| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः
ज्योतिषां चैव लिंगानां माहात्म्यं कथयाधुना ॥ उत्पत्तिं च तथा तेषां ब्रूहि सर्वं यथाश्रुतम् ॥ १ ॥
ज्योतिषाम् च एव लिंगानाम् माहात्म्यम् कथय अधुना ॥ उत्पत्तिम् च तथा तेषाम् ब्रूहि सर्वम् यथाश्रुतम् ॥ १ ॥
jyotiṣām ca eva liṃgānām māhātmyam kathaya adhunā .. utpattim ca tathā teṣām brūhi sarvam yathāśrutam .. 1 ..
सूत उवाच ।।
शृण्वन्तु विप्रा वक्ष्यामि तन्माहात्म्यं जनिं तथा ॥ संक्षेपतो यथाबुद्धि सद्गुरोश्च मया श्रुतम् ॥ २ ॥
शृण्वन्तु विप्राः वक्ष्यामि तद्-माहात्म्यम् जनिम् तथा ॥ संक्षेपतः यथाबुद्धि सत्-गुरोः च मया श्रुतम् ॥ २ ॥
śṛṇvantu viprāḥ vakṣyāmi tad-māhātmyam janim tathā .. saṃkṣepataḥ yathābuddhi sat-guroḥ ca mayā śrutam .. 2 ..
एतेषां चैव माहात्म्यं वक्तुं वर्षशतैरपि ॥ शक्यते न मुनिश्रेष्ठास्तथापि कथयामि वः ॥ ३ ॥
एतेषाम् च एव माहात्म्यम् वक्तुम् वर्ष-शतैः अपि ॥ शक्यते न मुनि-श्रेष्ठाः तथा अपि कथयामि वः ॥ ३ ॥
eteṣām ca eva māhātmyam vaktum varṣa-śataiḥ api .. śakyate na muni-śreṣṭhāḥ tathā api kathayāmi vaḥ .. 3 ..
सोमनाथश्च तेषां वै प्रथमः परिकीर्तितः ॥ तन्माहात्म्यं शृणु मुने प्रथमं सावधानतः ॥ ४ ॥
सोमनाथः च तेषाम् वै प्रथमः परिकीर्तितः ॥ तद्-माहात्म्यम् शृणु मुने प्रथमम् स अवधानतः ॥ ४ ॥
somanāthaḥ ca teṣām vai prathamaḥ parikīrtitaḥ .. tad-māhātmyam śṛṇu mune prathamam sa avadhānataḥ .. 4 ..
ChatCompletion(id='chatcmpl-9RP2xM4MYd3RtAS06JEOdCu3ZtwR2', choices=[Choice(finish_reason='stop', index=0, logprobs=None, message=ChatCompletionMessage(content='Word by word meaning:\n\nसोमनाथः - Somanath\nच - and\nतेषां - of them\nवै - indeed\nप्रथमः - foremost\nपरिकीर्तितः - praise, eulogized\nतत्माहात्म्यं - the greatness\nशृणु - listen\nमुने - O sage\nप्रथमं - foremost\nस सावधानतः - attentively\n\nComplete Meaning:\nO sage, the greatness of Somanath, who is foremost among them, has been eulogized. Listen attentively to that greatness.', role='assistant', function_call=None, tool_calls=None))], created=1716318163, model='gpt-3.5-turbo-0125', object='chat.completion', system_fingerprint=None, usage=CompletionUsage(completion_tokens=160, prompt_tokens=149, total_tokens=309))
सप्तविंशन्मिताः कन्या दक्षेण च महात्मना ॥ तेन चन्द्रमसे दत्ता अश्विन्याद्या मुनीश्वराः ॥ ५॥
सप्तविंशत्-मिताः कन्याः दक्षेण च महात्मना ॥ तेन चन्द्रमसे दत्ताः अश्विनी-आद्याः मुनि-ईश्वराः ॥ ५॥
saptaviṃśat-mitāḥ kanyāḥ dakṣeṇa ca mahātmanā .. tena candramase dattāḥ aśvinī-ādyāḥ muni-īśvarāḥ .. 5..
ChatCompletion(id='chatcmpl-9RkkIrBeRDBxQEUIqxyUBigUrnq6i', choices=[Choice(finish_reason='stop', index=0, logprobs=None, message=ChatCompletionMessage(content='Word by word meaning of the shloka:\n\nसप्तविंशन् - twenty-seven\nमिताः - in number\nकन्या - daughters\nदक्षेण - by Daksha\nच - and\nमहात त्मना - the great sage\nतेन - by him\nचन्द्रमसे - to the Moon\nदत्ता - given\nअश्विन्याद्या - headed by the Ashvins\nमुनीश्वराः - great sages\n\nCompl lete Meaning:\nThe twenty-seven daughters were given in marriage to the Moon by Daksha along with other daughters given by the great sage. The great sages headed by the Ashvins were also present at the marriage ceremony.', role='assistant', function_call=None, tool_calls=None))], created=1716401574, model='gpt-3.5-turbo-0125', object='chat.completion', system_fingerprint=None, usage=CompletionUsage(completion_tokens=187, prompt_tokens=151, total_tokens=338))
चन्द्रं च स्वामिनं प्राप्य शोभमाना विशेषतः ॥ चन्द्रोऽपि चैव ताः प्राप्य शोभते स्म निरन्तरम् ॥ ६ ॥
चन्द्रम् च स्वामिनम् प्राप्य शोभमानाः विशेषतः ॥ चन्द्रः अपि च एव ताः प्राप्य शोभते स्म निरन्तरम् ॥ ६ ॥
candram ca svāminam prāpya śobhamānāḥ viśeṣataḥ .. candraḥ api ca eva tāḥ prāpya śobhate sma nirantaram .. 6 ..
