| |
|

This overlay will guide you through the buttons:

सूत उवाच।।
यथाभवल्लिंगरूपः संपूज्यस्त्रिभवे शिवः॥तथोक्तं वा द्विजाः प्रीत्या किमन्यच्छ्रोतुमिच्छथ ॥ १॥
यथा अभवत् लिंग-रूपः संपूज्यः त्रि-भवे शिवः॥तथा उक्तम् वा द्विजाः प्रीत्या किम् अन्यत् श्रोतुम् इच्छथ ॥ १॥
yathā abhavat liṃga-rūpaḥ saṃpūjyaḥ tri-bhave śivaḥ..tathā uktam vā dvijāḥ prītyā kim anyat śrotum icchatha .. 1..
ऋषय ऊचुः।
अन्धकेश्वरलिंगस्य महिमानं वद प्रभो ॥ तथान्यच्छिवलिंगानां प्रीत्या वक्तुमिहार्हसि ॥ २ ॥
अन्धकेश्वर-लिंगस्य महिमानम् वद प्रभो ॥ तथा अन्यत् शिव-लिंगानाम् प्रीत्या वक्तुम् इह अर्हसि ॥ २ ॥
andhakeśvara-liṃgasya mahimānam vada prabho .. tathā anyat śiva-liṃgānām prītyā vaktum iha arhasi .. 2 ..
सूत उवाच ।।
पुराब्धिगर्तमाश्रित्य वसन्दैत्योऽन्धकासुरः ॥ स्ववशं कारयामास त्रैलोक्यं सुरसूदनः ॥ ३ ।
पुरा अब्धि-गर्तम् आश्रित्य वसन् दैत्यः अन्धक-असुरः ॥ स्व-वशम् कारयामास त्रैलोक्यम् सुरसूदनः ॥ ३ ।
purā abdhi-gartam āśritya vasan daityaḥ andhaka-asuraḥ .. sva-vaśam kārayāmāsa trailokyam surasūdanaḥ .. 3 .
तस्माद्गर्ताच्च निस्सृत्य पीडयित्वा पुनः प्रजाः ॥ प्राविशच्च तदा दैत्यस्तं गर्तं सुपराक्रमः ॥ ४॥
तस्मात् गर्तात् च निस्सृत्य पीडयित्वा पुनर् प्रजाः ॥ प्राविशत् च तदा दैत्यः तम् गर्तम् सु पराक्रमः ॥ ४॥
tasmāt gartāt ca nissṛtya pīḍayitvā punar prajāḥ .. prāviśat ca tadā daityaḥ tam gartam su parākramaḥ .. 4..
देवाश्च दुःखितः सर्वे शिवं प्रार्थ्य पुनःपुनः ॥ सर्वं निवेदयामासुस्स्वदुःखं च मुनीश्वराः ॥ ५॥
देवाः च दुःखितः सर्वे शिवम् प्रार्थ्य पुनर् पुनर् ॥ सर्वम् निवेदयामासुः स्व-दुःखम् च मुनि-ईश्वराः ॥ ५॥
devāḥ ca duḥkhitaḥ sarve śivam prārthya punar punar .. sarvam nivedayāmāsuḥ sva-duḥkham ca muni-īśvarāḥ .. 5..
सूत उवाच ।।
तदाकर्ण्य वचस्तेषां देवानां परमेश्वरः ॥ प्रत्युवाच प्रसन्नात्मा दुष्टहंता सतां गतिः ॥ ६ ॥
तत् आकर्ण्य वचः तेषाम् देवानाम् परमेश्वरः ॥ प्रत्युवाच प्रसन्न-आत्मा दुष्ट-हंता सताम् गतिः ॥ ६ ॥
tat ākarṇya vacaḥ teṣām devānām parameśvaraḥ .. pratyuvāca prasanna-ātmā duṣṭa-haṃtā satām gatiḥ .. 6 ..
शिव उवाच ।।
घातयिष्यामि तं दैत्यमन्धकं सुरसूदनम् ॥ सैन्यं च नीयतान्देवा ह्यायामि च गणैस्सह ॥ ७ ॥
घातयिष्यामि तम् दैत्यम् अन्धकम् सुरसूदनम् ॥ सैन्यम् च नीयतान् देवाः हि आयामि च गणैः सह ॥ ७ ॥
ghātayiṣyāmi tam daityam andhakam surasūdanam .. sainyam ca nīyatān devāḥ hi āyāmi ca gaṇaiḥ saha .. 7 ..
तस्माद्गर्तादंधके हि देवर्षिद्रुहि भीकरे ॥ निस्सृते च तदा तस्मिन्देवा गर्तमुपाश्रिताः ॥ ८॥
तस्मात् गर्तात् अंधके हि देवर्षि-द्रुहि भीकरे ॥ निस्सृते च तदा तस्मिन् देवाः गर्तम् उपाश्रिताः ॥ ८॥
tasmāt gartāt aṃdhake hi devarṣi-druhi bhīkare .. nissṛte ca tadā tasmin devāḥ gartam upāśritāḥ .. 8..
दैत्याश्च देवताश्चैव युद्धं चक्रुः सुदारुणम् ॥ शिवानुग्रहतो देवाः प्रबलाश्चाभवँस्तदा ॥ ९ ॥
दैत्याः च देवताः च एव युद्धम् चक्रुः सु दारुणम् ॥ शिव-अनुग्रहतः देवाः प्रबलाः च अभवन् तदा ॥ ९ ॥
daityāḥ ca devatāḥ ca eva yuddham cakruḥ su dāruṇam .. śiva-anugrahataḥ devāḥ prabalāḥ ca abhavan tadā .. 9 ..
देवैश्च पीडितः सोपि यावद्गर्तमुपागतः ॥ तावच्छूलेन संप्रोतः शिवेन परमात्मना ॥ 4.13.१०॥
देवैः च पीडितः सः अपि यावत् गर्तम् उपागतः ॥ तावत् शूलेन संप्रोतः शिवेन परमात्मना ॥ ४।१३।१०॥
devaiḥ ca pīḍitaḥ saḥ api yāvat gartam upāgataḥ .. tāvat śūlena saṃprotaḥ śivena paramātmanā .. 4.13.10..
