| |
|

This overlay will guide you through the buttons:

गंगातीरे सुप्रसिद्धा काशी खलु विमुक्तिदा ॥ सा हि लिंगमयी ज्ञेया शिववासस्थली स्मृता ॥ १ ॥
गंगा-तीरे सु प्रसिद्धा काशी खलु विमुक्ति-दा ॥ सा हि लिंग-मयी ज्ञेया शिव-वासस्थली स्मृता ॥ १ ॥
gaṃgā-tīre su prasiddhā kāśī khalu vimukti-dā .. sā hi liṃga-mayī jñeyā śiva-vāsasthalī smṛtā .. 1 ..
लिंगं तत्रैव मुख्यं च सम्प्रोक्तमविमुक्तकम् ॥ कृत्तिवासेश्वरः साक्षात्तत्तुल्यो वृद्धबालकः ॥ २॥
लिंगम् तत्र एव मुख्यम् च सम्प्रोक्तम् अविमुक्तकम् ॥ ॥ २॥
liṃgam tatra eva mukhyam ca samproktam avimuktakam .. .. 2..
तिलभाण्डेश्वरश्चैव दशाश्वमेध एव च ॥ गंगा सागरसंयोगे संगमेश इति स्मृतः ॥ ३॥
तिलभाण्डेश्वरः च एव दशाश्वमेधः एव च ॥ गंगा सागर-संयोगे संगमेशः इति स्मृतः ॥ ३॥
tilabhāṇḍeśvaraḥ ca eva daśāśvamedhaḥ eva ca .. gaṃgā sāgara-saṃyoge saṃgameśaḥ iti smṛtaḥ .. 3..
भूतेश्वरो यः संप्रोक्तो भक्तसर्वार्थदः सदा॥नारीश्वर इति ख्यातः कौशिक्याः स समीपगः ॥ ४ ॥
भूतेश्वरः यः संप्रोक्तः भक्त-सर्व-अर्थ-दः सदा॥नारीश्वरः इति ख्यातः कौशिक्याः स समीप-गः ॥ ४ ॥
bhūteśvaraḥ yaḥ saṃproktaḥ bhakta-sarva-artha-daḥ sadā..nārīśvaraḥ iti khyātaḥ kauśikyāḥ sa samīpa-gaḥ .. 4 ..
वर्तते गण्डकीतीरे बटुकेश्वर एव सः॥पूरेश्वर इति ख्यातः फल्गुतीरे सुखप्रदः ॥ ५॥
वर्तते गण्डकी-तीरे बटुकेश्वरे एव सः॥पूरेश्वरः इति ख्यातः फल्गु-तीरे सुख-प्रदः ॥ ५॥
vartate gaṇḍakī-tīre baṭukeśvare eva saḥ..pūreśvaraḥ iti khyātaḥ phalgu-tīre sukha-pradaḥ .. 5..
सिद्धनाथेश्वरश्चैव दर्शनात्सिद्धिदो नृणाम् ॥ दूरेश्वर इति ख्यातः पत्तने चोत्तरे तथा ॥ ६॥
सिद्धनाथ-ईश्वरः च एव दर्शनात् सिद्धि-दः नृणाम् ॥ दूरेश्वरः इति ख्यातः पत्तने च उत्तरे तथा ॥ ६॥
siddhanātha-īśvaraḥ ca eva darśanāt siddhi-daḥ nṛṇām .. dūreśvaraḥ iti khyātaḥ pattane ca uttare tathā .. 6..
शृंगेश्वरश्च नाम्ना वै वैद्यनाथस्तथैव च ॥ जप्येश्वरस्तथा ख्यातो यो दधी चिरणस्थले ॥ ७ ॥
शृंगेश्वरः च नाम्ना वै वैद्यनाथः तथा एव च ॥ जप्येश्वरः तथा ख्यातः यः दधी चिरणस्थले ॥ ७ ॥
śṛṃgeśvaraḥ ca nāmnā vai vaidyanāthaḥ tathā eva ca .. japyeśvaraḥ tathā khyātaḥ yaḥ dadhī ciraṇasthale .. 7 ..