हेम्ना चैव मणिर्भाति मणिना हेम चैव हि ॥ एवं च समये तस्य यज्जातं श्रूयतामिति ॥ ७ ॥
हेम्ना च एव मणिः भाति मणिना हेम च एव हि ॥ एवम् च समये तस्य यत् जातम् श्रूयताम् इति ॥ ७ ॥
hemnā ca eva maṇiḥ bhāti maṇinā hema ca eva hi .. evam ca samaye tasya yat jātam śrūyatām iti .. 7 ..
सर्वास्वपि च पत्नीषु रोहिणीनाम या स्मृता ॥ यथैका सा प्रिया चासीत्तथान्या न कदाचन ॥ ८ ॥
सर्वासु अपि च पत्नीषु रोहिणी-नाम या स्मृता ॥ यथा एका सा प्रिया च आसीत् तथा अन्या न कदाचन ॥ ८ ॥
sarvāsu api ca patnīṣu rohiṇī-nāma yā smṛtā .. yathā ekā sā priyā ca āsīt tathā anyā na kadācana .. 8 ..
अन्याश्च दुःखमापन्नाः पितरं शरणं ययुः ॥ गत्वा तस्मै च यद्दुःखं तथा ताभिर्निवेदितम् ॥ ९ ॥
अन्याः च दुःखम् आपन्नाः पितरम् शरणम् ययुः ॥ गत्वा तस्मै च यत् दुःखम् तथा ताभिः निवेदितम् ॥ ९ ॥
anyāḥ ca duḥkham āpannāḥ pitaram śaraṇam yayuḥ .. gatvā tasmai ca yat duḥkham tathā tābhiḥ niveditam .. 9 ..
दक्षस्स च तथा श्रुत्वा दुःखं च प्राप्तावांस्तदा ॥ समागत्य द्विजाश्चन्द्रं शान्त्यावोचद्वचस्तदा ॥ 4.14.१० ॥
दक्षः स च तथा श्रुत्वा दुःखम् च प्राप्तावान् तदा ॥ समागत्य द्विजाः चन्द्रम् शान्त्या अवोचत् वचः तदा ॥ ४।१४।१० ॥
dakṣaḥ sa ca tathā śrutvā duḥkham ca prāptāvān tadā .. samāgatya dvijāḥ candram śāntyā avocat vacaḥ tadā .. 4.14.10 ..
दक्ष उवाच ।।
विमले च कुले त्वं हि समुत्पन्नः कलानिधे ॥ आश्रितेषु च सर्वेषु न्यूनाधिक्यं कथं तव ॥ ११ ॥
विमले च कुले त्वम् हि समुत्पन्नः कला-निधे ॥ आश्रितेषु च सर्वेषु न्यून-आधिक्यम् कथम् तव ॥ ११ ॥
vimale ca kule tvam hi samutpannaḥ kalā-nidhe .. āśriteṣu ca sarveṣu nyūna-ādhikyam katham tava .. 11 ..
कृतं चेत्तकृतं तच्च न कर्तव्यं त्वया पुनः ॥ वर्तनं विषमत्वेन नरकप्रदमीरितम् ॥ १२ ॥
कृतम् तत् च न कर्तव्यम् त्वया पुनर् ॥ वर्तनम् विषम-त्वेन नरक-प्रदम् ईरितम् ॥ १२ ॥
kṛtam tat ca na kartavyam tvayā punar .. vartanam viṣama-tvena naraka-pradam īritam .. 12 ..
सूत उवाच ।।
दक्षश्चैव च संप्रार्थ्य चन्द्रं जामातरं स्वयम्॥जगाम मन्दिरं स्वं वै निश्चयं परमं गतः ॥ १३॥
दक्षः च एव च संप्रार्थ्य चन्द्रम् जामातरम् स्वयम्॥जगाम मन्दिरम् स्वम् वै निश्चयम् परमम् गतः ॥ १३॥
dakṣaḥ ca eva ca saṃprārthya candram jāmātaram svayam..jagāma mandiram svam vai niścayam paramam gataḥ .. 13..
