| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूतसूत महाभाग धन्यस्त्वं शिवसक्तधीः ॥ महाबलस्य लिंगस्य श्रावितेयं कथाद्भुता ॥ १ ॥
सूत-सूत महाभाग धन्यः त्वम् शिव-सक्त-धीः ॥ महाबलस्य लिंगस्य श्राविता इयम् कथा अद्भुता ॥ १ ॥
sūta-sūta mahābhāga dhanyaḥ tvam śiva-sakta-dhīḥ .. mahābalasya liṃgasya śrāvitā iyam kathā adbhutā .. 1 ..
उत्तरस्यां दिशायां च शिवलिंगानि यानि च ॥ तेषां माहात्म्यमनघ वद त्वं पापनाशकम् ॥ २॥
उत्तरस्याम् दिशायाम् च शिव-लिंगानि यानि च ॥ तेषाम् माहात्म्यम् अनघ वद त्वम् पाप-नाशकम् ॥ २॥
uttarasyām diśāyām ca śiva-liṃgāni yāni ca .. teṣām māhātmyam anagha vada tvam pāpa-nāśakam .. 2..
सूत उवाच।।
शृणुतादरतो विप्रा औत्तराणां विशेषतः ॥ माहात्म्यं शिवलिंगानां प्रवदामि समासतः ॥ ३ ॥
शृणुत आदरतः विप्राः औत्तराणाम् विशेषतः ॥ माहात्म्यम् शिव-लिंगानाम् प्रवदामि समासतस् ॥ ३ ॥
śṛṇuta ādarataḥ viprāḥ auttarāṇām viśeṣataḥ .. māhātmyam śiva-liṃgānām pravadāmi samāsatas .. 3 ..
गोकर्णं क्षेत्रमपरं महापातकनाशनम् ॥ महावनं च तत्रास्ति पवित्रमतिविस्तरम् ॥ ४ ॥
गोकर्णम् क्षेत्रम् अपरम् महापातक-नाशनम् ॥ महा-वनम् च तत्र अस्ति पवित्रम् अति विस्तरम् ॥ ४ ॥
gokarṇam kṣetram aparam mahāpātaka-nāśanam .. mahā-vanam ca tatra asti pavitram ati vistaram .. 4 ..
तत्रास्ति चन्द्रभालाख्यं शिवलिंगमनुत्तमम् ॥ रावणेन समानीतं सद्भक्त्या सर्वसिद्धिदम् ॥ ५ ॥
तत्र अस्ति चन्द्रभाल-आख्यम् शिव-लिंगम् अनुत्तमम् ॥ रावणेन समानीतम् सत्-भक्त्या सर्व-सिद्धि-दम् ॥ ५ ॥
tatra asti candrabhāla-ākhyam śiva-liṃgam anuttamam .. rāvaṇena samānītam sat-bhaktyā sarva-siddhi-dam .. 5 ..
तस्य तत्र स्थितिर्वैद्यनाथस्येव मुनीश्वराः ॥ सर्वलोकहितार्थाय करुणासागरस्य च ॥ ६ ॥
तस्य तत्र स्थितिः वैद्य-नाथस्य इव मुनि-ईश्वराः ॥ सर्व-लोक-हित-अर्थाय करुणा-सागरस्य च ॥ ६ ॥
tasya tatra sthitiḥ vaidya-nāthasya iva muni-īśvarāḥ .. sarva-loka-hita-arthāya karuṇā-sāgarasya ca .. 6 ..
स्नानं कृत्वा तु गोकर्णे चन्द्रभालं समर्च्य च ॥ शिवलोकमवाप्नोति सत्यंसत्यं न संशयः ॥ ७ ॥
स्नानम् कृत्वा तु गोकर्णे चन्द्र-भालम् समर्च्य च ॥ शिव-लोकम् अवाप्नोति सत्यम् सत्यम् न संशयः ॥ ७ ॥
snānam kṛtvā tu gokarṇe candra-bhālam samarcya ca .. śiva-lokam avāpnoti satyam satyam na saṃśayaḥ .. 7 ..
