| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् ॥ यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते ॥ १ ॥
अतस् परम् प्रवक्ष्यामि मल्लिकार्जुन-संभवम् ॥ यः श्रुत्वा भक्तिमान् धीमान् सर्व-पापैः प्रमुच्यते ॥ १ ॥
atas param pravakṣyāmi mallikārjuna-saṃbhavam .. yaḥ śrutvā bhaktimān dhīmān sarva-pāpaiḥ pramucyate .. 1 ..
पूर्वं चा कथितं यच्च तत्पुनः कथयाम्यहम् ॥ कुमारचरितं दिव्यं सर्वपापविनाशनम् ॥ २॥
पूर्वम् कथितम् यत् च तत् पुनर् कथयामि अहम् ॥ कुमारचरितम् दिव्यम् सर्व-पाप-विनाशनम् ॥ २॥
pūrvam kathitam yat ca tat punar kathayāmi aham .. kumāracaritam divyam sarva-pāpa-vināśanam .. 2..
यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः ॥ कुमारस्स शिवापुत्रस्तारकारिर्महाबलः ॥ ३ ॥
यदा पृथ्वीम् समाक्रम्य कैलासम् पुनर् आगतः ॥ कुमारः स शिवा-पुत्रः तारकारिः महा-बलः ॥ ३ ॥
yadā pṛthvīm samākramya kailāsam punar āgataḥ .. kumāraḥ sa śivā-putraḥ tārakāriḥ mahā-balaḥ .. 3 ..
तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह ॥ गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः ॥ ४ ॥
तदा सुरर्षिः आगत्य सर्वम् वृत्तम् जगाद ह ॥ गणेश्वर-विवाह-आदि भ्रामयन् तम् स्व-बुद्धितः ॥ ४ ॥
tadā surarṣiḥ āgatya sarvam vṛttam jagāda ha .. gaṇeśvara-vivāha-ādi bhrāmayan tam sva-buddhitaḥ .. 4 ..
तच्छुत्वा स कुमारो हि प्रणम्य पितरौ च तौ ॥ जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि हि ॥ ५ ॥
तत् शुत्वा स कुमारः हि प्रणम्य पितरौ च तौ ॥ जगाम पर्वतम् क्रौचम् पितृभ्याम् वारितः अपि हि ॥ ५ ॥
tat śutvā sa kumāraḥ hi praṇamya pitarau ca tau .. jagāma parvatam kraucam pitṛbhyām vāritaḥ api hi .. 5 ..
कुमारस्य वियोगेन तन्माता गिरिजा यदा ॥ दुःखितासीत्तदा शंभुस्तामुवाच सुबोधकृत् ॥ ६ ॥
कुमारस्य वियोगेन तद्-माता गिरिजा यदा ॥ दुःखिता आसीत् तदा शंभुः ताम् उवाच सुबोधकृत् ॥ ६ ॥
kumārasya viyogena tad-mātā girijā yadā .. duḥkhitā āsīt tadā śaṃbhuḥ tām uvāca subodhakṛt .. 6 ..
कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति ॥ आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम् ॥ ७ ॥
कथम् प्रिये दुःखिता असि न दुःखम् कुरु पार्वति ॥ आयास्यति सुतः सुभ्रूः त्यज्यताम् दुःखम् उत्कटम् ॥ ७ ॥
katham priye duḥkhitā asi na duḥkham kuru pārvati .. āyāsyati sutaḥ subhrūḥ tyajyatām duḥkham utkaṭam .. 7 ..
सा यदा च न तन्मेने पार्वती दुःखिता भृशम् ॥ तदा च प्रेषितास्तत्र शंकरेण सुरर्षयः ॥ ८ ॥
सा यदा च न तत् मेने पार्वती दुःखिता भृशम् ॥ तदा च प्रेषिताः तत्र शंकरेण सुर-ऋषयः ॥ ८ ॥
sā yadā ca na tat mene pārvatī duḥkhitā bhṛśam .. tadā ca preṣitāḥ tatra śaṃkareṇa sura-ṛṣayaḥ .. 8 ..
