| |
|

This overlay will guide you through the buttons:

सूत उवाच।।
द्विजाः शृणुत सद्भक्त्या शिवलिंगानि तानि च ॥ पश्चिमायां दिशायां वै यानि ख्यातानि भूतले॥१॥
द्विजाः शृणुत सत्-भक्त्या शिव-लिंगानि तानि च ॥ पश्चिमायाम् दिशायाम् वै यानि ख्यातानि भू-तले॥१॥
dvijāḥ śṛṇuta sat-bhaktyā śiva-liṃgāni tāni ca .. paścimāyām diśāyām vai yāni khyātāni bhū-tale..1..
कपिलायां नगर्यां तु कालरामेश्वराभिधे ॥ शिवलिंगे महादिव्ये दर्शनात्पापहारके ॥ २ ॥
कपिलायाम् नगर्याम् तु कालरामेश्वर-अभिधे ॥ शिव-लिंगे महा-दिव्ये दर्शनात् पाप-हारके ॥ २ ॥
kapilāyām nagaryām tu kālarāmeśvara-abhidhe .. śiva-liṃge mahā-divye darśanāt pāpa-hārake .. 2 ..
पश्चिमे सागरे चैव महासिद्धेश्वरः स्मृतः ॥ धर्मार्थकामदश्चैव तथा मोक्षप्रदोऽपि हि ॥ ३॥
पश्चिमे सागरे च एव महासिद्धेश्वरः स्मृतः ॥ धर्म-अर्थ-काम-दः च एव तथा मोक्ष-प्रदः अपि हि ॥ ३॥
paścime sāgare ca eva mahāsiddheśvaraḥ smṛtaḥ .. dharma-artha-kāma-daḥ ca eva tathā mokṣa-pradaḥ api hi .. 3..
पश्चिमाम्बुधितीरस्थं गोकर्णं क्षेत्रमुत्तमम् ॥ ब्रह्महत्यादिपापघ्नं सर्वकामफलप्रदम् ॥ ५॥
पश्चिम-अम्बुधि-तीर-स्थम् गोकर्णम् क्षेत्रम् उत्तमम् ॥ ब्रह्महत्या-आदि-पाप-घ्नम् सर्व-काम-फल-प्रदम् ॥ ५॥
paścima-ambudhi-tīra-stham gokarṇam kṣetram uttamam .. brahmahatyā-ādi-pāpa-ghnam sarva-kāma-phala-pradam .. 5..
गोकर्णे शिवलिंगानि विद्यन्ते कोटिकोटिशः ॥ असंख्यातानि तीर्थानि तिष्ठन्ति च पदेपदे ॥ ५॥
गोकर्णे शिव-लिंगानि विद्यन्ते कोटि-कोटिशस् ॥ असंख्यातानि तीर्थानि तिष्ठन्ति च पदे पदे ॥ ५॥
gokarṇe śiva-liṃgāni vidyante koṭi-koṭiśas .. asaṃkhyātāni tīrthāni tiṣṭhanti ca pade pade .. 5..
बहुनात्र किमुक्तेन गोकर्णस्थानि सर्वशः ॥ शिवप्रत्यक्षलिंगानि तीर्थान्यम्भांसि सर्वशः ॥ ६ ॥
बहुना अत्र किम् उक्तेन गोकर्ण-स्थानि सर्वशस् ॥ शिव-प्रत्यक्ष-लिंगानि तीर्थानि अम्भांसि सर्वशस् ॥ ६ ॥
bahunā atra kim uktena gokarṇa-sthāni sarvaśas .. śiva-pratyakṣa-liṃgāni tīrthāni ambhāṃsi sarvaśas .. 6 ..
गोकर्णे शिवलिंगानां तीर्थानामपि सर्वशः ॥ वर्ण्यते महिमा तात पुराणेषु महर्षिभिः ॥ ७॥
गोकर्णे शिव-लिंगानाम् तीर्थानाम् अपि सर्वशस् ॥ वर्ण्यते महिमा तात पुराणेषु महा-ऋषिभिः ॥ ७॥
gokarṇe śiva-liṃgānām tīrthānām api sarvaśas .. varṇyate mahimā tāta purāṇeṣu mahā-ṛṣibhiḥ .. 7..
