| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत सर्वं विजानासि वस्तु व्यास प्रसादतः ॥ ज्योतिषां च कथां श्रुत्वा तृप्तिर्नैव प्रजायते ॥ १॥
सूत सर्वम् विजानासि वस्तु व्यास प्रसादतः ॥ ज्योतिषाम् च कथाम् श्रुत्वा तृप्तिः ना एव प्रजायते ॥ १॥
sūta sarvam vijānāsi vastu vyāsa prasādataḥ .. jyotiṣām ca kathām śrutvā tṛptiḥ nā eva prajāyate .. 1..
तस्मात्त्वं हि विशेषेण कृपां कृत्वातुलां प्रभो ॥ ज्योतिर्लिंगं तृतीयं च कथय त्वं हि नोऽधुना ॥ २ ॥
तस्मात् त्वम् हि विशेषेण कृपाम् कृत्वा अतुलाम् प्रभो ॥ ज्योतिर्लिंगम् तृतीयम् च कथय त्वम् हि नः अधुना ॥ २ ॥
tasmāt tvam hi viśeṣeṇa kṛpām kṛtvā atulām prabho .. jyotirliṃgam tṛtīyam ca kathaya tvam hi naḥ adhunā .. 2 ..
सूत उवाच ।। ।।
धन्योऽहं कृतकृत्योऽहं श्रीमतां भवतां यदि ॥ गतश्च संगमं विप्रा धन्या वै साधुसंगतिः ॥ ३ ॥
धन्यः अहम् कृतकृत्यः अहम् श्रीमताम् भवताम् यदि ॥ गतः च संगमम् विप्राः धन्या वै साधु-संगतिः ॥ ३ ॥
dhanyaḥ aham kṛtakṛtyaḥ aham śrīmatām bhavatām yadi .. gataḥ ca saṃgamam viprāḥ dhanyā vai sādhu-saṃgatiḥ .. 3 ..
अतो मत्वा स्वभाग्यं हि कथयिष्यामि पावनीम् ॥ पापप्रणाशिनीं दिव्यां कथां च शृणुतादरात् ॥ ४॥
अतस् मत्वा स्वभाग्यम् हि कथयिष्यामि पावनीम् ॥ पाप-प्रणाशिनीम् दिव्याम् कथाम् च शृणुत आदरात् ॥ ४॥
atas matvā svabhāgyam hi kathayiṣyāmi pāvanīm .. pāpa-praṇāśinīm divyām kathām ca śṛṇuta ādarāt .. 4..
अवंती नगरी रम्या मुक्तिदा सर्वदेहिनाम् ॥ शिवप्रिया महापुण्या वर्तते लोकपावनी ॥ ५ ॥
अवंती नगरी रम्या मुक्ति-दा सर्व-देहिनाम् ॥ शिवप्रिया महा-पुण्या वर्तते लोक-पावनी ॥ ५ ॥
avaṃtī nagarī ramyā mukti-dā sarva-dehinām .. śivapriyā mahā-puṇyā vartate loka-pāvanī .. 5 ..
तत्रासीद्बाह्मणश्रेष्ठश्शुभकर्मपरायणः ॥ वेदाध्ययनकर्त्ता च वेदकर्मरतस्सदा ॥ ६ ॥
तत्र आसीत् बाह्मण-श्रेष्ठः शुभ-कर्म-परायणः ॥ वेद-अध्ययन-कर्त्ता च वेद-कर्म-रतः सदा ॥ ६ ॥
tatra āsīt bāhmaṇa-śreṣṭhaḥ śubha-karma-parāyaṇaḥ .. veda-adhyayana-karttā ca veda-karma-rataḥ sadā .. 6 ..
अग्न्याधानसमायुक्तश्शिवपूजारतस्सदा ॥ पार्थिवीं प्रत्यहं मूर्तिं पूजयामास वै द्विजः ॥ ७ ॥
अग्नि-आधान-समायुक्तः शिव-पूजा-रतः सदा ॥ पार्थिवीम् प्रत्यहम् मूर्तिम् पूजयामास वै द्विजः ॥ ७ ॥
agni-ādhāna-samāyuktaḥ śiva-pūjā-rataḥ sadā .. pārthivīm pratyaham mūrtim pūjayāmāsa vai dvijaḥ .. 7 ..
