| |
|

This overlay will guide you through the buttons:

॥ श्रीगणेशाय नम. ॥
॥ श्री-गणेशाय नम। ॥
.. śrī-gaṇeśāya nama. ..
अथ चतुर्थी कोटिरुद्रसंहिता प्रारभ्यते ॥
अथ चतुर्थी कोटिरुद्रसंहिता प्रारभ्यते ॥
atha caturthī koṭirudrasaṃhitā prārabhyate ..
यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्ग्गाभिधौ ॥ प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिनस्तस्मै शैलसुताञ्जितार्द्धवपुषे शश्वन्नमस्तेजसे ॥ १ ॥
यः धत्ते निज-मायया एव भुवन-आकारम् विकार-उज्झितः यस्य आहुः करुणा-कटाक्ष-विभवौ स्वर्ग-अपवर्ग्ग-अभिधौ ॥ प्रत्यक्-बोध-सुख-अद्वयम् हृदि सदा पश्यन्ति यम् योगिनः तस्मै शैलसुत-अञ्जित-अर्द्ध-वपुषे शश्वत् नमः तेजसे ॥ १ ॥
yaḥ dhatte nija-māyayā eva bhuvana-ākāram vikāra-ujjhitaḥ yasya āhuḥ karuṇā-kaṭākṣa-vibhavau svarga-apavargga-abhidhau .. pratyak-bodha-sukha-advayam hṛdi sadā paśyanti yam yoginaḥ tasmai śailasuta-añjita-arddha-vapuṣe śaśvat namaḥ tejase .. 1 ..
कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशांककलयोज्ज्वलं शमितघोरतापत्रयम् ॥ करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मंगलम् ॥ २॥
कृपा-ललित-वीक्षणम् स्मित-मनोज्ञ-वक्त्र-अम्बुजम् शशांक-कलया उज्ज्वलम् शमित-घोर-ताप-त्रयम् ॥ करोतु किम् अपि स्फुरत्-परम-सौख्य-सच्चिद्-वपुः-धराधर-सुता-भुज-उद्वलयितम् महः मंगलम् ॥ २॥
kṛpā-lalita-vīkṣaṇam smita-manojña-vaktra-ambujam śaśāṃka-kalayā ujjvalam śamita-ghora-tāpa-trayam .. karotu kim api sphurat-parama-saukhya-saccid-vapuḥ-dharādhara-sutā-bhuja-udvalayitam mahaḥ maṃgalam .. 2..
ऋषय ऊचुः ।।
सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ॥ शिवावतारमाहात्म्यं नानाख्यानसमन्वितम् ॥ ३ ॥
सम्यक् उक्तम् त्वया सूत लोकानाम् हित-काम्यया ॥ शिव-अवतार-माहात्म्यम् नाना आख्यान-समन्वितम् ॥ ३ ॥
samyak uktam tvayā sūta lokānām hita-kāmyayā .. śiva-avatāra-māhātmyam nānā ākhyāna-samanvitam .. 3 ..
पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ॥ लिंगसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तमः ॥ ४ ॥
पुनर् च कथ्यताम् तात शिव-माहात्म्यम् उत्तमम् ॥ लिंग-सम्बन्धि सु प्रीत्या धन्यः त्वम् शैव-सत्तमः ॥ ४ ॥
punar ca kathyatām tāta śiva-māhātmyam uttamam .. liṃga-sambandhi su prītyā dhanyaḥ tvam śaiva-sattamaḥ .. 4 ..
शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्तास्स्मो वयं प्रभो ॥ शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम्। ॥ ५ ॥
शृण्वन्तः त्वद्-मुख-अम्भोजात् न तृप्ताः स्मः वयम् प्रभो ॥ शैवम् यशः अमृतम् रम्यम् तत् एव पुनर् उच्यताम्। ॥ ५ ॥
śṛṇvantaḥ tvad-mukha-ambhojāt na tṛptāḥ smaḥ vayam prabho .. śaivam yaśaḥ amṛtam ramyam tat eva punar ucyatām. .. 5 ..
पृथिव्यां यानि यानि लिंगानि तीर्थेतीर्थे शुभानि हि ॥ अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै ॥ ६ ॥
पृथिव्याम् यानि यानि लिंगानि तीर्थे तीर्थे शुभानि हि ॥ अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै ॥ ६ ॥
pṛthivyām yāni yāni liṃgāni tīrthe tīrthe śubhāni hi .. anyatra vā sthale yāni prasiddhāni sthitāni vai .. 6 ..