कृतेयुगे स हि श्वेतस्त्रेतायां सोतिलोहितः ॥ द्वापरे पीतवर्णश्च कलौ श्यामो भविष्यति ॥ ८ ॥
कृते युगे स हि श्वेतः त्रेतायाम् सः उतिलोहितः ॥ द्वापरे पीत-वर्णः च कलौ श्यामः भविष्यति ॥ ८ ॥
kṛte yuge sa hi śvetaḥ tretāyām saḥ utilohitaḥ .. dvāpare pīta-varṇaḥ ca kalau śyāmaḥ bhaviṣyati .. 8 ..
आक्रान्तसप्तपातालकुहरोपि महाबलः ॥ प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ॥ ९ ॥
आक्रान्त-सप्त-पाताल-कुहरः अपि महा-बलः ॥ प्राप्ते कलि-युगे घोरे मृदु-ताम् उपयास्यति ॥ ९ ॥
ākrānta-sapta-pātāla-kuharaḥ api mahā-balaḥ .. prāpte kali-yuge ghore mṛdu-tām upayāsyati .. 9 ..
महापातकिनश्चात्र समभ्यर्च्य महाबलम् ॥ शिवलिंगं च गोकर्णे प्रयाताश्शांकरम्पदम् ॥ 4.8.१०॥
महापातकिनः च अत्र समभ्यर्च्य महाबलम् ॥ शिव-लिंगम् च गोकर्णे प्रयाताः शांकरम् पदम् ॥ ४।८।१०॥
mahāpātakinaḥ ca atra samabhyarcya mahābalam .. śiva-liṃgam ca gokarṇe prayātāḥ śāṃkaram padam .. 4.8.10..
गोकर्णे तत्र मुनयो गत्वा पुण्यर्क्षवासरे ॥ येऽर्चयन्ति च तं भक्त्या ते रुद्राः स्युर्न संशय ॥ ११ ॥
गोकर्णे तत्र मुनयः गत्वा पुण्य-ऋक्ष-वासरे ॥ ये अर्चयन्ति च तम् भक्त्या ते रुद्राः स्युः न संशय ॥ ११ ॥
gokarṇe tatra munayaḥ gatvā puṇya-ṛkṣa-vāsare .. ye arcayanti ca tam bhaktyā te rudrāḥ syuḥ na saṃśaya .. 11 ..
यदा कदाचिद्गोकर्णे यो वा को वापि मानवः ॥ पूजयेच्छिवलिंगं तत्स गच्छेद्ब्रह्मणः पदम् ॥ १२॥
यदा कदाचिद् गोकर्णे यः वा कः वा अपि मानवः ॥ पूजयेत् शिव-लिंगम् तत् स गच्छेत् ब्रह्मणः पदम् ॥ १२॥
yadā kadācid gokarṇe yaḥ vā kaḥ vā api mānavaḥ .. pūjayet śiva-liṃgam tat sa gacchet brahmaṇaḥ padam .. 12..
ब्रह्मविष्ण्वादिदेवानां शंकरो हित काम्यया ॥ महाबलाभिधानेन देवः संनिहितस्सदा ॥ ।२॥
ब्रह्म-विष्णु-आदि-देवानाम् शंकरः हित काम्यया ॥ महाबल-अभिधानेन देवः संनिहितः सदा ॥ ।२॥
brahma-viṣṇu-ādi-devānām śaṃkaraḥ hita kāmyayā .. mahābala-abhidhānena devaḥ saṃnihitaḥ sadā .. .2..
घोरेण तपसा लब्धं रावणाख्येन रक्षसा॥तल्लिंगं स्थापयामास गोकर्ण गणनायकः ॥ १४॥
घोरेण तपसा लब्धम् रावण-आख्येन रक्षसा॥तत् लिंगम् स्थापयामास गोकर्ण गणनायकः ॥ १४॥
ghoreṇa tapasā labdham rāvaṇa-ākhyena rakṣasā..tat liṃgam sthāpayāmāsa gokarṇa gaṇanāyakaḥ .. 14..
