| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
त्वया सूत महाभाग श्राविता ह्यद्भुता कथा ॥ महाकालाख्यलिंगस्य निजभक्तसुरक्षिकः॥१॥
त्वया सूत महाभाग श्राविता हि अद्भुता कथा ॥ महाकाल-आख्य-लिंगस्य निज-भक्त-सुरक्षिकः॥१॥
tvayā sūta mahābhāga śrāvitā hi adbhutā kathā .. mahākāla-ākhya-liṃgasya nija-bhakta-surakṣikaḥ..1..
ज्योतिर्लिंगं चतुर्थं च कृपया वद वित्तम॥ॐकारं परमेशस्य सर्वपातकहारिणः॥२॥
ज्योतिर्लिंगम् चतुर्थम् च कृपया वद वित्तम॥ओंकारम् परमेशस्य सर्व-पातक-हारिणः॥२॥
jyotirliṃgam caturtham ca kṛpayā vada vittama..oṃkāram parameśasya sarva-pātaka-hāriṇaḥ..2..
सूत उवाच।।
ॐकारे परमेशाख्यं लिंगमासीद्यथा द्विजाः॥तथा वक्ष्यामि वः प्रीत्या श्रूयतां परमर्षयः॥ ३ ॥
ओंकारे परमेश-आख्यम् लिंगम् आसीत् यथा द्विजाः॥तथा वक्ष्यामि वः प्रीत्या श्रूयताम् परम-ऋषयः॥ ३ ॥
oṃkāre parameśa-ākhyam liṃgam āsīt yathā dvijāḥ..tathā vakṣyāmi vaḥ prītyā śrūyatām parama-ṛṣayaḥ.. 3 ..
कस्मिंश्चित्समये चाञ नारदो भगवान्मुनिः॥गोकर्णाख्यं शिवं गत्वा सिषेवे परभक्तिमान्॥४॥
कस्मिंश्चिद् समये नारदः भगवान् मुनिः॥गोकर्ण-आख्यम् शिवम् गत्वा सिषेवे पर-भक्तिमान्॥४॥
kasmiṃścid samaye nāradaḥ bhagavān muniḥ..gokarṇa-ākhyam śivam gatvā siṣeve para-bhaktimān..4..
ततस्स आगतो विन्ध्यं नगेशं मुनिसत्तमः॥तत्रैव पूजितस्तेन बहुमानपुरस्सरम्॥५॥
ततस् सः आगतः विन्ध्यम् नग-ईशम् मुनि-सत्तमः॥तत्र एव पूजितः तेन बहु-मान-पुरस्सरम्॥५॥
tatas saḥ āgataḥ vindhyam naga-īśam muni-sattamaḥ..tatra eva pūjitaḥ tena bahu-māna-purassaram..5..
मयि सर्वं विद्यते च न न्यूनं हि कदाचन॥इति भावं समास्थाय संस्थितो नारदाग्रतः॥६॥
मयि सर्वम् विद्यते च न न्यूनम् हि कदाचन॥इति भावम् समास्थाय संस्थितः नारद-अग्रतस्॥६॥
mayi sarvam vidyate ca na nyūnam hi kadācana..iti bhāvam samāsthāya saṃsthitaḥ nārada-agratas..6..
तन्मानं तत्तदा श्रुत्वा नारदो मानहा ततः॥निश्श्वस्य संस्थितस्तत्र श्रुत्वाविन्ध्योऽब्रवीदिदम् ॥ ७ ॥
तद्-मानम् तत् तदा श्रुत्वा नारदः मान-हा ततस्॥निश्श्वस्य संस्थितः तत्र श्रुत्वा अविन्ध्यः अब्रवीत् इदम् ॥ ७ ॥
tad-mānam tat tadā śrutvā nāradaḥ māna-hā tatas..niśśvasya saṃsthitaḥ tatra śrutvā avindhyaḥ abravīt idam .. 7 ..