चंद्रोऽपि वचनं तस्य न चकार विमोहितः ॥ शिवमायाप्रभावेण यया संमोहितं जगत् ॥ १४ ॥
चंद्रः अपि वचनम् तस्य न चकार विमोहितः ॥ शिव-माया-प्रभावेण यया संमोहितम् जगत् ॥ १४ ॥
caṃdraḥ api vacanam tasya na cakāra vimohitaḥ .. śiva-māyā-prabhāveṇa yayā saṃmohitam jagat .. 14 ..
शुभं भावि यदा यस्य शुभं भवति तस्य वै ॥ अशुभं च यदा भावि कथं तस्य शुभं भवेत् ॥ १५॥
शुभम् भावि यदा यस्य शुभम् भवति तस्य वै ॥ अशुभम् च यदा भावि कथम् तस्य शुभम् भवेत् ॥ १५॥
śubham bhāvi yadā yasya śubham bhavati tasya vai .. aśubham ca yadā bhāvi katham tasya śubham bhavet .. 15..
चन्द्रोऽपि बलवद्भाविवशान्मेने न तद्वचः ॥ रोहिण्यां च समासक्तो नान्यां मेने कदाचन ॥ १६॥
चन्द्रः अपि बलवत्-भावि-वशात् मेने न तत् वचः ॥ रोहिण्याम् च समासक्तः न अन्याम् मेने कदाचन ॥ १६॥
candraḥ api balavat-bhāvi-vaśāt mene na tat vacaḥ .. rohiṇyām ca samāsaktaḥ na anyām mene kadācana .. 16..
तच्छ्रुत्वा पुनरागत्य स्वयं दुःखसमन्वितः ॥ प्रार्थयामास चन्द्रं स दक्षो दक्षस्सुनीतितः ॥ १७ ॥
तत् श्रुत्वा पुनर् आगत्य स्वयम् दुःख-समन्वितः ॥ प्रार्थयामास चन्द्रम् स दक्षः दक्षः सुनीतितः ॥ १७ ॥
tat śrutvā punar āgatya svayam duḥkha-samanvitaḥ .. prārthayāmāsa candram sa dakṣaḥ dakṣaḥ sunītitaḥ .. 17 ..
दक्ष उवाच ।।
श्रूयतां चन्द्र यत्पूर्वं प्रार्थितो बहुधा मया ॥ न मानितं त्वया यस्मात्तस्मात्त्वं च क्षयी भव ॥ १८॥
श्रूयताम् चन्द्र यत् पूर्वम् प्रार्थितः बहुधा मया ॥ न मानितम् त्वया यस्मात् तस्मात् त्वम् च क्षयी भव ॥ १८॥
śrūyatām candra yat pūrvam prārthitaḥ bahudhā mayā .. na mānitam tvayā yasmāt tasmāt tvam ca kṣayī bhava .. 18..
सूत उवाच।।
इत्युक्ते तेन चन्द्रो वै क्षयी जातः क्षणादिह ॥ हाहाकारो महानासीत्तदेन्दौ क्षीणतां गते ॥ १९ ॥
इति उक्ते तेन चन्द्रः वै क्षयी जातः क्षणात् इह ॥ हाहाकारः महान् आसीत् तदा इन्दौ क्षीण-ताम् गते ॥ १९ ॥
iti ukte tena candraḥ vai kṣayī jātaḥ kṣaṇāt iha .. hāhākāraḥ mahān āsīt tadā indau kṣīṇa-tām gate .. 19 ..
देवर्षयस्तदा सर्वे किं कार्य्यं हा कथं भवेत् ॥ इति दुःखं समापन्ना विह्वला ह्यभवन्मुने ॥ 4.14.२० ॥
देवर्षयः तदा सर्वे किम् कार्य्यम् हा कथम् भवेत् ॥ इति दुःखम् समापन्ना विह्वला हि अभवत् मुने ॥ ४।१४।२० ॥
devarṣayaḥ tadā sarve kim kāryyam hā katham bhavet .. iti duḥkham samāpannā vihvalā hi abhavat mune .. 4.14.20 ..
विज्ञापिताश्च चन्द्रेण सर्वे शक्रादयस्सुराः ॥ ऋषयश्च वसिष्ठाद्या ब्रह्माणं शरणं ययु ॥ २१॥
विज्ञापिताः च चन्द्रेण सर्वे शक्र-आदयः सुराः ॥ ऋषयः च वसिष्ठ-आद्याः ब्रह्माणम् शरणम् ययुः ॥ २१॥
vijñāpitāḥ ca candreṇa sarve śakra-ādayaḥ surāḥ .. ṛṣayaḥ ca vasiṣṭha-ādyāḥ brahmāṇam śaraṇam yayuḥ .. 21..
गत्वापि तु तदा प्रोचुस्तद्वृत्तं निखिलं मुने ॥ ब्रह्मणे ऋषयो देवा नत्वा नुत्वातिविह्वलाः ॥ २२ ॥
गत्वा अपि तु तदा प्रोचुः तत् वृत्तम् निखिलम् मुने ॥ ब्रह्मणे ऋषयः देवाः नत्वा नुत्वा अति विह्वलाः ॥ २२ ॥
gatvā api tu tadā procuḥ tat vṛttam nikhilam mune .. brahmaṇe ṛṣayaḥ devāḥ natvā nutvā ati vihvalāḥ .. 22 ..