तानि तानि च दिव्यानि लिंगानि परमेशितुः ॥ व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया ॥ ७॥
तानि तानि च दिव्यानि लिंगानि परमेशितुः ॥ व्यास-शिष्य समाचक्ष्व लोकानाम् हित-काम्यया ॥ ७॥
tāni tāni ca divyāni liṃgāni parameśituḥ .. vyāsa-śiṣya samācakṣva lokānām hita-kāmyayā .. 7..
सूत उवाच ।।
साधुपृष्टमृषिश्रेष्ठ लोकानां हितकाम्यया॥कथयामि भवत्स्नेहात्तानि संक्षेपतो द्विजाः ॥ ८ ॥
साधु-पृष्टम् ऋषि-श्रेष्ठ लोकानाम् हित-काम्यया॥कथयामि भवत्-स्नेहात् तानि संक्षेपतः द्विजाः ॥ ८ ॥
sādhu-pṛṣṭam ṛṣi-śreṣṭha lokānām hita-kāmyayā..kathayāmi bhavat-snehāt tāni saṃkṣepataḥ dvijāḥ .. 8 ..
सर्वेषां शिवलिंगानां मुने संख्या न विद्यते ॥ सर्वं लिंगमयी भूमिः सर्वलिंगमयं जगत् ॥ ९ ॥
सर्वेषाम् शिव-लिंगानाम् मुने संख्या न विद्यते ॥ सर्वम् लिंग-मयी भूमिः सर्व-लिंग-मयम् जगत् ॥ ९ ॥
sarveṣām śiva-liṃgānām mune saṃkhyā na vidyate .. sarvam liṃga-mayī bhūmiḥ sarva-liṃga-mayam jagat .. 9 ..
लिंगमयानि तीर्थानि सर्वं लिंगे प्रतिष्ठितम् ॥ संख्या न विद्यते तेषां तानि किंचिद्ब्रवीम्यहम् ॥ 4.1.१०॥
लिंग-मयानि तीर्थानि सर्वम् लिंगे प्रतिष्ठितम् ॥ संख्या न विद्यते तेषाम् तानि किंचिद् ब्रवीमि अहम् ॥ ४।१।१०॥
liṃga-mayāni tīrthāni sarvam liṃge pratiṣṭhitam .. saṃkhyā na vidyate teṣām tāni kiṃcid bravīmi aham .. 4.1.10..
यत्किंचिद्दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ॥ तत्सर्वं शिवरूपं हि नान्यदस्तीति किंचन ॥ ११ ॥
यत् किंचिद् दृश्यते दृश्यम् वर्ण्यते स्मर्यते च यत् ॥ तत् सर्वम् शिव-रूपम् हि न अन्यत् अस्ति इति किंचन ॥ ११ ॥
yat kiṃcid dṛśyate dṛśyam varṇyate smaryate ca yat .. tat sarvam śiva-rūpam hi na anyat asti iti kiṃcana .. 11 ..
तथापि श्रूयताम्प्रीत्या कथयामि यथाश्रुतम्॥लिंगानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह॥१२॥
तथा अपि श्रूयताम् प्रीत्या कथयामि यथाश्रुतम्॥लिंगानि च ऋषि-श्रेष्ठाः पृथिव्याम् यानि तानि ह॥१२॥
tathā api śrūyatām prītyā kathayāmi yathāśrutam..liṃgāni ca ṛṣi-śreṣṭhāḥ pṛthivyām yāni tāni ha..12..
पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ॥ सर्वत्र पूज्यते शम्भुः सदेवासुरमानुषैः॥१३॥
पाताले च अपि वर्तन्ते स्वर्गे च अपि तथा भुवि ॥ सर्वत्र पूज्यते शम्भुः स देव-असुर-मानुषैः॥१३॥
pātāle ca api vartante svarge ca api tathā bhuvi .. sarvatra pūjyate śambhuḥ sa deva-asura-mānuṣaiḥ..13..