विन्ध्य उवाच ।।
किं न्यूनं च त्वया दृष्टं मयि निश्श्वासकारणम् ॥ तच्छ्रुत्वा नारदो वाक्यमब्रवीत्स महामुनिः ॥ ८ ॥
किम् न्यूनम् च त्वया दृष्टम् मयि निश्श्वास-कारणम् ॥ तत् श्रुत्वा नारदः वाक्यम् अब्रवीत् स महा-मुनिः ॥ ८ ॥
kim nyūnam ca tvayā dṛṣṭam mayi niśśvāsa-kāraṇam .. tat śrutvā nāradaḥ vākyam abravīt sa mahā-muniḥ .. 8 ..
नारद उवाच ।।
विद्यते त्वयि सर्वं हि मेरुरुच्चतरः पुनः ॥ देवेष्वपि विभागोऽस्य न तवास्ति कदाचन ॥ ९ ॥
विद्यते त्वयि सर्वम् हि मेरुः उच्चतरः पुनर् ॥ देवेषु अपि विभागः अस्य न तव अस्ति कदाचन ॥ ९ ॥
vidyate tvayi sarvam hi meruḥ uccataraḥ punar .. deveṣu api vibhāgaḥ asya na tava asti kadācana .. 9 ..
सूत उवाच ।।
इत्युक्त्वा नारदस्तस्माज्जगाम च यथागतम् ॥ विन्ध्यश्च परितप्तो वै धिग्वै मे जीवितादिकम् ॥ 4.18.१०॥
इति उक्त्वा नारदः तस्मात् जगाम च यथागतम् ॥ विन्ध्यः च परितप्तः वै धिक् वै मे जीवित-आदिकम् ॥ ४।१८।१०॥
iti uktvā nāradaḥ tasmāt jagāma ca yathāgatam .. vindhyaḥ ca paritaptaḥ vai dhik vai me jīvita-ādikam .. 4.18.10..
विश्वेश्वरं तथा शंभुमाराध्य च तपाम्यहम् ॥ इति निश्चित्य मनसा शंकर शरणं गतः ॥ ११ ॥
विश्वेश्वरम् तथा शंभुम् आराध्य च तपामि अहम् ॥ इति निश्चित्य मनसा शंकर शरणम् गतः ॥ ११ ॥
viśveśvaram tathā śaṃbhum ārādhya ca tapāmi aham .. iti niścitya manasā śaṃkara śaraṇam gataḥ .. 11 ..
जगाम तत्र सुप्रीत्या ह्योंकारो यत्र वै स्वयम् ॥ चकार च पुनस्तत्र शिवमूर्तिश्च पार्थिवीम् ॥ १२ ॥
जगाम तत्र सु प्रीत्या हि ओंकारः यत्र वै स्वयम् ॥ चकार च पुनर् तत्र शिव-मूर्तिः च पार्थिवीम् ॥ १२ ॥
jagāma tatra su prītyā hi oṃkāraḥ yatra vai svayam .. cakāra ca punar tatra śiva-mūrtiḥ ca pārthivīm .. 12 ..
आराध्य च तदा शंभुं षण्मासं स निरन्तरम्॥न चचाल तपस्थानाच्छिवध्यानपरायणः ॥ १३॥
आराध्य च तदा शंभुम् षष्-मासम् स निरन्तरम्॥न चचाल तप-स्थानात् शिव-ध्यान-परायणः ॥ १३॥
ārādhya ca tadā śaṃbhum ṣaṣ-māsam sa nirantaram..na cacāla tapa-sthānāt śiva-dhyāna-parāyaṇaḥ .. 13..
एवं विंध्यतपो दृष्ट्वा प्रसन्नः पार्वतीपतिः ॥ स्वरूपं दर्शयामास दुर्ल्लभं योगिनामपि ॥ १४ ॥
एवम् विंध्य-तपः दृष्ट्वा प्रसन्नः पार्वतीपतिः ॥ स्व-रूपम् दर्शयामास दुर्ल्लभम् योगिनाम् अपि ॥ १४ ॥
evam viṃdhya-tapaḥ dṛṣṭvā prasannaḥ pārvatīpatiḥ .. sva-rūpam darśayāmāsa durllabham yoginām api .. 14 ..