तत्रत्यश्च तदा शंभुं ध्यात्वा संप्रार्थयत्तदा ॥ अन्तकाले च त्वां दृष्ट्वा तादृशो भवति क्षणात् ॥ ११ ॥
तत्रत्यः च तदा शंभुम् ध्यात्वा संप्रार्थयत् तदा ॥ अन्तकाले च त्वाम् दृष्ट्वा तादृशः भवति क्षणात् ॥ ११ ॥
tatratyaḥ ca tadā śaṃbhum dhyātvā saṃprārthayat tadā .. antakāle ca tvām dṛṣṭvā tādṛśaḥ bhavati kṣaṇāt .. 11 ..
इत्येवं संस्तुतस्सोपि प्रसन्नः शंकरस्तदा ॥ उवाच वचनं तत्र वरं ब्रूहि ददामि ते ॥ १२ ॥
इति एवम् संस्तुतः सः अपि प्रसन्नः शंकरः तदा ॥ उवाच वचनम् तत्र वरम् ब्रूहि ददामि ते ॥ १२ ॥
iti evam saṃstutaḥ saḥ api prasannaḥ śaṃkaraḥ tadā .. uvāca vacanam tatra varam brūhi dadāmi te .. 12 ..
इत्येवं वचनं श्रुत्वा स दैत्यः पुनरब्रवीत् ॥ सुप्रणम्य शिवं स्तुत्वा सत्त्वभावमुपाश्रितः ॥ १३ ॥
इति एवम् वचनम् श्रुत्वा स दैत्यः पुनर् अब्रवीत् ॥ सु प्रणम्य शिवम् स्तुत्वा सत्त्व-भावम् उपाश्रितः ॥ १३ ॥
iti evam vacanam śrutvā sa daityaḥ punar abravīt .. su praṇamya śivam stutvā sattva-bhāvam upāśritaḥ .. 13 ..
अन्धक उवाच ।।
यदि प्रसन्नो देवेश स्वभक्तिं देहि मे शुभाम् ॥ कृपां कृत्वा विशेषेण संस्थितो भव चेह वै ॥ १४ ॥
यदि प्रसन्नः देवेश स्व-भक्तिम् देहि मे शुभाम् ॥ कृपाम् कृत्वा विशेषेण संस्थितः भव च इह वै ॥ १४ ॥
yadi prasannaḥ deveśa sva-bhaktim dehi me śubhām .. kṛpām kṛtvā viśeṣeṇa saṃsthitaḥ bhava ca iha vai .. 14 ..
सूत उवाच ।।
इत्युक्तस्तेन दैत्यं तं तद्गर्ते चाक्षिपद्धरः ॥ स्वयं तत्र स्थितो लिंगरूपोऽसौ लोककाम्यया ॥ १५॥
इति उक्तः तेन दैत्यम् तम् तद्-गर्ते च अक्षिपत् हरः ॥ स्वयम् तत्र स्थितः लिंग-रूपः असौ लोक-काम्यया ॥ १५॥
iti uktaḥ tena daityam tam tad-garte ca akṣipat haraḥ .. svayam tatra sthitaḥ liṃga-rūpaḥ asau loka-kāmyayā .. 15..
अन्धकेशं च तल्लिंगं नित्यं यः पूजयेन्नरः ॥ षण्मासाज्जायते तस्य वांछासिद्धिर्न संशयः ॥ १६ ॥
अन्धकेशम् च तत् लिंगम् नित्यम् यः पूजयेत् नरः ॥ षष्-मासात् जायते तस्य वांछा-सिद्धिः न संशयः ॥ १६ ॥
andhakeśam ca tat liṃgam nityam yaḥ pūjayet naraḥ .. ṣaṣ-māsāt jāyate tasya vāṃchā-siddhiḥ na saṃśayaḥ .. 16 ..
वृत्त्यर्थं पूजयेल्लिंगं लोकस्य हितकारकम् ॥ षण्मासं यो द्विजश्चैव स वै देवलकः स्मृतः ॥ १७ ॥
वृत्ति-अर्थम् पूजयेत् लिंगम् लोकस्य हित-कारकम् ॥ षष्-मासम् यः द्विजः च एव स वै देवलकः स्मृतः ॥ १७ ॥
vṛtti-artham pūjayet liṃgam lokasya hita-kārakam .. ṣaṣ-māsam yaḥ dvijaḥ ca eva sa vai devalakaḥ smṛtaḥ .. 17 ..
यथा देवलकश्चैव स भवेदिह वै तदा ॥ देवलकश्च यः प्रोक्तो नाधिकारो द्विजस्य हि ॥ १८॥
यथा देवलकः च एव स भवेत् इह वै तदा ॥ देवलकः च यः प्रोक्तः न अधिकारः द्विजस्य हि ॥ १८॥
yathā devalakaḥ ca eva sa bhavet iha vai tadā .. devalakaḥ ca yaḥ proktaḥ na adhikāraḥ dvijasya hi .. 18..
।। ऋषय ऊचुः ।।
देवलकश्च कः प्रोक्तः किं कार्यं तस्य विद्यते ॥ तत्त्वं वद महाप्राज्ञ लोकानां हितहेतवे ॥ १९ ॥
देवलकः च कः प्रोक्तः किम् कार्यम् तस्य विद्यते ॥ तत् त्वम् वद महा-प्राज्ञ लोकानाम् हित-हेतवे ॥ १९ ॥
devalakaḥ ca kaḥ proktaḥ kim kāryam tasya vidyate .. tat tvam vada mahā-prājña lokānām hita-hetave .. 19 ..