त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम्॥अनुग्रहाय लोकानां लिंगरूपेण सत्तमाः॥१४॥
त्रिजगत् शम्भुना व्याप्तम् स देव-असुर-मानुषम्॥अनुग्रहाय लोकानाम् लिंग-रूपेण सत्तमाः॥१४॥
trijagat śambhunā vyāptam sa deva-asura-mānuṣam..anugrahāya lokānām liṃga-rūpeṇa sattamāḥ..14..
अनुग्रहाय लोकानां लिंगानि च महेश्वरः ॥ दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा ॥ १५ ॥
अनुग्रहाय लोकानाम् लिंगानि च महेश्वरः ॥ दधाति विविधानि अत्र तीर्थे च अन्य-स्थले तथा ॥ १५ ॥
anugrahāya lokānām liṃgāni ca maheśvaraḥ .. dadhāti vividhāni atra tīrthe ca anya-sthale tathā .. 15 ..
यत्रयत्र यदा शंभुर्भक्त्या भक्तैश्च संस्मृतः ॥ तत्रतत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा ॥ १६ ॥
यत्र यत्र यदा शंभुः भक्त्या भक्तैः च संस्मृतः ॥ तत्र तत्र अवतीर्य अथ कार्यम् कृत्वा स्थितः तदा ॥ १६ ॥
yatra yatra yadā śaṃbhuḥ bhaktyā bhaktaiḥ ca saṃsmṛtaḥ .. tatra tatra avatīrya atha kāryam kṛtvā sthitaḥ tadā .. 16 ..
लोकानामुपकारार्थं स्वलिंगं चाप्यकल्पयत्॥तल्लिंगं पूजयित्वा तु सिद्धिं समधिगच्छति॥१७॥
लोकानाम् उपकार-अर्थम् स्व-लिंगम् च अपि अकल्पयत्॥तत् लिंगम् पूजयित्वा तु सिद्धिम् समधिगच्छति॥१७॥
lokānām upakāra-artham sva-liṃgam ca api akalpayat..tat liṃgam pūjayitvā tu siddhim samadhigacchati..17..
पृथिब्यां यानि लिंगानि तेषां संख्या न विद्यते ॥ तथापि च प्रधानानि कथ्यते च मया द्विजाः ॥ १८॥
पृथिब्याम् यानि लिंगानि तेषाम् संख्या न विद्यते ॥ तथा अपि च प्रधानानि कथ्यते च मया द्विजाः ॥ १८॥
pṛthibyām yāni liṃgāni teṣām saṃkhyā na vidyate .. tathā api ca pradhānāni kathyate ca mayā dvijāḥ .. 18..
प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम्॥यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात्॥१९॥
प्रधानेषु च यानि इह मुख्यानि प्रवदामि अहम्॥यत् श्रुत्वा सर्व-पापेभ्यः मुच्यते मानवः क्षणात्॥१९॥
pradhāneṣu ca yāni iha mukhyāni pravadāmi aham..yat śrutvā sarva-pāpebhyaḥ mucyate mānavaḥ kṣaṇāt..19..
ज्योतिर्लिंगानि यानीह मुख्यमुख्यानि सत्तम॥तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति॥4.1.२०॥
ज्योतिः-लिंगानि यानि इह मुख्य-मुख्यानि सत्तम॥तानि अहम् कथयामि अद्य श्रुत्वा पापम् व्यपोहति॥४।१।२०॥
jyotiḥ-liṃgāni yāni iha mukhya-mukhyāni sattama..tāni aham kathayāmi adya śrutvā pāpam vyapohati..4.1.20..
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ॥ उज्जयिन्यां महाकालमोंकारे परमेश्वरम्॥२१॥
सौराष्ट्रे सोमनाथम् च श्रीशैले मल्लिकार्जुनम् ॥ उज्जयिन्याम् महाकालम् ओंकारे परमेश्वरम्॥२१॥
saurāṣṭre somanātham ca śrīśaile mallikārjunam .. ujjayinyām mahākālam oṃkāre parameśvaram..21..
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम्॥वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥ २२॥
केदारम् हिमवत्-पृष्ठे डाकिन्याम् भीम-शंकरम्॥वाराणस्याम् च विश्वेशम् त्र्यम्बकम् गौतमी-तटे ॥ २२॥
kedāram himavat-pṛṣṭhe ḍākinyām bhīma-śaṃkaram..vārāṇasyām ca viśveśam tryambakam gautamī-taṭe .. 22..