सर्वकर्मफलं प्राप्य द्विजो वेदप्रियस्सदा॥सतां गतिं समालेभे सम्यग्ज्ञानपरायणः॥८॥
सर्व-कर्म-फलम् प्राप्य द्विजः वेद-प्रियः सदा॥सताम् गतिम् समालेभे सम्यक् ज्ञान-परायणः॥८॥
sarva-karma-phalam prāpya dvijaḥ veda-priyaḥ sadā..satām gatim samālebhe samyak jñāna-parāyaṇaḥ..8..
तत्पुत्रास्तादृशाश्चासंश्चत्वारो मुनिसत्तमाः ॥ शिवपूजारता नित्यं पित्रोरनवमास्सदा ॥ ९ ॥
तद्-पुत्राः तादृशाः च आसन् चत्वारः मुनि-सत्तमाः ॥ शिव-पूजा-रताः नित्यम् पित्रोः अनवमाः सदा ॥ ९ ॥
tad-putrāḥ tādṛśāḥ ca āsan catvāraḥ muni-sattamāḥ .. śiva-pūjā-ratāḥ nityam pitroḥ anavamāḥ sadā .. 9 ..
देवप्रियश्च तज्ज्येष्ठः प्रियमेधास्ततः परम्॥तृतीयस्तु कृतो नाम धर्मवाही च सुव्रतः ॥ 4.16.१० ॥
देवप्रियः च तद्-ज्येष्ठः प्रियमेधाः ततस् परम्॥तृतीयः तु कृतः नाम धर्मवाही च सुव्रतः ॥ ४।१६।१० ॥
devapriyaḥ ca tad-jyeṣṭhaḥ priyamedhāḥ tatas param..tṛtīyaḥ tu kṛtaḥ nāma dharmavāhī ca suvrataḥ .. 4.16.10 ..
तेषां पुण्यप्रतापाच्च पृथिव्यां सुखमैधत ॥ शुक्लपक्षे यथा चन्द्रो वर्द्धते च निरंतरम् ॥ ११॥
तेषाम् पुण्य-प्रतापात् च पृथिव्याम् सुखम् ऐधत ॥ शुक्लपक्षे यथा चन्द्रः वर्द्धते च निरंतरम् ॥ ११॥
teṣām puṇya-pratāpāt ca pṛthivyām sukham aidhata .. śuklapakṣe yathā candraḥ varddhate ca niraṃtaram .. 11..
तथा तेषां गुणास्तत्र वर्द्धन्ते स्म सुखावहाः ॥ ब्रह्मतेजोमयी सा वै नगरी चाभवत्तदा ॥ १२॥
तथा तेषाम् गुणाः तत्र वर्द्धन्ते स्म सुख-आवहाः ॥ ब्रह्म-तेजः-मयी सा वै नगरी च अभवत् तदा ॥ १२॥
tathā teṣām guṇāḥ tatra varddhante sma sukha-āvahāḥ .. brahma-tejaḥ-mayī sā vai nagarī ca abhavat tadā .. 12..
एतस्मिन्नन्तरे तत्र यज्जातं वृत्तमुत्तमम्॥श्रूयतां तद्द्विजश्रेष्ठाः कथयामि यथाश्रुतम् ॥ १३॥
एतस्मिन् अन्तरे तत्र यत् जातम् वृत्तम् उत्तमम्॥श्रूयताम् तत् द्विजश्रेष्ठाः कथयामि यथाश्रुतम् ॥ १३॥
etasmin antare tatra yat jātam vṛttam uttamam..śrūyatām tat dvijaśreṣṭhāḥ kathayāmi yathāśrutam .. 13..