सूत उवाच ।।
दधीचिर्नाम विप्रो यो धर्मिष्ठो वेदपारगः ॥ शिवभक्तिरतो नित्यं शिवशास्त्रपरायणः ॥ 4.13.२० ॥
दधीचिः नाम विप्रः यः धर्मिष्ठः वेदपारगः ॥ शिव-भक्ति-रतः नित्यम् शिव-शास्त्र-परायणः ॥ ४।१३।२० ॥
dadhīciḥ nāma vipraḥ yaḥ dharmiṣṭhaḥ vedapāragaḥ .. śiva-bhakti-rataḥ nityam śiva-śāstra-parāyaṇaḥ .. 4.13.20 ..
तस्य पुत्रस्तथा ह्यासीत्स्मृतो नाम्ना सुदर्शनः ॥ तस्य भार्या दुकूला च नाम्ना दुष्टकुलोद्भवा ॥ २१ ॥
तस्य पुत्रः तथा हि आसीत् स्मृतः नाम्ना सुदर्शनः ॥ तस्य भार्या दुकूला च नाम्ना दुष्ट-कुल-उद्भवा ॥ २१ ॥
tasya putraḥ tathā hi āsīt smṛtaḥ nāmnā sudarśanaḥ .. tasya bhāryā dukūlā ca nāmnā duṣṭa-kula-udbhavā .. 21 ..
तद्वशे स च भर्तासीत्तस्य पुत्रचतुष्टयम् ॥ सोऽपि नित्यं शिवस्यैव पूजां च स्म करोत्यसौ ॥ २२ ॥
तद्-वशे स च भर्ता आसीत् तस्य पुत्र-चतुष्टयम् ॥ सः अपि नित्यम् शिवस्य एव पूजाम् च स्म करोति असौ ॥ २२ ॥
tad-vaśe sa ca bhartā āsīt tasya putra-catuṣṭayam .. saḥ api nityam śivasya eva pūjām ca sma karoti asau .. 22 ..
दधीचेस्तु तदा ह्यासीद्ग्रामान्तरनिवेशनम् ॥ ज्ञातिसंयोगतश्चैव ज्ञातिभिर्न स मोचितः ॥ २३ ॥
दधीचेः तु तदा हि आसीत् ग्राम-अन्तर-निवेशनम् ॥ ज्ञाति-संयोगतः च एव ज्ञातिभिः न स मोचितः ॥ २३ ॥
dadhīceḥ tu tadā hi āsīt grāma-antara-niveśanam .. jñāti-saṃyogataḥ ca eva jñātibhiḥ na sa mocitaḥ .. 23 ..
कथयित्वा च पुत्रं स शिवभक्तिरतो भव॥इत्युक्त्वा स गतो मुक्तो दाधीचिश्शैवसत्तमः ॥ २४ ॥
कथयित्वा च पुत्रम् स शिव-भक्ति-रतः भव॥इति उक्त्वा स गतः मुक्तः दाधीचिः शैव-सत्तमः ॥ २४ ॥
kathayitvā ca putram sa śiva-bhakti-rataḥ bhava..iti uktvā sa gataḥ muktaḥ dādhīciḥ śaiva-sattamaḥ .. 24 ..
सुदर्शनस्तत्पुत्रोऽपि शिवपूजां चकार ह ॥ एवं चिरतरः कालो व्यतीयाय मुनीश्वराः ॥ २५ ॥
सुदर्शनः तद्-पुत्रः अपि शिव-पूजाम् चकार ह ॥ एवम् चिरतरः कालः व्यतीयाय मुनि-ईश्वराः ॥ २५ ॥
sudarśanaḥ tad-putraḥ api śiva-pūjām cakāra ha .. evam cirataraḥ kālaḥ vyatīyāya muni-īśvarāḥ .. 25 ..
एवं च शिवरात्रिश्च समायाता कदाचन ॥ तस्यां चोपोषितास्सर्वे स्वयं संयोगतस्तदा ॥ २६ ॥
एवम् च शिवरात्रिः च समायाता कदाचन ॥ तस्याम् च उपोषिताः सर्वे स्वयम् संयोगतः तदा ॥ २६ ॥
evam ca śivarātriḥ ca samāyātā kadācana .. tasyām ca upoṣitāḥ sarve svayam saṃyogataḥ tadā .. 26 ..
पूजां कृत्वा गतस्सोऽपि सुदर्शन इति स्मृतः ॥ स्त्रीसंगं शिवरात्रौ तुं कृत्वा पुनरिहागतः ॥ २७ ॥
पूजाम् कृत्वा गतः सः अपि सुदर्शनः इति स्मृतः ॥ स्त्री-संगम् शिवरात्रौ तुम् कृत्वा पुनर् इह आगतः ॥ २७ ॥
pūjām kṛtvā gataḥ saḥ api sudarśanaḥ iti smṛtaḥ .. strī-saṃgam śivarātrau tum kṛtvā punar iha āgataḥ .. 27 ..
न स्नानं तेन च कृतं तद्रात्र्यां शिवपूजनम् ॥ तेन तत्कर्मपाकेन क्रुद्धः प्रोवाच शङ्करः ॥ २८ ॥
न स्नानम् तेन च कृतम् तद्-रात्र्याम् शिव-पूजनम् ॥ तेन तद्-कर्म-पाकेन क्रुद्धः प्रोवाच शङ्करः ॥ २८ ॥
na snānam tena ca kṛtam tad-rātryām śiva-pūjanam .. tena tad-karma-pākena kruddhaḥ provāca śaṅkaraḥ .. 28 ..
महेश्वर उवाच ।।
शिवरात्र्यां त्वया दुष्ट सेवनं च स्त्रियाः कृतम् ॥ अस्नातेन मदीया च कृता पूजाविवेकिना ॥ २९ ॥
शिवरात्र्याम् त्वया दुष्ट सेवनम् च स्त्रियाः कृतम् ॥ अस्नातेन मदीया च कृता पूजा-विवेकिना ॥ २९ ॥
śivarātryām tvayā duṣṭa sevanam ca striyāḥ kṛtam .. asnātena madīyā ca kṛtā pūjā-vivekinā .. 29 ..