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ॥ सेतुबंधे च रामेशं घुश्मेशं च शिवालये॥२३॥
वैद्यनाथम् चिताभूमौ नागेशम् दारुका-वने ॥ सेतुबंधे च रामेशम् घुश्मेशम् च शिवालये॥२३॥
vaidyanātham citābhūmau nāgeśam dārukā-vane .. setubaṃdhe ca rāmeśam ghuśmeśam ca śivālaye..23..
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ॥ सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ॥ २४॥
द्वादश एतानि नामानि प्रातर् उत्थाय यः पठेत् ॥ सर्व-पाप-विनिर्मुक्तः सर्व-सिद्धि-फलम् लभेत् ॥ २४॥
dvādaśa etāni nāmāni prātar utthāya yaḥ paṭhet .. sarva-pāpa-vinirmuktaḥ sarva-siddhi-phalam labhet .. 24..
यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ॥ प्राप्स्यंति कामं तं तं हि परत्रेव मुनीश्वराः ॥ २५ ॥ ।
यम् यम् कामम् अपेक्ष्य एव पठिष्यन्ति नर-उत्तमाः ॥ प्राप्स्यंति कामम् तम् तम् हि परत्र इव मुनि-ईश्वराः ॥ २५ ॥ ।
yam yam kāmam apekṣya eva paṭhiṣyanti nara-uttamāḥ .. prāpsyaṃti kāmam tam tam hi paratra iva muni-īśvarāḥ .. 25 .. .
ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ॥ तेषां च जननीगर्भे वासो नैव भविष्यति ॥ २६॥
ये निष्काम-तया तानि पठिष्यन्ति शुभ-आशयाः ॥ तेषाम् च जननी-गर्भे वासः ना एव भविष्यति ॥ २६॥
ye niṣkāma-tayā tāni paṭhiṣyanti śubha-āśayāḥ .. teṣām ca jananī-garbhe vāsaḥ nā eva bhaviṣyati .. 26..
एतेषां पूजनेनैव वर्णानां दुःखना शनम् ॥ इह लोके परत्रापि मुक्तिर्भवति निश्चितम् ॥ २७॥
एतेषाम् पूजनेन एव वर्णानाम् दुःख-ना अशनम् ॥ इह लोके परत्र अपि मुक्तिः भवति निश्चितम् ॥ २७॥
eteṣām pūjanena eva varṇānām duḥkha-nā aśanam .. iha loke paratra api muktiḥ bhavati niścitam .. 27..
ग्राह्यमेषां च नैवेद्यं भोजनीयं प्रयत्नतः ॥ तत्कर्तुः सर्व्वपापानि भस्मसाद् यान्ति वै क्षणात् ॥ २८ ॥
ग्राह्यम् एषाम् च नैवेद्यम् भोजनीयम् प्रयत्नतः ॥ तद्-कर्तुः सर्व्व-पापानि भस्मसात् यान्ति वै क्षणात् ॥ २८ ॥
grāhyam eṣām ca naivedyam bhojanīyam prayatnataḥ .. tad-kartuḥ sarvva-pāpāni bhasmasāt yānti vai kṣaṇāt .. 28 ..
ज्योतिषां चैव लिंगानां बह्मादिभिरलं द्विजाः ॥ विशेषतः फलं वक्तुं शक्यते न परैस्तथा ॥ २९ ॥
ज्योतिषाम् च एव लिंगानाम् बह्म-आदिभिः अलम् द्विजाः ॥ विशेषतः फलम् वक्तुम् शक्यते न परैः तथा ॥ २९ ॥
jyotiṣām ca eva liṃgānām bahma-ādibhiḥ alam dvijāḥ .. viśeṣataḥ phalam vaktum śakyate na paraiḥ tathā .. 29 ..
एकं च पूजितं येन षण्मासं तन्निरन्तरम् ॥ तस्य दुःखं न जायेत मातृकुक्षिसमुद्भवम् ॥ 4.1.३० ॥
एकम् च पूजितम् येन षष्-मासम् तत् निरन्तरम् ॥ तस्य दुःखम् न जायेत मातृ-कुक्षि-समुद्भवम् ॥ ४।१।३० ॥
ekam ca pūjitam yena ṣaṣ-māsam tat nirantaram .. tasya duḥkham na jāyeta mātṛ-kukṣi-samudbhavam .. 4.1.30 ..
