| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत जानासि सकलं वस्तु व्यासप्रसादतः ॥ तवाज्ञातं न विद्येत तस्मात्पृच्छामहे वयम् ॥ १॥
सूत जानासि सकलम् वस्तु व्यास-प्रसादतः ॥ तव अज्ञातम् न विद्येत तस्मात् पृच्छामहे वयम् ॥ १॥
sūta jānāsi sakalam vastu vyāsa-prasādataḥ .. tava ajñātam na vidyeta tasmāt pṛcchāmahe vayam .. 1..
लिंगं च पूज्यते लोके तत्त्वया कथितं च यत्॥तत्तथैव न चान्यद्वा कारणं विद्यते त्विह॥२॥
लिंगम् च पूज्यते लोके तत् त्वया कथितम् च यत्॥तत् तथा एव न च अन्यत् वा कारणम् विद्यते तु इह॥२॥
liṃgam ca pūjyate loke tat tvayā kathitam ca yat..tat tathā eva na ca anyat vā kāraṇam vidyate tu iha..2..
बाणरूपा श्रुता लोके पार्वती शिववल्लभा॥एतत्किं कारणं सूत कथय त्वं यथाश्रुतम्॥३॥
बाण-रूपा श्रुता लोके पार्वती शिव-वल्लभा॥एतत् किम् कारणम् सूत कथय त्वम् यथाश्रुतम्॥३॥
bāṇa-rūpā śrutā loke pārvatī śiva-vallabhā..etat kim kāraṇam sūta kathaya tvam yathāśrutam..3..
सूत उवाच ।।
कल्पभेदकथा चैव श्रुता व्यासान्मया द्विजाः ॥ तामेव कथयाम्यद्य श्रूयतामृषिसत्तमाः ॥ ४॥
कल्प-भेद-कथा च एव श्रुता व्यासात् मया द्विजाः ॥ ताम् एव कथयामि अद्य श्रूयताम् ऋषि-सत्तमाः ॥ ४॥
kalpa-bheda-kathā ca eva śrutā vyāsāt mayā dvijāḥ .. tām eva kathayāmi adya śrūyatām ṛṣi-sattamāḥ .. 4..
पुरा दारुवने जातं यद्वृत्तं तु द्विजन्मनाम्॥तदेव श्रूयतां सम्यक् कथयामि कथाश्रुतम् ॥ ५ ॥
पुरा दारु-वने जातम् यत् वृत्तम् तु द्विजन्मनाम्॥तत् एव श्रूयताम् सम्यक् कथयामि कथा-श्रुतम् ॥ ५ ॥
purā dāru-vane jātam yat vṛttam tu dvijanmanām..tat eva śrūyatām samyak kathayāmi kathā-śrutam .. 5 ..
दारुनामवनं श्रेष्ठं तत्रासन्नृषिसत्तमाः॥शिवभक्तास्सदा नित्यं शिवध्यानपरायणाः ॥ ६॥
दारु-नाम-वनम् श्रेष्ठम् तत्र आसन् ऋषि-सत्तमाः॥शिव-भक्ताः सदा नित्यम् शिव-ध्यान-परायणाः ॥ ६॥
dāru-nāma-vanam śreṣṭham tatra āsan ṛṣi-sattamāḥ..śiva-bhaktāḥ sadā nityam śiva-dhyāna-parāyaṇāḥ .. 6..
त्रिकालं शिवपूजां च कुर्वंति स्म निरन्तरम् ॥ नानाविधैः स्तवैर्दिव्यैस्तुष्टुवुस्ते मुनीश्वराः ॥ ७॥
त्रि-कालम् शिव-पूजाम् च कुर्वंति स्म निरन्तरम् ॥ नानाविधैः स्तवैः दिव्यैः तुष्टुवुः ते मुनि-ईश्वराः ॥ ७॥
tri-kālam śiva-pūjām ca kurvaṃti sma nirantaram .. nānāvidhaiḥ stavaiḥ divyaiḥ tuṣṭuvuḥ te muni-īśvarāḥ .. 7..
