| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
श्रीमतीक्ष्वाकुवंशे हि राजा परमधार्मिकः ॥ आसीन्मित्रसहो नाम श्रेष्ठस्सर्वधनुष्मताम् ॥ १ ॥
श्रीमत्-इक्ष्वाकु-वंशे हि राजा परम-धार्मिकः ॥ आसीत् मित्रसहः नाम श्रेष्ठः सर्व-धनुष्मताम् ॥ १ ॥
śrīmat-ikṣvāku-vaṃśe hi rājā parama-dhārmikaḥ .. āsīt mitrasahaḥ nāma śreṣṭhaḥ sarva-dhanuṣmatām .. 1 ..
तस्य राज्ञः सुधर्मिष्ठा मदयन्ती प्रिया शुभा॥दमयन्ती नलस्येव बभूव विदिता सती ॥ २ ॥
तस्य राज्ञः सुधर्मिष्ठा मदयन्ती प्रिया शुभा॥दमयन्ती नलस्य इव बभूव विदिता सती ॥ २ ॥
tasya rājñaḥ sudharmiṣṭhā madayantī priyā śubhā..damayantī nalasya iva babhūva viditā satī .. 2 ..
स एकदा हि मृगयास्नेही मित्रसहो नृपः ॥ महद्बलेन संयुक्तो जगाम गहनं वनम् ॥ ३ ॥
सः एकदा हि मृगया-स्नेही मित्र-सहः नृपः ॥ महत्-बलेन संयुक्तः जगाम गहनम् वनम् ॥ ३ ॥
saḥ ekadā hi mṛgayā-snehī mitra-sahaḥ nṛpaḥ .. mahat-balena saṃyuktaḥ jagāma gahanam vanam .. 3 ..
विहरंस्तत्र स नृपः कमठाह्वं निशाचरम् ॥ निजघान महादुष्टं साधुपीडाकरं खलम् ॥ ४ ॥
विहरन् तत्र स नृपः कमठ-आह्वम् निशाचरम् ॥ निजघान महा-दुष्टम् साधु-पीडा-करम् खलम् ॥ ४ ॥
viharan tatra sa nṛpaḥ kamaṭha-āhvam niśācaram .. nijaghāna mahā-duṣṭam sādhu-pīḍā-karam khalam .. 4 ..
अथ तस्यानुजः पापी जयेयं छद्मनैव तम्॥मत्वा जगाम नृपतेरन्तिक च्छद्मकारकः ॥ ५॥
अथ तस्य अनुजः पापी जयेयम् छद्मना एव तम्॥मत्वा जगाम नृपतेः अन्तिक छद्म-कारकः ॥ ५॥
atha tasya anujaḥ pāpī jayeyam chadmanā eva tam..matvā jagāma nṛpateḥ antika chadma-kārakaḥ .. 5..
तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम्॥चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः॥६॥
तम् विनम्र-आकृतिम् दृष्ट्वा भृत्य-ताम् कर्तुम् आगतम्॥चक्रे महानस-अध्यक्षम् अज्ञानात् स महीपतिः॥६॥
tam vinamra-ākṛtim dṛṣṭvā bhṛtya-tām kartum āgatam..cakre mahānasa-adhyakṣam ajñānāt sa mahīpatiḥ..6..
अथ तस्मिन्वने राजा कियत्कालं विहृत्य सः ॥ निवृत्तो मृगयां हित्वा स्वपुरीमाययौ मुदा ॥ ७ ॥
अथ तस्मिन् वने राजा कियत्कालम् विहृत्य सः ॥ निवृत्तः मृगयाम् हित्वा स्व-पुरीम् आययौ मुदा ॥ ७ ॥
atha tasmin vane rājā kiyatkālam vihṛtya saḥ .. nivṛttaḥ mṛgayām hitvā sva-purīm āyayau mudā .. 7 ..
पितुः क्षयाहे सम्प्राप्ते निमंत्र्य स्वगुरुं नृपः ॥ वसिष्ठं गृहमानिन्ये भोजयामास भक्तितः ॥ ८॥
पितुः क्षय-अहे सम्प्राप्ते निमंत्र्य स्व-गुरुम् नृपः ॥ वसिष्ठम् गृहम् आनिन्ये भोजयामास भक्तितः ॥ ८॥
pituḥ kṣaya-ahe samprāpte nimaṃtrya sva-gurum nṛpaḥ .. vasiṣṭham gṛham āninye bhojayāmāsa bhaktitaḥ .. 8..