पर्वते रत्नमाले च दूषणाख्यो महासुरः ॥ बलवान्दैत्यराजश्च धर्मद्वेषी निरन्तरम् ॥ १४॥
पर्वते रत्नमाले च दूषण-आख्यः महा-असुरः ॥ बलवान् दैत्य-राजः च धर्म-द्वेषी निरन्तरम् ॥ १४॥
parvate ratnamāle ca dūṣaṇa-ākhyaḥ mahā-asuraḥ .. balavān daitya-rājaḥ ca dharma-dveṣī nirantaram .. 14..
ब्रह्मणो वरदानाच्च जगतुच्छीचकार ह॥देवा पराजितास्तेन स्थानान्निस्सारितास्तथा॥१५॥
ब्रह्मणः वर-दानात् च ह॥पराजिताः तेन स्थानात् निस्सारिताः तथा॥१५॥
brahmaṇaḥ vara-dānāt ca ha..parājitāḥ tena sthānāt nissāritāḥ tathā..15..
पृथिव्यां वेदधर्माश्च स्मृतिधर्माश्च सर्वशः ॥ स्फोटितास्तेन दुष्टेन सिंहेनेव शशा खलु ॥ १६ ॥
पृथिव्याम् वेद-धर्माः च स्मृति-धर्माः च सर्वशस् ॥ स्फोटिताः तेन दुष्टेन सिंहेन इव शशा खलु ॥ १६ ॥
pṛthivyām veda-dharmāḥ ca smṛti-dharmāḥ ca sarvaśas .. sphoṭitāḥ tena duṣṭena siṃhena iva śaśā khalu .. 16 ..
यावंतो वेदधर्माश्च तावंतो दूरतः कृताः ॥ तीर्थेतीर्थे तथा क्षेत्रे धर्मो नीतश्च दूरतः ॥ १७॥
यावंतः वेद-धर्माः च तावंतः दूरतस् कृताः ॥ तीर्थे तीर्थे तथा क्षेत्रे धर्मः नीतः च दूरतस् ॥ १७॥
yāvaṃtaḥ veda-dharmāḥ ca tāvaṃtaḥ dūratas kṛtāḥ .. tīrthe tīrthe tathā kṣetre dharmaḥ nītaḥ ca dūratas .. 17..
अवंती नगरी रम्या तत्रैका दृश्यते पुनः ॥ इत्थं विचार्य तेनैव यत्कृतं श्रूयतां हि तत् ॥ १८ ॥
अवंती नगरी रम्या तत्र एका दृश्यते पुनर् ॥ इत्थम् विचार्य तेन एव यत् कृतम् श्रूयताम् हि तत् ॥ १८ ॥
avaṃtī nagarī ramyā tatra ekā dṛśyate punar .. ittham vicārya tena eva yat kṛtam śrūyatām hi tat .. 18 ..
बहुसैन्यसमायुक्तो दूषणस्स महासुरः ॥ तत्रस्थान्ब्रह्मणान्सर्वानुद्दिश्य समुपाययौ ॥ १९ ॥
बहु-सैन्य-समायुक्तः दूषणः स महा-असुरः ॥ तत्रस्थान् ब्रह्मणान् सर्वान् उद्दिश्य समुपाययौ ॥ १९ ॥
bahu-sainya-samāyuktaḥ dūṣaṇaḥ sa mahā-asuraḥ .. tatrasthān brahmaṇān sarvān uddiśya samupāyayau .. 19 ..
तत्रागत्य स दैत्येन्द्रश्चतुरो दैत्यसत्तमान् ॥ प्रोवाचाहूय वचनं विप्र द्रोही महाखलः ॥ 4.16.२० ॥
तत्र आगत्य स दैत्य-इन्द्रः चतुरः दैत्य-सत्तमान् ॥ प्रोवाच आहूय वचनम् विप्र द्रोही महा-खलः ॥ ४।१६।२० ॥
tatra āgatya sa daitya-indraḥ caturaḥ daitya-sattamān .. provāca āhūya vacanam vipra drohī mahā-khalaḥ .. 4.16.20 ..