देवाश्च ऋषयस्सर्वे सगणा हि मुदान्विताः ॥ कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः ॥ ९ ॥
देवाः च ऋषयः सर्वे स गणाः हि मुदा अन्विताः ॥ कुमार-आनयन-अर्थम् वै तत्र जग्मुः सु बुद्धयः ॥ ९ ॥
devāḥ ca ṛṣayaḥ sarve sa gaṇāḥ hi mudā anvitāḥ .. kumāra-ānayana-artham vai tatra jagmuḥ su buddhayaḥ .. 9 ..
तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च ॥ विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात् ॥ 4.15.१० ॥
तत्र गत्वा च ते सर्वे कुमारम् सु प्रणम्य च ॥ विज्ञाप्य बहुधा अपि एनम् प्रार्थनाम् चक्रुः आदरात् ॥ ४।१५।१० ॥
tatra gatvā ca te sarve kumāram su praṇamya ca .. vijñāpya bahudhā api enam prārthanām cakruḥ ādarāt .. 4.15.10 ..
देवादिप्रार्थनां तां च शिवाज्ञासंकुलां गुरुः ॥ न मेने स कुमारो हि महाहंकारविह्वलः ॥ ११ ॥
देव-आदि-प्रार्थनाम् ताम् च शिव-आज्ञा-संकुलाम् गुरुः ॥ न मेने स कुमारः हि महा-अहंकार-विह्वलः ॥ ११ ॥
deva-ādi-prārthanām tām ca śiva-ājñā-saṃkulām guruḥ .. na mene sa kumāraḥ hi mahā-ahaṃkāra-vihvalaḥ .. 11 ..
ततश्च पुनरावृत्य सर्वे ते हि शिवांतिकम् ॥ स्वंस्वं स्थानं गता नत्वा प्राप्य शंकरशासनम् ॥ १२॥
ततस् च पुनर् आवृत्य सर्वे ते हि शिव-अंतिकम् ॥ स्वम् स्वम् स्थानम् गताः नत्वा प्राप्य शंकर-शासनम् ॥ १२॥
tatas ca punar āvṛtya sarve te hi śiva-aṃtikam .. svam svam sthānam gatāḥ natvā prāpya śaṃkara-śāsanam .. 12..
तदा च गिरिजादेवी विरहं पुत्रसंभवम् ॥ शंभुश्च परमं दुःखं प्राप तस्मिन्ननागते ॥ १३ ॥
तदा च गिरिजा-देवी विरहम् पुत्र-संभवम् ॥ शंभुः च परमम् दुःखम् प्राप तस्मिन् अनागते ॥ १३ ॥
tadā ca girijā-devī viraham putra-saṃbhavam .. śaṃbhuḥ ca paramam duḥkham prāpa tasmin anāgate .. 13 ..
अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा ॥ जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः ॥ १४ ॥
अथो सु दुःखितौ दीनौ लोक-आचार-करौ तदा ॥ जग्मतुः तत्र सु स्नेहात् स्व-पुत्रः यत्र संस्थितः ॥ १४ ॥
atho su duḥkhitau dīnau loka-ācāra-karau tadā .. jagmatuḥ tatra su snehāt sva-putraḥ yatra saṃsthitaḥ .. 14 ..
स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः ॥ ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च ॥ १५ ॥
स पुत्रः च कुमार-आख्यः पित्रोः आगमनम् गिरेः ॥ ज्ञात्वा दूरम् गतः अस्नेहात् योजन-त्रयम् एव च ॥ १५ ॥
sa putraḥ ca kumāra-ākhyaḥ pitroḥ āgamanam gireḥ .. jñātvā dūram gataḥ asnehāt yojana-trayam eva ca .. 15 ..
क्रौंचे च पर्वते दूरं गते तस्मिन्स्वपुत्रके ॥ तौ च तत्र समासीनौ ज्यो तीरूपं समाश्रितौ ॥ १६ ॥
क्रौंचे च पर्वते दूरम् गते तस्मिन् स्व-पुत्रके ॥ तौ च तत्र समासीनौ ज्यो तीरूपम् समाश्रितौ ॥ १६ ॥
krauṃce ca parvate dūram gate tasmin sva-putrake .. tau ca tatra samāsīnau jyo tīrūpam samāśritau .. 16 ..