रक्षसा सूदरूपेण संमिश्रितनरामिषम् ॥ शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ॥ ९ ॥
रक्षसा सूद-रूपेण संमिश्रित-नर-आमिषम् ॥ शाक-आमिषम् पुरस् क्षिप्तम् दृष्ट्वा गुरुः अथ अब्रवीत् ॥ ९ ॥
rakṣasā sūda-rūpeṇa saṃmiśrita-nara-āmiṣam .. śāka-āmiṣam puras kṣiptam dṛṣṭvā guruḥ atha abravīt .. 9 ..
गुरुरुवाच ।।
धिक् त्वां नरामिषं राजंस्त्वयैतच्छद्मकारिणा ॥ खलेनोपहृतं मह्यं ततो रक्षो भविष्यसि ॥ 4.10.१० ॥
धिक् त्वाम् नर-आमिषम् राजन् त्वया एतद्-छद्म-कारिणा ॥ खलेन उपहृतम् मह्यम् ततस् रक्षः भविष्यसि ॥ ४।१०।१० ॥
dhik tvām nara-āmiṣam rājan tvayā etad-chadma-kāriṇā .. khalena upahṛtam mahyam tatas rakṣaḥ bhaviṣyasi .. 4.10.10 ..
रक्षःकृतं च विज्ञाय तदैवं स गुरुस्तदा ॥ पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ॥ ११ ॥
रक्षः-कृतम् च विज्ञाय तदा एवम् स गुरुः तदा ॥ पुनर् विमृश्य तम् शापम् चकार द्वादश-आब्दिकम् ॥ ११ ॥
rakṣaḥ-kṛtam ca vijñāya tadā evam sa guruḥ tadā .. punar vimṛśya tam śāpam cakāra dvādaśa-ābdikam .. 11 ..
स राजानुचितं शापं विज्ञाय क्रोधमूर्छितः ॥ जलांजलिं समादाय गुरुं शप्तुं समुद्यतः ॥ १२ ॥
स राजा अनुचितम् शापम् विज्ञाय क्रोध-मूर्छितः ॥ जल-अंजलिम् समादाय गुरुम् शप्तुम् समुद्यतः ॥ १२ ॥
sa rājā anucitam śāpam vijñāya krodha-mūrchitaḥ .. jala-aṃjalim samādāya gurum śaptum samudyataḥ .. 12 ..
तदा च तत्प्रिया साध्वी मदयन्ती सुधर्मिणी ॥ पतित्वा पादयोस्तस्य शापं तं हि न्यवारयत् ॥ १३ ॥
तदा च तद्-प्रिया साध्वी मदयन्ती सु धर्मिणी ॥ पतित्वा पादयोः तस्य शापम् तम् हि न्यवारयत् ॥ १३ ॥
tadā ca tad-priyā sādhvī madayantī su dharmiṇī .. patitvā pādayoḥ tasya śāpam tam hi nyavārayat .. 13 ..
ततो निवृत्तशापस्तु तस्या वचनगौरवात् ॥ तत्याज पादयोरंभः पादौ कल्मषतां गतौ ॥ १४ ॥
ततस् निवृत्त-शापः तु तस्याः वचन-गौरवात् ॥ तत्याज पादयोः अंभः पादौ कल्मष-ताम् गतौ ॥ १४ ॥
tatas nivṛtta-śāpaḥ tu tasyāḥ vacana-gauravāt .. tatyāja pādayoḥ aṃbhaḥ pādau kalmaṣa-tām gatau .. 14 ..
ततःप्रभृति राजाभूत्स लोकेस्मिन्मुनीश्वराः ॥ कल्मषांघ्रिरिति ख्यातः प्रभावात्तज्जलस्य हि ॥ १५ ॥
ततस् प्रभृति राजा अभूत् स लोके इस्मिन् मुनि-ईश्वराः ॥ कल्मषांघ्रिः इति ख्यातः प्रभावात् तद्-जलस्य हि ॥ १५ ॥
tatas prabhṛti rājā abhūt sa loke ismin muni-īśvarāḥ .. kalmaṣāṃghriḥ iti khyātaḥ prabhāvāt tad-jalasya hi .. 15 ..