चन्द्रभालस्य लिंगस्य महिमा परमाद्भुतः ॥ न शक्यो वर्णितुं व्यासाद्भक्तस्नेहितरस्य हि ॥ ८ ॥
चन्द्रभालस्य लिंगस्य महिमा परम-अद्भुतः ॥ न शक्यः वर्णितुम् व्यासात् भक्त-स्नेहितरस्य हि ॥ ८ ॥
candrabhālasya liṃgasya mahimā parama-adbhutaḥ .. na śakyaḥ varṇitum vyāsāt bhakta-snehitarasya hi .. 8 ..
चन्द्रभालमहादेव लिंगस्य महिमा महान् ॥ यथाकथंचित्संप्रोक्तः परलिंगस्य वै शृणु ॥ ९ ॥
चन्द्र-भाल-महादेव लिंगस्य महिमा महान् ॥ यथा कथंचिद् संप्रोक्तः पर-लिंगस्य वै शृणु ॥ ९ ॥
candra-bhāla-mahādeva liṃgasya mahimā mahān .. yathā kathaṃcid saṃproktaḥ para-liṃgasya vai śṛṇu .. 9 ..
दाधीचं शिवलिंगं तु मिश्रर्षिवरतीर्थके ॥ दधीचिना मुनीशेन सुप्रीत्या च प्रतिष्ठितम् ॥ 4.11.१० ॥
दाधीचम् शिव-लिंगम् तु मिश्र-ऋषि-वर-तीर्थके ॥ दधीचिना मुनि-ईशेन सुप्रीत्या च प्रतिष्ठितम् ॥ ४।११।१० ॥
dādhīcam śiva-liṃgam tu miśra-ṛṣi-vara-tīrthake .. dadhīcinā muni-īśena suprītyā ca pratiṣṭhitam .. 4.11.10 ..
तत्र गत्वा च तत्तीर्थे स्नात्वा सम्यग्विधानतः ॥ शिवलिंगं समर्चेद्वै दाधीचेश्वरमादरात् ॥ ११ ॥
तत्र गत्वा च तद्-तीर्थे स्नात्वा सम्यक् विधानतः ॥ शिव-लिंगम् समर्चेत् वै दाधीचेश्वरम् आदरात् ॥ ११ ॥
tatra gatvā ca tad-tīrthe snātvā samyak vidhānataḥ .. śiva-liṃgam samarcet vai dādhīceśvaram ādarāt .. 11 ..
दाधीचमूर्तिस्तत्रैव समर्च्या विधिपूर्वकम् ॥ शिवप्रीत्यर्थमेवाशु तीर्थयात्रा फलार्थिभिः ॥ १२ ॥
दाधीच-मूर्तिः तत्र एव समर्च्या विधि-पूर्वकम् ॥ शिव-प्रीति-अर्थम् एवा आशु तीर्थ-यात्रा फल-अर्थिभिः ॥ १२ ॥
dādhīca-mūrtiḥ tatra eva samarcyā vidhi-pūrvakam .. śiva-prīti-artham evā āśu tīrtha-yātrā phala-arthibhiḥ .. 12 ..
एवं कृते मुनिश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥ इह सर्वसुखं भुक्त्वा परत्र गतिमाप्नुयात् ॥ १३ ॥
एवम् कृते मुनि-श्रेष्ठाः कृतकृत्यः भवेत् नरः ॥ इह सर्व-सुखम् भुक्त्वा परत्र गतिम् आप्नुयात् ॥ १३ ॥
evam kṛte muni-śreṣṭhāḥ kṛtakṛtyaḥ bhavet naraḥ .. iha sarva-sukham bhuktvā paratra gatim āpnuyāt .. 13 ..
नैमिषारण्यतीर्थे तु निखिलर्षिप्रतिष्ठितम् ॥ ऋषीश्वरमिति ख्यातं शिवलिंगं सुखप्रदम् ॥ १४॥
नैमिष-अरण्य-तीर्थे तु निखिल-ऋषि-प्रतिष्ठितम् ॥ ऋषीश्वरम् इति ख्यातम् शिव-लिंगम् सुख-प्रदम् ॥ १४॥
naimiṣa-araṇya-tīrthe tu nikhila-ṛṣi-pratiṣṭhitam .. ṛṣīśvaram iti khyātam śiva-liṃgam sukha-pradam .. 14..