दैत्य उवाच ।।
किमेते ब्राह्मणा दुष्टा न कुर्वंति वचो मम ॥ वेदधर्मरता एते सर्वे दंड्या मते मम ॥ २१॥
किम् एते ब्राह्मणाः दुष्टाः न कुर्वंति वचः मम ॥ वेद-धर्म-रताः एते सर्वे दंड्याः मते मम ॥ २१॥
kim ete brāhmaṇāḥ duṣṭāḥ na kurvaṃti vacaḥ mama .. veda-dharma-ratāḥ ete sarve daṃḍyāḥ mate mama .. 21..
सर्वे देवा मया लोके राजानश्च पराजिताः ॥ वशे किं ब्राह्मणाश्शक्या न कर्तुं दैत्यसत्तमाः ॥ २२॥
सर्वे देवाः मया लोके राजानः च पराजिताः ॥ वशे किम् ब्राह्मणाः शक्याः न कर्तुम् दैत्य-सत्तमाः ॥ २२॥
sarve devāḥ mayā loke rājānaḥ ca parājitāḥ .. vaśe kim brāhmaṇāḥ śakyāḥ na kartum daitya-sattamāḥ .. 22..
यदि जीवितुमिच्छा स्यात्तदा धर्मं शिवस्य च ॥ वेदानां परमं धर्मं त्यक्त्वा सुखसुभागिनः ॥ २३ ॥
यदि जीवितुम् इच्छा स्यात् तदा धर्मम् शिवस्य च ॥ वेदानाम् परमम् धर्मम् त्यक्त्वा सुख-सुभागिनः ॥ २३ ॥
yadi jīvitum icchā syāt tadā dharmam śivasya ca .. vedānām paramam dharmam tyaktvā sukha-subhāginaḥ .. 23 ..
अन्यथा जीवने तेषां संशयश्च भविष्यति ॥ इति सत्यं मया प्रोक्तं तत्कुरुध्वं विशंकिताः ॥ २४ ॥
अन्यथा जीवने तेषाम् संशयः च भविष्यति ॥ इति सत्यम् मया प्रोक्तम् तत् कुरुध्वम् विशंकिताः ॥ २४ ॥
anyathā jīvane teṣām saṃśayaḥ ca bhaviṣyati .. iti satyam mayā proktam tat kurudhvam viśaṃkitāḥ .. 24 ..
सूत उवाच ।।
इति निश्चित्य ते दैत्याश्चत्वारः पावका इव ॥ चतुर्दिक्षु तदा जाताः प्रलये च यथा पुरा । २५ ॥
इति निश्चित्य ते दैत्याः चत्वारः पावकाः इव ॥ चतुर्-दिक्षु तदा जाताः प्रलये च यथा पुरा । २५ ॥
iti niścitya te daityāḥ catvāraḥ pāvakāḥ iva .. catur-dikṣu tadā jātāḥ pralaye ca yathā purā . 25 ..
ते ब्राह्मणास्तथा श्रुत्वा दैत्यानामुद्यमं तदा ॥ न दुःखं लेभिरे तत्र शिवध्यान परायणाः ॥ २६ ॥
ते ब्राह्मणाः तथा श्रुत्वा दैत्यानाम् उद्यमम् तदा ॥ न दुःखम् लेभिरे तत्र शिव-ध्यान-परायणाः ॥ २६ ॥
te brāhmaṇāḥ tathā śrutvā daityānām udyamam tadā .. na duḥkham lebhire tatra śiva-dhyāna-parāyaṇāḥ .. 26 ..
धैर्यं समाश्रितास्ते च रेखामात्रं तदा द्विजाः ॥ न चेलुः परमध्यानाद्वराकाः के शिवाग्रतः ॥ २७ ॥
धैर्यम् समाश्रिताः ते च रेखा-मात्रम् तदा द्विजाः ॥ न चेलुः परम-ध्यानात् वराकाः के शिव-अग्रतस् ॥ २७ ॥
dhairyam samāśritāḥ te ca rekhā-mātram tadā dvijāḥ .. na celuḥ parama-dhyānāt varākāḥ ke śiva-agratas .. 27 ..