गोपेश्वरः समाख्यातः रंगेश्वर इति स्मृतः ॥ वामेश्वरश्च नागेशः काजेशो विमलेश्वरः॥८॥
गोपेश्वरः समाख्यातः रंगेश्वरः इति स्मृतः ॥ वामेश्वरः च नागेशः काजेशः विमलेश्वरः॥८॥
gopeśvaraḥ samākhyātaḥ raṃgeśvaraḥ iti smṛtaḥ .. vāmeśvaraḥ ca nāgeśaḥ kājeśaḥ vimaleśvaraḥ..8..
व्यासेश्वरश्च विख्यातः सुकेशश्च तथैव हि ॥ भाण्डेश्वराश्च विख्यातो हुंकारेशस्तथैव च ॥ ९॥
व्यासेश्वरः च विख्यातः सुकेशः च तथा एव हि ॥ भाण्डेश्वराः च विख्यातः हुंकारेशः तथा एव च ॥ ९॥
vyāseśvaraḥ ca vikhyātaḥ sukeśaḥ ca tathā eva hi .. bhāṇḍeśvarāḥ ca vikhyātaḥ huṃkāreśaḥ tathā eva ca .. 9..
सुरोचनश्च विख्यातो भूतेश्वर इति स्वयम्॥संगमेशस्तथा प्रोक्तो महापातकनाशनः ॥ 4.2.१०॥
सुरोचनः च विख्यातः भूतेश्वरः इति स्वयम्॥संगमेशः तथा प्रोक्तः महा-पातक-नाशनः ॥ ४।२।१०॥
surocanaḥ ca vikhyātaḥ bhūteśvaraḥ iti svayam..saṃgameśaḥ tathā proktaḥ mahā-pātaka-nāśanaḥ .. 4.2.10..
ततश्च तप्तकातीरे कुमारेश्वर एव च॥सिद्धेश्वरश्च विख्यातः सेनेशश्च तथा स्मृतः ॥
ततस् च तप्तका-तीरे कुमारेश्वरे एव च॥सिद्धेश्वरः च विख्यातः सेनेशः च तथा स्मृतः ॥
tatas ca taptakā-tīre kumāreśvare eva ca..siddheśvaraḥ ca vikhyātaḥ seneśaḥ ca tathā smṛtaḥ ..
रामेश्वर इति प्रोक्तः कुंभेशश्च परो मतः ॥ नन्दीश्वरश्च पुंजेशः पूर्णायां पूर्णकस्तथा ॥ १२॥
रामेश्वरः इति प्रोक्तः कुंभेशः च परः मतः ॥ नन्दीश्वरः च पुंजेशः पूर्णायाम् पूर्णकः तथा ॥ १२॥
rāmeśvaraḥ iti proktaḥ kuṃbheśaḥ ca paraḥ mataḥ .. nandīśvaraḥ ca puṃjeśaḥ pūrṇāyām pūrṇakaḥ tathā .. 12..
ब्रह्मेश्वरः प्रयोगे च ब्रह्मणा स्थापितः पुरा॥दशाश्वमेधतीर्थे हि चतुर्वर्गफलप्रदः ॥ १३ ॥
ब्रह्मेश्वरः प्रयोगे च ब्रह्मणा स्थापितः पुरा॥दशाश्वमेध-तीर्थे हि चतुर्वर्ग-फल-प्रदः ॥ १३ ॥
brahmeśvaraḥ prayoge ca brahmaṇā sthāpitaḥ purā..daśāśvamedha-tīrthe hi caturvarga-phala-pradaḥ .. 13 ..
तथा सोमेश्वरस्तत्र सर्ब्वापद्विनिवारकः ॥ भारद्वाजेश्वरश्चैव ब्रह्मवर्चःप्रवर्द्धकः ॥ १४॥
तथा सोमेश्वरः तत्र सर्बु-आपद्-विनिवारकः ॥ भारद्वाज-ईश्वरः च एव ब्रह्मवर्चः-प्रवर्द्धकः ॥ १४॥
tathā someśvaraḥ tatra sarbu-āpad-vinivārakaḥ .. bhāradvāja-īśvaraḥ ca eva brahmavarcaḥ-pravarddhakaḥ .. 14..