तद्दर्शनात्पूजनाच्च जनानां पापिनामपि ॥ भुक्तिमुक्तिश्च तेषां तु परत्रेह मुनीश्वराः ॥ १५॥
तद्-दर्शनात् पूजनात् च जनानाम् पापिनाम् अपि ॥ भुक्ति-मुक्तिः च तेषाम् तु परत्र इह मुनि-ईश्वराः ॥ १५॥
tad-darśanāt pūjanāt ca janānām pāpinām api .. bhukti-muktiḥ ca teṣām tu paratra iha muni-īśvarāḥ .. 15..
हत्याहरणतीर्थे तु शिवलिंगमघापहम् ॥ पूजनीयं विशेषेण हत्याकोटिविनाशनम् ॥ १६ ॥
हत्या-हरण-तीर्थे तु शिव-लिंगम् अघ-अपहम् ॥ पूजनीयम् विशेषेण हत्या-कोटि-विनाशनम् ॥ १६ ॥
hatyā-haraṇa-tīrthe tu śiva-liṃgam agha-apaham .. pūjanīyam viśeṣeṇa hatyā-koṭi-vināśanam .. 16 ..
देवप्रयागतीर्थे तु ललितेश्वरनामकम्॥शिवलिंगं सदा पूज्यं नरैस्सर्वाघनाशनम् ॥ १७ ॥
देवप्रयाग-तीर्थे तु ललितेश्वर-नामकम्॥शिव-लिंगम् सदा पूज्यम् नरैः सर्व-अघ-नाशनम् ॥ १७ ॥
devaprayāga-tīrthe tu laliteśvara-nāmakam..śiva-liṃgam sadā pūjyam naraiḥ sarva-agha-nāśanam .. 17 ..
नयपालाख्यपुर्य्यां तु प्रसिद्धायां महीतले ॥ लिंगं पशुपतीशाख्यं सर्वकामफलप्रदम् ॥ १८ ॥
नयपाल-आख्य-पुर्य्याम् तु प्रसिद्धायाम् मही-तले ॥ लिंगम् पशुपतीश-आख्यम् सर्व-काम-फल-प्रदम् ॥ १८ ॥
nayapāla-ākhya-puryyām tu prasiddhāyām mahī-tale .. liṃgam paśupatīśa-ākhyam sarva-kāma-phala-pradam .. 18 ..
शिरोभागस्वरूपेण शिवलिंगं तदस्ति हि ॥ तत्कथां वर्णयिष्यामि केदारेश्वरवर्णने ॥ १९ ॥
शिरः-भाग-स्वरूपेण शिव-लिंगम् तत् अस्ति हि ॥ तद्-कथाम् वर्णयिष्यामि केदारेश्वर-वर्णने ॥ १९ ॥
śiraḥ-bhāga-svarūpeṇa śiva-liṃgam tat asti hi .. tad-kathām varṇayiṣyāmi kedāreśvara-varṇane .. 19 ..
तदारान्मुक्तिनाथाख्यं शिवलिंगं महाद्भुतम् ॥ दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते॥4.11.२०॥
तद्-आरात् मुक्तिनाथ-आख्यम् शिव-लिंगम् महा-अद्भुतम् ॥ दर्शनात् अर्चनात् तस्य भुक्तिः मुक्तिः च लभ्यते॥४।११।२०॥
tad-ārāt muktinātha-ākhyam śiva-liṃgam mahā-adbhutam .. darśanāt arcanāt tasya bhuktiḥ muktiḥ ca labhyate..4.11.20..
इति वश्च समाख्यातं लिंगवर्णनमुत्तमम्॥चतुर्दिक्षु मुनिश्रेष्ठाः किमन्यच्छ्रोतुमिच्छथ॥२१॥
इति वः च समाख्यातम् लिंग-वर्णनम् उत्तमम्॥चतुर्-दिक्षु मुनि-श्रेष्ठाः किम् अन्यत् श्रोतुम् इच्छथ॥२१॥
iti vaḥ ca samākhyātam liṃga-varṇanam uttamam..catur-dikṣu muni-śreṣṭhāḥ kim anyat śrotum icchatha..21..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चन्द्रभालपशुपतिनाथलिंगमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११॥
इति श्री-शिवमहापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् चन्द्रभालपशुपतिनाथलिंगमाहात्म्यवर्णनम् नाम एकादशः अध्यायः ॥ ११॥
iti śrī-śivamahāpurāṇe caturthyām koṭirudrasaṃhitāyām candrabhālapaśupatināthaliṃgamāhātmyavarṇanam nāma ekādaśaḥ adhyāyaḥ .. 11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In