ते कदाचिद्वने यातास्समिधाहरणाय च ॥ सर्वे द्विजर्षभाश्शैवाश्शिवध्यानपरायणाः ॥ ८ ॥
ते कदाचिद् वने याताः समिधा हरणाय च ॥ सर्वे द्विजर्षभाः शैवाः शिव-ध्यान-परायणाः ॥ ८ ॥
te kadācid vane yātāḥ samidhā haraṇāya ca .. sarve dvijarṣabhāḥ śaivāḥ śiva-dhyāna-parāyaṇāḥ .. 8 ..
एतस्मिन्नंतरे साक्षाच्छंकरो नील लोहितः ॥ विरूपं च समास्थाय परीक्षार्थं समागतः ॥ ९ ॥
एतस्मिन् अन्तरे साक्षात् शंकरः नील लोहितः ॥ विरूपम् च समास्थाय परीक्षा-अर्थम् समागतः ॥ ९ ॥
etasmin antare sākṣāt śaṃkaraḥ nīla lohitaḥ .. virūpam ca samāsthāya parīkṣā-artham samāgataḥ .. 9 ..
दिगम्बरोऽतितेजस्वी भूतिभूषणभूषितः॥स चेष्टामकरोद्दुष्टां हस्ते लिंगं विधारयन् ॥ 4.12.१० ॥
दिगम्बरः अति तेजस्वी भूति-भूषण-भूषितः॥स चेष्टाम् अकरोत् दुष्टाम् हस्ते लिंगम् विधारयन् ॥ ४।१२।१० ॥
digambaraḥ ati tejasvī bhūti-bhūṣaṇa-bhūṣitaḥ..sa ceṣṭām akarot duṣṭām haste liṃgam vidhārayan .. 4.12.10 ..
मनसा च प्रियं तेषां कर्तुं वै वनवासिनाम् ॥ जगाम तद्वनं प्रीत्या भक्तप्रीतो हरः स्वयम् ॥ ११ ॥
मनसा च प्रियम् तेषाम् कर्तुम् वै वन-वासिनाम् ॥ जगाम तत् वनम् प्रीत्या भक्त-प्रीतः हरः स्वयम् ॥ ११ ॥
manasā ca priyam teṣām kartum vai vana-vāsinām .. jagāma tat vanam prītyā bhakta-prītaḥ haraḥ svayam .. 11 ..
तं दृष्ट्वा ऋषिपत्न्यस्ताः परं त्रासमुपागताः ॥ विह्वला विस्मिताश्चान्यास्समाजग्मुस्तथा पुनः ॥ १२॥
तम् दृष्ट्वा ऋषि-पत्न्यः ताः परम् त्रासम् उपागताः ॥ विह्वलाः विस्मिताः च अन्याः समाजग्मुः तथा पुनर् ॥ १२॥
tam dṛṣṭvā ṛṣi-patnyaḥ tāḥ param trāsam upāgatāḥ .. vihvalāḥ vismitāḥ ca anyāḥ samājagmuḥ tathā punar .. 12..
अलिलिंगुस्तथा चान्याः करं धृत्या तथापराः ॥ परस्परं तु संघर्षात्संमग्नास्ताः स्त्रियस्तदा ॥ १३ ॥
अलिलिंगुः तथा च अन्याः करम् धृत्या तथा अपराः ॥ परस्परम् तु संघर्षात् संमग्नाः ताः स्त्रियः तदा ॥ १३ ॥
aliliṃguḥ tathā ca anyāḥ karam dhṛtyā tathā aparāḥ .. parasparam tu saṃgharṣāt saṃmagnāḥ tāḥ striyaḥ tadā .. 13 ..
एतस्मिन्नेव समये ऋषिवर्याः समागमन्॥विरुद्धं तं च ते दृष्ट्वा दुःखिताः क्रोधमूर्च्छिताः ॥ १४॥
एतस्मिन् एव समये ऋषि-वर्याः समागमन्॥विरुद्धम् तम् च ते दृष्ट्वा दुःखिताः क्रोध-मूर्च्छिताः ॥ १४॥
etasmin eva samaye ṛṣi-varyāḥ samāgaman..viruddham tam ca te dṛṣṭvā duḥkhitāḥ krodha-mūrcchitāḥ .. 14..
