| |
|

This overlay will guide you through the buttons:

सूत उवाच।।
नरनारायणाख्यौ याववतारौ हरेर्द्विजाः ॥ तेपाते भारते खण्डे बदर्याश्रम एव हि॥१॥
नर-नारायण-आख्यौ यौ अवतारौ हरेः द्विजाः ॥ तेपाते भारते खण्डे बदर्याश्रमे एव हि॥१॥
nara-nārāyaṇa-ākhyau yau avatārau hareḥ dvijāḥ .. tepāte bhārate khaṇḍe badaryāśrame eva hi..1..
ताभ्यां संप्रार्थितश्शंभुः पार्थिवे पूजनाय वै ॥ आयाति नित्यं तल्लिंगे भक्ताधीनतया शिव ॥ २॥
ताभ्याम् संप्रार्थितः शंभुः पार्थिवे पूजनाय वै ॥ आयाति नित्यम् तद्-लिंगे भक्त-अधीन-तया शिव ॥ २॥
tābhyām saṃprārthitaḥ śaṃbhuḥ pārthive pūjanāya vai .. āyāti nityam tad-liṃge bhakta-adhīna-tayā śiva .. 2..
एवं पूजयतोश्शंभुं तयोर्विष्ण्ववतारयोः ॥ चिरकालो व्यतीताय शैवयोर्धर्मपुत्रयोः ॥ ३॥
एवम् पूजयतोः शंभुम् तयोः विष्णु-अवतारयोः ॥ चिर-कालः व्यतीताय शैवयोः धर्मपुत्रयोः ॥ ३॥
evam pūjayatoḥ śaṃbhum tayoḥ viṣṇu-avatārayoḥ .. cira-kālaḥ vyatītāya śaivayoḥ dharmaputrayoḥ .. 3..
एकस्मिन्समये तत्र प्रसन्नः परमेश्वरः ॥ प्रत्युवाच प्रसन्नोस्मि वरो मे व्रियतामिति॥४॥
एकस्मिन् समये तत्र प्रसन्नः परमेश्वरः ॥ प्रत्युवाच प्रसन्नः अस्मि वरः मे व्रियताम् इति॥४॥
ekasmin samaye tatra prasannaḥ parameśvaraḥ .. pratyuvāca prasannaḥ asmi varaḥ me vriyatām iti..4..
इत्युक्ते च तदातेन नरो नारायणस्स्वयम्॥ऊचतुर्वचनं तत्र लोकानां हितकाम्यया ॥ ५ ॥ ॥
इति उक्ते च तदा तेन नरः नारायणः स्वयम्॥ऊचतुः वचनम् तत्र लोकानाम् हित-काम्यया ॥ ५ ॥ ॥
iti ukte ca tadā tena naraḥ nārāyaṇaḥ svayam..ūcatuḥ vacanam tatra lokānām hita-kāmyayā .. 5 .. ..
नरनारायणावूचतुः ।।
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ॥ स्थीयतां स्वेन रूपेण पूजार्थं शंकरस्स्वयम् ॥ ६ ॥
यदि प्रसन्नः देवेश यदि देयः वरः त्वया ॥ स्थीयताम् स्वेन रूपेण पूजा-अर्थम् शंकरः स्वयम् ॥ ६ ॥
yadi prasannaḥ deveśa yadi deyaḥ varaḥ tvayā .. sthīyatām svena rūpeṇa pūjā-artham śaṃkaraḥ svayam .. 6 ..
सूत उवाच ।।
इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ॥ स्वयं च शंकरस्तस्थौ ज्योतीरूपो महेश्वरः ॥ ७॥
इति उक्तः तु तदा ताभ्याम् केदारे हिम-संश्रये ॥ स्वयम् च शंकरः तस्थौ ज्योतीः-रूपः महेश्वरः ॥ ७॥
iti uktaḥ tu tadā tābhyām kedāre hima-saṃśraye .. svayam ca śaṃkaraḥ tasthau jyotīḥ-rūpaḥ maheśvaraḥ .. 7..
