| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
महाकालसमाह्वस्थज्योतिर्लिंगस्य रक्षिणः ॥ भक्तानां महिमानं च पुनर्ब्रूहि महामते ॥ १ ॥
रक्षिणः ॥ भक्तानाम् महिमानम् च पुनर् ब्रूहि महामते ॥ १ ॥
rakṣiṇaḥ .. bhaktānām mahimānam ca punar brūhi mahāmate .. 1 ..
सूत उवाच।।
शृणुतादरतो विप्रो भक्तरक्षाविधायिनः ॥ महाकालस्य लिंगस्य माहात्म्यं भक्तिवर्द्धनम् ॥ २ ॥
शृणुत आदरतः विप्रः भक्त-रक्षा-विधायिनः ॥ महाकालस्य लिंगस्य माहात्म्यम् भक्ति-वर्द्धनम् ॥ २ ॥
śṛṇuta ādarataḥ vipraḥ bhakta-rakṣā-vidhāyinaḥ .. mahākālasya liṃgasya māhātmyam bhakti-varddhanam .. 2 ..
उज्जयिन्यामभूद्राजा चन्द्रसेनाह्वयो महान् ॥ सर्वशास्त्रार्थतत्त्वज्ञश्शिवभक्तो जितेन्द्रियः ॥ ३ ॥
उज्जयिन्याम् अभूत् राजा चन्द्रसेन-आह्वयः महान् ॥ सर्व-शास्त्र-अर्थ-तत्त्व-ज्ञः शिव-भक्तः जित-इन्द्रियः ॥ ३ ॥
ujjayinyām abhūt rājā candrasena-āhvayaḥ mahān .. sarva-śāstra-artha-tattva-jñaḥ śiva-bhaktaḥ jita-indriyaḥ .. 3 ..
तस्याभवत्सखा राज्ञो मणिभद्रो गणो द्विजाः ॥ गिरीशगणमुख्यश्च सर्वलोकनमस्कृतः ॥ ४ ॥
तस्य अभवत् सखा राज्ञः मणिभद्रः गणः द्विजाः ॥ गिरीश-गण-मुख्यः च सर्व-लोक-नमस्कृतः ॥ ४ ॥
tasya abhavat sakhā rājñaḥ maṇibhadraḥ gaṇaḥ dvijāḥ .. girīśa-gaṇa-mukhyaḥ ca sarva-loka-namaskṛtaḥ .. 4 ..
एकदा स गणेन्द्रो हि प्रसन्नास्यो महामणिम् ॥ मणिभद्रो ददौ तस्मै चिंतामणिमुदारधीः ॥ ५॥
एकदा स गण-इन्द्रः हि प्रसन्न-आस्यः महा-मणिम् ॥ मणिभद्रः ददौ तस्मै चिंतामणिम् उदार-धीः ॥ ५॥
ekadā sa gaṇa-indraḥ hi prasanna-āsyaḥ mahā-maṇim .. maṇibhadraḥ dadau tasmai ciṃtāmaṇim udāra-dhīḥ .. 5..
स वै मणिः कौस्तुभवद्द्योतमानोर्कसन्निभः ॥ ध्यातो दृष्टः श्रुतो वापि मंगलं यच्छति ध्रुवम् ॥ ६ ॥
स वै मणिः कौस्तुभ-वत् द्योतमान-ऊर्क-सन्निभः ॥ ध्यातः दृष्टः श्रुतः वा अपि मंगलम् यच्छति ध्रुवम् ॥ ६ ॥
sa vai maṇiḥ kaustubha-vat dyotamāna-ūrka-sannibhaḥ .. dhyātaḥ dṛṣṭaḥ śrutaḥ vā api maṃgalam yacchati dhruvam .. 6 ..
तस्य कांतितलस्पृष्टं कांस्यं ताम्रमयं त्रपु ॥ पाषाणादिकमन्यद्वा द्रुतं भवति हाटकम् ॥ ७ ॥
तस्य कांति-तल-स्पृष्टम् कांस्यम् ताम्र-मयम् त्रपु ॥ पाषाण-आदिकम् अन्यत् वा द्रुतम् भवति हाटकम् ॥ ७ ॥
tasya kāṃti-tala-spṛṣṭam kāṃsyam tāmra-mayam trapu .. pāṣāṇa-ādikam anyat vā drutam bhavati hāṭakam .. 7 ..
स तु चिन्तामणिं कंठे बिभ्रद्राजा शिवाश्रयः ॥ चन्द्रसेनो रराजाति देवमध्येव भानुमान् ॥ ८॥
स तु चिन्तामणिम् कंठे बिभ्रत् राजा शिव-आश्रयः ॥ चन्द्रसेनः रराज अति देव-मध्या इव भानुमान् ॥ ८॥
sa tu cintāmaṇim kaṃṭhe bibhrat rājā śiva-āśrayaḥ .. candrasenaḥ rarāja ati deva-madhyā iva bhānumān .. 8..
श्रुत्वा चिन्तामणिग्रीवं चन्द्रसेनं नृपोत्तमम् ॥ निखिलाः क्षितिराजानस्तृष्णाक्षुब्धहृदोऽभवन् ॥ ९ ॥
श्रुत्वा चिन्तामणि-ग्रीवम् चन्द्रसेनम् नृप-उत्तमम् ॥ निखिलाः क्षिति-राजानः तृष्णा-क्षुब्ध-हृदः अभवन् ॥ ९ ॥
śrutvā cintāmaṇi-grīvam candrasenam nṛpa-uttamam .. nikhilāḥ kṣiti-rājānaḥ tṛṣṇā-kṣubdha-hṛdaḥ abhavan .. 9 ..