तदा दुःखमनुप्राप्ताः कोयं कोयं तथाऽबुवन् ॥ समस्ता ऋषयस्ते वै शिवमायाविमोहिताः ॥ १५ ॥
तदा दुःखम् अनुप्राप्ताः कोयम् कोयम् तथा अबुवन् ॥ समस्ताः ऋषयः ते वै शिव-माया-विमोहिताः ॥ १५ ॥
tadā duḥkham anuprāptāḥ koyam koyam tathā abuvan .. samastāḥ ṛṣayaḥ te vai śiva-māyā-vimohitāḥ .. 15 ..
यदा च नोक्तवान्किंचित्सोवधूतो दिगम्बरः ॥ ऊचुस्तं पुरुषं भीमं तदा ते परमर्षयः ॥ १६॥
यदा च ना उक्तवान् किंचिद् सः उवधूतः दिगम्बरः ॥ ऊचुः तम् पुरुषम् भीमम् तदा ते परम-ऋषयः ॥ १६॥
yadā ca nā uktavān kiṃcid saḥ uvadhūtaḥ digambaraḥ .. ūcuḥ tam puruṣam bhīmam tadā te parama-ṛṣayaḥ .. 16..
त्वया विरुद्धं क्रियते वेदमार्ग विलोपि यत् ॥ ततस्त्वदीयं तल्लिंगं पततां पृथिवीतले ॥ १७॥
त्वया विरुद्धम् क्रियते वेद-मार्ग विलोपि यत् ॥ ततस् त्वदीयम् तत् लिंगम् पतताम् पृथिवी-तले ॥ १७॥
tvayā viruddham kriyate veda-mārga vilopi yat .. tatas tvadīyam tat liṃgam patatām pṛthivī-tale .. 17..
सूत उवाच ।।
इत्युक्ते तु तदा तैश्च लिंगं च पतितं क्षणात् ॥ अवधूतस्य तस्याशु शिवस्याद्भुतरूपिणः॥१८॥
इति उक्ते तु तदा तैः च लिंगम् च पतितम् क्षणात् ॥ अवधूतस्य तस्य आशु शिवस्य अद्भुत-रूपिणः॥१८॥
iti ukte tu tadā taiḥ ca liṃgam ca patitam kṣaṇāt .. avadhūtasya tasya āśu śivasya adbhuta-rūpiṇaḥ..18..
तल्लिंगं चाग्निवत्सर्वं यद्ददाह पुरा स्थितम् ॥ यत्रयत्र च तद्याति तत्रतत्र दहेत्पुनः ॥ १९॥
तत् लिंगम् च अग्नि-वत् सर्वम् यत् ददाह पुरा स्थितम् ॥ यत्र यत्र च तत् याति तत्र तत्र दहेत् पुनर् ॥ १९॥
tat liṃgam ca agni-vat sarvam yat dadāha purā sthitam .. yatra yatra ca tat yāti tatra tatra dahet punar .. 19..
पाताले च गतं तश्च स्वर्गे चापि तथैव च ॥ भूमौ सर्वत्र तद्यातं न कुत्रापि स्थिरं हि तत् ॥ 4.12.२०॥
पाताले च गतम् स्वर्गे च अपि तथा एव च ॥ भूमौ सर्वत्र तत् यातम् न कुत्र अपि स्थिरम् हि तत् ॥ ४।१२।२०॥
pātāle ca gatam svarge ca api tathā eva ca .. bhūmau sarvatra tat yātam na kutra api sthiram hi tat .. 4.12.20..
लोकाश्च व्याकुला जाता ऋषयस्तेतिदुःखिताः ॥ न शर्म लेभिरे केचिद्देवाश्च ऋषयस्तथा ॥ २१॥
लोकाः च व्याकुलाः जाताः ऋषयः तेति-दुःखिताः ॥ न शर्म लेभिरे केचिद् देवाः च ऋषयः तथा ॥ २१॥
lokāḥ ca vyākulāḥ jātāḥ ṛṣayaḥ teti-duḥkhitāḥ .. na śarma lebhire kecid devāḥ ca ṛṣayaḥ tathā .. 21..