एतस्मिन्नन्तरे तैस्तु व्याप्तासीन्नगरी शुभा ॥ लोकाश्च पीडितास्तैस्तु ब्राह्मणान्समुपाययुः ॥ २८ ॥
एतस्मिन् अन्तरे तैः तु व्याप्ता आसीत् नगरी शुभा ॥ लोकाः च पीडिताः तैः तु ब्राह्मणान् समुपाययुः ॥ २८ ॥
etasmin antare taiḥ tu vyāptā āsīt nagarī śubhā .. lokāḥ ca pīḍitāḥ taiḥ tu brāhmaṇān samupāyayuḥ .. 28 ..
लोका ऊचुः ।।
स्वामिनः किं च कर्त्तव्यं दुष्टाश्च समुपागताः ॥ हिंसिता बहवो लोका आगताश्च समीपतः ॥ २९ ॥
स्वामिनः किम् च कर्त्तव्यम् दुष्टाः च समुपागताः ॥ हिंसिताः बहवः लोकाः आगताः च समीपतस् ॥ २९ ॥
svāminaḥ kim ca karttavyam duṣṭāḥ ca samupāgatāḥ .. hiṃsitāḥ bahavaḥ lokāḥ āgatāḥ ca samīpatas .. 29 ..
सूत उवाच ।।
तेषामिति वचश्श्रुत्वा वेदप्रियसुताश्च ते ॥ समूचुर्ब्राह्मणास्तान्वै विश्वस्ताश्शंकरे सदा ॥ 4.16.३०॥
तेषाम् इति वचः श्रुत्वा वेदप्रिय-सुताः च ते ॥ समूचुः ब्राह्मणाः तान् वै विश्वस्ताः शंकरे सदा ॥ ४।१६।३०॥
teṣām iti vacaḥ śrutvā vedapriya-sutāḥ ca te .. samūcuḥ brāhmaṇāḥ tān vai viśvastāḥ śaṃkare sadā .. 4.16.30..
ब्राह्मणा ऊचुः ।।
श्रूयतां विद्यते नैव बलं दुष्टभयावहम्॥न शस्त्राणि तथा संति यच्च ते विमुखाः पुनः ॥ ३१॥
श्रूयताम् विद्यते ना एव बलम् दुष्ट-भय-आवहम्॥न शस्त्राणि तथा संति यत् च ते विमुखाः पुनर् ॥ ३१॥
śrūyatām vidyate nā eva balam duṣṭa-bhaya-āvaham..na śastrāṇi tathā saṃti yat ca te vimukhāḥ punar .. 31..
सामान्यस्यापमानो नो ह्याश्रयस्य भवेदिह ॥ पुनश्च किं समर्थस्य शिवस्येह भविष्यति ॥ ३२॥
सामान्यस्य अपमानः नो हि आश्रयस्य भवेत् इह ॥ पुनर् च किम् समर्थस्य शिवस्य इह भविष्यति ॥ ३२॥
sāmānyasya apamānaḥ no hi āśrayasya bhavet iha .. punar ca kim samarthasya śivasya iha bhaviṣyati .. 32..
शिवो रक्षां करोत्वद्यासुराणां भयतः प्रभुः ॥ नान्यथा शरणं लोके भक्तवत्सलतश्शिवात् ॥ ३३॥
शिवः रक्षाम् करोतु अद्य असुराणाम् भयतः प्रभुः ॥ न अन्यथा शरणम् लोके भक्त-वत्सलतः शिवात् ॥ ३३॥
śivaḥ rakṣām karotu adya asurāṇām bhayataḥ prabhuḥ .. na anyathā śaraṇam loke bhakta-vatsalataḥ śivāt .. 33..
