrdhva-chadanam pīṭha-pāde skandam samarcayet .. liṃge mūrtim samākalpya māntvayā saha pūjayet .. 42 ..
सम्यग् भक्त्या विधानेन यतिर्मद्ध्यानतत्परः ॥ एवम्मया ते कथितमतिगुह्यमिदम्प्रिये ॥ ४३ ॥
सम्यक् भक्त्या विधानेन यतिः मद्-ध्यान-तत्परः ॥ एवम् मया ते कथितम् अति गुह्यम् इदम् प्रिये ॥ ४३ ॥
samyak bhaktyā vidhānena yatiḥ mad-dhyāna-tatparaḥ .. evam mayā te kathitam ati guhyam idam priye .. 43 ..
गोपनीयं प्रयत्नेन न देयं यस्य कस्य चित् ॥ मम भक्ताय दातव्यं यतये वीतरागिणे ॥ ४४ ॥
गोपनीयम् प्रयत्नेन न देयम् यस्य कस्य चित् ॥ मम भक्ताय दातव्यम् यतये वीत-रागिणे ॥ ४४ ॥
gopanīyam prayatnena na deyam yasya kasya cit .. mama bhaktāya dātavyam yataye vīta-rāgiṇe .. 44 ..
गुरुभक्ताय शान्ताय मदर्थे योगभागिने ॥ ममाज्ञामतिलंघ्यैतद्यो ददाति विमूढधीः ॥ ४५॥
गुरु-भक्ताय शान्ताय मद्-अर्थे योग-भागिने ॥ मम आज्ञाम् अतिलंघ्य एतत् यः ददाति विमूढ-धीः ॥ ४५॥
guru-bhaktāya śāntāya mad-arthe yoga-bhāgine .. mama ājñām atilaṃghya etat yaḥ dadāti vimūḍha-dhīḥ .. 45..
स नारकी मम द्रोही भविष्यति न संशयः ॥ मद्भक्तदानाद्देवेशि मत्प्रियश्च भवेद्ध्रुवम् ॥
स नारकी मम द्रोही भविष्यति न संशयः ॥ मद्-भक्त-दानात् देवेशि मद्-प्रियः च भवेत् ध्रुवम् ॥
sa nārakī mama drohī bhaviṣyati na saṃśayaḥ .. mad-bhakta-dānāt deveśi mad-priyaḥ ca bhavet dhruvam ..
इह भुक्त्वाखिलान्भोगान्मत्सान्निध्यमवाप्नुयात् ॥ ४६ ॥ व्यास उवाच ॥
इह भुक्त्वा अखिलान् भोगान् मद्-सान्निध्यम् अवाप्नुयात् ॥ ४६ ॥ व्यासः उवाच ॥
iha bhuktvā akhilān bhogān mad-sānnidhyam avāpnuyāt .. 46 .. vyāsaḥ uvāca ..
एतच्छुत्वा महादेवी महादेवेन भाषितम् ॥ स्तुत्वा तु विविधैः स्तोत्रैर्देवम्वेदार्थगर्वितैः ॥ ४७॥
एतत् शुत्वा महादेवी महादेवेन भाषितम् ॥ स्तुत्वा तु विविधैः स्तोत्रैः देवम् वेद-अर्थ-गर्वितैः ॥ ४७॥
etat śutvā mahādevī mahādevena bhāṣitam .. stutvā tu vividhaiḥ stotraiḥ devam veda-artha-garvitaiḥ .. 47..
श्रीमत्पादाब्जयोः पत्युः प्रणवं परमेश्वरी ॥ अतिप्रहृष्टहृदया मुमोद मुनिसत्तमाः ॥ ४८॥
श्रीमत्-पाद-अब्जयोः पत्युः प्रणवम् परमेश्वरी ॥ अति प्रहृष्ट-हृदया मुमोद मुनि-सत्तमाः ॥ ४८॥
śrīmat-pāda-abjayoḥ patyuḥ praṇavam parameśvarī .. ati prahṛṣṭa-hṛdayā mumoda muni-sattamāḥ .. 48..
अतिगुह्यमिदम्विप्राः प्रणवार्थप्रकाशकम् ॥ शिवज्ञानपरं ह्येतद्भवतामार्तिनाशनम् ॥ ४९ ॥
अति गुह्यम् इदम् विप्राः प्रणव-अर्थ-प्रकाशकम् ॥ शिव-ज्ञान-परम् हि एतत् भवताम् आर्ति-नाशनम् ॥ ४९ ॥
ati guhyam idam viprāḥ praṇava-artha-prakāśakam .. śiva-jñāna-param hi etat bhavatām ārti-nāśanam .. 49 ..
सूत उवाच ।।
इत्युक्त्वा मुनिशार्दूलः पराशर्य्यो महातपाः ॥ पूजितः परया भक्त्या मुनिभिर्वेदवादिभिः ॥ 6.9.५०॥
इति उक्त्वा मुनि-शार्दूलः पराशर्य्यः महा-तपाः ॥ पूजितः परया भक्त्या मुनिभिः वेद-वादिभिः ॥ ६।९।५०॥
iti uktvā muni-śārdūlaḥ parāśaryyaḥ mahā-tapāḥ .. pūjitaḥ parayā bhaktyā munibhiḥ veda-vādibhiḥ .. 6.9.50..