राजा मित्रसहः शापाद्गुरो ऋषिवरस्य हि ॥ बभूव राक्षसो घोरो हिंसको वनगोचरः ॥ १६॥
राजा मित्रसहः शापात् गुरोः ऋषि-वरस्य हि ॥ बभूव राक्षसः घोरः हिंसकः वन-गोचरः ॥ १६॥
rājā mitrasahaḥ śāpāt guroḥ ṛṣi-varasya hi .. babhūva rākṣasaḥ ghoraḥ hiṃsakaḥ vana-gocaraḥ .. 16..
स बिभ्रद्राक्षसं रूपं कालान्तकयमोपमम् ॥ चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः ॥ १७ ॥
स बिभ्रत् राक्षसम् रूपम् काल-अन्तक-यम-उपमम् ॥ चखाद विविधान् जंतून् मानुष-आदीन् वनेचरः ॥ १७ ॥
sa bibhrat rākṣasam rūpam kāla-antaka-yama-upamam .. cakhāda vividhān jaṃtūn mānuṣa-ādīn vanecaraḥ .. 17 ..
स कदाचिद्वने क्वापि रममाणौ किशोरकौ ॥ अपश्यदन्तकाकारो नवोढौ मुनिदम्पती ॥ १८ ॥
स कदाचिद् वने क्वापि रममाणौ किशोरकौ ॥ अपश्यत् अन्तक-आकारः न वोढौ मुनि-दम्पती ॥ १८ ॥
sa kadācid vane kvāpi ramamāṇau kiśorakau .. apaśyat antaka-ākāraḥ na voḍhau muni-dampatī .. 18 ..
राक्षसः स नराहारः किशोरं मुनिनन्दनम् ॥ जग्धुं जग्राह शापार्त्तो व्याघ्रो मृगशिशुं यथा ॥ १९ ॥
राक्षसः स नर-आहारः किशोरम् मुनि-नन्दनम् ॥ जग्धुम् जग्राह शाप-आर्त्तः व्याघ्रः मृग-शिशुम् यथा ॥ १९ ॥
rākṣasaḥ sa nara-āhāraḥ kiśoram muni-nandanam .. jagdhum jagrāha śāpa-ārttaḥ vyāghraḥ mṛga-śiśum yathā .. 19 ..
कुक्षौ गृहीतं भर्तारं दृष्ट्वा भीता च तत्प्रिया॥सा चक्रे प्रार्थनं तस्मै वदंती करुणं वचः ॥ 4.10.२० ॥
कुक्षौ गृहीतम् भर्तारम् दृष्ट्वा भीता च तद्-प्रिया॥सा चक्रे प्रार्थनम् तस्मै वदंती करुणम् वचः ॥ ४।१०।२० ॥
kukṣau gṛhītam bhartāram dṛṣṭvā bhītā ca tad-priyā..sā cakre prārthanam tasmai vadaṃtī karuṇam vacaḥ .. 4.10.20 ..
प्रार्थ्यमानोऽपि बहुशः पुरुषादः स निर्घृणः॥चखाद शिर उत्कृत्य विप्रसूनोर्दुराशयः॥२१।
प्रार्थ्यमानः अपि बहुशस् पुरुषादः स निर्घृणः॥चखाद शिरः उत्कृत्य विप्र-सूनोः दुराशयः॥२१।
prārthyamānaḥ api bahuśas puruṣādaḥ sa nirghṛṇaḥ..cakhāda śiraḥ utkṛtya vipra-sūnoḥ durāśayaḥ..21.
अथ साध्वी च सा दीना विलप्य भृशदुःखिता॥आहृत्य भर्तुरस्थीनि चितां चक्रे किलोल्बणाम् ॥ २२॥
अथ साध्वी च सा दीना विलप्य भृश-दुःखिता॥आहृत्य भर्तुः अस्थीनि चिताम् चक्रे किल उल्बणाम् ॥ २२॥
atha sādhvī ca sā dīnā vilapya bhṛśa-duḥkhitā..āhṛtya bhartuḥ asthīni citām cakre kila ulbaṇām .. 22..