न ज्ञातस्तु शिवो यैस्तु ते सर्वे च सुरर्षयः॥दुःखिता मिलिताश्शीघ्रं ब्रह्माणं शरणं ययुः ॥ २२ ॥
न ज्ञातः तु शिवः यैः तु ते सर्वे च सुर-ऋषयः॥दुःखिताः मिलिताः शीघ्रम् ब्रह्माणम् शरणम् ययुः ॥ २२ ॥
na jñātaḥ tu śivaḥ yaiḥ tu te sarve ca sura-ṛṣayaḥ..duḥkhitāḥ militāḥ śīghram brahmāṇam śaraṇam yayuḥ .. 22 ..
तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं द्विजाः ॥ तत्सर्वमवदन्वृत्तं ब्रह्मणे सृष्टिकारिणे ॥ २३ ॥
तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिम् द्विजाः ॥ तत् सर्वम् अवदन् वृत्तम् ब्रह्मणे सृष्टि-कारिणे ॥ २३ ॥
tatra gatvā ca te sarve natvā stutvā vidhim dvijāḥ .. tat sarvam avadan vṛttam brahmaṇe sṛṣṭi-kāriṇe .. 23 ..
ब्रह्मा तद्वचनं श्रुत्वा शिवमायाविमोहितान् ॥ ज्ञात्वा ताञ्च्छंकरं नत्वा प्रोवाच ऋषिसत्तमान् ॥ २४ ॥
ब्रह्मा तत् वचनम् श्रुत्वा शिव-माया-विमोहितान् ॥ ज्ञात्वा तान् शंकरम् नत्वा प्रोवाच ऋषि-सत्तमान् ॥ २४ ॥
brahmā tat vacanam śrutvā śiva-māyā-vimohitān .. jñātvā tān śaṃkaram natvā provāca ṛṣi-sattamān .. 24 ..
।। ब्रह्मोवाच ।।
ज्ञातारश्च भवन्तो वै कुर्वते गर्हितं द्विजाः ॥ अज्ञातारो यदा कुर्युः किं पुनः कथ्यते पुनः ॥ २५ ॥
ज्ञातारः च भवन्तः वै कुर्वते गर्हितम् द्विजाः ॥ अज्ञातारः यदा कुर्युः किम् पुनर् कथ्यते पुनर् ॥ २५ ॥
jñātāraḥ ca bhavantaḥ vai kurvate garhitam dvijāḥ .. ajñātāraḥ yadā kuryuḥ kim punar kathyate punar .. 25 ..
विरुद्ध्यैवं शिवं देवं कुशलं कस्समीहते ॥ मध्याह्नसमये यो वै नातिथिं च परामृशेत् ॥ २६॥
विरुद्ध्य एवम् शिवम् देवम् कुशलम् कः समीहते ॥ मध्याह्न-समये यः वै न अतिथिम् च परामृशेत् ॥ २६॥
viruddhya evam śivam devam kuśalam kaḥ samīhate .. madhyāhna-samaye yaḥ vai na atithim ca parāmṛśet .. 26..
तस्यैव सुकृतं नीत्वा स्वीयं च दुष्कृतं पुनः॥संस्थाप्य चातिथिर्याति किं पुनः शिवमेव वा ॥ २७ ॥
तस्य एव सुकृतम् नीत्वा स्वीयम् च दुष्कृतम् पुनर्॥संस्थाप्य च अतिथिः याति किम् पुनर् शिवम् एव वा ॥ २७ ॥
tasya eva sukṛtam nītvā svīyam ca duṣkṛtam punar..saṃsthāpya ca atithiḥ yāti kim punar śivam eva vā .. 27 ..
यावल्लिंगं स्थिरं नैव जगतां त्रितये शुभम् ॥ जायते न तदा क्वापि सत्यमेतद्वदाम्यहम् ॥ २८ ॥
यावत् लिंगम् स्थिरम् ना एव जगताम् त्रितये शुभम् ॥ जायते न तदा क्वापि सत्यम् एतत् वदामि अहम् ॥ २८ ॥
yāvat liṃgam sthiram nā eva jagatām tritaye śubham .. jāyate na tadā kvāpi satyam etat vadāmi aham .. 28 ..