ब्रह्मापि तद्वचः श्रुत्वा विस्मयं परमं ययौ ॥ शिवमायां सुप्रशस्य श्रावयंस्तानुवाच ह ॥ २३ ॥
ब्रह्मा अपि तत् वचः श्रुत्वा विस्मयम् परमम् ययौ ॥ शिव-मायाम् सु प्रशस्य श्रावयन् तान् उवाच ह ॥ २३ ॥
brahmā api tat vacaḥ śrutvā vismayam paramam yayau .. śiva-māyām su praśasya śrāvayan tān uvāca ha .. 23 ..
ब्रह्मोवाच ।।
अहो कष्टं महज्जातं सर्वलोकस्य दुःखदम् ॥ चन्द्रस्तु सर्वदा दुष्टो दक्षश्च शप्तवानमुम् ॥ २४ ॥
अहो कष्टम् महत् जातम् सर्व-लोकस्य दुःख-दम् ॥ चन्द्रः तु सर्वदा दुष्टः दक्षः च शप्तवान् अमुम् ॥ २४ ॥
aho kaṣṭam mahat jātam sarva-lokasya duḥkha-dam .. candraḥ tu sarvadā duṣṭaḥ dakṣaḥ ca śaptavān amum .. 24 ..
सर्वं दुष्टेन चन्द्रेण कृतं कर्माप्यनेकशः ॥ श्रूयतामृषयो देवाश्चन्द्रकृत्यं पुरातनम् ॥ २५॥
सर्वम् दुष्टेन चन्द्रेण कृतम् कर्म अपि अनेकशस् ॥ श्रूयताम् ऋषयः देवाः चन्द्र-कृत्यम् पुरातनम् ॥ २५॥
sarvam duṣṭena candreṇa kṛtam karma api anekaśas .. śrūyatām ṛṣayaḥ devāḥ candra-kṛtyam purātanam .. 25..
बृहस्पतेर्गृहं गत्वा तारा दुष्टेन वै हृता ॥ तस्य भार्या पुनश्चैव स दैत्यान्समुपस्थितः ॥ २६॥
बृहस्पतेः गृहम् गत्वा तारा दुष्टेन वै हृता ॥ तस्य भार्या पुनर् च एव स दैत्यान् समुपस्थितः ॥ २६॥
bṛhaspateḥ gṛham gatvā tārā duṣṭena vai hṛtā .. tasya bhāryā punar ca eva sa daityān samupasthitaḥ .. 26..
समाश्रितस्तदा दैत्यान्युद्धं देवैश्चकार ह ॥ मयाऽत्रिणा निषिद्धश्च तस्मै तारां ददौ शशी ॥ २५७ ॥
समाश्रितः तदा दैत्यान् युद्धम् देवैः चकार ह ॥ मया अत्रिणा निषिद्धः च तस्मै ताराम् ददौ शशी ॥ २५७ ॥
samāśritaḥ tadā daityān yuddham devaiḥ cakāra ha .. mayā atriṇā niṣiddhaḥ ca tasmai tārām dadau śaśī .. 257 ..
तां च गर्भवतीं दृष्ट्वा न गृह्णामीति सोऽब्रवीत् ॥ अस्माभिर्वारितो जीवः कृच्छ्राज्जग्राह तां तदा ॥ २८ ॥
ताम् च गर्भवतीम् दृष्ट्वा न गृह्णामि इति सः अब्रवीत् ॥ अस्माभिः वारितः जीवः कृच्छ्रात् जग्राह ताम् तदा ॥ २८ ॥
tām ca garbhavatīm dṛṣṭvā na gṛhṇāmi iti saḥ abravīt .. asmābhiḥ vāritaḥ jīvaḥ kṛcchrāt jagrāha tām tadā .. 28 ..
यदि गर्भं जहातीह गृह्णामीत्यब्रवीत्पुनः ॥ गर्भे मया पुनस्तत्र त्याजिते मुनिसत्तमाः ॥ २९ ॥
यदि गर्भम् जहाति इह गृह्णामि इति अब्रवीत् पुनर् ॥ गर्भे मया पुनर् तत्र त्याजिते मुनि-सत्तमाः ॥ २९ ॥
yadi garbham jahāti iha gṛhṇāmi iti abravīt punar .. garbhe mayā punar tatra tyājite muni-sattamāḥ .. 29 ..
कस्यायं च पुनर्गर्भस्सोमस्येति च साऽब्रवीत् ॥ पश्चात्तेन गृहीता सा मया च वारितेन वै ॥ 4.14.३० ॥
कस्य अयम् च पुनर् गर्भः सोमस्य इति च सा अब्रवीत् ॥ पश्चात् तेन गृहीता सा मया च वारितेन वै ॥ ४।१४।३० ॥
kasya ayam ca punar garbhaḥ somasya iti ca sā abravīt .. paścāt tena gṛhītā sā mayā ca vāritena vai .. 4.14.30 ..