ज्ञात्वा चैवं कृतं यस्मात्तस्मात्त्वं जडतां व्रज॥ममास्पृश्यो भव त्वं च दूरतो दर्शनं कुरु ॥ 4.13.३०॥
ज्ञात्वा च एवम् कृतम् यस्मात् तस्मात् त्वम् जड-ताम् व्रज॥मम अस्पृश्यः भव त्वम् च दूरतस् दर्शनम् कुरु ॥ ४।१३।३०॥
jñātvā ca evam kṛtam yasmāt tasmāt tvam jaḍa-tām vraja..mama aspṛśyaḥ bhava tvam ca dūratas darśanam kuru .. 4.13.30..
सूत उवाच ।।
इति शप्तो महेशेन दाधीचिस्स सुदर्शनः ॥ जडत्वं प्राप्तवान्सद्यश्शिवमायाविमोहितः॥३१॥
इति शप्तः महेशेन दाधीचिः स सुदर्शनः ॥ जड-त्वम् प्राप्तवान् सद्यस् शिव-माया-विमोहितः॥३१॥
iti śaptaḥ maheśena dādhīciḥ sa sudarśanaḥ .. jaḍa-tvam prāptavān sadyas śiva-māyā-vimohitaḥ..31..
एतस्मिन्समये विप्रा दधीचिः शैवसत्तमः ॥ ग्रामान्तरात्समायातो वृत्तान्तं श्रुतवाँश्च सः ॥ ३२ ॥
एतस्मिन् समये विप्राः दधीचिः शैव-सत्तमः ॥ ग्राम-अन्तरात् समायातः वृत्तान्तम् श्रुतवान् च सः ॥ ३२ ॥
etasmin samaye viprāḥ dadhīciḥ śaiva-sattamaḥ .. grāma-antarāt samāyātaḥ vṛttāntam śrutavān ca saḥ .. 32 ..
शिवेन भर्त्सितः सोऽपि दुःखितोऽभूदतीव हि ॥ रुरोद हा हतोऽश्मीति दुःखेन सुतकर्मणा ॥ ३३ ॥
शिवेन भर्त्सितः सः अपि दुःखितः अभूत् अतीव हि ॥ रुरोद हा हतः अश्मि इति दुःखेन सुत-कर्मणा ॥ ३३ ॥
śivena bhartsitaḥ saḥ api duḥkhitaḥ abhūt atīva hi .. ruroda hā hataḥ aśmi iti duḥkhena suta-karmaṇā .. 33 ..
पुनःपुनरुवाचेति स दधीचिस्सतां मतः ॥ अनेनेदं कुपुत्रेण हतं मे कुलमुत्तमम् ॥ ३४ ॥
पुनर् पुनर् उवाच इति स दधीचिः सताम् मतः ॥ अनेन इदम् कु पुत्रेण हतम् मे कुलम् उत्तमम् ॥ ३४ ॥
punar punar uvāca iti sa dadhīciḥ satām mataḥ .. anena idam ku putreṇa hatam me kulam uttamam .. 34 ..
स पुत्रोऽपि हतो भार्यां पुंश्चलीं कृतवान्द्रुतम् ॥ पश्चात्तापमनुप्राप्य स्वपित्रा परिभर्त्सितः ॥ ३५ ॥
स पुत्रः अपि हतः भार्याम् पुंश्चलीम् कृतवान् द्रुतम् ॥ पश्चात्तापम् अनुप्राप्य स्व-पित्रा परिभर्त्सितः ॥ ३५ ॥
sa putraḥ api hataḥ bhāryām puṃścalīm kṛtavān drutam .. paścāttāpam anuprāpya sva-pitrā paribhartsitaḥ .. 35 ..
तत्पित्रा गिरिजा तत्र पूजिता विधिभिर्वरैः ॥ सुयत्नतो महाभक्त्या स्वपुत्रसुखहेतवे ॥ ३६ ॥
तद्-पित्रा गिरिजा तत्र पूजिता विधिभिः वरैः ॥ सु यत्नतः महा-भक्त्या स्व-पुत्र-सुख-हेतवे ॥ ३६ ॥
tad-pitrā girijā tatra pūjitā vidhibhiḥ varaiḥ .. su yatnataḥ mahā-bhaktyā sva-putra-sukha-hetave .. 36 ..
सुदर्शनोऽपि गिरिजां पूजयामास च स्वयम् ॥ चण्डीपूजनमार्गेण महाभक्त्या शुभैः स्तवैः ॥ ३७ ॥
सुदर्शनः अपि गिरिजाम् पूजयामास च स्वयम् ॥ चण्डी-पूजन-मार्गेण महा-भक्त्या शुभैः स्तवैः ॥ ३७ ॥
sudarśanaḥ api girijām pūjayāmāsa ca svayam .. caṇḍī-pūjana-mārgeṇa mahā-bhaktyā śubhaiḥ stavaiḥ .. 37 ..
एवं तौ पितृपुत्रौ हि नानोपायैः सुभक्तितः ॥ प्रसन्नां चक्रतुर्देवीं गिरिजां भक्तवत्सलाम् ॥ ३८ ॥
एवम् तौ पितृ-पुत्रौ हि नाना उपायैः सु भक्तितः ॥ प्रसन्नाम् चक्रतुः देवीम् गिरिजाम् भक्त-वत्सलाम् ॥ ३८ ॥
evam tau pitṛ-putrau hi nānā upāyaiḥ su bhaktitaḥ .. prasannām cakratuḥ devīm girijām bhakta-vatsalām .. 38 ..