भर्तारमनुगच्छन्ती संविशंती हुताशनम्॥राजानं राक्षसाकारं सा शशाप द्विजाङ्गना ॥ २३॥
भर्तारम् अनुगच्छन्ती संविशंती हुताशनम्॥राजानम् राक्षस-आकारम् सा शशाप द्विज-अङ्गना ॥ २३॥
bhartāram anugacchantī saṃviśaṃtī hutāśanam..rājānam rākṣasa-ākāram sā śaśāpa dvija-aṅganā .. 23..
अद्यप्रभृति नारीषु यदा त्वं संगतो भवेः ॥ तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ॥ २४ ॥
अद्य प्रभृति नारीषु यदा त्वम् संगतः भवेः ॥ तदा मृतिः तव इति उक्त्वा विवेश ज्वलनम् सती ॥ २४ ॥
adya prabhṛti nārīṣu yadā tvam saṃgataḥ bhaveḥ .. tadā mṛtiḥ tava iti uktvā viveśa jvalanam satī .. 24 ..
सोपि राजा गुरोश्शापमनुभूय कृतावधिम् ॥ पुनः स्वरूपमास्थाय स्वगृहं मुदितो ययौ ॥ २५ ॥
सः अपि राजा गुरोः शापम् अनुभूय कृत-अवधिम् ॥ पुनर् स्व-रूपम् आस्थाय स्व-गृहम् मुदितः ययौ ॥ २५ ॥
saḥ api rājā guroḥ śāpam anubhūya kṛta-avadhim .. punar sva-rūpam āsthāya sva-gṛham muditaḥ yayau .. 25 ..
ज्ञात्वा विप्रसतीशापं मदयन्ती रतिप्रियम् ॥ पतिं निवारयामास वैधव्यादतिबिभ्यती ॥ २६ ॥
ज्ञात्वा विप्रसती-शापम् मदयन्ती रति-प्रियम् ॥ पतिम् निवारयामास वैधव्यात् अति बिभ्यती ॥ २६ ॥
jñātvā viprasatī-śāpam madayantī rati-priyam .. patim nivārayāmāsa vaidhavyāt ati bibhyatī .. 26 ..
अनपत्यो विनिर्विण्णो राज्यभोगेषु पार्थिवः ॥ विसृज्य सकलां लक्ष्मीं वनमेव जगाम ह ॥ २७ ॥
अनपत्यः विनिर्विण्णः राज्य-भोगेषु पार्थिवः ॥ विसृज्य सकलाम् लक्ष्मीम् वनम् एव जगाम ह ॥ २७ ॥
anapatyaḥ vinirviṇṇaḥ rājya-bhogeṣu pārthivaḥ .. visṛjya sakalām lakṣmīm vanam eva jagāma ha .. 27 ..
स्वपृष्ठतः समायान्तीं ब्रह्महत्यां सुदुःखदाम् ॥ ददर्श विकटाकारां तर्जयन्ती मुहुर्मुहुः ॥ २८ ॥
स्व-पृष्ठतस् समायान्तीम् ब्रह्महत्याम् सु दुःख-दाम् ॥ ददर्श विकट-आकाराम् तर्जयन्ती मुहुर् मुहुर् ॥ २८ ॥
sva-pṛṣṭhatas samāyāntīm brahmahatyām su duḥkha-dām .. dadarśa vikaṭa-ākārām tarjayantī muhur muhur .. 28 ..
तस्या निर्भद्रमन्विच्छन् राजा निर्विण्णमानसः ॥ चकार नानोपायान्स जपव्रतमखादिकान् ॥ २९ ॥
तस्याः निर्भद्रम् अन्विच्छन् राजा निर्विण्ण-मानसः ॥ चकार नाना उपायान् स जप-व्रत-मख-आदिकान् ॥ २९ ॥
tasyāḥ nirbhadram anvicchan rājā nirviṇṇa-mānasaḥ .. cakāra nānā upāyān sa japa-vrata-makha-ādikān .. 29 ..