एवंविधानि चन्द्रस्य दुश्चारित्राण्यनेकशः ॥ वर्ण्यंते किं पुनस्तानि सोऽद्यापि कुरुते कथम् ॥ ३१॥
एवंविधानि चन्द्रस्य दुश्चारित्राणि अनेकशस् ॥ वर्ण्यंते किम् पुनर् तानि सः अद्य अपि कुरुते कथम् ॥ ३१॥
evaṃvidhāni candrasya duścāritrāṇi anekaśas .. varṇyaṃte kim punar tāni saḥ adya api kurute katham .. 31..
यज्जातं तत्सुसंजातं नान्यथा भवति ध्रुवम् ॥ अतः परमुपायं वो वक्ष्यामि शृणुतादरात् ॥ ३२ ॥
यत् जातम् तत् सु संजातम् न अन्यथा भवति ध्रुवम् ॥ अतस् परम् उपायम् वः वक्ष्यामि शृणुत आदरात् ॥ ३२ ॥
yat jātam tat su saṃjātam na anyathā bhavati dhruvam .. atas param upāyam vaḥ vakṣyāmi śṛṇuta ādarāt .. 32 ..
प्रभासके शुभे क्षेत्रे व्रजेश्चन्द्रस्सदैवतैः ॥ शिवमाराधयेत्तत्र मृत्युञ्जयविधानतः ॥ ३३ ॥
प्रभासके शुभे क्षेत्रे व्रजेः चन्द्रः स दैवतैः ॥ शिवम् आराधयेत् तत्र मृत्युञ्जय-विधानतः ॥ ३३ ॥
prabhāsake śubhe kṣetre vrajeḥ candraḥ sa daivataiḥ .. śivam ārādhayet tatra mṛtyuñjaya-vidhānataḥ .. 33 ..
निधायेशं पुरस्तत्र चन्द्रस्तपतु नित्यशः ॥ प्रसन्नश्च शिवः पश्चादक्षयं तं करिष्यति ॥ ३४॥
निधाय ईशम् पुरस् तत्र चन्द्रः तपतु नित्यशस् ॥ प्रसन्नः च शिवः पश्चात् अक्षयम् तम् करिष्यति ॥ ३४॥
nidhāya īśam puras tatra candraḥ tapatu nityaśas .. prasannaḥ ca śivaḥ paścāt akṣayam tam kariṣyati .. 34..
सूत उवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मणस्ते सुरर्षयः ॥ संनिवृत्याययुस्सर्वे यत्र दक्षविधू ततः ॥ ३५ ॥
इति श्रुत्वा वचः तस्य ब्रह्मणः ते सुर-ऋषयः ॥ संनिवृत्य आययुः सर्वे यत्र दक्ष-विधू ततस् ॥ ३५ ॥
iti śrutvā vacaḥ tasya brahmaṇaḥ te sura-ṛṣayaḥ .. saṃnivṛtya āyayuḥ sarve yatra dakṣa-vidhū tatas .. 35 ..
गृहीत्वा ते ततश्चन्द्रं दक्षं चाश्वास्य निर्जराः ॥ प्रभासे ऋषयश्चक्रुस्तत्र गत्वाखिलाश्च वै ॥ ३६ ॥
गृहीत्वा ते ततस् चन्द्रम् दक्षम् च आश्वास्य निर्जराः ॥ प्रभासे ऋषयः चक्रुः तत्र गत्वा अखिलाः च वै ॥ ३६ ॥
gṛhītvā te tatas candram dakṣam ca āśvāsya nirjarāḥ .. prabhāse ṛṣayaḥ cakruḥ tatra gatvā akhilāḥ ca vai .. 36 ..
आवाह्य तीर्थवर्याणि सरस्वत्यादिकानि च ॥ पार्थिवेन तदा पूजां मृत्युञ्जयविधानतः ॥ ३७॥
आवाह्य तीर्थ-वर्याणि सरस्वती-आदिकानि च ॥ पार्थिवेन तदा पूजाम् मृत्युञ्जय-विधानतः ॥ ३७॥
āvāhya tīrtha-varyāṇi sarasvatī-ādikāni ca .. pārthivena tadā pūjām mṛtyuñjaya-vidhānataḥ .. 37..
ते देवाश्च तदा सर्वे ऋषयो निर्मलाशयाः ॥ स्थाप्य चन्द्रं प्रभासे च स्वंस्वं धाम ययुर्मुदा ॥ ३८॥
ते देवाः च तदा सर्वे ऋषयः निर्मल-आशयाः ॥ स्थाप्य चन्द्रम् प्रभासे च स्वम् स्वम् धाम ययुः मुदा ॥ ३८॥
te devāḥ ca tadā sarve ṛṣayaḥ nirmala-āśayāḥ .. sthāpya candram prabhāse ca svam svam dhāma yayuḥ mudā .. 38..