तयोः सेवाप्रभावेण प्रसन्ना चण्डिका तदा ॥ सुदर्शनं च पुत्रत्वे चकार गिरिजा मुने ॥ ३९ ॥
तयोः सेवा-प्रभावेण प्रसन्ना चण्डिका तदा ॥ सुदर्शनम् च पुत्र-त्वे चकार गिरिजा मुने ॥ ३९ ॥
tayoḥ sevā-prabhāveṇa prasannā caṇḍikā tadā .. sudarśanam ca putra-tve cakāra girijā mune .. 39 ..
शिवं प्रसादयामास पुत्रार्थे चण्डिका स्वयम् ॥ क्रुद्धाऽक्रुद्धा पुनश्चण्डी तत्पुत्रस्य प्रसन्नधीः ॥ 4.13.४० ॥
शिवम् प्रसादयामास पुत्र-अर्थे चण्डिका स्वयम् ॥ क्रुद्धा अक्रुद्धा पुनर् चण्डी तद्-पुत्रस्य प्रसन्न-धीः ॥ ४।१३।४० ॥
śivam prasādayāmāsa putra-arthe caṇḍikā svayam .. kruddhā akruddhā punar caṇḍī tad-putrasya prasanna-dhīḥ .. 4.13.40 ..
अथाज्ञाय प्रसन्नं तं महेशं वृषभध्वजम् ॥ नमस्कृत्य स्वयं तस्य ह्युत्संगे तं न्यवेशयत् ॥ ४१ ।
अथा आज्ञाय प्रसन्नम् तम् महेशम् वृषभध्वजम् ॥ नमस्कृत्य स्वयम् तस्य हि उत्संगे तम् न्यवेशयत् ॥ ४१ ।
athā ājñāya prasannam tam maheśam vṛṣabhadhvajam .. namaskṛtya svayam tasya hi utsaṃge tam nyaveśayat .. 41 .
घृतस्नानं ततः कृत्वा पुत्रस्य गिरिजा स्वयम् ॥ त्रिरावृत्तोपवीतं च ग्रन्थिनैकेन संयुतम् ॥ ४२ ॥
घृत-स्नानम् ततस् कृत्वा पुत्रस्य गिरिजा स्वयम् ॥ त्रिस् आवृत्त-उपवीतम् च ग्रन्थिना एकेन संयुतम् ॥ ४२ ॥
ghṛta-snānam tatas kṛtvā putrasya girijā svayam .. tris āvṛtta-upavītam ca granthinā ekena saṃyutam .. 42 ..
सुदर्शनाय पुत्राय ददौ प्रीत्या तदाम्बिका ॥ उद्दिश्य शिवगायत्रीं षोडशाक्षरसंयुताम् ॥ ४३ ॥
सुदर्शनाय पुत्राय ददौ प्रीत्या तदा अम्बिका ॥ उद्दिश्य शिव-गायत्रीम् षोडश-अक्षर-संयुताम् ॥ ४३ ॥
sudarśanāya putrāya dadau prītyā tadā ambikā .. uddiśya śiva-gāyatrīm ṣoḍaśa-akṣara-saṃyutām .. 43 ..
तदोंनमः शिवायेति श्रीशब्द पूर्वकाय च ॥ वारान्षोडश संकल्पपूजां कुर्यादयं बटुः॥ ४४ ॥
तदा ओम् नमः शिवाय इति श्री-शब्द-पूर्वकाय च ॥ वारान् षोडश संकल्प-पूजाम् कुर्यात् अयम् बटुः॥ ४४ ॥
tadā om namaḥ śivāya iti śrī-śabda-pūrvakāya ca .. vārān ṣoḍaśa saṃkalpa-pūjām kuryāt ayam baṭuḥ.. 44 ..
आस्नानादिप्रणामान्तं पूजयन्वृषभध्वजम् ॥ मंत्रवादित्रपूजाभिस्सर्षीणां सन्निधौ तथा ॥ ४५ ॥
आस्नान-आदि-प्रणाम-अन्तम् पूजयन् वृषभध्वजम् ॥ मंत्र-वादित्र-पूजाभिः स ऋषीणाम् सन्निधौ तथा ॥ ४५ ॥
āsnāna-ādi-praṇāma-antam pūjayan vṛṣabhadhvajam .. maṃtra-vāditra-pūjābhiḥ sa ṛṣīṇām sannidhau tathā .. 45 ..
नाममंत्राननेकांश्च पाठयामास वै तदा ॥ उवाच सुप्रसन्नात्मा चण्डिका च शिवस्तथा ॥ ४६ ॥
नाम-मंत्रान् अनेकान् च पाठयामास वै तदा ॥ उवाच सु प्रसन्न-आत्मा चण्डिका च शिवः तथा ॥ ४६ ॥
nāma-maṃtrān anekān ca pāṭhayāmāsa vai tadā .. uvāca su prasanna-ātmā caṇḍikā ca śivaḥ tathā .. 46 ..
मदर्पितं च यत्किंचिद्धनधान्यादिकन्तथा ॥ तत्सर्वं च त्वया ग्राह्यं न दोषाय भविष्यति ॥ ४७ ॥
मद्-अर्पितम् च यत् किंचिद् धन-धान्य-आदिकम् तथा ॥ तत् सर्वम् च त्वया ग्राह्यम् न दोषाय भविष्यति ॥ ४७ ॥
mad-arpitam ca yat kiṃcid dhana-dhānya-ādikam tathā .. tat sarvam ca tvayā grāhyam na doṣāya bhaviṣyati .. 47 ..
मम कृत्ये भवान्मुख्यो देवीकृत्ये विशेषतः ॥ घृततैलादिकं सर्वं त्वया ग्राह्यं मदर्पितम् ॥ ४८ ॥
मम कृत्ये भवान् मुख्यः देवी-कृत्ये विशेषतः ॥ घृत-तैल-आदिकम् सर्वम् त्वया ग्राह्यम् मद्-अर्पितम् ॥ ४८ ॥
mama kṛtye bhavān mukhyaḥ devī-kṛtye viśeṣataḥ .. ghṛta-taila-ādikam sarvam tvayā grāhyam mad-arpitam .. 48 ..