भवद्भिश्च तथा कार्यं यथा स्वास्थ्यं भवेदिह ॥ शिवलिंगस्य ऋषयो मनसा संविचार्य्यताम् ॥ २९ ॥
भवद्भिः च तथा कार्यम् यथा स्वास्थ्यम् भवेत् इह ॥ शिव-लिंगस्य ऋषयः मनसा संविचार्य्यताम् ॥ २९ ॥
bhavadbhiḥ ca tathā kāryam yathā svāsthyam bhavet iha .. śiva-liṃgasya ṛṣayaḥ manasā saṃvicāryyatām .. 29 ..
सूत उवाच ।।
इत्युक्तास्ते प्रणम्योचुर्ब्रह्माणमृषयश्च वै ॥ किमस्माभिर्विधे कार्यं तत्कार्यं त्वं समादिश ॥ 4.12.३० ॥
इति उक्ताः ते प्रणम्य ऊचुः ब्रह्माणम् ऋषयः च वै ॥ किम् अस्माभिः विधे कार्यम् तत् कार्यम् त्वम् समादिश ॥ ४।१२।३० ॥
iti uktāḥ te praṇamya ūcuḥ brahmāṇam ṛṣayaḥ ca vai .. kim asmābhiḥ vidhe kāryam tat kāryam tvam samādiśa .. 4.12.30 ..
इत्युक्तश्च मुनीशैस्तैस्सर्वलोकपितामहः ॥ मुनीशांस्तांस्तदा ब्रह्मा स्वयं प्रोवाच वै तदा ॥ ३१ ॥
इति उक्तः च मुनि-ईशैः तैः सर्व-लोक-पितामहः ॥ मुनि-ईशान् तान् तदा ब्रह्मा स्वयम् प्रोवाच वै तदा ॥ ३१ ॥
iti uktaḥ ca muni-īśaiḥ taiḥ sarva-loka-pitāmahaḥ .. muni-īśān tān tadā brahmā svayam provāca vai tadā .. 31 ..
ब्रह्मोवाच ।।
आराध्य गिरिजां देवीं प्रार्थयन्तु सुराश्शिवम् ॥ योनिरूपा भवेच्चेद्वै तदा तत्स्थिरतां व्रजेत् ॥ ३२ ॥
आराध्य गिरिजाम् देवीम् प्रार्थयन्तु सुराः शिवम् ॥ योनि-रूपा भवेत् चेद् वै तदा तत् स्थिरताम् व्रजेत् ॥ ३२ ॥
ārādhya girijām devīm prārthayantu surāḥ śivam .. yoni-rūpā bhavet ced vai tadā tat sthiratām vrajet .. 32 ..
तद्विधिम्प्रवदाम्यद्य सर्वे शृणुत सत्तमाः ॥ तामेव कुरुत प्रेम्णा प्रसन्ना सा भविष्यति ॥ ३३ ॥
तद्-विधिम् प्रवदामि अद्य सर्वे शृणुत सत्तमाः ॥ ताम् एव कुरुत प्रेम्णा प्रसन्ना सा भविष्यति ॥ ३३ ॥
tad-vidhim pravadāmi adya sarve śṛṇuta sattamāḥ .. tām eva kuruta premṇā prasannā sā bhaviṣyati .. 33 ..
कुम्भमेकं च संस्थाप्य कृत्वाष्टदलमुत्तमम् ॥ दूर्वायवांकुरैस्तीर्थोदकमापूरयेत्ततः ॥ ३४॥
कुम्भम् एकम् च संस्थाप्य कृत्वा अष्टदलम् उत्तमम् ॥ दूर्वा-यव-अंकुरैः तीर्थ-उदकम् आपूरयेत् ततस् ॥ ३४॥
kumbham ekam ca saṃsthāpya kṛtvā aṣṭadalam uttamam .. dūrvā-yava-aṃkuraiḥ tīrtha-udakam āpūrayet tatas .. 34..