शूलटंकेश्वरः साक्षात्कामनाप्रद ईरितः ॥ माधवेशश्च तत्रैव भक्तरक्षाविधायकः ॥ १५॥
शूलटंकेश्वरः साक्षात् कामनाप्रदः ईरितः ॥ माधव-ईशः च तत्र एव भक्त-रक्षा-विधायकः ॥ १५॥
śūlaṭaṃkeśvaraḥ sākṣāt kāmanāpradaḥ īritaḥ .. mādhava-īśaḥ ca tatra eva bhakta-rakṣā-vidhāyakaḥ .. 15..
नागेशाख्यः प्रसिद्धो हि साकेतनगरे द्विजा ॥ सूर्य्यवंशोद्भवानां च विशेषेण सुखप्रदः ॥ १६॥
नागेशाख्यः प्रसिद्धः हि साकेत-नगरे द्विजाः ॥ सूर्य्य-वंश-उद्भवानाम् च विशेषेण सुख-प्रदः ॥ १६॥
nāgeśākhyaḥ prasiddhaḥ hi sāketa-nagare dvijāḥ .. sūryya-vaṃśa-udbhavānām ca viśeṣeṇa sukha-pradaḥ .. 16..
पुरुषोत्तमपुर्यां तु भुवनेशस्तु सिद्धिदः ॥ लोकेशश्च महालिंगः सर्वानन्दप्रदायकः ॥ १७ ॥
पुरुषोत्तम-पुर्याम् तु भुवनेशः तु सिद्धि-दः ॥ लोकेशः च महा-लिंगः सर्व-आनन्द-प्रदायकः ॥ १७ ॥
puruṣottama-puryām tu bhuvaneśaḥ tu siddhi-daḥ .. lokeśaḥ ca mahā-liṃgaḥ sarva-ānanda-pradāyakaḥ .. 17 ..
कामेश्वरः शंभुलिंगो गंगेशः परशुद्धिकृत् ॥ शक्रेश्वरः शुक्रसिद्धो लोकानां हितकाम्यया ॥ १८ ॥
॥ शक्रेश्वरः शुक्र-सिद्धः लोकानाम् हित-काम्यया ॥ १८ ॥
.. śakreśvaraḥ śukra-siddhaḥ lokānām hita-kāmyayā .. 18 ..
तथा वटेश्वरः ख्यातः सर्वकामफलप्रदः ॥ सिन्धुतीरे कपालेशो वक्त्रेशः सर्वपापहा ॥ १९॥
तथा वटेश्वरः ख्यातः सर्व-काम-फल-प्रदः ॥ सर्व ॥ १९॥
tathā vaṭeśvaraḥ khyātaḥ sarva-kāma-phala-pradaḥ .. sarva .. 19..
धौतपापेश्वरः साक्षादंशेन परमेश्वर.॥भीमेश्वर इति प्रोक्तः सूर्येश्वर इति स्मृतः॥4.2.२०॥
धौतपापेश्वरः साक्षात् अंशेन परमेश्वर।॥भीमेश्वरः इति प्रोक्तः सूर्येश्वरः इति स्मृतः॥४।२।२०॥
dhautapāpeśvaraḥ sākṣāt aṃśena parameśvara...bhīmeśvaraḥ iti proktaḥ sūryeśvaraḥ iti smṛtaḥ..4.2.20..
नन्देश्वरश्च विज्ञेयो ज्ञानदो लोकपूजितः॥नाकेश्वरो महापुण्यस्तथा रामेश्वरः स्मृतः॥२१॥
नन्देश्वरः च विज्ञेयः ज्ञान-दः लोक-पूजितः॥नाकेश्वरः महा-पुण्यः तथा रामेश्वरः स्मृतः॥२१॥
nandeśvaraḥ ca vijñeyaḥ jñāna-daḥ loka-pūjitaḥ..nākeśvaraḥ mahā-puṇyaḥ tathā rāmeśvaraḥ smṛtaḥ..21..