नृपा मत्सरिणस्सर्वे तं मणिं चन्द्रसेनतः ॥ नानोपायैरयाचंत देवलब्धमबुद्धयः ॥ 4.17.१० ॥
नृपाः मत्सरिणः सर्वे तम् मणिम् चन्द्रसेनतः ॥ नाना उपायैः अयाचंत देव-लब्धम् अबुद्धयः ॥ ४।१७।१० ॥
nṛpāḥ matsariṇaḥ sarve tam maṇim candrasenataḥ .. nānā upāyaiḥ ayācaṃta deva-labdham abuddhayaḥ .. 4.17.10 ..
सर्वेषां भूभृतां याञ्चा चन्द्रसेनेन तेन वै ॥ व्यर्थीकृता महाकालदृढभक्तेन भूसुराः ॥ ११ ॥
सर्वेषाम् भूभृताम् चन्द्रसेनेन तेन वै ॥ व्यर्थीकृताः महाकाल-दृढ-भक्तेन भूसुराः ॥ ११ ॥
sarveṣām bhūbhṛtām candrasenena tena vai .. vyarthīkṛtāḥ mahākāla-dṛḍha-bhaktena bhūsurāḥ .. 11 ..
ते कदर्थीकृतास्सर्वे चन्द्रसेनेन भूभृता ॥ राजानस्सर्वदेशानां संरम्भं चक्रिरे तदा ॥ १२॥
ते कदर्थीकृताः सर्वे चन्द्रसेनेन भूभृता ॥ राजानः सर्व-देशानाम् संरम्भम् चक्रिरे तदा ॥ १२॥
te kadarthīkṛtāḥ sarve candrasenena bhūbhṛtā .. rājānaḥ sarva-deśānām saṃrambham cakrire tadā .. 12..
अथ ते सर्वराजानश्चतुरंगबलान्विताः ॥ चन्द्रसेनं रणे जेतुं संबभूवुः किलोद्यताः ॥ १३ ॥
अथ ते सर्व-राजानः चतुरंग-बल-अन्विताः ॥ चन्द्रसेनम् रणे जेतुम् संबभूवुः किल उद्यताः ॥ १३ ॥
atha te sarva-rājānaḥ caturaṃga-bala-anvitāḥ .. candrasenam raṇe jetum saṃbabhūvuḥ kila udyatāḥ .. 13 ..
ते तु सर्वे समेता वै कृतसंकेतसंविदः ॥ उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ॥ १४ ॥
ते तु सर्वे समेताः वै कृत-संकेत-संविदः ॥ उज्जयिन्याः चतुर्-द्वारम् रुरुधुः बहु-सैनिकाः ॥ १४ ॥
te tu sarve sametāḥ vai kṛta-saṃketa-saṃvidaḥ .. ujjayinyāḥ catur-dvāram rurudhuḥ bahu-sainikāḥ .. 14 ..
संरुध्यमानां स्वपुरीं दृष्ट्वा निखिल राजभिः ॥ तमेव शरणं राजा महाकालेश्वरं ययौ ॥ १५॥
संरुध्यमानाम् स्व-पुरीम् दृष्ट्वा राजभिः ॥ तम् एव शरणम् राजाः महाकाल-ईश्वरम् ययौ ॥ १५॥
saṃrudhyamānām sva-purīm dṛṣṭvā rājabhiḥ .. tam eva śaraṇam rājāḥ mahākāla-īśvaram yayau .. 15..
निर्विकल्पो निराहारस्स नृपो दृढनिश्चयः ॥ समानर्च महाकालं दिवा नक्तमनन्यधीः ॥ १६ ॥
निर्विकल्पः निराहारः स नृपः दृढ-निश्चयः ॥ समानर्च महाकालम् दिवा नक्तम् अन् अन्य-धीः ॥ १६ ॥
nirvikalpaḥ nirāhāraḥ sa nṛpaḥ dṛḍha-niścayaḥ .. samānarca mahākālam divā naktam an anya-dhīḥ .. 16 ..
ततस्स भगवाञ्छंभुर्महाकालः प्रसन्नधीः ॥ तं रक्षितुमुपायं वै चक्रे तं शृणुतादरात् ॥ १७ ॥
ततस् स भगवान् शंभुः महाकालः प्रसन्न-धीः ॥ तम् रक्षितुम् उपायम् वै चक्रे तम् शृणुत आदरात् ॥ १७ ॥
tatas sa bhagavān śaṃbhuḥ mahākālaḥ prasanna-dhīḥ .. tam rakṣitum upāyam vai cakre tam śṛṇuta ādarāt .. 17 ..
तदैव समये गोपि काचित्तत्र पुरोत्तमे ॥ चरंती सशिशुर्विप्रा महाकालांतिकं ययौ ॥ १८ ॥
तदा एव समये गोपि काचिद् तत्र पुर-उत्तमे ॥ चरन्ती स शिशुः विप्रा महाकाल-अंतिकम् ययौ ॥ १८ ॥
tadā eva samaye gopi kācid tatra pura-uttame .. carantī sa śiśuḥ viprā mahākāla-aṃtikam yayau .. 18 ..
पञ्चाब्दवयसं बालं वहन्ती गतभर्तृका ॥ राज्ञा कृतां महाकालपूजां सापश्यदादरात् ॥ १९ ॥
पञ्च-अब्द-वयसम् बालम् वहन्ती गत-भर्तृका ॥ राज्ञा कृताम् महाकाल-पूजाम् सा अपश्यत् आदरात् ॥ १९ ॥
pañca-abda-vayasam bālam vahantī gata-bhartṛkā .. rājñā kṛtām mahākāla-pūjām sā apaśyat ādarāt .. 19 ..