सूत उवाच ।।
इति धैर्यं समास्थाय समर्चां पार्थिवस्य च ॥ कृत्वा ते च द्विजाः सम्यक्स्थिता ध्यानपरायणाः ॥ दृष्टा दैत्येन तावच्च ते विप्रास्सबलेन हि ॥ ३४ ॥
इति धैर्यम् समास्थाय समर्चाम् पार्थिवस्य च ॥ कृत्वा ते च द्विजाः सम्यक् स्थिताः ध्यान-परायणाः ॥ दृष्टाः दैत्येन तावत् च ते विप्राः सबलेन हि ॥ ३४ ॥
iti dhairyam samāsthāya samarcām pārthivasya ca .. kṛtvā te ca dvijāḥ samyak sthitāḥ dhyāna-parāyaṇāḥ .. dṛṣṭāḥ daityena tāvat ca te viprāḥ sabalena hi .. 34 ..
दूषणेन वचः प्रोक्तं हन्यतां वध्यतामिति ॥ तच्छ्रुतं तैस्तदा नैव दैत्यप्रोक्तं वचो द्विजैः ॥ वेदप्रियसुतैश्शंभोर्ध्यानमार्गपरायणैः ॥ ३५ ॥
दूषणेन वचः प्रोक्तम् हन्यताम् वध्यताम् इति ॥ तत् श्रुतम् तैः तदा ना एव दैत्य-प्रोक्तम् वचः द्विजैः ॥ वेदप्रिय-सुतैः शंभोः ध्यान-मार्ग-परायणैः ॥ ३५ ॥
dūṣaṇena vacaḥ proktam hanyatām vadhyatām iti .. tat śrutam taiḥ tadā nā eva daitya-proktam vacaḥ dvijaiḥ .. vedapriya-sutaiḥ śaṃbhoḥ dhyāna-mārga-parāyaṇaiḥ .. 35 ..
अथ यावत्स दुष्टात्मा हन्तुमैच्छद्द्विजांश्च तान्॥तावच्च प्रार्थिवस्थाने गर्त्तं आसीत्सशब्दकः॥३६॥
अथ यावत् स दुष्ट-आत्मा हन्तुम् ऐच्छत् द्विजान् च तान्॥तावत् च प्रार्थिव-स्थाने गर्त्तम् आसीत् स शब्दकः॥३६॥
atha yāvat sa duṣṭa-ātmā hantum aicchat dvijān ca tān..tāvat ca prārthiva-sthāne garttam āsīt sa śabdakaḥ..36..
गर्तात्ततस्समुत्पन्नः शिवो विकटरूपधृक् ॥ महाकाल इति ख्यातो दुष्टहंता सतां गतिः ॥ ३७॥
गर्तात् ततस् समुत्पन्नः शिवः विकट-रूपधृक् ॥ महाकालः इति ख्यातः दुष्ट-हंता सताम् गतिः ॥ ३७॥
gartāt tatas samutpannaḥ śivaḥ vikaṭa-rūpadhṛk .. mahākālaḥ iti khyātaḥ duṣṭa-haṃtā satām gatiḥ .. 37..
महाकालस्समुत्पन्नो दुष्टानां त्वादृशामहम्॥खल त्वं ब्राह्मणानां हि समीपाद्दूरतो व्रज॥३८॥
महाकालः समुत्पन्नः दुष्टानाम् त्वादृशाम् अहम्॥खल त्वम् ब्राह्मणानाम् हि समीपात् दूरतस् व्रज॥३८॥
mahākālaḥ samutpannaḥ duṣṭānām tvādṛśām aham..khala tvam brāhmaṇānām hi samīpāt dūratas vraja..38..
इत्युक्त्वा हुंकृतेनैव भस्मसात्कृतवांस्तदा॥दूषणं च महाकालः शंकरस्सबलं द्रुतम् ॥ ३९ ॥
इति उक्त्वा हुंकृतेन एव भस्मसात्कृतवान् तदा॥दूषणम् च महाकालः शंकरः सबलम् द्रुतम् ॥ ३९ ॥
iti uktvā huṃkṛtena eva bhasmasātkṛtavān tadā..dūṣaṇam ca mahākālaḥ śaṃkaraḥ sabalam drutam .. 39 ..