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणिपर्वणि ॥ दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः ॥ १७ ॥
पुत्र-स्नेह-आतुरौ तौ वै शिवौ पर्वणि पर्वणि ॥ दर्शन-अर्थम् कुमारस्य स्व-पुत्रस्य हि गच्छतः ॥ १७ ॥
putra-sneha-āturau tau vai śivau parvaṇi parvaṇi .. darśana-artham kumārasya sva-putrasya hi gacchataḥ .. 17 ..
अमावास्यादिने शंभुस्स्वयं गच्छति तत्र ह ॥ पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम् ॥ १८ ॥
अमावास्या-दिने शंभुः स्वयम् गच्छति तत्र ह ॥ पौर्णमासी-दिने तत्र पार्वती गच्छति ध्रुवम् ॥ १८ ॥
amāvāsyā-dine śaṃbhuḥ svayam gacchati tatra ha .. paurṇamāsī-dine tatra pārvatī gacchati dhruvam .. 18 ..
तद्दिनं हि समारभ्य मल्लिकार्जुनसंभवम् ॥ लिंगं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये ॥ १९ ॥
तत् दिनम् हि समारभ्य मल्लिकार्जुन-संभवम् ॥ लिंगम् च एव शिवस्य एकम् प्रसिद्धम् भुवनत्रये ॥ १९ ॥
tat dinam hi samārabhya mallikārjuna-saṃbhavam .. liṃgam ca eva śivasya ekam prasiddham bhuvanatraye .. 19 ..
तल्लिंगं यः समीक्षेत स सर्वैः किल्बिषैरपि ॥ मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात् ॥ 4.15.२० ॥
तद्-लिंगम् यः समीक्षेत स सर्वैः किल्बिषैः अपि ॥ मुच्यते न अत्र सन्देहः सर्वान् कामान् अवाप्नुयात् ॥ ४।१५।२० ॥
tad-liṃgam yaḥ samīkṣeta sa sarvaiḥ kilbiṣaiḥ api .. mucyate na atra sandehaḥ sarvān kāmān avāpnuyāt .. 4.15.20 ..
दुःखं च दूरतो याति सुखमात्यंतिकं लभेत् ॥ जननीगर्भसंभूतं कष्टं नाप्नोति वै पुनः ॥ २१ ॥
दुःखम् च दूरतस् याति सुखम् आत्यंतिकम् लभेत् ॥ जननी-गर्भ-संभूतम् कष्टम् ना आप्नोति वै पुनर् ॥ २१ ॥
duḥkham ca dūratas yāti sukham ātyaṃtikam labhet .. jananī-garbha-saṃbhūtam kaṣṭam nā āpnoti vai punar .. 21 ..
धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च ॥ अभीष्टफलसिद्धिश्च जायते नात्र संशयः ॥ २२ ॥
धन-धान्य-समृद्धिः च प्रतिष्ठा आरोग्यम् एव च ॥ अभीष्ट-फल-सिद्धिः च जायते न अत्र संशयः ॥ २२ ॥
dhana-dhānya-samṛddhiḥ ca pratiṣṭhā ārogyam eva ca .. abhīṣṭa-phala-siddhiḥ ca jāyate na atra saṃśayaḥ .. 22 ..
ज्योतिर्लिंगं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् ॥ दर्शनात्सर्वसुखदं कथितं लोकहेतवे ॥ २३ ॥
ज्योतिर्लिंगम् द्वितीयम् च प्रोक्तम् मल्लिक-संज्ञितम् ॥ दर्शनात् सर्व-सुख-दम् कथितम् लोक-हेतवे ॥ २३ ॥
jyotirliṃgam dvitīyam ca proktam mallika-saṃjñitam .. darśanāt sarva-sukha-dam kathitam loka-hetave .. 23 ..
इति श्रीशिवपुराणे चतुर्थ्यां कोटि रुद्रसंहिताया मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥
इति श्री-शिवपुराणे चतुर्थ्याम् कोटि रुद्रसंहितायाः मल्लिकार्जुन-द्वितीय-ज्योतिर्लिंगवर्णनम् नाम पंचदशः अध्यायः ॥ १५ ॥
iti śrī-śivapurāṇe caturthyām koṭi rudrasaṃhitāyāḥ mallikārjuna-dvitīya-jyotirliṃgavarṇanam nāma paṃcadaśaḥ adhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In