सा दृष्ट्वा सुमहाश्चर्यां शिवपूजां च तत्कृताम् ॥ प्रणिपत्य स्वशिविरं पुनरेवाभ्यपद्यत ॥ 4.17.२० ॥
सा दृष्ट्वा सु महा-आश्चर्याम् शिव-पूजाम् च तद्-कृताम् ॥ प्रणिपत्य स्व-शिविरम् पुनर् एव अभ्यपद्यत ॥ ४।१७।२० ॥
sā dṛṣṭvā su mahā-āścaryām śiva-pūjām ca tad-kṛtām .. praṇipatya sva-śiviram punar eva abhyapadyata .. 4.17.20 ..
तत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ॥ कुतूहलेन तां कर्त्तुं शिवपूजां मनोदधे ॥ २१॥
तत् सर्वम् अशेषेण स दृष्ट्वा बल्लवी-सुतः ॥ कुतूहलेन ताम् कर्त्तुम् शिव-पूजाम् मनः-दधे ॥ २१॥
tat sarvam aśeṣeṇa sa dṛṣṭvā ballavī-sutaḥ .. kutūhalena tām karttum śiva-pūjām manaḥ-dadhe .. 21..
आनीय हृद्यं पाषाणं शून्ये तु शिविरांतरे ॥ अविदूरे स्वशिबिराच्छिवलिगं स भक्तितः ॥ २२॥
आनीय हृद्यम् पाषाणम् शून्ये तु शिविर-अंतरे ॥ अविदूरे स्व-शिबिरात् शिव-लिगम् स भक्तितः ॥ २२॥
ānīya hṛdyam pāṣāṇam śūnye tu śivira-aṃtare .. avidūre sva-śibirāt śiva-ligam sa bhaktitaḥ .. 22..
गन्धालंकारवासोभिर्धूपदीपाक्षतादिभिः ॥ विधाय कृत्रिमैर्द्रव्यैर्नैवेद्यं चाप्यकल्पयत् ॥ २३ ॥
गन्ध-अलंकार-वासोभिः धूप-दीप-अक्षत-आदिभिः ॥ विधाय कृत्रिमैः द्रव्यैः नैवेद्यम् च अपि अकल्पयत् ॥ २३ ॥
gandha-alaṃkāra-vāsobhiḥ dhūpa-dīpa-akṣata-ādibhiḥ .. vidhāya kṛtrimaiḥ dravyaiḥ naivedyam ca api akalpayat .. 23 ..
भूयोभूयस्समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ॥ नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः ॥ २४ ॥
भूयस् भूयस् समभ्यर्च्य पत्रैः पुष्पैः मनोरमैः ॥ नृत्यम् च विविधम् कृत्वा प्रणनाम पुनर् पुनर् ॥ २४ ॥
bhūyas bhūyas samabhyarcya patraiḥ puṣpaiḥ manoramaiḥ .. nṛtyam ca vividham kṛtvā praṇanāma punar punar .. 24 ..
एतस्मिन्समये पुत्रं शिवासक्तसुचेतसम् ॥ प्रणयाद्गोपिका सा तं भोजनाय समाह्वयत्॥२५॥
एतस्मिन् समये पुत्रम् शिव-आसक्त-सु चेतसम् ॥ प्रणयात् गोपिका सा तम् भोजनाय समाह्वयत्॥२५॥
etasmin samaye putram śiva-āsakta-su cetasam .. praṇayāt gopikā sā tam bhojanāya samāhvayat..25..
यदाहूतोऽपि बहुशश्शिवपूजाक्तमानसः ॥ बालश्च भोजनं नैच्छत्तदा तत्र ययौ प्रसूः ॥ २६॥
यद्-आहूतः अपि बहुशस् शिव-पूजा-अक्त-मानसः ॥ बालः च भोजनम् ना ऐच्छत् तदा तत्र ययौ प्रसूः ॥ २६॥
yad-āhūtaḥ api bahuśas śiva-pūjā-akta-mānasaḥ .. bālaḥ ca bhojanam nā aicchat tadā tatra yayau prasūḥ .. 26..
तं विलोक्य शिवस्याग्रे निषण्णं मीलितेक्षणम् ॥ चकर्ष पाणिं संगृह्य कोपेन समताडयत् ॥ २७॥
तम् विलोक्य शिवस्य अग्रे निषण्णम् मीलित-ईक्षणम् ॥ चकर्ष पाणिम् संगृह्य कोपेन समताडयत् ॥ २७॥
tam vilokya śivasya agre niṣaṇṇam mīlita-īkṣaṇam .. cakarṣa pāṇim saṃgṛhya kopena samatāḍayat .. 27..
आकृष्टस्ताडितश्चापि नागच्छत्स्वसुतो यदा ॥ तां पूजां नाशयामास क्षिप्त्वा लिंगं च दूरतः ॥ २८॥
आकृष्टः ताडितः च अपि न अगच्छत् स्व-सुतः यदा ॥ ताम् पूजाम् नाशयामास क्षिप्त्वा लिंगम् च दूरतस् ॥ २८॥
ākṛṣṭaḥ tāḍitaḥ ca api na agacchat sva-sutaḥ yadā .. tām pūjām nāśayāmāsa kṣiptvā liṃgam ca dūratas .. 28..
हाहेति दूयमानं तं निर्भर्त्स्य स्वसुतं च सा ॥ पुनर्विवेश स्वगृहं गोपी क्रोधसमन्विता ॥ २९॥
हाहा इति दूयमानम् तम् निर्भर्त्स्य स्व-सुतम् च सा ॥ पुनर् विवेश स्व-गृहम् गोपी क्रोध-समन्विता ॥ २९॥
hāhā iti dūyamānam tam nirbhartsya sva-sutam ca sā .. punar viveśa sva-gṛham gopī krodha-samanvitā .. 29..
मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ॥ देवदेवेति चुक्रोश निपपात स बालकः ॥ 4.17.३० ॥
मात्रा विनाशिताम् पूजाम् दृष्ट्वा देवस्य शूलिनः ॥ देवदेव इति चुक्रोश निपपात स बालकः ॥ ४।१७।३० ॥
mātrā vināśitām pūjām dṛṣṭvā devasya śūlinaḥ .. devadeva iti cukrośa nipapāta sa bālakaḥ .. 4.17.30 ..
प्रनष्टसंज्ञः सहसा स बभूव शुचाकुलः ॥ लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत् ॥ ३१ ॥
प्रनष्ट-संज्ञः सहसा स बभूव शुचा आकुलः ॥ लब्ध-संज्ञः मुहूर्तेन चक्षुषी उदमीलयत् ॥ ३१ ॥
pranaṣṭa-saṃjñaḥ sahasā sa babhūva śucā ākulaḥ .. labdha-saṃjñaḥ muhūrtena cakṣuṣī udamīlayat .. 31 ..
तदैव जातं शिबिरं महाकालस्य सुन्दरम् ॥ ददर्श स शिशुस्तत्र शिवानुग्रहतोऽचिरात् ॥ ३२ ॥
तदा एव जातम् शिबिरम् महाकालस्य सुन्दरम् ॥ ददर्श स शिशुः तत्र शिव-अनुग्रहतः अचिरात् ॥ ३२ ॥
tadā eva jātam śibiram mahākālasya sundaram .. dadarśa sa śiśuḥ tatra śiva-anugrahataḥ acirāt .. 32 ..
हिरण्मयबृहद्द्वारं कपाटवरतोरणम् ॥ महार्हनीलविमलवज्रवेदीविराजितम् ॥ ३३ ॥
हिरण्मय-बृहत्-द्वारम् कपाट-वर-तोरणम् ॥ महार्ह-नील-विमल-वज्र-वेदी-विराजितम् ॥ ३३ ॥
hiraṇmaya-bṛhat-dvāram kapāṭa-vara-toraṇam .. mahārha-nīla-vimala-vajra-vedī-virājitam .. 33 ..
संतप्तहेमकलशैर्विचित्रैर्बहुभिर्युतम् ॥ प्रोद्भासितमणिस्तंभैर्बद्धस्फटिकभूतलैः ॥ ३४ ॥
संतप्त-हेम-कलशैः विचित्रैः बहुभिः युतम् ॥ प्रोद्भासित-मणि-स्तंभैः बद्ध-स्फटिक-भू-तलैः ॥ ३४ ॥
saṃtapta-hema-kalaśaiḥ vicitraiḥ bahubhiḥ yutam .. prodbhāsita-maṇi-staṃbhaiḥ baddha-sphaṭika-bhū-talaiḥ .. 34 ..
तन्मध्ये रत्नलिंगं हि शंकरस्य कृपानिधे ॥ स्वकृतार्चनसंयुक्तमपश्यद्गोपिकासुतः ॥ ३५ ॥
तद्-मध्ये रत्न-लिंगम् हि शंकरस्य कृपा-निधे ॥ स्व-कृत-अर्चन-संयुक्तम् अपश्यत् गोपिकासुतः ॥ ३५ ॥
tad-madhye ratna-liṃgam hi śaṃkarasya kṛpā-nidhe .. sva-kṛta-arcana-saṃyuktam apaśyat gopikāsutaḥ .. 35 ..
स दृष्ट्वा सहसोत्थाय शिशुर्विस्मितमानसः ॥ संनिमग्न इवासीद्वै परमानंदसागरे ॥ ३६ ॥
स दृष्ट्वा सहसा उत्थाय शिशुः विस्मित-मानसः ॥ संनिमग्नः इव आसीत् वै परम-आनंद-सागरे ॥ ३६ ॥
sa dṛṣṭvā sahasā utthāya śiśuḥ vismita-mānasaḥ .. saṃnimagnaḥ iva āsīt vai parama-ānaṃda-sāgare .. 36 ..
ततः स्तुत्वा स गिरिशं भूयोभूयः प्रणम्य च ॥ सूर्ये चास्तं गते बालो निर्जगाम शिवालयात् ॥ ३७॥
ततस् स्तुत्वा स गिरिशम् भूयस् भूयस् प्रणम्य च ॥ सूर्ये च अस्तम् गते बालः निर्जगाम शिव-आलयात् ॥ ३७॥
tatas stutvā sa giriśam bhūyas bhūyas praṇamya ca .. sūrye ca astam gate bālaḥ nirjagāma śiva-ālayāt .. 37..
अथापश्यत्स्वशिबिरं पुरंदरपुरोपमम्॥सद्यो हिरण्मयीभूतं विचित्रं परमोज्ज्वलम्॥३८॥
अथा अपश्यत् स्व-शिबिरम् पुरंदर-पुर-उपमम्॥सद्यस् हिरण्मयीभूतम् विचित्रम् परम-उज्ज्वलम्॥३८॥
athā apaśyat sva-śibiram puraṃdara-pura-upamam..sadyas hiraṇmayībhūtam vicitram parama-ujjvalam..38..
सोन्तर्विवेश भवनं सर्वशोभासमन्वितम् ॥ मणिहेमगणाकीर्ण मोदमानो निशामुखे ॥ ३९ ॥
सः अन्तर् विवेश भवनम् सर्व-शोभा-समन्वितम् ॥ मणि-हेम-गण-आकीर्ण मोदमानः निशा-मुखे ॥ ३९ ॥
saḥ antar viveśa bhavanam sarva-śobhā-samanvitam .. maṇi-hema-gaṇa-ākīrṇa modamānaḥ niśā-mukhe .. 39 ..