हीनयोनौ यदा जातो ज्योतिर्लिंगं च पश्यति ॥ तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः ॥ ३१॥
हीन-योनौ यदा जातः ज्योतिः-लिंगम् च पश्यति ॥ तस्य जन्म भवेत् तत्र विमले सत्-कुले पुनर् ॥ ३१॥
hīna-yonau yadā jātaḥ jyotiḥ-liṃgam ca paśyati .. tasya janma bhavet tatra vimale sat-kule punar .. 31..
सत्कुले जन्म संप्राप्य धनाढ्यो वेदपारगः ॥ शुभकर्म तदा कृत्वा मुक्तिं यात्यनपायिनीम् ॥ ३२॥
सत्-कुले जन्म संप्राप्य धन-आढ्यः वेदपारगः ॥ शुभ-कर्म तदा कृत्वा मुक्तिम् याति अनपायिनीम् ॥ ३२॥
sat-kule janma saṃprāpya dhana-āḍhyaḥ vedapāragaḥ .. śubha-karma tadā kṛtvā muktim yāti anapāyinīm .. 32..
म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः॥द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शनं चरेत् ॥ ३३ ॥
म्लेच्छः वा अपि अन्त्यजः वा अपि षण्ढः वा अपि मुनि-ईश्वराः॥द्विजः भूत्वा भवेत् मुक्तः तस्मात् तद्-दर्शनम् चरेत् ॥ ३३ ॥
mlecchaḥ vā api antyajaḥ vā api ṣaṇḍhaḥ vā api muni-īśvarāḥ..dvijaḥ bhūtvā bhavet muktaḥ tasmāt tad-darśanam caret .. 33 ..
ज्योतिषां चैव लिंगानां किंचित्प्रोक्तं फलं मया ॥ .ज्योतिषां चोपलिंगानि श्रूयन्तामृषिसत्तमाः ॥ ३४ ॥
ज्योतिषाम् च एव लिंगानाम् किंचिद् प्रोक्तम् फलम् मया ॥ ।ज्योतिषाम् च उपलिंगानि श्रूयन्ताम् ऋषि-सत्तमाः ॥ ३४ ॥
jyotiṣām ca eva liṃgānām kiṃcid proktam phalam mayā .. .jyotiṣām ca upaliṃgāni śrūyantām ṛṣi-sattamāḥ .. 34 ..
सोमेश्वरस्य यल्लिंगमन्तकेशमुदाहृतम् ॥ मह्यास्सागरसंयोगे तल्लिंगमुपलिङ्गकम् ॥ ३५॥
सोमेश्वरस्य यत् लिंगम् अन्तकेशम् उदाहृतम् ॥ मह्याः सागर-संयोगे तत् लिंगम् उपलिङ्गकम् ॥ ३५॥
someśvarasya yat liṃgam antakeśam udāhṛtam .. mahyāḥ sāgara-saṃyoge tat liṃgam upaliṅgakam .. 35..
मल्लिकार्जुनसंभूतमुपलिंगमुदाहृतम् ॥ रुद्रेश्वरमिति ख्यातं भृगुकक्षे सुखावहम् ॥ ३६॥
मल्लिकार्जुन-संभूतम् उपलिंगम् उदाहृतम् ॥ रुद्रेश्वरम् इति ख्यातम् भृगु-कक्षे सुख-आवहम् ॥ ३६॥
mallikārjuna-saṃbhūtam upaliṃgam udāhṛtam .. rudreśvaram iti khyātam bhṛgu-kakṣe sukha-āvaham .. 36..
महाकालभवं लिंगं दुग्धेशमिति विश्रुतम्॥नर्मदायां प्रसिद्धं तत्सर्वपापहरं स्मृतम् ॥ ॥ ३७॥
महाकाल-भवम् लिंगम् दुग्धेशम् इति विश्रुतम्॥नर्मदायाम् प्रसिद्धम् तत् सर्व-पाप-हरम् स्मृतम् ॥ ॥ ३७॥
mahākāla-bhavam liṃgam dugdheśam iti viśrutam..narmadāyām prasiddham tat sarva-pāpa-haram smṛtam .. .. 37..