प्रसन्नस्स तदोवाच ब्रूहि त्वं मनसेप्सितम् ॥ तपसा ते प्रसन्नोस्मि भक्तानामीप्सितप्रदः॥१५॥
प्रसन्नः स तदा उवाच ब्रूहि त्वम् मनसा ईप्सितम् ॥ तपसा ते प्रसन्नः अस्मि भक्तानाम् ईप्सित-प्रदः॥१५॥
prasannaḥ sa tadā uvāca brūhi tvam manasā īpsitam .. tapasā te prasannaḥ asmi bhaktānām īpsita-pradaḥ..15..
विन्ध्य उवाच ।।
यदि प्रसन्नो देवेश बुद्धिं देहि यथेप्सिताम् ॥ स्वकार्यसाधिनीं शंभो त्वं सदा भक्तवत्सलः ॥ १६॥
यदि प्रसन्नः देवेश बुद्धिम् देहि यथा ईप्सिताम् ॥ स्व-कार्य-साधिनीम् शंभो त्वम् सदा भक्त-वत्सलः ॥ १६॥
yadi prasannaḥ deveśa buddhim dehi yathā īpsitām .. sva-kārya-sādhinīm śaṃbho tvam sadā bhakta-vatsalaḥ .. 16..
सूत उवाच ।।
तच्छ्रुत्वा भगवाञ्छंभुश्चिचेत हृदये चिरम्॥परोपतापदं विन्ध्यो वरमिच्छति मूढधीः ॥ १७॥
तत् श्रुत्वा भगवान् शंभुः चिचेत हृदये चिरम्॥पर-उपताप-दम् विन्ध्यः वरम् इच्छति मूढ-धीः ॥ १७॥
tat śrutvā bhagavān śaṃbhuḥ ciceta hṛdaye ciram..para-upatāpa-dam vindhyaḥ varam icchati mūḍha-dhīḥ .. 17..
किं करोमि यदेतस्मै वरदानं भवेच्छुभम् ॥ मद्दत्तं परदुःखाय वरदानं यथा नहि ॥ १८ ॥
किम् करोमि यत् एतस्मै वर-दानम् भवेत् शुभम् ॥ मद्-दत्तम् पर-दुःखाय वर-दानम् यथा नहि ॥ १८ ॥
kim karomi yat etasmai vara-dānam bhavet śubham .. mad-dattam para-duḥkhāya vara-dānam yathā nahi .. 18 ..
सूत उवाच ।।
तथापि दत्तवाञ् शंभुस्तस्मै तद्वरमुत्तमम् ॥ विध्यपर्वतराज त्वं यथेच्छसि तथा कुरु ॥ १९ ॥
तथा अपि दत्तवान् शंभुः तस्मै तत् वरम् उत्तमम् ॥ विध्य पर्वत-राज त्वम् यथा इच्छसि तथा कुरु ॥ १९ ॥
tathā api dattavān śaṃbhuḥ tasmai tat varam uttamam .. vidhya parvata-rāja tvam yathā icchasi tathā kuru .. 19 ..
एवं च समये देवा ऋपयश्चामलाशयाः ॥ संपूज्य शंकरं तत्र स्थातव्यमिति चाबुवन्॥4.18.२०॥
एवम् च समये देवाः ऋपयः च अमल-आशयाः ॥ संपूज्य शंकरम् तत्र स्थातव्यम् इति च अबुवन्॥४।१८।२०॥
evam ca samaye devāḥ ṛpayaḥ ca amala-āśayāḥ .. saṃpūjya śaṃkaram tatra sthātavyam iti ca abuvan..4.18.20..
तच्छुत्वा देववचनं प्रसन्नः परमेश्वरः॥तथैव कृतवान्प्रीत्या लोकानां सुखहेतवे ॥ २१ ॥
तत् शुत्वा देव-वचनम् प्रसन्नः परमेश्वरः॥तथा एव कृतवान् प्रीत्या लोकानाम् सुख-हेतवे ॥ २१ ॥
tat śutvā deva-vacanam prasannaḥ parameśvaraḥ..tathā eva kṛtavān prītyā lokānām sukha-hetave .. 21 ..