नानोपायैर्यदा राज्ञस्तीर्थस्नानादिभिर्द्विजाः ॥ न निवृत्ता ब्रह्महत्या मिथिलां स ययौ तदा ॥ 4.10.३०॥
नाना उपायैः यदा राज्ञः तीर्थ-स्नान-आदिभिः द्विजाः ॥ न निवृत्ता ब्रह्महत्या मिथिलाम् स ययौ तदा ॥ ४।१०।३०॥
nānā upāyaiḥ yadā rājñaḥ tīrtha-snāna-ādibhiḥ dvijāḥ .. na nivṛttā brahmahatyā mithilām sa yayau tadā .. 4.10.30..
बाह्योद्यानगतस्तस्याश्चितया परयार्दितः॥ददर्श मुनिमायान्तं गौतमं पार्थिवश्च सः॥३१॥
बाह्य-उद्यान-गतः तस्याः चितया परया अर्दितः॥ददर्श मुनिम् आयान्तम् गौतमम् पार्थिवः च सः॥३१॥
bāhya-udyāna-gataḥ tasyāḥ citayā parayā arditaḥ..dadarśa munim āyāntam gautamam pārthivaḥ ca saḥ..31..
अभिसृत्य स राजेन्द्रो गौतमं विमलाशयम् ॥ तद्दर्शनाप्तकिंचित्कः प्रणनाम मुहुर्मुहुः॥॥
अभिसृत्य स राज-इन्द्रः गौतमम् विमल-आशयम् ॥ तद्-दर्शन-आप्त-किंचित्कः प्रणनाम मुहुर् मुहुर्॥॥
abhisṛtya sa rāja-indraḥ gautamam vimala-āśayam .. tad-darśana-āpta-kiṃcitkaḥ praṇanāma muhur muhur....
अथ तत्पृष्टकुशलो दीर्घमुष्णं च निश्वसन् ॥ तत्कृपादृष्टिसंप्राप्तसुख प्रोवाच तं नृपः ॥ ३३ ॥
अथ तद्-पृष्ट-कुशलः दीर्घम् उष्णम् च निश्वसन् ॥ तद्-कृपा-दृष्टि-संप्राप्त-सुख प्रोवाच तम् नृपः ॥ ३३ ॥
atha tad-pṛṣṭa-kuśalaḥ dīrgham uṣṇam ca niśvasan .. tad-kṛpā-dṛṣṭi-saṃprāpta-sukha provāca tam nṛpaḥ .. 33 ..
राजोवाच ।।
मुने मां बाधते ह्येषा ब्रह्महत्या दुरत्यया ॥ अलक्षिता परैस्तात तर्जयंती पदेपदे ॥ ३४ ॥
मुने माम् बाधते हि एषा ब्रह्महत्या दुरत्यया ॥ अलक्षिता परैः तात तर्जयंती पदे पदे ॥ ३४ ॥
mune mām bādhate hi eṣā brahmahatyā duratyayā .. alakṣitā paraiḥ tāta tarjayaṃtī pade pade .. 34 ..
यन्मया शापदग्धेन विप्रपुत्रश्च भक्षितः ॥ तत्पापस्य न शान्तिर्हि प्रायश्चित्तसहस्रकैः ॥ ३५॥
यत् मया शाप-दग्धेन विप्र-पुत्रः च भक्षितः ॥ तद्-पापस्य न शान्तिः हि प्रायश्चित्त-सहस्रकैः ॥ ३५॥
yat mayā śāpa-dagdhena vipra-putraḥ ca bhakṣitaḥ .. tad-pāpasya na śāntiḥ hi prāyaścitta-sahasrakaiḥ .. 35..
नानोपायाः कृता मे हि तच्छान्त्यै भ्रमता मुने ॥ न निवृत्ता ब्रह्महत्या मम पापात्मनः किमु ॥ ३६ ॥
नाना उपायाः कृताः मे हि तद्-शान्त्यै भ्रमता मुने ॥ न निवृत्ता ब्रह्महत्या मम पाप-आत्मनः किमु ॥ ३६ ॥
nānā upāyāḥ kṛtāḥ me hi tad-śāntyai bhramatā mune .. na nivṛttā brahmahatyā mama pāpa-ātmanaḥ kimu .. 36 ..
अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्षये ॥ यतस्त्वद्दर्शनादेव ममानन्दभरोऽभवत् ॥ ३७ ॥
अद्य मे जन्म-साफल्यम् संप्राप्तम् इव लक्षये ॥ यतस् त्वद्-दर्शनात् एव मम आनन्द-भरः अभवत् ॥ ३७ ॥
adya me janma-sāphalyam saṃprāptam iva lakṣaye .. yatas tvad-darśanāt eva mama ānanda-bharaḥ abhavat .. 37 ..