ताभ्यां च पूजितश्चैव सर्वदुःखभयापहः ॥ लोकानामुपकारार्थं भक्तानां दर्शनाय वै ॥ ८॥
ताभ्याम् च पूजितः च एव सर्व-दुःख-भय-अपहः ॥ लोकानाम् उपकार-अर्थम् भक्तानाम् दर्शनाय वै ॥ ८॥
tābhyām ca pūjitaḥ ca eva sarva-duḥkha-bhaya-apahaḥ .. lokānām upakāra-artham bhaktānām darśanāya vai .. 8..
स्वयं स्थितस्तदा शंभुः केदारेश्वरसंज्ञकः ॥ भक्ताभीष्टप्रदो नित्यं दर्शनादर्चनादपि ॥ ९॥
स्वयम् स्थितः तदा शंभुः केदारेश्वर-संज्ञकः ॥ भक्त-अभीष्ट-प्रदः नित्यम् दर्शनात् अर्चनात् अपि ॥ ९॥
svayam sthitaḥ tadā śaṃbhuḥ kedāreśvara-saṃjñakaḥ .. bhakta-abhīṣṭa-pradaḥ nityam darśanāt arcanāt api .. 9..
देवाश्च पूजयंतीह ऋषयश्च पुरातनाः॥मनोभीष्ट फलं तेते सुप्रसन्नान्महेश्वरात् ॥ 4.19.१० ॥
देवाः च पूजयंति इह ऋषयः च पुरातनाः॥फलम् सु प्रसन्नात् महेश्वरात् ॥ ४।१९।१० ॥
devāḥ ca pūjayaṃti iha ṛṣayaḥ ca purātanāḥ..phalam su prasannāt maheśvarāt .. 4.19.10 ..
भवस्य पूजनान्नित्यं बदर्याश्रमवासिनः॥प्राप्नुवन्ति यतः सोऽसौ भक्ताभीष्टप्रदः सदा ॥ ११॥
भवस्य पूजनात् नित्यम् बदर्याश्रम-वासिनः॥प्राप्नुवन्ति यतस् सः असौ भक्त-अभीष्ट-प्रदः सदा ॥ ११॥
bhavasya pūjanāt nityam badaryāśrama-vāsinaḥ..prāpnuvanti yatas saḥ asau bhakta-abhīṣṭa-pradaḥ sadā .. 11..
तद्दिनं हि समारभ्य केदारेश्वर एव च ॥ पूजितो येन भक्त्या वै दुःखं स्वप्नेऽति दुर्लभम् ॥ १२॥
तत् दिनम् हि समारभ्य केदारेश्वरे एव च ॥ पूजितः येन भक्त्या वै दुःखम् स्वप्ने अति दुर्लभम् ॥ १२॥
tat dinam hi samārabhya kedāreśvare eva ca .. pūjitaḥ yena bhaktyā vai duḥkham svapne ati durlabham .. 12..
यो वै हि पाण्डवान्दृष्ट्वा माहिषं रूपमास्थितः ॥ मायामास्थाय तत्रैव पलायनपरोऽभवत् ॥ १३ ॥
यः वै हि पाण्डवान् दृष्ट्वा माहिषम् रूपम् आस्थितः ॥ मायाम् आस्थाय तत्र एव पलायन-परः अभवत् ॥ १३ ॥
yaḥ vai hi pāṇḍavān dṛṣṭvā māhiṣam rūpam āsthitaḥ .. māyām āsthāya tatra eva palāyana-paraḥ abhavat .. 13 ..