विष्णुर्ब्रह्मा महेन्द्रश्च विश्वदेवो मरुद्गणाः॥आदित्या वसवो दस्रौ शशांकश्च सतारकः॥१५॥
विष्णुः ब्रह्मा महा-इन्द्रः च विश्वदेवः मरुत्-गणाः॥आदित्याः वसवः दस्रौ शशांकः च स तारकः॥१५॥
viṣṇuḥ brahmā mahā-indraḥ ca viśvadevaḥ marut-gaṇāḥ..ādityāḥ vasavaḥ dasrau śaśāṃkaḥ ca sa tārakaḥ..15..
एते विमानगतयो देवाश्च सह पार्षदैः ॥ पूर्वद्वारं निषेवन्ते तस्य वै प्रीतिकारणात् ॥ १६॥
एते विमान-गतयः देवाः च सह पार्षदैः ॥ पूर्व-द्वारम् निषेवन्ते तस्य वै प्रीति-कारणात् ॥ १६॥
ete vimāna-gatayaḥ devāḥ ca saha pārṣadaiḥ .. pūrva-dvāram niṣevante tasya vai prīti-kāraṇāt .. 16..
यमो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः॥पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ॥ १७॥
यमः मृत्युः स्वयम् साक्षात् चित्रगुप्तः च पावकः॥पितृभिः सह रुद्रैः च दक्षिण-द्वारम् आश्रितः ॥ १७॥
yamaḥ mṛtyuḥ svayam sākṣāt citraguptaḥ ca pāvakaḥ..pitṛbhiḥ saha rudraiḥ ca dakṣiṇa-dvāram āśritaḥ .. 17..
वरुणः सरितां नाथो गंगादिसरिता गणैः ॥ महाबलं च सेवन्ते पश्चिमद्वारमाश्रिताः॥१८॥
वरुणः सरिताम् नाथः गंगा-आदि-सरिता गणैः ॥ महाबलम् च सेवन्ते पश्चिम-द्वारम् आश्रिताः॥१८॥
varuṇaḥ saritām nāthaḥ gaṃgā-ādi-saritā gaṇaiḥ .. mahābalam ca sevante paścima-dvāram āśritāḥ..18..
तथा वायुः कुबेरश्च देवेशी भद्रकालिका ॥ मातृभिश्चण्डिकाद्याभिरुत्तरद्वारमाश्रिताः ॥ १९ ॥
तथा वायुः कुबेरः च देवेशी भद्रकालिका ॥ मातृभिः चण्डिका-आद्याभिः उत्तर-द्वारम् आश्रिताः ॥ १९ ॥
tathā vāyuḥ kuberaḥ ca deveśī bhadrakālikā .. mātṛbhiḥ caṇḍikā-ādyābhiḥ uttara-dvāram āśritāḥ .. 19 ..
सर्वे देवास्सगन्धर्वाः पितरः सिद्धचारणाः ॥ विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः ॥ 4.8.२० ॥
सर्वे देवाः स गन्धर्वाः पितरः सिद्ध-चारणाः ॥ विद्याधराः किंपुरुषाः किन्नराः गुह्यकाः खगाः ॥ ४।८।२० ॥
sarve devāḥ sa gandharvāḥ pitaraḥ siddha-cāraṇāḥ .. vidyādharāḥ kiṃpuruṣāḥ kinnarāḥ guhyakāḥ khagāḥ .. 4.8.20 ..
नानापिशाचा वेताला दैतेयाश्च महाबलाः ॥ नागाश्शेषादयस्सर्वे सिद्धाश्च मुनयोऽखिलाः ॥ २१ ॥
नाना पिशाचाः वेतालाः दैतेयाः च महा-बलाः ॥ नागाः शेष-आदयः सर्वे सिद्धाः च मुनयः अखिलाः ॥ २१ ॥
nānā piśācāḥ vetālāḥ daiteyāḥ ca mahā-balāḥ .. nāgāḥ śeṣa-ādayaḥ sarve siddhāḥ ca munayaḥ akhilāḥ .. 21 ..