तत्रापश्यत्स्वजननीं स्वपंतीं दिव्यलक्षणाम्॥रत्नालंकारदीप्तांगीं साक्षात्सुरवधूमिव॥4.17.४०॥
तत्र अपश्यत् स्व-जननीम् स्वपंतीम् दिव्य-लक्षणाम्॥रत्न-अलंकार-दीप्त-अंगीम् साक्षात् सुर-वधूम् इव॥४।१७।४०॥
tatra apaśyat sva-jananīm svapaṃtīm divya-lakṣaṇām..ratna-alaṃkāra-dīpta-aṃgīm sākṣāt sura-vadhūm iva..4.17.40..
अथो स तनयो विप्राश्शिवानुग्रहभाजनम्॥जवेनोत्थापयामास मातरं सुखविह्वलः ॥ ४१॥
अथो स तनयः विप्राः शिव-अनुग्रह-भाजनम्॥जवेन उत्थापयामास मातरम् सुख-विह्वलः ॥ ४१॥
atho sa tanayaḥ viprāḥ śiva-anugraha-bhājanam..javena utthāpayāmāsa mātaram sukha-vihvalaḥ .. 41..
सोत्थिताद्भुतमालक्ष्यापूर्वं सर्वमिवाभवत् ॥ महानंदसुमग्ना हि सस्वजे स्वसुतं च तम्॥४२॥
सा उत्थिता अद्भुतम् आलक्ष्य अपूर्वम् सर्वम् इव अभवत् ॥ महानंद-सु मग्ना हि सस्वजे स्व-सुतम् च तम्॥४२॥
sā utthitā adbhutam ālakṣya apūrvam sarvam iva abhavat .. mahānaṃda-su magnā hi sasvaje sva-sutam ca tam..42..
श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ॥ प्रभुं विज्ञापयामास यो भजत्यनिशं शिवम् ॥ ४३॥
श्रुत्वा पुत्र-मुखात् सर्वम् प्रसादम् गिरिजापतेः ॥ प्रभुम् विज्ञापयामास यः भजति अनिशम् शिवम् ॥ ४३॥
śrutvā putra-mukhāt sarvam prasādam girijāpateḥ .. prabhum vijñāpayāmāsa yaḥ bhajati aniśam śivam .. 43..
स राजा सहसागत्य समाप्तनियमो निशि ॥ ददर्श गोपिकासूनोः प्रभावं शिवतोषणम् ॥ ४४॥
स राजा सहसा आगत्य समाप्त-नियमः निशि ॥ ददर्श गोपिका-सूनोः प्रभावम् शिव-तोषणम् ॥ ४४॥
sa rājā sahasā āgatya samāpta-niyamaḥ niśi .. dadarśa gopikā-sūnoḥ prabhāvam śiva-toṣaṇam .. 44..
दृष्ट्वा महीपतिस्सर्वं तत्सामात्यपुरोहितः ॥ आसीन्निमग्नो विधृतिः परमानंदसागरे॥४५॥
दृष्ट्वा महीपतिः सर्वम् तत् स अमात्य-पुरोहितः ॥ आसीत् निमग्नः विधृतिः परम-आनंद-सागरे॥४५॥
dṛṣṭvā mahīpatiḥ sarvam tat sa amātya-purohitaḥ .. āsīt nimagnaḥ vidhṛtiḥ parama-ānaṃda-sāgare..45..
प्रेम्णा वाष्पजलं मुञ्चञ्चन्द्रसेनो नृपो हि सः ॥ शिवनामोच्चरन्प्रीत्या परिरेभे तमर्भकम् ॥ ४६ ॥
प्रेम्णा वाष्प-जलम् मुञ्चन् चन्द्रसेनः नृपः हि सः ॥ शिव-नाम उच्चरन् प्रीत्या परिरेभे तम् अर्भकम् ॥ ४६ ॥
premṇā vāṣpa-jalam muñcan candrasenaḥ nṛpaḥ hi saḥ .. śiva-nāma uccaran prītyā parirebhe tam arbhakam .. 46 ..
महामहोत्सवस्तत्र प्रबभूवाद्भुतो द्विजाः ॥ महेशकीर्तनं चक्रुस्सर्वे च सुखविह्वलाः ॥ ४७॥
महा-महा-उत्सवः तत्र प्रबभूव अद्भुतः द्विजाः ॥ महेश-कीर्तनम् चक्रुः सर्वे च सुख-विह्वलाः ॥ ४७॥
mahā-mahā-utsavaḥ tatra prababhūva adbhutaḥ dvijāḥ .. maheśa-kīrtanam cakruḥ sarve ca sukha-vihvalāḥ .. 47..
एवमत्यद्भुताचाराच्छिवमाहात्म्यदर्शनात् ॥ पौराणां सम्भ्रमाच्चैव सा रात्रिः क्षणतामगात् ॥ ४८ ॥
एवम् अत्यद्भुत-आचारात् शिव-माहात्म्य-दर्शनात् ॥ पौराणाम् सम्भ्रमात् च एव सा रात्रिः क्षणताम् अगात् ॥ ४८ ॥
evam atyadbhuta-ācārāt śiva-māhātmya-darśanāt .. paurāṇām sambhramāt ca eva sā rātriḥ kṣaṇatām agāt .. 48 ..
अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ॥ राजानश्चारवक्त्रेभ्यश्शुश्रुवुश्चरितं च तत् ॥ ४९ ॥
अथ प्रभाते युद्धाय पुरम् संरुध्य संस्थिताः ॥ राजानः चार-वक्त्रेभ्यः शुश्रुवुः चरितम् च तत् ॥ ४९ ॥
atha prabhāte yuddhāya puram saṃrudhya saṃsthitāḥ .. rājānaḥ cāra-vaktrebhyaḥ śuśruvuḥ caritam ca tat .. 49 ..