चन्द्रेण च तपस्तप्तं पण्मासं च निरंतरम् ॥ मृत्युंजयेन मंत्रेण पूजितो वृषभध्वजः ॥ ३९॥
चन्द्रेण च तपः तप्तम् पष्-मासम् च निरंतरम् ॥ मृत्युंजयेन मंत्रेण पूजितः वृषभध्वजः ॥ ३९॥
candreṇa ca tapaḥ taptam paṣ-māsam ca niraṃtaram .. mṛtyuṃjayena maṃtreṇa pūjitaḥ vṛṣabhadhvajaḥ .. 39..
दशकोटिमितं मन्त्रं समावृत्य शशी च तम् ॥ ।ध्यात्वा मृत्युञ्जयं मन्त्रं तस्थौ निश्चलमानसः ॥ 4.14.४० ॥
दश-कोटि-मितम् मन्त्रम् समावृत्य शशी च तम् ॥ ।ध्यात्वा मृत्युञ्जयम् मन्त्रम् तस्थौ निश्चल-मानसः ॥ ४।१४।४० ॥
daśa-koṭi-mitam mantram samāvṛtya śaśī ca tam .. .dhyātvā mṛtyuñjayam mantram tasthau niścala-mānasaḥ .. 4.14.40 ..
तं दृष्ट्वा शंकरो देवः प्रसन्नोऽभूत्ततः प्रभुः ॥ आविर्भूय विधुं प्राह स्वभक्तं भक्तवत्सलः ॥ ४१॥
तम् दृष्ट्वा शंकरः देवः प्रसन्नः अभूत् ततस् प्रभुः ॥ आविस् भूय विधुम् प्राह स्व-भक्तम् भक्त-वत्सलः ॥ ४१॥
tam dṛṣṭvā śaṃkaraḥ devaḥ prasannaḥ abhūt tatas prabhuḥ .. āvis bhūya vidhum prāha sva-bhaktam bhakta-vatsalaḥ .. 41..
शंकर उवाच।।
वरं वृणीष्व भद्रं ते मनसा यत्समीप्सितम्॥प्रसन्नोऽहं शशिन्सर्वं दास्ये वरमनुत्तमम् ॥ ४२॥
वरम् वृणीष्व भद्रम् ते मनसा यत् समीप्सितम्॥प्रसन्नः अहम् शशिन् सर्वम् दास्ये वरम् अनुत्तमम् ॥ ४२॥
varam vṛṇīṣva bhadram te manasā yat samīpsitam..prasannaḥ aham śaśin sarvam dāsye varam anuttamam .. 42..
चंद्र उवाच ।।
यदि प्रसन्नो देवेश किमसाध्यं भवेन्मम ॥ तथापि मे शरीरस्य क्षयं वारय शंकर॥४३॥
यदि प्रसन्नः देवेश किम् असाध्यम् भवेत् मम ॥ तथा अपि मे शरीरस्य क्षयम् वारय शंकर॥४३॥
yadi prasannaḥ deveśa kim asādhyam bhavet mama .. tathā api me śarīrasya kṣayam vāraya śaṃkara..43..
क्षंतव्यो मेऽपराधश्च कल्याणं कुरु सर्वदा॥इत्युक्ते च तदा तेन शिवो वचनमब्रवीत्॥४४॥
क्षंतव्यः मे अपराधः च कल्याणम् कुरु सर्वदा॥इति उक्ते च तदा तेन शिवः वचनम् अब्रवीत्॥४४॥
kṣaṃtavyaḥ me aparādhaḥ ca kalyāṇam kuru sarvadā..iti ukte ca tadā tena śivaḥ vacanam abravīt..44..
शिव उवाच।।
पक्षे च क्षीयतां चन्द्र कला ते च दिनेदिने॥पुनश्च वर्द्धतां पक्षे सा कला च निरंतरम् ॥ ४५ ॥
पक्षे च क्षीयताम् चन्द्र कला ते च दिने दिने॥पुनर् च वर्द्धताम् पक्षे सा कला च निरंतरम् ॥ ४५ ॥
pakṣe ca kṣīyatām candra kalā te ca dine dine..punar ca varddhatām pakṣe sā kalā ca niraṃtaram .. 45 ..
सूत उवाच ।।
एवं सति तदा देवा हर्षनिर्भरमानसाः ॥ ऋषयश्च तथा सर्वे समाजग्मुर्द्रुतं द्विजाः॥४६॥
एवम् सति तदा देवाः हर्ष-निर्भर-मानसाः ॥ ऋषयः च तथा सर्वे समाजग्मुः द्रुतम् द्विजाः॥४६॥
evam sati tadā devāḥ harṣa-nirbhara-mānasāḥ .. ṛṣayaḥ ca tathā sarve samājagmuḥ drutam dvijāḥ..46..