अद्य मे तवपादाब्ज शरणस्य कृतैनसः ॥ शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ॥ ३८ ॥
अद्य मे तव पाद-अब्ज शरणस्य कृत-एनसः ॥ शांतिम् कुरु महाभाग येन अहम् सुखम् आप्नुयाम् ॥ ३८ ॥
adya me tava pāda-abja śaraṇasya kṛta-enasaḥ .. śāṃtim kuru mahābhāga yena aham sukham āpnuyām .. 38 ..
सूत उवाच ।।
इति राज्ञा समादिष्टो गौतमः करुणार्द्रधीः ॥ समादिदेश घोराणामघानां साधु निष्कृतिम् ॥ ३९॥
इति राज्ञा समादिष्टः गौतमः करुणा-आर्द्र-धीः ॥ समादिदेश घोराणाम् अघानाम् साधु निष्कृतिम् ॥ ३९॥
iti rājñā samādiṣṭaḥ gautamaḥ karuṇā-ārdra-dhīḥ .. samādideśa ghorāṇām aghānām sādhu niṣkṛtim .. 39..
गौतम उवाच ।।
साधु राजेन्द्र धन्योसि महाघेभ्यो भयन्त्यज॥शिवे शास्तरि भक्तानां क्व भयं शरणैषिणाम्॥4.10.४०॥
साधु राज-इन्द्र धन्यः असि महा-अघेभ्यः॥शिवे शास्तरि भक्तानाम् क्व भयम् शरण-एषिणाम्॥४।१०।४०॥
sādhu rāja-indra dhanyaḥ asi mahā-aghebhyaḥ..śive śāstari bhaktānām kva bhayam śaraṇa-eṣiṇām..4.10.40..
शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ॥ महापातकसंहारि गोकर्णाख्यं शिवालयम् ॥ ४१ ॥
शृणु राजन् महाभाग क्षेत्रम् अन्यत् प्रतिष्ठितम् ॥ महापातक-संहारि गोकर्ण-आख्यम् शिव-आलयम् ॥ ४१ ॥
śṛṇu rājan mahābhāga kṣetram anyat pratiṣṭhitam .. mahāpātaka-saṃhāri gokarṇa-ākhyam śiva-ālayam .. 41 ..
तत्र स्थितिर्न पापानां महद्भ्यो महतामपि ॥ महाबलाभिधानेन शिवः संनिहितः स्वयम् ॥ ४२॥
तत्र स्थितिः न पापानाम् महद्भ्यः महताम् अपि ॥ महाबल-अभिधानेन शिवः संनिहितः स्वयम् ॥ ४२॥
tatra sthitiḥ na pāpānām mahadbhyaḥ mahatām api .. mahābala-abhidhānena śivaḥ saṃnihitaḥ svayam .. 42..
सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ॥ चतुर्युगे चतुर्वर्णस्सर्वपापापहारकः॥४३॥
सर्वेषाम् शिव-लिंगानाम् सार्वभौमः महा-बलः ॥ सर्व॥४३॥
sarveṣām śiva-liṃgānām sārvabhaumaḥ mahā-balaḥ .. sarva..43..
पश्चिमाम्बुधितीरस्थं गोकर्णं तीर्थमुत्तमम् ॥ तत्रास्ति शिवलिंगं तन्महापातकनाशकम् ॥ ४४॥
पश्चिम-अम्बुधि-तीर-स्थम् गोकर्णम् तीर्थम् उत्तमम् ॥ तत्र अस्ति शिव-लिंगम् तत् महापातक-नाशकम् ॥ ४४॥
paścima-ambudhi-tīra-stham gokarṇam tīrtham uttamam .. tatra asti śiva-liṃgam tat mahāpātaka-nāśakam .. 44..