कियत्सैन्यं हतं तेन किंचित्सैन्यं पलायितम्॥दूषणश्च हतस्तेन शिवेनेह परात्मना ॥ 4.16.४०॥
कियत् सैन्यम् हतम् तेन किंचिद् सैन्यम् पलायितम्॥दूषणः च हतः तेन शिवेन इह परात्मना ॥ ४।१६।४०॥
kiyat sainyam hatam tena kiṃcid sainyam palāyitam..dūṣaṇaḥ ca hataḥ tena śivena iha parātmanā .. 4.16.40..
सूर्यं दृष्ट्वा यथा याति संक्षयं सर्वशस्तमः ॥ तथैव च शिवं दृष्ट्वा तत्सैन्यं विननाश ह॥४१॥
सूर्यम् दृष्ट्वा यथा याति संक्षयम् सर्वशस् तमः ॥ तथा एव च शिवम् दृष्ट्वा तत् सैन्यम् विननाश ह॥४१॥
sūryam dṛṣṭvā yathā yāti saṃkṣayam sarvaśas tamaḥ .. tathā eva ca śivam dṛṣṭvā tat sainyam vinanāśa ha..41..
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह॥देवास्समाययुस्सर्वे हरिब्रह्मादयस्तथा ॥ ४२ ॥
देव-दुन्दुभयः नेदुः पुष्प-वृष्टिः पपात ह॥देवाः समाययुः सर्वे हरि-ब्रह्म-आदयः तथा ॥ ४२ ॥
deva-dundubhayaḥ neduḥ puṣpa-vṛṣṭiḥ papāta ha..devāḥ samāyayuḥ sarve hari-brahma-ādayaḥ tathā .. 42 ..
भक्त्या प्रणम्य तं देवं शंकरं लोकशंकरम् ॥ तुष्टुवुर्विविधैः स्तोत्रैः कृतांजलिपुटा द्विजाः ॥ ४३ ॥
भक्त्या प्रणम्य तम् देवम् शंकरम् लोक-शंकरम् ॥ तुष्टुवुः विविधैः स्तोत्रैः कृत-अंजलि-पुटाः द्विजाः ॥ ४३ ॥
bhaktyā praṇamya tam devam śaṃkaram loka-śaṃkaram .. tuṣṭuvuḥ vividhaiḥ stotraiḥ kṛta-aṃjali-puṭāḥ dvijāḥ .. 43 ..
ब्राह्मणांश्च समाश्वास्य सुप्रसन्नश्शिवस्स्वयम् ॥ वरं ब्रूतेति चोवाच महाकालो महेश्वरः ॥ ४४॥
ब्राह्मणान् च समाश्वास्य सु प्रसन्नः शिवः स्वयम् ॥ वरम् ब्रूत इति च उवाच महाकालः महेश्वरः ॥ ४४॥
brāhmaṇān ca samāśvāsya su prasannaḥ śivaḥ svayam .. varam brūta iti ca uvāca mahākālaḥ maheśvaraḥ .. 44..
तच्छ्रुत्वा ते द्विजास्सर्वे कृताञ्जलिपुटास्तदा ॥ सुप्रणम्य शिवं भक्त्या प्रोचुस्संनतमस्तकाः ॥ ४५ ॥
तत् श्रुत्वा ते द्विजाः सर्वे कृताञ्जलि-पुटाः तदा ॥ सु प्रणम्य शिवम् भक्त्या प्रोचुः संनत-मस्तकाः ॥ ४५ ॥
tat śrutvā te dvijāḥ sarve kṛtāñjali-puṭāḥ tadā .. su praṇamya śivam bhaktyā procuḥ saṃnata-mastakāḥ .. 45 ..
।। द्विजा ऊचुः ।।
महाकाल महादेव दुष्टदण्डकर प्रभो ॥ मुक्तिं प्रयच्छ नश्शंभो संसारांबुधितश्शिव ॥ ४६ ॥
महाकाल महादेव दुष्ट-दण्ड-कर प्रभो ॥ मुक्तिम् प्रयच्छ नः शंभो संसार-अंबुधितः शिव ॥ ४६ ॥
mahākāla mahādeva duṣṭa-daṇḍa-kara prabho .. muktim prayaccha naḥ śaṃbho saṃsāra-aṃbudhitaḥ śiva .. 46 ..
अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव ॥ स्वदर्शकान्नराञ्छम्भो तारय त्वं सदा प्रभो ॥ ४७ ॥
अत्र एव लोक-रक्षा-अर्थम् स्थातव्यम् हि त्वया शिव ॥ स्व-दर्शकान् नरान् शम्भो तारय त्वम् सदा प्रभो ॥ ४७ ॥
atra eva loka-rakṣā-artham sthātavyam hi tvayā śiva .. sva-darśakān narān śambho tāraya tvam sadā prabho .. 47 ..
सूत उवाच ।।
इत्युक्तस्तैश्शिवस्तत्र तस्थौ गर्ते सुशोभने ॥ भक्तानां चैव रक्षार्थं दत्त्वा तेभ्यश्च सद्गतिम् ॥ ४८॥
इति उक्तः तैः शिवः तत्र तस्थौ गर्ते सु शोभने ॥ भक्तानाम् च एव रक्षा-अर्थम् दत्त्वा तेभ्यः च सत्-गतिम् ॥ ४८॥
iti uktaḥ taiḥ śivaḥ tatra tasthau garte su śobhane .. bhaktānām ca eva rakṣā-artham dattvā tebhyaḥ ca sat-gatim .. 48..
द्विजास्ते मुक्तिमापन्नाश्चतुर्द्दिक्षु शिवास्पदम् ॥ क्रोशमात्रं तदा जातं लिंगरूपिण एव च ॥ ४९॥
द्विजाः ते मुक्तिम् आपन्नाः चतुर्-दिक्षु शिव-आस्पदम् ॥ क्रोश-मात्रम् तदा जातम् लिंग-रूपिणः एव च ॥ ४९॥
dvijāḥ te muktim āpannāḥ catur-dikṣu śiva-āspadam .. krośa-mātram tadā jātam liṃga-rūpiṇaḥ eva ca .. 49..
महाकालेश्वरो नाम शिवः ख्यातश्च भूतले ॥ तं दृष्ट्वा न भवेत्स्वप्ने किंचिद्दुःखमपि द्विजाः ॥ 4.16.५० ॥
महाकालेश्वरः नाम शिवः ख्यातः च भू-तले ॥ तम् दृष्ट्वा न भवेत् स्वप्ने किंचिद् दुःखम् अपि द्विजाः ॥ ४।१६।५० ॥
mahākāleśvaraḥ nāma śivaḥ khyātaḥ ca bhū-tale .. tam dṛṣṭvā na bhavet svapne kiṃcid duḥkham api dvijāḥ .. 4.16.50 ..
यंयं काममपेक्ष्यैव तल्लिंगं भजते तु यः ॥ तंतं काममवाप्नोति लभेन्मोक्षं परत्र च ॥ ५१ ॥
यं यम् कामम् अपेक्ष्य एव तद्-लिंगम् भजते तु यः ॥ तं तम् कामम् अवाप्नोति लभेत् मोक्षम् परत्र च ॥ ५१ ॥
yaṃ yam kāmam apekṣya eva tad-liṃgam bhajate tu yaḥ .. taṃ tam kāmam avāpnoti labhet mokṣam paratra ca .. 51 ..
एतत्सर्वं समाख्यातं महाकालस्य सुव्रताः ॥ समुद्भवश्च माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ॥ ५२ ॥
एतत् सर्वम् समाख्यातम् महाकालस्य सुव्रताः ॥ समुद्भवः च माहात्म्यम् किम् अन्यत् श्रोतुम् इच्छथ ॥ ५२ ॥
etat sarvam samākhyātam mahākālasya suvratāḥ .. samudbhavaḥ ca māhātmyam kim anyat śrotum icchatha .. 52 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ १६॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् महाकालज्योतिर्लिंगमाहात्म्यवर्णनम् नाम षोडशः अध्यायः ॥ १६॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām mahākālajyotirliṃgamāhātmyavarṇanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In