ते समेताश्च राजानः सर्वे येये समागताः ॥ परस्परमिति प्रोचुस्तच्छ्रुत्वा चकित अति ॥ 4.17.५० ॥
ते समेताः च राजानः सर्वे ये ये समागताः ॥ परस्परम् इति प्रोचुः तत् श्रुत्वा ॥ ४।१७।५० ॥
te sametāḥ ca rājānaḥ sarve ye ye samāgatāḥ .. parasparam iti procuḥ tat śrutvā .. 4.17.50 ..
राजान ऊचुः ।।
अयं राजा चन्द्रसेनश्शिवभक्तोति दुर्जयः ॥ उज्जयिन्या महाकालपुर्याः पतिरनाकुलः ॥ ५१ ॥
अयम् राजा चन्द्रसेनः शिव-भक्ता इति दुर्जयः ॥ उज्जयिन्याः महाकाल-पुर्याः पतिः अन् आकुलः ॥ ५१ ॥
ayam rājā candrasenaḥ śiva-bhaktā iti durjayaḥ .. ujjayinyāḥ mahākāla-puryāḥ patiḥ an ākulaḥ .. 51 ..
ईदृशाश्शिशवो यस्य पुर्य्यां संति शिवव्रताः ॥ स राजा चन्द्रसेनस्तु महाशंकरसेवकः ॥ ५२ ॥
ईदृशाः शिशवः यस्य पुर्य्याम् संति शिव-व्रताः ॥ स राजा चन्द्रसेनः तु महा-शंकर-सेवकः ॥ ५२ ॥
īdṛśāḥ śiśavaḥ yasya puryyām saṃti śiva-vratāḥ .. sa rājā candrasenaḥ tu mahā-śaṃkara-sevakaḥ .. 52 ..
नूनमस्य विरोधेन शिवः क्रोधं करिष्यति ॥ तत्क्रोधाद्धि वयं सर्वे भविष्यामो विनष्टकाः ॥ ५३ ॥
नूनम् अस्य विरोधेन शिवः क्रोधम् करिष्यति ॥ तद्-क्रोधात् हि वयम् सर्वे भविष्यामः विनष्टकाः ॥ ५३ ॥
nūnam asya virodhena śivaḥ krodham kariṣyati .. tad-krodhāt hi vayam sarve bhaviṣyāmaḥ vinaṣṭakāḥ .. 53 ..
तस्मादनेन राज्ञा वै मिलापः कार्य एव हि ॥ एवं सति महेशानः करिष्यति कृपां पराम् ॥ ५४ ॥
तस्मात् अनेन राज्ञा वै मिलापः कार्यः एव हि ॥ एवम् सति महेशानः करिष्यति कृपाम् पराम् ॥ ५४ ॥
tasmāt anena rājñā vai milāpaḥ kāryaḥ eva hi .. evam sati maheśānaḥ kariṣyati kṛpām parām .. 54 ..
सूत उवाच ।।
इति निश्चित्य ते भूपास्त्यक्तवैरास्सदाशयाः ॥ सर्वे बभूवुस्सुप्रीता न्यस्तशस्त्रास्त्रपाणयः ॥ ५५ ॥
इति निश्चित्य ते भूपाः त्यक्त-वैराः सत्-आशयाः ॥ सर्वे बभूवुः सु प्रीताः न्यस्त-शस्त्र-अस्त्र-पाणयः ॥ ५५ ॥
iti niścitya te bhūpāḥ tyakta-vairāḥ sat-āśayāḥ .. sarve babhūvuḥ su prītāḥ nyasta-śastra-astra-pāṇayaḥ .. 55 ..
विविशुस्ते पुरीं रम्यां महाकालस्य भूभृतः ॥ महाकालं समानर्चुश्चंद्रसेनानुमोदिताः ॥ ५६ ॥
विविशुः ते पुरीम् रम्याम् महाकालस्य भूभृतः ॥ महाकालम् समानर्चुः चंद्रसेन-अनुमोदिताः ॥ ५६ ॥
viviśuḥ te purīm ramyām mahākālasya bhūbhṛtaḥ .. mahākālam samānarcuḥ caṃdrasena-anumoditāḥ .. 56 ..
ततस्ते गोपवनिता गेहं जग्मुर्महीभृतः ॥ प्रसंशंतश्च तद्भाग्यं सर्वे दिव्यमहोदयम् ॥ ५७ ॥
ततस् ते गोप-वनिताः गेहम् जग्मुः महीभृतः ॥ तद्-भाग्यम् सर्वे दिव्य-महा-उदयम् ॥ ५७ ॥
tatas te gopa-vanitāḥ geham jagmuḥ mahībhṛtaḥ .. tad-bhāgyam sarve divya-mahā-udayam .. 57 ..
ते तत्र चन्द्रसेनेन प्रत्युद्गम्याभिपूजिताः ॥ महार्हविष्टरगताः प्रत्यनंदन्सुविस्मिताः ॥ ५८ ॥
ते तत्र चन्द्रसेनेन प्रत्युद्गम्य अभिपूजिताः ॥ महार्ह-विष्टर-गताः प्रत्यनंदन् सु विस्मिताः ॥ ५८ ॥
te tatra candrasenena pratyudgamya abhipūjitāḥ .. mahārha-viṣṭara-gatāḥ pratyanaṃdan su vismitāḥ .. 58 ..
गोपसूनोः प्रसादात्तत्प्रादुर्भूतं शिवालयम् ॥ संवीक्ष्य शिवलिंगं च शिवे चकुः परां मतिम्॥५९॥
गोप-सूनोः प्रसादात् तत् प्रादुर्भूतम् शिवालयम् ॥ संवीक्ष्य शिव-लिंगम् च शिवे चकुः पराम् मतिम्॥५९॥
gopa-sūnoḥ prasādāt tat prādurbhūtam śivālayam .. saṃvīkṣya śiva-liṃgam ca śive cakuḥ parām matim..59..