आगत्य च तदा सर्वे चन्द्रायाशिषमब्रुवन् ॥ शिवं नत्वा करौ बद्ध्वा प्रार्थयामासुरादरात्॥४७॥
आगत्य च तदा सर्वे चन्द्राय आशिषम् अब्रुवन् ॥ शिवम् नत्वा करौ बद्ध्वा प्रार्थयामासुः आदरात्॥४७॥
āgatya ca tadā sarve candrāya āśiṣam abruvan .. śivam natvā karau baddhvā prārthayāmāsuḥ ādarāt..47..
देवाः ऊचुः।।
देवदेव महादेव परमेश नमोऽस्तु ते ॥ उमया सहितश्शंभो स्वामिन्नत्र स्थिरो भव ॥ ४८ ॥
देवदेव महादेव परमेश नमः अस्तु ते ॥ उमया सहितः शंभो स्वामिन् अत्र स्थिरः भव ॥ ४८ ॥
devadeva mahādeva parameśa namaḥ astu te .. umayā sahitaḥ śaṃbho svāmin atra sthiraḥ bhava .. 48 ..
सूत उवाच।।
ततश्चन्द्रेण सद्भक्त्या संस्तुतश्शंकरः पुरा ॥ निराकारश्च साकारः पुनश्चैवाभवत्प्रभुः ॥ ४९ ॥
ततस् चन्द्रेण सत्-भक्त्या संस्तुतः शंकरः पुरा ॥ निराकारः च स आकारः पुनर् च एव अभवत् प्रभुः ॥ ४९ ॥
tatas candreṇa sat-bhaktyā saṃstutaḥ śaṃkaraḥ purā .. nirākāraḥ ca sa ākāraḥ punar ca eva abhavat prabhuḥ .. 49 ..
प्रसन्नश्च स देवानां क्षेत्रमाहात्म्यहेतवे ॥ चन्द्रस्य यशसे तत्र नाम्ना चन्द्रस्य शंकरः ॥ 4.14.५० ॥
प्रसन्नः च स देवानाम् क्षेत्र-माहात्म्य-हेतवे ॥ चन्द्रस्य यशसे तत्र नाम्ना चन्द्रस्य शंकरः ॥ ४।१४।५० ॥
prasannaḥ ca sa devānām kṣetra-māhātmya-hetave .. candrasya yaśase tatra nāmnā candrasya śaṃkaraḥ .. 4.14.50 ..
सोमेश्वरश्च नामासीद्विख्यातो भुवन त्रये ॥ क्षयकुष्ठादिरोगाणां नाशकः पूजनाद्द्विजाः ॥ ५१॥
सोमेश्वरः च नाम आसीत् विख्यातः भुवन त्रये ॥ क्षय-कुष्ठ-आदि-रोगाणाम् नाशकः पूजनात् द्विजाः ॥ ५१॥
someśvaraḥ ca nāma āsīt vikhyātaḥ bhuvana traye .. kṣaya-kuṣṭha-ādi-rogāṇām nāśakaḥ pūjanāt dvijāḥ .. 51..
धन्योऽयं कृतकृत्योयं यन्नाम्ना शंकरस्स्वयम्॥स्थितश्च जगतां नाथः पावयञ्जगतीतलम्॥५२॥
धन्यः अयम् कृतकृत्यः यम् यद्-नाम्ना शंकरः स्वयम्॥स्थितः च जगताम् नाथः पावयन् जगती-तलम्॥५२॥
dhanyaḥ ayam kṛtakṛtyaḥ yam yad-nāmnā śaṃkaraḥ svayam..sthitaḥ ca jagatām nāthaḥ pāvayan jagatī-talam..52..
तत्कुंडं तैश्च तत्रैव सर्वैर्देवैः प्रतिष्ठितम्॥शिवेन ब्रह्मणा तत्र ह्यविभक्तं तु तत्पुनः॥५३॥
तत् कुंडम् तैः च तत्र एव सर्वैः देवैः प्रतिष्ठितम्॥शिवेन ब्रह्मणा तत्र हि अविभक्तम् तु तत् पुनर्॥५३॥
tat kuṃḍam taiḥ ca tatra eva sarvaiḥ devaiḥ pratiṣṭhitam..śivena brahmaṇā tatra hi avibhaktam tu tat punar..53..
चन्द्रकुण्डं प्रसिद्धं च पृथिव्यां पापनाशनम्॥तत्र स्नाति नरो यस्स सर्वैः पापैः प्रमुच्यते ॥ ५४ ॥
चन्द्रकुण्डम् प्रसिद्धम् च पृथिव्याम् पाप-नाशनम्॥तत्र स्नाति नरः यः स सर्वैः पापैः प्रमुच्यते ॥ ५४ ॥
candrakuṇḍam prasiddham ca pṛthivyām pāpa-nāśanam..tatra snāti naraḥ yaḥ sa sarvaiḥ pāpaiḥ pramucyate .. 54 ..