वेदमंत्रैस्ततस्तं वै कुंभं चैवाभिमंत्रयेत् ॥ श्रुत्युक्तविधिना तस्य पूजां कृत्वा शिवं स्मरन् ॥ ३५ ॥
वेद-मंत्रैः ततस् तम् वै कुंभम् च एव अभिमंत्रयेत् ॥ श्रुति-उक्त-विधिना तस्य पूजाम् कृत्वा शिवम् स्मरन् ॥ ३५ ॥
veda-maṃtraiḥ tatas tam vai kuṃbham ca eva abhimaṃtrayet .. śruti-ukta-vidhinā tasya pūjām kṛtvā śivam smaran .. 35 ..
तल्लिंगं तज्जलेनाभिषेचयेत्परमर्षयः ॥ शतरुद्रियमंत्रैस्तु प्रोक्षितं शांतिमाप्नुयात् ॥ ३६॥
तत् लिंगम् तद्-जलेन अभिषेचयेत् परम-ऋषयः ॥ शतरुद्रिय-मंत्रैः तु प्रोक्षितम् शांतिम् आप्नुयात् ॥ ३६॥
tat liṃgam tad-jalena abhiṣecayet parama-ṛṣayaḥ .. śatarudriya-maṃtraiḥ tu prokṣitam śāṃtim āpnuyāt .. 36..
गिरिजां योनिरूपां च बाणं स्थाप्य शुभं पुनः ॥ तत्र लिंगं च तत्स्थाप्यं पुनश्चैवाभिमंत्रयेत् ॥ ३७ ॥
गिरिजाम् योनि-रूपाम् च बाणम् स्थाप्य शुभम् पुनर् ॥ तत्र लिंगम् च तत् स्थाप्यम् पुनर् च एव अभिमंत्रयेत् ॥ ३७ ॥
girijām yoni-rūpām ca bāṇam sthāpya śubham punar .. tatra liṃgam ca tat sthāpyam punar ca eva abhimaṃtrayet .. 37 ..
सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा ॥ नैवेद्यादिकपूजाभिस्तोषयेत्परमेश्वरम् ॥ ३८ ॥
सुगन्धैः चन्दनैः च एव पुष्प-धूप-आदिभिः तथा ॥ नैवेद्य-आदिक-पूजाभिः तोषयेत् परमेश्वरम् ॥ ३८ ॥
sugandhaiḥ candanaiḥ ca eva puṣpa-dhūpa-ādibhiḥ tathā .. naivedya-ādika-pūjābhiḥ toṣayet parameśvaram .. 38 ..
प्रणिपातैः स्तवैः पुण्यैर्वाद्यैर्गानैस्तथा पुनः ॥ ततः स्वस्त्ययनं कृत्वा जयेति व्याहरेत्तथा ॥ ३९ ॥
प्रणिपातैः स्तवैः पुण्यैः वाद्यैः गानैः तथा पुनर् ॥ ततस् स्वस्त्ययनम् कृत्वा जय इति व्याहरेत् तथा ॥ ३९ ॥
praṇipātaiḥ stavaiḥ puṇyaiḥ vādyaiḥ gānaiḥ tathā punar .. tatas svastyayanam kṛtvā jaya iti vyāharet tathā .. 39 ..
प्रसन्नो भव देवेश जगदाह्लादकारक ॥ कर्ता पालयिता त्वञ्च संहर्ता त्वं निरक्षरः ॥ 4.12.४० ॥
प्रसन्नः भव देवेश जगत्-आह्लाद-कारक ॥ कर्ता पालयिता त्वञ्च च संहर्ता त्वम् निरक्षरः ॥ ४।१२।४० ॥
prasannaḥ bhava deveśa jagat-āhlāda-kāraka .. kartā pālayitā tvañca ca saṃhartā tvam nirakṣaraḥ .. 4.12.40 ..
जगदादिर्जगद्योनिर्जगदन्तर्गतोपि च ॥ शान्तो भव महेशान सर्वांल्लोकांश्च पालय ॥ ४१ ॥
जगत्-आदिः जगद्योनिः जगत्-अन्तर्गतः अपि च ॥ शान्तः भव महेशान सर्वान् लोकान् च पालय ॥ ४१ ॥
jagat-ādiḥ jagadyoniḥ jagat-antargataḥ api ca .. śāntaḥ bhava maheśāna sarvān lokān ca pālaya .. 41 ..