ततस्ते गोपशिशवे प्रीता निखिलभूभुजः ॥ ददुर्बहूनि वस्तूनि तस्मै शिवकृपार्थिनः ॥ 4.17.६० ॥
ततस् ते गोप-शिशवे प्रीताः निखिल-भूभुजः ॥ ददुः बहूनि वस्तूनि तस्मै शिव-कृपा-अर्थिनः ॥ ४।१७।६० ॥
tatas te gopa-śiśave prītāḥ nikhila-bhūbhujaḥ .. daduḥ bahūni vastūni tasmai śiva-kṛpā-arthinaḥ .. 4.17.60 ..
येये सर्वेषु देशेषु गोपास्तिष्ठंति भूरिशः ॥ तेषां तमेव राजानं चक्रिरे सर्वपार्थिवाः ॥ ६१ ॥
ये ये सर्वेषु देशेषु गोपाः तिष्ठन्ति भूरिशस् ॥ तेषाम् तम् एव राजानम् चक्रिरे सर्व-पार्थिवाः ॥ ६१ ॥
ye ye sarveṣu deśeṣu gopāḥ tiṣṭhanti bhūriśas .. teṣām tam eva rājānam cakrire sarva-pārthivāḥ .. 61 ..
अथास्मिन्नन्तरे सर्वैस्त्रिदशैरभिपूजितः ॥ प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः ॥ ६२ ॥
अथ अस्मिन् अन्तरे सर्वैः त्रिदशैः अभिपूजितः ॥ प्रादुर्बभूव तेजस्वी हनूमान् वानर-ईश्वरः ॥ ६२ ॥
atha asmin antare sarvaiḥ tridaśaiḥ abhipūjitaḥ .. prādurbabhūva tejasvī hanūmān vānara-īśvaraḥ .. 62 ..
ते तस्याभिगमादेव राजानो जातसंभ्रमाः ॥ प्रत्युत्थाय नमश्चकुर्भक्तिनम्रात्ममूर्तयः ॥ ॥ ६३ ॥
ते तस्य अभिगमात् एव राजानः जात-संभ्रमाः ॥ प्रत्युत्थाय नमश्चकुः भक्ति-नम्र-आत्म-मूर्तयः ॥ ॥ ६३ ॥
te tasya abhigamāt eva rājānaḥ jāta-saṃbhramāḥ .. pratyutthāya namaścakuḥ bhakti-namra-ātma-mūrtayaḥ .. .. 63 ..
तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ॥ गोपात्मजं तमालिंग्य राज्ञो वीक्ष्येदमब्रवीत् ॥ ६४ ॥
तेषाम् मध्ये समासीनः पूजितः प्लवग-ईश्वरः ॥ गोप-आत्मजम् तम् आलिंग्य राज्ञः वीक्ष्य इदम् अब्रवीत् ॥ ६४ ॥
teṣām madhye samāsīnaḥ pūjitaḥ plavaga-īśvaraḥ .. gopa-ātmajam tam āliṃgya rājñaḥ vīkṣya idam abravīt .. 64 ..
हनूमानुवाच
सर्वे शृण्वन्तु भद्रं वो राजानो ये च देहिनः ॥ ऋते शिवं नान्यतमो गतिरस्ति शरीरिणाम् ॥ ६५ ॥
सर्वे शृण्वन्तु भद्रम् वः राजानः ये च देहिनः ॥ ऋते शिवम् ना अन्यतमः गतिः अस्ति शरीरिणाम् ॥ ६५ ॥
sarve śṛṇvantu bhadram vaḥ rājānaḥ ye ca dehinaḥ .. ṛte śivam nā anyatamaḥ gatiḥ asti śarīriṇām .. 65 ..
एवं गोपसुतो दिष्ट्या शिवपूजां विलोक्य च ॥ अमंत्रेणापि संपूज्य शिवं शिवमवाप्तवान् ॥ ६६ ॥
एवम् गोप-सुतः दिष्ट्या शिव-पूजाम् विलोक्य च ॥ अमंत्रेण अपि संपूज्य शिवम् शिवम् अवाप्तवान् ॥ ६६ ॥
evam gopa-sutaḥ diṣṭyā śiva-pūjām vilokya ca .. amaṃtreṇa api saṃpūjya śivam śivam avāptavān .. 66 ..
एष भक्तवरश्शंभोर्गोपानां कीर्तिवर्द्धनः ॥ इह भुक्त्वाखिलान्भोगानंते मोक्षमवाप्स्यति ॥ ६७ ॥
एष भक्त-वरः शंभोः गोपानाम् कीर्ति-वर्द्धनः ॥ इह भुक्त्वा अखिलान् भोगान् अन्ते मोक्षम् अवाप्स्यति ॥ ६७ ॥
eṣa bhakta-varaḥ śaṃbhoḥ gopānām kīrti-varddhanaḥ .. iha bhuktvā akhilān bhogān ante mokṣam avāpsyati .. 67 ..
अस्य वंशेऽष्टमो भावी नन्दो नाम महायशाः ॥ प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारायणस्स्वयम् ॥ ६८ ॥
अस्य वंशे अष्टमः भावी नन्दः नाम महा-यशाः ॥ प्राप्स्यते तस्य पुत्र-त्वम् कृष्णः नारायणः स्वयम् ॥ ६८ ॥
asya vaṃśe aṣṭamaḥ bhāvī nandaḥ nāma mahā-yaśāḥ .. prāpsyate tasya putra-tvam kṛṣṇaḥ nārāyaṇaḥ svayam .. 68 ..