प्राजापत्यं भवेद्यर्हिं तर्ह्येको हि भवान्भवेत् ॥ तदा पूजा च सम्पूर्णान्यथा सर्वा च निष्फला ॥ ४९ ॥
प्राजापत्यम् भवेत् यर्हिम् तर्हि एकः हि भवान् भवेत् ॥ तदा पूजा च सम्पूर्णा अन्यथा सर्वा च निष्फला ॥ ४९ ॥
prājāpatyam bhavet yarhim tarhi ekaḥ hi bhavān bhavet .. tadā pūjā ca sampūrṇā anyathā sarvā ca niṣphalā .. 49 ..
तिलकं वर्तुलं कार्यं स्नानं कार्यं सदा त्वया ॥ शिवसन्ध्या च कर्तव्या गायत्री च तदीयिका ॥ 4.13.५०॥
तिलकम् वर्तुलम् कार्यम् स्नानम् कार्यम् सदा त्वया ॥ शिवसन्ध्या च कर्तव्या गायत्री च तदीयिका ॥ ४।१३।५०॥
tilakam vartulam kāryam snānam kāryam sadā tvayā .. śivasandhyā ca kartavyā gāyatrī ca tadīyikā .. 4.13.50..
मत्सेवां प्रथमं कृत्वा कार्यमन्यत्कुलोचितम् ॥ एवं कृतेऽखिले भद्रं दोषाः क्षान्ता मया तव॥५१॥
मद्-सेवाम् प्रथमम् कृत्वा कार्यम् अन्यत् कुल-उचितम् ॥ एवम् कृते अखिले भद्रम् दोषाः क्षान्ताः मया तव॥५१॥
mad-sevām prathamam kṛtvā kāryam anyat kula-ucitam .. evam kṛte akhile bhadram doṣāḥ kṣāntāḥ mayā tava..51..
सूत उवाच ।।
इत्युक्त्वा तस्य पुत्राश्च चत्वारो बटुकास्तदा ॥ अभिषिक्ताश्चतुर्दिक्षु शिवेन परमात्मना ॥ ५२॥
इति उक्त्वा तस्य पुत्राः च चत्वारः बटुकाः तदा ॥ अभिषिक्ताः चतुर्-दिक्षु शिवेन परमात्मना ॥ ५२॥
iti uktvā tasya putrāḥ ca catvāraḥ baṭukāḥ tadā .. abhiṣiktāḥ catur-dikṣu śivena paramātmanā .. 52..
चण्डी चैवात्मनिकटे पुत्रं स्थाप्य सुदर्शनम् ॥ तत्पुत्रान्प्रेरयामास वरान्दत्त्वा ह्यनेकशः ॥ ५३ ॥
चण्डी च एव आत्म-निकटे पुत्रम् स्थाप्य सुदर्शनम् ॥ तद्-पुत्रान् प्रेरयामास वरान् दत्त्वा हि अनेकशस् ॥ ५३ ॥
caṇḍī ca eva ātma-nikaṭe putram sthāpya sudarśanam .. tad-putrān prerayāmāsa varān dattvā hi anekaśas .. 53 ..
देव्युवाच
उभयोर्युवयोर्मध्ये वटुको यो भवेन्मम ॥ तस्य स्याद्विजयो नित्यं नात्र कार्या विचारणा ॥ ५४ ॥
उभयोः युवयोः मध्ये वटुकः यः भवेत् मम ॥ तस्य स्यात् विजयः नित्यम् न अत्र कार्या विचारणा ॥ ५४ ॥
ubhayoḥ yuvayoḥ madhye vaṭukaḥ yaḥ bhavet mama .. tasya syāt vijayaḥ nityam na atra kāryā vicāraṇā .. 54 ..
भवांश्च पूजितो येन तेनैवाहं प्रपूजिता ॥ कर्तव्यं हि भवद्भिश्च स्वीयं कर्म सदा सुत ॥ ५५ ॥
भवान् च पूजितः येन तेन एव अहम् प्रपूजिता ॥ कर्तव्यम् हि भवद्भिः च स्वीयम् कर्म सदा सुत ॥ ५५ ॥
bhavān ca pūjitaḥ yena tena eva aham prapūjitā .. kartavyam hi bhavadbhiḥ ca svīyam karma sadā suta .. 55 ..
सूत उवाच
एवं तस्मै वरान्दत्तास्सपुत्राय महात्मने ॥ सुदर्शनाय कृपया शिवाभ्यां जगतां कृते ॥ ५६॥
एवम् तस्मै वरान् दत्ताः स पुत्राय महात्मने ॥ सुदर्शनाय कृपया शिवाभ्याम् जगताम् कृते ॥ ५६॥
evam tasmai varān dattāḥ sa putrāya mahātmane .. sudarśanāya kṛpayā śivābhyām jagatām kṛte .. 56..
शिवाभ्यां स्थापिता यस्मात्तस्मात्तं वटुकाः स्मृताः ॥ तपोभ्रष्टाश्च ये जाताः स्मृतास्तस्मात्तपोधमाः ॥ ५७॥
शिवाभ्याम् स्थापिता यस्मात् तस्मात् तम् वटुकाः स्मृताः ॥ तपः-भ्रष्टाः च ये जाताः स्मृताः तस्मात् तपोधमाः ॥ ५७॥
śivābhyām sthāpitā yasmāt tasmāt tam vaṭukāḥ smṛtāḥ .. tapaḥ-bhraṣṭāḥ ca ye jātāḥ smṛtāḥ tasmāt tapodhamāḥ .. 57..
शिवयोः कृपया सर्वे विस्तारं बहुधा गताः ॥ तेषां च प्रथमा पूजा महापूजा महात्मनः ॥ ५८॥
शिवयोः कृपया सर्वे विस्तारम् बहुधा गताः ॥ तेषाम् च प्रथमा पूजा महा-पूजा महात्मनः ॥ ५८॥
śivayoḥ kṛpayā sarve vistāram bahudhā gatāḥ .. teṣām ca prathamā pūjā mahā-pūjā mahātmanaḥ .. 58..