प्रणुवन्ति च तं देवं प्रणमन्ति महाबलम् ॥ लभन्त ईप्सितान्कामान्रमन्ते च यथासुखम् ॥ २२॥
प्रणुवन्ति च तम् देवम् प्रणमन्ति महा-बलम् ॥ लभन्ते ईप्सितान् कामान् रमन्ते च यथासुखम् ॥ २२॥
praṇuvanti ca tam devam praṇamanti mahā-balam .. labhante īpsitān kāmān ramante ca yathāsukham .. 22..
बहुभिस्तत्र सुतपस्तप्तं सम्पूज्य तं विभुम् ॥ लब्धा हि परमा सिद्धिरिहामुत्रापि सौख्यदा ॥ २३ ॥
बहुभिः तत्र सु तपः तप्तम् सम्पूज्य तम् विभुम् ॥ लब्धा हि परमा सिद्धिः इह अमुत्र अपि सौख्य-दा ॥ २३ ॥
bahubhiḥ tatra su tapaḥ taptam sampūjya tam vibhum .. labdhā hi paramā siddhiḥ iha amutra api saukhya-dā .. 23 ..
गोकर्णे शिवलिंगं तु मोक्षद्वार उदाहृतः ॥ महाबलाभिधानोऽसौ पूजितः संस्तुतो द्विजाः ॥ २४ ॥
गोकर्णे शिव-लिंगम् तु मोक्षद्वारे उदाहृतः ॥ महाबल-अभिधानः असौ पूजितः संस्तुतः द्विजाः ॥ २४ ॥
gokarṇe śiva-liṃgam tu mokṣadvāre udāhṛtaḥ .. mahābala-abhidhānaḥ asau pūjitaḥ saṃstutaḥ dvijāḥ .. 24 ..
माघासितचतुर्दश्यां महाबलसमर्चनम् ॥ विमुक्तिदं विशेषेण सर्वेषां पापिनामपि ॥ २५ ॥
माघ-असित-चतुर्दश्याम् महाबल-समर्चनम् ॥ विमुक्ति-दम् विशेषेण सर्वेषाम् पापिनाम् अपि ॥ २५ ॥
māgha-asita-caturdaśyām mahābala-samarcanam .. vimukti-dam viśeṣeṇa sarveṣām pāpinām api .. 25 ..
अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ॥ आयांति सर्वदेशेभ्यश्चातुर्वर्ण्यमहाजनाः ॥ २६ ॥
अस्याम् शिवतिथौ सर्वे महा-उत्सव-दिदृक्षवः ॥ आयांति सर्व-देशेभ्यः चातुर्वर्ण्य-महाजनाः ॥ २६ ॥
asyām śivatithau sarve mahā-utsava-didṛkṣavaḥ .. āyāṃti sarva-deśebhyaḥ cāturvarṇya-mahājanāḥ .. 26 ..
स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ॥ दृष्ट्वा तत्रेत्य देवेशं लेभिरे कृतकृत्यताम् ॥ २७ ॥
स्त्रियः वृद्धाः च बालाः च चतुर्-आश्रम-वासिनः ॥ दृष्ट्वा तत्र एत्य देवेशम् लेभिरे कृतकृत्य-ताम् ॥ २७ ॥
striyaḥ vṛddhāḥ ca bālāḥ ca catur-āśrama-vāsinaḥ .. dṛṣṭvā tatra etya deveśam lebhire kṛtakṛtya-tām .. 27 ..
महाबलप्रभावात्तु तच्च लिंगं शिवस्य तु ॥ सम्पूज्यैकाथ चाण्डाली शिवलोकं गता द्रुतम्॥२८॥
महाबल-प्रभावात् तु तत् च लिंगम् शिवस्य तु ॥ सम्पूज्य एका अथ चाण्डाली शिव-लोकम् गता द्रुतम्॥२८॥
mahābala-prabhāvāt tu tat ca liṃgam śivasya tu .. sampūjya ekā atha cāṇḍālī śiva-lokam gatā drutam..28..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबलमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ८॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् महाबलमाहात्म्यवर्णनम् नाम अष्टमः अध्यायः ॥ ८॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām mahābalamāhātmyavarṇanam nāma aṣṭamaḥ adhyāyaḥ .. 8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In