ॐ कारं चैव यल्लिंगमेकं तच्च द्विधा गतम् ॥ प्रणवे चैव ॐकारनामासीत्स सदाशिवः ॥ २२ ॥
ओम् कारम् च एव यत् लिंगम् एकम् तत् च द्विधा गतम् ॥ प्रणवे च एव ओंकार-नामा आसीत् स सदाशिवः ॥ २२ ॥
om kāram ca eva yat liṃgam ekam tat ca dvidhā gatam .. praṇave ca eva oṃkāra-nāmā āsīt sa sadāśivaḥ .. 22 ..
पार्थिवे चैव यज्जातं तदासीत्परमेश्वरः ॥ भक्ताभीष्टप्रदौ चोभौ भुक्तिमुक्तिप्रदौ द्विजाः ॥ २३ ॥
पार्थिवे च एव यत् जातम् तदा आसीत् परमेश्वरः ॥ भक्त-अभीष्ट-प्रदौ च उभौ भुक्ति-मुक्ति-प्रदौ द्विजाः ॥ २३ ॥
pārthive ca eva yat jātam tadā āsīt parameśvaraḥ .. bhakta-abhīṣṭa-pradau ca ubhau bhukti-mukti-pradau dvijāḥ .. 23 ..
तत्पूजां च तदा चक्रुर्देवाश्च ऋषयस्तथा ॥ प्रापुर्वराननेकांश्च संतोष्य वृषभध्वजम् ॥ २४॥
तद्-पूजाम् च तदा चक्रुः देवाः च ऋषयः तथा ॥ प्रापुः वरान् अनेकान् च संतोष्य वृषभध्वजम् ॥ २४॥
tad-pūjām ca tadā cakruḥ devāḥ ca ṛṣayaḥ tathā .. prāpuḥ varān anekān ca saṃtoṣya vṛṣabhadhvajam .. 24..
स्वस्वस्थानं ययुर्देवा विन्ध्योपि मुदितोऽधिकम् ॥ कार्य्यं साधितवान्स्वीयं परितापं जहौ द्विजाः ॥ २५॥
स्व-स्व-स्थानम् ययुः देवाः विन्ध्यः अपि मुदितः अधिकम् ॥ कार्य्यम् साधितवान् स्वीयम् परितापम् जहौ द्विजाः ॥ २५॥
sva-sva-sthānam yayuḥ devāḥ vindhyaḥ api muditaḥ adhikam .. kāryyam sādhitavān svīyam paritāpam jahau dvijāḥ .. 25..
य एवं पूजयेच्छंभुं मातृगर्भं वसेन्न हि ॥ यदभीष्टफलं तच्च प्राप्नुयान्नात्र संशय ॥ २६ ॥
यः एवम् पूजयेत् शंभुम् मातृगर्भम् वसेत् न हि ॥ यत् अभीष्ट-फलम् तत् च प्राप्नुयात् न अत्र संशय ॥ २६ ॥
yaḥ evam pūjayet śaṃbhum mātṛgarbham vaset na hi .. yat abhīṣṭa-phalam tat ca prāpnuyāt na atra saṃśaya .. 26 ..
सूत उवाच ।।
एतत्ते सर्वमाख्यातमोंकारप्रभवे फलम् ॥ अतः परं प्रवक्ष्यामि केदारं लिंगमुत्तमम् ॥ २७ ॥
एतत् ते सर्वम् आख्यातम् ओंकार-प्रभवे फलम् ॥ अतस् परम् प्रवक्ष्यामि केदारम् लिंगम् उत्तमम् ॥ २७ ॥
etat te sarvam ākhyātam oṃkāra-prabhave phalam .. atas param pravakṣyāmi kedāram liṃgam uttamam .. 27 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामोंकारेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥ १८॥
इति श्री-शिवमहापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् ओंकारेश्वरज्योतिर्लिंगमाहात्म्यवर्णनम् नाम अष्टादशः अध्यायः ॥ १८॥
iti śrī-śivamahāpurāṇe caturthyām koṭirudrasaṃhitāyām oṃkāreśvarajyotirliṃgamāhātmyavarṇanam nāma aṣṭādaśaḥ adhyāyaḥ .. 18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In