तेन यावत्कृता नैव पूजा वै शंकरस्य च ॥ तावत्पूजा न कर्त्तव्या कृता चेन्न शुभापि सा ॥ ५९ ॥
तेन यावत् कृता ना एव पूजा वै शंकरस्य च ॥ तावत् पूजा न कर्त्तव्या कृता चेद् न शुभा अपि सा ॥ ५९ ॥
tena yāvat kṛtā nā eva pūjā vai śaṃkarasya ca .. tāvat pūjā na karttavyā kṛtā ced na śubhā api sā .. 59 ..
शुभं वाप्यशुभं वापि बटुकं न परित्यजेत् ॥ प्राजापत्ये च भोज्ये वै वटुरेको विशिष्यते ॥ 4.13.६० ।
शुभम् वा अपि अशुभम् वा अपि बटुकम् न परित्यजेत् ॥ प्राजापत्ये च भोज्ये वै वटुः एकः विशिष्यते ॥ ४।१३।६० ।
śubham vā api aśubham vā api baṭukam na parityajet .. prājāpatye ca bhojye vai vaṭuḥ ekaḥ viśiṣyate .. 4.13.60 .
शिवयोश्च तथा कार्ये विशेषोऽत्र प्रदृश्यते ॥ तदेव शृणु सुप्राज्ञ यथाहं वच्मि तेऽनघ ॥ ६१ ।'
शिवयोः च तथा कार्ये विशेषः अत्र प्रदृश्यते ॥ तत् एव शृणु सु प्राज्ञ यथा अहम् वच्मि ते अनघ ॥ ६१ ।
śivayoḥ ca tathā kārye viśeṣaḥ atra pradṛśyate .. tat eva śṛṇu su prājña yathā aham vacmi te anagha .. 61 .
तस्यैव नगरे राज्ञो भद्रस्य नित्यभोजने ॥ प्राजापत्यस्य नियमे ह्यन्धकेशसमीपतः ॥ ६२॥
तस्य एव नगरे राज्ञः भद्रस्य नित्यभोजने ॥ प्राजापत्यस्य नियमे हि अन्धकेश-समीपतः ॥ ६२॥
tasya eva nagare rājñaḥ bhadrasya nityabhojane .. prājāpatyasya niyame hi andhakeśa-samīpataḥ .. 62..
यज्जातमद्भुतं वृत्तं शिवानुग्रहकारणात् ॥ श्रूयतां तच्च सुप्रीत्या कथयामि यथाश्रुतम्॥६३॥
यत् जातम् अद्भुतम् वृत्तम् शिव-अनुग्रह-कारणात् ॥ श्रूयताम् तत् च सु प्रीत्या कथयामि यथाश्रुतम्॥६३॥
yat jātam adbhutam vṛttam śiva-anugraha-kāraṇāt .. śrūyatām tat ca su prītyā kathayāmi yathāśrutam..63..
ध्वज एकश्च तद्राज्ञे दत्तस्तुष्टेन शंभुना॥प्रोक्तश्च कृपया राजा देवदेवेन तेन सः॥६४॥
ध्वजः एकः च तद्-राज्ञे दत्तः तुष्टेन शंभुना॥प्रोक्तः च कृपया राजा देवदेवेन तेन सः॥६४॥
dhvajaḥ ekaḥ ca tad-rājñe dattaḥ tuṣṭena śaṃbhunā..proktaḥ ca kṛpayā rājā devadevena tena saḥ..64..
प्रातश्च वर्ध्यतां राजन्ध्वजो रात्रौ पतिष्यति॥मम त्वेवं च सम्पूर्णे प्राजापत्ये तथा पुनः॥६५॥
प्रातर् च वर्ध्यताम् राजन् ध्वजः रात्रौ पतिष्यति॥मम तु एवम् च सम्पूर्णे प्राजापत्ये तथा पुनर्॥६५॥
prātar ca vardhyatām rājan dhvajaḥ rātrau patiṣyati..mama tu evam ca sampūrṇe prājāpatye tathā punar..65..
अन्यथायं ध्वजो मे हि रात्रावपि स्थिरो भवेत्॥इत्युक्त्वान्तर्हितश्शंभू राज्ञे तुष्टः कृपानिधिः॥६६॥
अन्यथा अयम् ध्वजः मे हि रात्रौ अपि स्थिरः भवेत्॥इति उक्त्वा अन्तर्हितः शंभूः राज्ञे तुष्टः कृपा-निधिः॥६६॥
anyathā ayam dhvajaḥ me hi rātrau api sthiraḥ bhavet..iti uktvā antarhitaḥ śaṃbhūḥ rājñe tuṣṭaḥ kṛpā-nidhiḥ..66..
तथेति नियमश्चासीत्तस्य राज्ञो महामुने॥प्राजापत्यं कृतं नित्यं शिवपूजाविधानत ।५७।
तथा इति नियमः च आसीत् तस्य राज्ञः महा-मुने॥प्राजापत्यम् कृतम् नित्यम् शिव-पूजा-विधानत ।५७।
tathā iti niyamaḥ ca āsīt tasya rājñaḥ mahā-mune..prājāpatyam kṛtam nityam śiva-pūjā-vidhānata .57.
स्वयं प्रातर्विवर्दे्धेत ध्वजः सायं पतेदिति॥यदि कार्यं च सम्पूर्णं जातं चैव भवेदिह ॥ ६८॥
स्वयम् प्रातर् विवर्देधेत ध्वजः सायम् पतेत् इति॥यदि कार्यम् च सम्पूर्णम् जातम् च एव भवेत् इह ॥ ६८॥
svayam prātar vivardedheta dhvajaḥ sāyam patet iti..yadi kāryam ca sampūrṇam jātam ca eva bhavet iha .. 68..