एवं कृते विधौ स्वास्थ्यं भविष्यति न संशय ॥ विकारो न त्रिलोकेस्मिन्भविष्यति सुखं सदा ॥ ४२ ॥
एवम् कृते विधौ स्वास्थ्यम् भविष्यति न संशय ॥ विकारः न त्रिलोके इस्मिन् भविष्यति सुखम् सदा ॥ ४२ ॥
evam kṛte vidhau svāsthyam bhaviṣyati na saṃśaya .. vikāraḥ na triloke ismin bhaviṣyati sukham sadā .. 42 ..
सूत उवाच ।।
इत्युक्तास्ते द्विजा देवाः प्रणिपत्य पितामहम् ॥ शिवं तं शरणं प्राप्तस्सर्वलोकसुखेप्सया ॥ ४३॥
इति उक्ताः ते द्विजाः देवाः प्रणिपत्य पितामहम् ॥ शिवम् तम् शरणम् प्राप्तः सर्व-लोक-सुख-ईप्सया ॥ ४३॥
iti uktāḥ te dvijāḥ devāḥ praṇipatya pitāmaham .. śivam tam śaraṇam prāptaḥ sarva-loka-sukha-īpsayā .. 43..
पूजितः परया भक्त्या प्रार्थितः शंकरस्तदा ॥ सुप्रसन्नस्ततो भूत्वा तानुवाच महेश्वरः ॥ ४४॥
पूजितः परया भक्त्या प्रार्थितः शंकरः तदा ॥ सु प्रसन्नः ततस् भूत्वा तान् उवाच महेश्वरः ॥ ४४॥
pūjitaḥ parayā bhaktyā prārthitaḥ śaṃkaraḥ tadā .. su prasannaḥ tatas bhūtvā tān uvāca maheśvaraḥ .. 44..
महेश्वर उवाच ।।
हे देवा ऋषयः सर्वे मद्वचः शृणुतादरात् ॥ योनिरूपेण मल्लिंगं धृतं चेत्स्यात्तदा सुखम् ॥ ४५ ॥
हे देवाः ऋषयः सर्वे मद्-वचः शृणुत आदरात् ॥ योनि-रूपेण मद्-लिंगम् धृतम् चेद् स्यात् तदा सुखम् ॥ ४५ ॥
he devāḥ ṛṣayaḥ sarve mad-vacaḥ śṛṇuta ādarāt .. yoni-rūpeṇa mad-liṃgam dhṛtam ced syāt tadā sukham .. 45 ..
पार्वतीं च विना नान्या लिंगं धारयितुं क्षमा॥तया धृतं च मल्लिंगं द्रुतं शान्तिं गमिष्यति ॥ ४६ ॥
पार्वतीम् च विना ना अन्या लिंगम् धारयितुम् क्षमा॥तया धृतम् च मद्-लिंगम् द्रुतम् शान्तिम् गमिष्यति ॥ ४६ ॥
pārvatīm ca vinā nā anyā liṃgam dhārayitum kṣamā..tayā dhṛtam ca mad-liṃgam drutam śāntim gamiṣyati .. 46 ..
सूत उवाच।।
तच्छ्रुत्वा ऋषिभिर्देवैस्सुप्रसन्नैर्मुनीश्वराः ॥ गृहीत्वा चैव ब्रह्माणं गिरिजा प्रार्थिता तदा ॥ ४७ ॥
तत् श्रुत्वा ऋषिभिः देवैः सु प्रसन्नैः मुनि-ईश्वराः ॥ गृहीत्वा च एव ब्रह्माणम् गिरिजा प्रार्थिता तदा ॥ ४७ ॥
tat śrutvā ṛṣibhiḥ devaiḥ su prasannaiḥ muni-īśvarāḥ .. gṛhītvā ca eva brahmāṇam girijā prārthitā tadā .. 47 ..