तत्र गत्वा महापापाः स्नात्वा तीर्थेषु भूरिशः॥महाबलं च संपूज्य प्रयाताश्शांकरम्पदम् ॥ ४९ ॥
तत्र गत्वा महा-पापाः स्नात्वा तीर्थेषु भूरिशस्॥महाबलम् च संपूज्य प्रयाताः शांकरम् पदम् ॥ ४९ ॥
tatra gatvā mahā-pāpāḥ snātvā tīrtheṣu bhūriśas..mahābalam ca saṃpūjya prayātāḥ śāṃkaram padam .. 49 ..
तथा त्वमपि राजेन्द्र गोकर्ण गिरिशालयम् ॥ गत्वा सम्पूज्य तल्लिंगं कृतकृत्यत्वमाप्नुयाः ॥ ४६ ॥
तथा त्वम् अपि राज-इन्द्र गोकर्ण गिरिश-आलयम् ॥ गत्वा सम्पूज्य तत् लिंगम् कृतकृत्य-त्वम् आप्नुयाः ॥ ४६ ॥
tathā tvam api rāja-indra gokarṇa giriśa-ālayam .. gatvā sampūjya tat liṃgam kṛtakṛtya-tvam āpnuyāḥ .. 46 ..
तत्र सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य महाबलम् ॥ सर्वपापविनिर्मुक्तः शिवलोकन्त्वमाप्नुयाः ॥ ४७ ॥
तत्र सर्वेषु तीर्थेषु स्नात्वा अभ्यर्च्य महाबलम् ॥ सर्व-पाप-विनिर्मुक्तः शिव-लोकन् त्वम् आप्नुयाः ॥ ४७ ॥
tatra sarveṣu tīrtheṣu snātvā abhyarcya mahābalam .. sarva-pāpa-vinirmuktaḥ śiva-lokan tvam āpnuyāḥ .. 47 ..
इत्यादिष्टः स मुनिना गौतमेन महात्मना ॥ महाहृष्टमना राजा गोकर्णं प्रत्यपद्यत ॥ ४८ ॥
इति आदिष्टः स मुनिना गौतमेन महात्मना ॥ महा-हृष्ट-मनाः राजा गोकर्णम् प्रत्यपद्यत ॥ ४८ ॥
iti ādiṣṭaḥ sa muninā gautamena mahātmanā .. mahā-hṛṣṭa-manāḥ rājā gokarṇam pratyapadyata .. 48 ..
तत्र तीर्थेषु सुस्नात्वा समभ्यर्च्य महाबलम् ॥ निर्धूताशेषपापौघोऽलभच्छंभोः परम्पदम्॥४९॥
तत्र तीर्थेषु सु स्नात्वा समभ्यर्च्य महाबलम् ॥ निर्धूत-अशेष-पाप-ओघः अलभत् शंभोः परम्पदम्॥४९॥
tatra tīrtheṣu su snātvā samabhyarcya mahābalam .. nirdhūta-aśeṣa-pāpa-oghaḥ alabhat śaṃbhoḥ parampadam..49..
य इमां शृणुयान्नित्यं महाबलकथां प्रियाम् ॥ त्रिसप्तकुलजैस्सार्द्धं शिवलोके व्रजत्यसौ ॥ 4.10.५० ॥
यः इमाम् शृणुयात् नित्यम् महाबल-कथाम् प्रियाम् ॥ त्रिसप्त-कुल-जैः सार्द्धम् शिव-लोके व्रजति असौ ॥ ४।१०।५० ॥
yaḥ imām śṛṇuyāt nityam mahābala-kathām priyām .. trisapta-kula-jaiḥ sārddham śiva-loke vrajati asau .. 4.10.50 ..
इति वश्च समाख्यातं माहात्म्यं परमाद्भुतम् ॥ महाबलस्य गिरिशलिंगस्य निखिलाघहृत् ॥ ५१॥
इति वः च समाख्यातम् माहात्म्यम् परम-अद्भुतम् ॥ महा-बलस्य गिरिश-लिंगस्य निखिल-अघ-हृत् ॥ ५१॥
iti vaḥ ca samākhyātam māhātmyam parama-adbhutam .. mahā-balasya giriśa-liṃgasya nikhila-agha-hṛt .. 51..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबाह्वशिवलिंगमाहात्म्यवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् महाबाह्वशिवलिंगमाहात्म्यवर्णनम् नाम दशमः अध्यायः ॥ १० ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām mahābāhvaśivaliṃgamāhātmyavarṇanam nāma daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In