कैलासाद्रिमनुसृत्य ययौ तस्मात्तपोवनात् ॥ तेऽपि प्रहृष्टहृदयास्सत्रान्ते परमेश्वरम्॥५१॥
कैलास-अद्रिम् अनुसृत्य ययौ तस्मात् तपः-वनात् ॥ ते अपि प्रहृष्ट-हृदयाः सत्र-अन्ते परमेश्वरम्॥५१॥
kailāsa-adrim anusṛtya yayau tasmāt tapaḥ-vanāt .. te api prahṛṣṭa-hṛdayāḥ satra-ante parameśvaram..51..
सम्पूज्य परया भक्त्या सोमं सोमार्द्धशेखरम् ॥ यमादियोगनिरताश्शिवध्यानपराभवन् ॥ ५२॥
सम्पूज्य परया भक्त्या सोमम् सोम-अर्द्ध-शेखरम् ॥ यम-आदि-योग-निरताः शिव-ध्यान-पराः अभवन् ॥ ५२॥
sampūjya parayā bhaktyā somam soma-arddha-śekharam .. yama-ādi-yoga-niratāḥ śiva-dhyāna-parāḥ abhavan .. 52..
गुहाय कथितं ह्येतद्देव्या तेनापि नन्दिने ॥ सनत्कुमारमुनये प्रोवाच भगवान् हि सः ॥ ५३॥
गुहाय कथितम् हि एतत् देव्या तेन अपि नन्दिने ॥ सनत्कुमार-मुनये प्रोवाच भगवान् हि सः ॥ ५३॥
guhāya kathitam hi etat devyā tena api nandine .. sanatkumāra-munaye provāca bhagavān hi saḥ .. 53..
तस्माल्लब्धं मद्गुरुणा व्यासेनामिततेजसा ॥ तस्माल्लब्धमिदम्पुण्यम्मयापि मुनिपुंगवाः ॥ ५४॥
तस्मात् लब्धम् मद्-गुरुणा व्यासेन अमित-तेजसा ॥ तस्मात् लब्धम् इदम् पुण्यम् मया अपि मुनि-पुंगवाः ॥ ५४॥
tasmāt labdham mad-guruṇā vyāsena amita-tejasā .. tasmāt labdham idam puṇyam mayā api muni-puṃgavāḥ .. 54..
मया वश्श्रावितं ह्येतद्गुह्याद्गुह्यतरम्परम् ॥ ज्ञात्वा शिवप्रियान्भक्त्या भवतो गिरिशप्रियम् ॥ ५५ ॥
मया वः श्रावितम् हि एतत् गुह्यात् गुह्यतरम् परम् ॥ ज्ञात्वा शिव-प्रियान् भक्त्या भवतः गिरिश-प्रियम् ॥ ५५ ॥
mayā vaḥ śrāvitam hi etat guhyāt guhyataram param .. jñātvā śiva-priyān bhaktyā bhavataḥ giriśa-priyam .. 55 ..
भवद्भिरपि दातव्यमेतद्गुह्यं शिवप्रियम् ॥ यतिभ्यश्शान्तचित्तेभ्यो भक्तेभ्यश्शिवपादयोः ॥ ५६ ॥
भवद्भिः अपि दातव्यम् एतत् गुह्यम् शिव-प्रियम् ॥ यतिभ्यः शान्त-चित्तेभ्यः भक्तेभ्यः शिव-पादयोः ॥ ५६ ॥
bhavadbhiḥ api dātavyam etat guhyam śiva-priyam .. yatibhyaḥ śānta-cittebhyaḥ bhaktebhyaḥ śiva-pādayoḥ .. 56 ..
एतदुक्त्वा महाभागस्सूतः पौराणिकोत्तमः ॥ तीर्थयात्राप्रसंगेन चचार पृथिवीमिमाम् ॥ ५७॥
एतत् उक्त्वा महाभागः सूतः पौराणिक-उत्तमः ॥ तीर्थ-यात्रा-प्रसंगेन चचार पृथिवीम् इमाम् ॥ ५७॥
etat uktvā mahābhāgaḥ sūtaḥ paurāṇika-uttamaḥ .. tīrtha-yātrā-prasaṃgena cacāra pṛthivīm imām .. 57..
एतद्रहस्यम्परमं लब्ध्वा सूतान्मुनीश्वराः ॥ काश्यामेव समासीना मुक्ताश्शिवपदं ययुः ॥ ५८॥
एतत् रहस्यम् परमम् लब्ध्वा सूतात् मुनि-ईश्वराः ॥ काश्याम् एव समासीनाः मुक्ताः शिव-पदम् ययुः ॥ ५८॥
etat rahasyam paramam labdhvā sūtāt muni-īśvarāḥ .. kāśyām eva samāsīnāḥ muktāḥ śiva-padam yayuḥ .. 58..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां प्रणवार्थपद्धतिवर्णनं नाम नवमोऽध्यायः ॥ ९॥ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् प्रणवार्थपद्धतिवर्णनम् नाम नवमः अध्यायः ॥ ९॥ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām praṇavārthapaddhativarṇanam nāma navamaḥ adhyāyaḥ .. 9.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In