धृतश्च पाण्डवैस्तत्र ह्यवाङ्मुखतया स्थितः ॥ पुच्छ चैव धृतं तैस्तु प्रार्थितश्च पुनःपुनः ॥ १४ ॥
धृतः च पाण्डवैः तत्र हि अवाङ्मुख-तया स्थितः ॥ च एव धृतम् तैः तु प्रार्थितः च पुनर् पुनर् ॥ १४ ॥
dhṛtaḥ ca pāṇḍavaiḥ tatra hi avāṅmukha-tayā sthitaḥ .. ca eva dhṛtam taiḥ tu prārthitaḥ ca punar punar .. 14 ..
तद्रूपेण स्थितस्तत्र भक्तवत्सलनामभाक् ॥ नयपाले शिरोभागो गतस्तद्रूपतः स्थितः ॥ १५ ॥
तद्-रूपेण स्थितः तत्र भक्त-वत्सल-नाम-भाज् ॥ नयपाले शिरः-भागः गतः तद्-रूपतः स्थितः ॥ १५ ॥
tad-rūpeṇa sthitaḥ tatra bhakta-vatsala-nāma-bhāj .. nayapāle śiraḥ-bhāgaḥ gataḥ tad-rūpataḥ sthitaḥ .. 15 ..
स वै व पूजनान्नित्यमाज्ञां चैवाप्यदात्तथा ॥ पूजितश्च स्वयं शंभुस्तत्र तस्थौ वरानदात् ॥ १६ ॥
स वै पूजनात् नित्यम् आज्ञाम् च एव अपि अदात् तथा ॥ पूजितः च स्वयम् शंभुः तत्र तस्थौ वरानदात् ॥ १६ ॥
sa vai pūjanāt nityam ājñām ca eva api adāt tathā .. pūjitaḥ ca svayam śaṃbhuḥ tatra tasthau varānadāt .. 16 ..
पूजयित्वा गतास्ते तु पाण्डवा मुदितास्तदा ॥ लब्ध्वा चित्तेप्सितं सर्वं विमुक्तास्सर्वदुःखतः ॥ १७ ॥
पूजयित्वा गताः ते तु पाण्डवाः मुदिताः तदा ॥ लब्ध्वा चित्त-ईप्सितम् सर्वम् विमुक्ताः सर्व-दुःखतः ॥ १७ ॥
pūjayitvā gatāḥ te tu pāṇḍavāḥ muditāḥ tadā .. labdhvā citta-īpsitam sarvam vimuktāḥ sarva-duḥkhataḥ .. 17 ..
तत्र नित्यं हस्साक्षात्क्षेत्रे केदारसंज्ञके ॥ भारतीभिः प्रजाभिश्च तथैव परिपूज्यते ॥ १८ ॥
तत्र नित्यम् हस्-साक्षात् क्षेत्रे केदार-संज्ञके ॥ भारतीभिः प्रजाभिः च तथा एव परिपूज्यते ॥ १८ ॥
tatra nityam has-sākṣāt kṣetre kedāra-saṃjñake .. bhāratībhiḥ prajābhiḥ ca tathā eva paripūjyate .. 18 ..
तत्रत्यं वलयं यो वै ददाति हरवल्लभः ॥ हररूपांतिकं तच्च हररूपसमन्वितम् ॥ १९ ॥
तत्रत्यम् वलयम् यः वै ददाति हर-वल्लभः ॥ हर-रूप-अंतिकम् तत् च हर-रूप-समन्वितम् ॥ १९ ॥
tatratyam valayam yaḥ vai dadāti hara-vallabhaḥ .. hara-rūpa-aṃtikam tat ca hara-rūpa-samanvitam .. 19 ..
तथैव रूपं दृष्ट्वा च सर्वपापैः प्रमुच्यते ॥ जीवन्मुक्तो भवेत्सोपि यो गतो बदरीवने ॥ 4.19.२० ॥
तथा एव रूपम् दृष्ट्वा च सर्व-पापैः प्रमुच्यते ॥ जीवन्मुक्तः भवेत् सः अपि यः गतः बदरी-वने ॥ ४।१९।२० ॥
tathā eva rūpam dṛṣṭvā ca sarva-pāpaiḥ pramucyate .. jīvanmuktaḥ bhavet saḥ api yaḥ gataḥ badarī-vane .. 4.19.20 ..
दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ॥ केदारेश्वरशंभोश्च मुक्तभागी न संशयः ॥ २१ ॥
दृष्ट्वा रूपम् नरस्य एव तथा नारायणस्य हि ॥ केदारेश्वर-शंभोः च मुक्त-भागी न संशयः ॥ २१ ॥
dṛṣṭvā rūpam narasya eva tathā nārāyaṇasya hi .. kedāreśvara-śaṃbhoḥ ca mukta-bhāgī na saṃśayaḥ .. 21 ..
केदारेशस्य भक्ता ये मार्गस्थास्तस्य वै मृता॥गतेऽपि मुक्ता भवंत्येव नात्र कार्य्या विचारणा ॥ २२॥
केदारेशस्य भक्ताः ये मार्ग-स्थाः तस्य वै मृता॥गते अपि मुक्ताः भवन्ति एव न अत्र कार्या विचारणा ॥ २२॥
kedāreśasya bhaktāḥ ye mārga-sthāḥ tasya vai mṛtā..gate api muktāḥ bhavanti eva na atra kāryā vicāraṇā .. 22..
गत्वा तत्र प्रीतियुक्तः केदारेशं प्रपूज्य च ॥ तत्रत्यमुदकं पीत्वा पुनर्जन्म न विन्दति ॥ २३॥
गत्वा तत्र प्रीति-युक्तः केदार-ईशम् प्रपूज्य च ॥ तत्रत्यम् उदकम् पीत्वा पुनर्जन्म न विन्दति ॥ २३॥
gatvā tatra prīti-yuktaḥ kedāra-īśam prapūjya ca .. tatratyam udakam pītvā punarjanma na vindati .. 23..
खण्डेस्मिन्भारते विप्रा नरनारायणेश्वरः ॥ केदारेशः प्रपूज्यश्च सर्वैर्जीवैस्सुभक्तितः ॥ २४॥
खण्डे स्मिन् भारते विप्राः नर-नारायण-ईश्वरः ॥ केदार-ईशः प्रपूज्यः च सर्वैः जीवैः सु भक्तितः ॥ २४॥
khaṇḍe smin bhārate viprāḥ nara-nārāyaṇa-īśvaraḥ .. kedāra-īśaḥ prapūjyaḥ ca sarvaiḥ jīvaiḥ su bhaktitaḥ .. 24..
अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ॥ सर्वकामप्रदश्शंभुः केदाराख्यो न संशय ॥ २५ ॥
अस्य खण्डस्य स स्वामी सर्व-ईशः अपि विशेषतः ॥ सर्व-काम-प्रदः शंभुः केदार-आख्यः न संशय ॥ २५ ॥
asya khaṇḍasya sa svāmī sarva-īśaḥ api viśeṣataḥ .. sarva-kāma-pradaḥ śaṃbhuḥ kedāra-ākhyaḥ na saṃśaya .. 25 ..
एतद्वचस्समाख्यातं यत्पृष्टमृषिसत्तमाः ॥ श्रुत्वा पापं हरेत्सर्वं नात्र कार्या विचारणा ॥ २६॥
एतत् वचः समाख्यातम् यत् पृष्टम् ऋषि-सत्तमाः ॥ श्रुत्वा पापम् हरेत् सर्वम् न अत्र कार्या विचारणा ॥ २६॥
etat vacaḥ samākhyātam yat pṛṣṭam ṛṣi-sattamāḥ .. śrutvā pāpam haret sarvam na atra kāryā vicāraṇā .. 26..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां केदारेश्वरज्योतिर्लिगमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् केदारेश्वरज्योतिर्लिगमाहात्म्यवर्णनम् नाम एकोनविंशः अध्यायः ॥ १९ ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām kedāreśvarajyotirligamāhātmyavarṇanam nāma ekonaviṃśaḥ adhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In