रोगास्सर्वे क्षयाद्याश्च ह्यसाध्या ये भवंति वै॥ते सर्वे च क्षयं यान्ति षण्मासं स्नानमात्रतः ॥ ५५ ॥
रोगाः सर्वे क्षय-आद्याः च हि असाध्याः ये भवन्ति वै॥ते सर्वे च क्षयम् यान्ति षष्-मासम् स्नान-मात्रतः ॥ ५५ ॥
rogāḥ sarve kṣaya-ādyāḥ ca hi asādhyāḥ ye bhavanti vai..te sarve ca kṣayam yānti ṣaṣ-māsam snāna-mātrataḥ .. 55 ..
प्रभासं च परिक्रम्य पृथिवीक्रमसंभवम् ॥ फलं प्राप्नोति शुद्धात्मा मृतः स्वर्गे महीयते ॥ ५६॥
प्रभासम् च परिक्रम्य पृथिवी-क्रम-संभवम् ॥ फलम् प्राप्नोति शुद्ध-आत्मा मृतः स्वर्गे महीयते ॥ ५६॥
prabhāsam ca parikramya pṛthivī-krama-saṃbhavam .. phalam prāpnoti śuddha-ātmā mṛtaḥ svarge mahīyate .. 56..
सोमलिंगं नरो दृष्ट्वा सर्वपापात्प्रमुच्यते ॥ लब्ध्वा फलं मनोभीष्टं मृतस्स्वर्गं समीहते ॥ ५७ ॥
सोम-लिंगम् नरः दृष्ट्वा सर्व-पापात् प्रमुच्यते ॥ लब्ध्वा फलम् मनः-भीष्टम् मृतः स्वर्गम् समीहते ॥ ५७ ॥
soma-liṃgam naraḥ dṛṣṭvā sarva-pāpāt pramucyate .. labdhvā phalam manaḥ-bhīṣṭam mṛtaḥ svargam samīhate .. 57 ..
यद्यत्फलं समुद्दिश्य कुरुते तीर्थमुत्तमम्॥तत्तत्फलमवाप्नोति सर्वथा नात्र संशयः॥५८॥
यत् यत् फलम् समुद्दिश्य कुरुते तीर्थम् उत्तमम्॥तत् तत् फलम् अवाप्नोति सर्वथा न अत्र संशयः॥५८॥
yat yat phalam samuddiśya kurute tīrtham uttamam..tat tat phalam avāpnoti sarvathā na atra saṃśayaḥ..58..
इति ते ऋषयो देवाः फलं दृष्ट्वा तथाविधम् ॥ मुदा शिवं नमस्कृत्य गृहीत्वा चन्द्रमक्षयम् ॥ ५९ ॥
इति ते ऋषयः देवाः फलम् दृष्ट्वा तथाविधम् ॥ मुदा शिवम् नमस्कृत्य गृहीत्वा चन्द्रम् अक्षयम् ॥ ५९ ॥
iti te ṛṣayaḥ devāḥ phalam dṛṣṭvā tathāvidham .. mudā śivam namaskṛtya gṛhītvā candram akṣayam .. 59 ..
परिक्रम्य च तत्तीर्थं प्रशंसन्तश्च ते ययुः ॥ चंद्रश्चापि स्वकीयं च कार्य्यं चक्रे पुरातनम् ॥ 4.14.६० ॥
परिक्रम्य च तत् तीर्थम् प्रशंसन्तः च ते ययुः ॥ चंद्रः च अपि स्वकीयम् च कार्य्यम् चक्रे पुरातनम् ॥ ४।१४।६० ॥
parikramya ca tat tīrtham praśaṃsantaḥ ca te yayuḥ .. caṃdraḥ ca api svakīyam ca kāryyam cakre purātanam .. 4.14.60 ..
इति सर्वः समाख्यातः सोमेशस्य समुद्भवः ॥ एवं सोमेश्वरं लिंगं समुत्पन्नं मुनीश्वराः ॥ ६१ ॥
इति सर्वः समाख्यातः सोमेशस्य समुद्भवः ॥ एवम् सोमेश्वरम् लिंगम् समुत्पन्नम् मुनि-ईश्वराः ॥ ६१ ॥
iti sarvaḥ samākhyātaḥ someśasya samudbhavaḥ .. evam someśvaram liṃgam samutpannam muni-īśvarāḥ .. 61 ..
यः शृणोति तदुत्पत्तिं श्रावयेद्वा परान्नरः ॥ सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते ॥ ६२ ॥
यः शृणोति तद्-उत्पत्तिम् श्रावयेत् वा परान् नरः ॥ सर्वान् कामान् अवाप्नोति सर्व-पापैः प्रमुच्यते ॥ ६२ ॥
yaḥ śṛṇoti tad-utpattim śrāvayet vā parān naraḥ .. sarvān kāmān avāpnoti sarva-pāpaiḥ pramucyate .. 62 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सोमनाथज्योतिर्लिंगोत्पत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ।
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् सोमनाथज्योतिर्लिंगोत्पत्तिवर्णनम् नाम चतुर्दशः अध्यायः ॥ १४ ॥ ।
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām somanāthajyotirliṃgotpattivarṇanam nāma caturdaśaḥ adhyāyaḥ .. 14 .. .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In