ॐकारजं च यल्लिंगं कर्दमेशमिति श्रुतम् ॥ प्रसिद्धं बिन्दुसरसि सर्वकामफलप्रदम् ॥ ३८ ॥
ओंकार-जम् च यत् लिंगम् कर्दमेशम् इति श्रुतम् ॥ प्रसिद्धम् बिन्दुसरसि सर्व-काम-फल-प्रदम् ॥ ३८ ॥
oṃkāra-jam ca yat liṃgam kardameśam iti śrutam .. prasiddham bindusarasi sarva-kāma-phala-pradam .. 38 ..
केदारेश्वरसंजातं भूतेशं यमुना तटे ॥ महापापहरं प्रोक्तं पश्यतामर्चतान्तथा ॥ ३९॥
केदारेश्वर-संजातम् भूतेशम् यमुना तटे ॥ महा-पाप-हरम् प्रोक्तम् पश्यताम् अर्चताम् तथा ॥ ३९॥
kedāreśvara-saṃjātam bhūteśam yamunā taṭe .. mahā-pāpa-haram proktam paśyatām arcatām tathā .. 39..
भीमशंकरसंभूतं भीमेश्वरमिति स्मृतम् ॥ सह्याचले प्रसिद्धं तन्महाबलविवर्द्धनम् ॥ 4.1.४०॥
भीम-शंकर-संभूतम् भीमेश्वरम् इति स्मृतम् ॥ सह्य-अचले प्रसिद्धम् तत् महा-बल-विवर्द्धनम् ॥ ४।१।४०॥
bhīma-śaṃkara-saṃbhūtam bhīmeśvaram iti smṛtam .. sahya-acale prasiddham tat mahā-bala-vivarddhanam .. 4.1.40..
नागेश्वरसमुद्भूतं भूतेश्वरमुदाहृतम्॥मल्लिकासरस्वतीतीरे दर्शनात्पापहारकम्॥४१॥
नागेश्वर-समुद्भूतम् भूतेश्वरम् उदाहृतम्॥मल्लिका-सरस्वती-तीरे दर्शनात् पाप-हारकम्॥४१॥
nāgeśvara-samudbhūtam bhūteśvaram udāhṛtam..mallikā-sarasvatī-tīre darśanāt pāpa-hārakam..41..
रामेश्वराच्च यज्जातं गुप्तेश्वरमिति स्मृतम् ॥ घुश्मेशाच्चैव यज्जातं व्याघ्रेश्वरमिति स्मृतम्॥४२॥
रामेश्वरात् च यत् जातम् गुप्तेश्वरम् इति स्मृतम् ॥ घुश्मेशात् च एव यत् जातम् व्याघ्रेश्वरम् इति स्मृतम्॥४२॥
rāmeśvarāt ca yat jātam gupteśvaram iti smṛtam .. ghuśmeśāt ca eva yat jātam vyāghreśvaram iti smṛtam..42..
ज्योतिर्लिंगोपलिंगानि प्रोक्तानीह मया द्विजाः॥दर्शनात्पापहारीणि सर्वकामप्रदानि च ॥ ४३ ॥
ज्योतिः-लिंग-उपलिंगानि प्रोक्तानि इह मया द्विजाः॥दर्शनात् पाप-हारीणि सर्व-काम-प्रदानि च ॥ ४३ ॥
jyotiḥ-liṃga-upaliṃgāni proktāni iha mayā dvijāḥ..darśanāt pāpa-hārīṇi sarva-kāma-pradāni ca .. 43 ..
एतानि सुप्रधानानि मुख्यतां हि गतानि च ॥ अन्यानि चापि मुख्यानि श्रूयतामृषिसत्तमा। ॥ ४४ ॥
एतानि सु प्रधानानि मुख्य-ताम् हि गतानि च ॥ अन्यानि च अपि मुख्यानि श्रूयताम् ऋषि-सत्तमा। ॥ ४४ ॥
etāni su pradhānāni mukhya-tām hi gatāni ca .. anyāni ca api mukhyāni śrūyatām ṛṣi-sattamā. .. 44 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्योतिर्लिगतदुपलिंग माहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥ ।
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् ज्योतिर्लिगतदुपलिंगमाहात्म्यवर्णनम् नाम प्रथमः अध्यायः ॥ १ ॥ ।
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām jyotirligatadupaliṃgamāhātmyavarṇanam nāma prathamaḥ adhyāyaḥ .. 1 .. .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In