एकस्मिन्समये चात्र बटोः कार्यं पुरा ह्यभूत् ॥ ध्वजः स पतितो वै हि ब्रह्मभोजं विनापि हि ॥ ६९॥
एकस्मिन् समये च अत्र बटोः कार्यम् पुरा हि अभूत् ॥ ध्वजः स पतितः वै हि ब्रह्मभोजम् विना अपि हि ॥ ६९॥
ekasmin samaye ca atra baṭoḥ kāryam purā hi abhūt .. dhvajaḥ sa patitaḥ vai hi brahmabhojam vinā api hi .. 69..
दृष्ट्वा तच्च तदा तत्र पृष्टा राज्ञा च पण्डिताः ॥ भुञ्जते ब्राह्मणा ह्यत्र नोत्थितो वै ध्वजस्त्विति॥4.13.७०॥
दृष्ट्वा तत् च तदा तत्र पृष्टाः राज्ञा च पण्डिताः ॥ भुञ्जते ब्राह्मणाः हि अत्र न उत्थितः वै ध्वजः तु इति॥४।१३।७०॥
dṛṣṭvā tat ca tadā tatra pṛṣṭāḥ rājñā ca paṇḍitāḥ .. bhuñjate brāhmaṇāḥ hi atra na utthitaḥ vai dhvajaḥ tu iti..4.13.70..
कथं च पतितः सोऽत्र ब्राह्मणा ब्रूत सत्यतः ॥ ते पृष्टाश्च तदा प्रोचुर्ब्राह्मणाः पण्डितोत्तमाः॥७१॥
कथम् च पतितः सः अत्र ब्राह्मणाः ब्रूत सत्यतः ॥ ते पृष्टाः च तदा प्रोचुः ब्राह्मणाः पण्डित-उत्तमाः॥७१॥
katham ca patitaḥ saḥ atra brāhmaṇāḥ brūta satyataḥ .. te pṛṣṭāḥ ca tadā procuḥ brāhmaṇāḥ paṇḍita-uttamāḥ..71..
ब्रह्मभोजे महाराज वटुको भोजितः पुरा॥चण्डीपुत्रश्शिवस्तुष्टस्तस्माच्च पतितो ध्वजः॥७२॥
ब्रह्मभोजे महा-राज वटुकः भोजितः पुरा॥चण्डी-पुत्रः शिवः तुष्टः तस्मात् च पतितः ध्वजः॥७२॥
brahmabhoje mahā-rāja vaṭukaḥ bhojitaḥ purā..caṇḍī-putraḥ śivaḥ tuṣṭaḥ tasmāt ca patitaḥ dhvajaḥ..72..
तच्छ्रुत्वा नृपतिस्सोऽथ जनाश्चान्ये ऽपि सर्वशः ॥ अभवन्विस्मितास्तत्र प्रशंसां चक्रिरे ततः ॥ ७३ ॥
तत् श्रुत्वा नृपतिः सः अथ जनाः च अन्ये अपि सर्वशस् ॥ अभवन् विस्मिताः तत्र प्रशंसाम् चक्रिरे ततस् ॥ ७३ ॥
tat śrutvā nṛpatiḥ saḥ atha janāḥ ca anye api sarvaśas .. abhavan vismitāḥ tatra praśaṃsām cakrire tatas .. 73 ..
एवं च महिमा तेषां वर्द्धितः शङ्करेण हि ॥ तस्माच्च वटुकाः श्रेष्ठाः पुरा विद्भिः प्रकीर्तिताः ॥ ७४ ॥
एवम् च महिमा तेषाम् वर्द्धितः शङ्करेण हि ॥ तस्मात् च वटुकाः श्रेष्ठाः पुरा विद्भिः प्रकीर्तिताः ॥ ७४ ॥
evam ca mahimā teṣām varddhitaḥ śaṅkareṇa hi .. tasmāt ca vaṭukāḥ śreṣṭhāḥ purā vidbhiḥ prakīrtitāḥ .. 74 ..
शिवपूजा तु तैः पूर्वमुत्तार्य्या नान्यथा पुनः ॥ अन्येषां नाधिकारोऽस्ति शिवस्य वचनादिह ॥ ७५ ॥
शिव-पूजा तु तैः पूर्वम् उत्तार्य्या न अन्यथा पुनर् ॥ अन्येषाम् ना अधिकारः अस्ति शिवस्य वचनात् इह ॥ ७५ ॥
śiva-pūjā tu taiḥ pūrvam uttāryyā na anyathā punar .. anyeṣām nā adhikāraḥ asti śivasya vacanāt iha .. 75 ..
उत्तारणं च कार्य्यं वै पूजा पूर्णा भवत्विति ॥ एतावदेव तेषां तु शृणु नान्यत्तथैव च ॥ ७६ ॥
उत्तारणम् च कार्यम् वै पूजा पूर्णा भवतु इति ॥ एतावत् एव तेषाम् तु शृणु ना अन्यत् तथा एव च ॥ ७६ ॥
uttāraṇam ca kāryam vai pūjā pūrṇā bhavatu iti .. etāvat eva teṣām tu śṛṇu nā anyat tathā eva ca .. 76 ..
एतत्सर्वं समाख्यातं यत्पृष्टं च मुनीश्वराः ॥ यच्छ्रुत्वा शिवपूजायाः फलं प्राप्नोति वै नरः॥७७॥
एतत् सर्वम् समाख्यातम् यत् पृष्टम् च मुनि-ईश्वराः ॥ यत् श्रुत्वा शिव-पूजायाः फलम् प्राप्नोति वै नरः॥७७॥
etat sarvam samākhyātam yat pṛṣṭam ca muni-īśvarāḥ .. yat śrutvā śiva-pūjāyāḥ phalam prāpnoti vai naraḥ..77..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वटुकोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् वटुकोत्पत्तिवर्णनम् नाम त्रयोदशः अध्यायः ॥ १३ ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām vaṭukotpattivarṇanam nāma trayodaśaḥ adhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In