प्रसन्नां गिरिजां कृत्वा वृषभध्वजमेव च ॥ पूर्वोक्तं च विधिं कृत्वा स्थापितं लिंगमुत्तमम् ॥ ४८ ॥
प्रसन्नाम् गिरिजाम् कृत्वा वृषभध्वजम् एव च ॥ पूर्व-उक्तम् च विधिम् कृत्वा स्थापितम् लिंगम् उत्तमम् ॥ ४८ ॥
prasannām girijām kṛtvā vṛṣabhadhvajam eva ca .. pūrva-uktam ca vidhim kṛtvā sthāpitam liṃgam uttamam .. 48 ..
मंत्रोक्तेन विधानेन देवाश्च ऋषयस्तथा ॥ चक्रुः प्रसन्नां गिरिजां शिवं च धर्महेतवे ॥ ४९॥
मंत्र-उक्तेन विधानेन देवाः च ऋषयः तथा ॥ चक्रुः प्रसन्नाम् गिरिजाम् शिवम् च धर्म-हेतवे ॥ ४९॥
maṃtra-uktena vidhānena devāḥ ca ṛṣayaḥ tathā .. cakruḥ prasannām girijām śivam ca dharma-hetave .. 49..
समानर्चुर्विशेषेण सर्वे देवर्षयः शिवम् ॥ ब्रह्मा विष्णुः परे चैव त्रैलोक्यं सचराचरम् ॥ 4.12.५० ॥
समानर्चुः विशेषेण सर्वे देवर्षयः शिवम् ॥ ब्रह्मा विष्णुः परे च एव त्रैलोक्यम् सचराचरम् ॥ ४।१२।५० ॥
samānarcuḥ viśeṣeṇa sarve devarṣayaḥ śivam .. brahmā viṣṇuḥ pare ca eva trailokyam sacarācaram .. 4.12.50 ..
सुप्रसन्नः शिवो जातः शिवा च जगदम्बिका॥धृतं तया च तल्लिंगं तेन रूपेण वै तदा ॥ ५१ ॥
सु प्रसन्नः शिवः जातः शिवा च जगदम्बिका॥धृतम् तया च तत् लिंगम् तेन रूपेण वै तदा ॥ ५१ ॥
su prasannaḥ śivaḥ jātaḥ śivā ca jagadambikā..dhṛtam tayā ca tat liṃgam tena rūpeṇa vai tadā .. 51 ..
लोकानां स्थापिते लिंगे कल्याणं चाभवत्तदा ॥ प्रसिद्धं चैव तल्लिंगं त्रिलोक्यामभवद्द्विजाः ॥ ५२॥
लोकानाम् स्थापिते लिंगे कल्याणम् च भवत् तदा ॥ प्रसिद्धम् च एव तत् लिंगम् त्रिलोक्याम् अभवत् द्विजाः ॥ ५२॥
lokānām sthāpite liṃge kalyāṇam ca bhavat tadā .. prasiddham ca eva tat liṃgam trilokyām abhavat dvijāḥ .. 52..
हाटकेशमिति ख्यातं तच्छिवाशिवमित्यपि॥पूजनात्तस्य लोकानां सुखं भवति सर्वथा ॥ ५३ ॥
हाटकेशम् इति ख्यातम् तत् शिवाशिवम् इति अपि॥पूजनात् तस्य लोकानाम् सुखम् भवति सर्वथा ॥ ५३ ॥
hāṭakeśam iti khyātam tat śivāśivam iti api..pūjanāt tasya lokānām sukham bhavati sarvathā .. 53 ..
इह सर्वसमृद्धिः स्यान्नानासुखवहाधिका ॥ परत्र परमा मुक्तिर्नात्र कार्या विचारणा ॥ ५४ ॥
इह सर्व-समृद्धिः स्यात् नाना सुख-वहा अधिका ॥ परत्र परमा मुक्तिः न अत्र कार्या विचारणा ॥ ५४ ॥
iha sarva-samṛddhiḥ syāt nānā sukha-vahā adhikā .. paratra paramā muktiḥ na atra kāryā vicāraṇā .. 54 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां लिंगस्वरूपकारणवर्णनं नाम द्वादशोऽध्यायः ॥ १२॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् लिंगस्वरूपकारणवर्णनम् नाम द्वादशः अध्यायः ॥ १२॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām liṃgasvarūpakāraṇavarṇanam nāma dvādaśaḥ adhyāyaḥ .. 12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In