अद्यप्रभृति लोकेस्मिन्नेष गोप कुमारकः ॥ नाम्ना श्रीकर इत्युच्चैर्लोकख्यातिं गमिष्यति ॥ ६९ ॥
अद्य प्रभृति लोके इस्मिन् एष गोप कुमारकः ॥ नाम्ना श्रीकरः इति उच्चैस् लोक-ख्यातिम् गमिष्यति ॥ ६९ ॥
adya prabhṛti loke ismin eṣa gopa kumārakaḥ .. nāmnā śrīkaraḥ iti uccais loka-khyātim gamiṣyati .. 69 ..
सूत उवाच ।।
एवमुक्त्वाञ्जनीसूनुः शिवरूपो हरीश्वरः॥सर्वान्राज्ञश्चन्द्रसेनं कृपादृष्ट्या ददर्श ह॥4.17.७०॥
एवम् उक्त्वा अञ्जनीसूनुः शिव-रूपः हरि-ईश्वरः॥सर्वान् राज्ञः चन्द्रसेनम् कृपा-दृष्ट्या ददर्श ह॥४।१७।७०॥
evam uktvā añjanīsūnuḥ śiva-rūpaḥ hari-īśvaraḥ..sarvān rājñaḥ candrasenam kṛpā-dṛṣṭyā dadarśa ha..4.17.70..
अथ तस्मै श्रीकराय गोपपुत्राय धीमते॥उपादिदेश सुप्रीत्या शिवाचारं शिवप्रियम्॥७१॥
अथ तस्मै श्रीकराय गोप-पुत्राय धीमते॥उपादिदेश सु प्रीत्या शिव-आचारम् शिव-प्रियम्॥७१॥
atha tasmai śrīkarāya gopa-putrāya dhīmate..upādideśa su prītyā śiva-ācāram śiva-priyam..71..
हनूमानथ सुप्रीतः सर्वेषां पश्यतां द्विजः॥चन्द्रसेनं श्रीकरं च तत्रैवान्तरधी यत॥७२॥
हनूमान् अथ सु प्रीतः सर्वेषाम् पश्यताम् द्विजः॥चन्द्रसेनम् श्रीकरम् च तत्र एव अन्तरधी यत॥७२॥
hanūmān atha su prītaḥ sarveṣām paśyatām dvijaḥ..candrasenam śrīkaram ca tatra eva antaradhī yata..72..
तं सर्वे च महीपालास्संहृष्टाः प्रतिपूजिताः॥चन्द्रसेनं समामंत्र्य प्रतिजग्मुर्यथागतम्॥७३॥
तम् सर्वे च महीपालाः संहृष्टाः प्रतिपूजिताः॥चन्द्रसेनम् समामंत्र्य प्रतिजग्मुः यथागतम्॥७३॥
tam sarve ca mahīpālāḥ saṃhṛṣṭāḥ pratipūjitāḥ..candrasenam samāmaṃtrya pratijagmuḥ yathāgatam..73..
श्रीकरोपि महातेजा उपदिष्टो हनूमता॥ब्राह्मणैस्सहधर्मज्ञैश्चक्रे शम्भोस्समर्हणम् ॥ ७४॥
श्रीकरः अपि महा-तेजाः उपदिष्टः हनूमता॥ब्राह्मणैः सह धर्म-ज्ञैः चक्रे शम्भोः समर्हणम् ॥ ७४॥
śrīkaraḥ api mahā-tejāḥ upadiṣṭaḥ hanūmatā..brāhmaṇaiḥ saha dharma-jñaiḥ cakre śambhoḥ samarhaṇam .. 74..
चन्द्रसेनो महाराजः श्रीकरो गोपबालकः॥उभावपि परप्रीत्या महाकालं च भेजतुः ॥ ७५ ॥
॥उभौ अपि पर-प्रीत्या महाकालम् च भेजतुः ॥ ७५ ॥
..ubhau api para-prītyā mahākālam ca bhejatuḥ .. 75 ..
कालेन श्रीकरस्सोपि चन्द्रसेनश्च भूपतिः ॥ समाराध्य महाकालं भेजतुः परमं पदम् ॥ ७६॥
कालेन श्रीकरः सः अपि चन्द्रसेनः च भूपतिः ॥ समाराध्य महाकालम् भेजतुः परमम् पदम् ॥ ७६॥
kālena śrīkaraḥ saḥ api candrasenaḥ ca bhūpatiḥ .. samārādhya mahākālam bhejatuḥ paramam padam .. 76..
एवंविधो महाकालश्शिवलिंगस्सतां गतिः ॥ सर्वथा दुष्टहंता च शंकरो भक्तवत्सलः ॥ ७७॥
एवंविधः महाकालः शिव-लिंगः सताम् गतिः ॥ सर्वथा दुष्ट-हंता च शंकरः भक्त-वत्सलः ॥ ७७॥
evaṃvidhaḥ mahākālaḥ śiva-liṃgaḥ satām gatiḥ .. sarvathā duṣṭa-haṃtā ca śaṃkaraḥ bhakta-vatsalaḥ .. 77..
इदं पवित्रं परमं रहस्यं सर्वसौख्यदम् ॥ आख्यानं कथितं स्वर्ग्यं शिवभक्तिविवर्द्धनम्॥७८॥
इदम् पवित्रम् परमम् रहस्यम् सर्व-सौख्य-दम् ॥ आख्यानम् कथितम् स्वर्ग्यम् शिव-भक्ति-विवर्द्धनम्॥७८॥
idam pavitram paramam rahasyam sarva-saukhya-dam .. ākhyānam kathitam svargyam śiva-bhakti-vivarddhanam..78..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ १७॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् महाकालज्योतिर्लिंगमाहात्म्यवर्णनम् नाम सप्तदशः अध्यायः ॥ १७॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām mahākālajyotirliṃgamāhātmyavarṇanam nāma saptadaśaḥ adhyāyaḥ .. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In