विमलेश्वरनामा वै कंटकेश्वर एव च॥पूर्णसागरसंयोगे धर्तुकेशस्तथैव च॥२२॥
विमलेश्वर-नामा वै कंटकेश्वरः एव च॥पूर्ण-सागर-संयोगे धर्तुकेशः तथा एव च॥२२॥
vimaleśvara-nāmā vai kaṃṭakeśvaraḥ eva ca..pūrṇa-sāgara-saṃyoge dhartukeśaḥ tathā eva ca..22..
चन्द्रेश्वरश्च विज्ञेयश्चन्द्रकान्तिफलप्रदः॥सर्वकाम प्रदश्चैव सिद्धेश्वर इति स्मृतः ॥ २३ ॥
चन्द्रेश्वरः च विज्ञेयः चन्द्र-कान्ति-फल-प्रदः॥सर्व-काम-प्रदः च एव सिद्धेश्वरः इति स्मृतः ॥ २३ ॥
candreśvaraḥ ca vijñeyaḥ candra-kānti-phala-pradaḥ..sarva-kāma-pradaḥ ca eva siddheśvaraḥ iti smṛtaḥ .. 23 ..
बिल्वेश्वरश्च विख्यातश्चान्धकेशस्तथैव च ॥ यत्र वा ह्यन्धको दैत्यः शंकरेण हतः पुरा ॥ २४॥
बिल्वेश्वरः च विख्यातः च अन्धकेशः तथा एव च ॥ यत्र वा हि अन्धकः दैत्यः शंकरेण हतः पुरा ॥ २४॥
bilveśvaraḥ ca vikhyātaḥ ca andhakeśaḥ tathā eva ca .. yatra vā hi andhakaḥ daityaḥ śaṃkareṇa hataḥ purā .. 24..
अयं स्वरूपमंशेन धृत्वा शंभुः पुनः स्थितः ॥ शरणेश्वरविख्यातो लोकानां सुखदः सदा ॥ २५॥
अयम् स्व-रूपम् अंशेन धृत्वा शंभुः पुनर् स्थितः ॥ शरणेश्वर-विख्यातः लोकानाम् सुख-दः सदा ॥ २५॥
ayam sva-rūpam aṃśena dhṛtvā śaṃbhuḥ punar sthitaḥ .. śaraṇeśvara-vikhyātaḥ lokānām sukha-daḥ sadā .. 25..
कर्दमेशः परः प्रोक्त कोटीशश्चार्बुदाचले ॥ अचलेशश्च विख्यातो लोकानां सुखदः सदा॥२६॥
कर्दमेशः परः कोटीशः च अर्बुद-अचले ॥ अचल-ईशः च विख्यातः लोकानाम् सुख-दः सदा॥२६॥
kardameśaḥ paraḥ koṭīśaḥ ca arbuda-acale .. acala-īśaḥ ca vikhyātaḥ lokānām sukha-daḥ sadā..26..
नागेश्वरस्तु कौशिक्यास्तीरे तिष्ठति नित्यशः॥अनन्तेश्वरसंज्ञश्च कल्याणशुभभाजनः ॥ २७ ॥
नागेश्वरः तु कौशिक्याः तीरे तिष्ठति नित्यशस्॥अनन्तेश्वर-संज्ञः च कल्याण-शुभ-भाजनः ॥ २७ ॥
nāgeśvaraḥ tu kauśikyāḥ tīre tiṣṭhati nityaśas..ananteśvara-saṃjñaḥ ca kalyāṇa-śubha-bhājanaḥ .. 27 ..
योगेश्वरश्च विख्यातो वैद्यनाथेश्वरस्तथा ॥ कोटीश्वरश्च विज्ञेयः सप्तेश्वर इति स्मृतः॥२८॥
योगेश्वरः च विख्यातः वैद्यनाथेश्वरः तथा ॥ कोटीश्वरः च विज्ञेयः सप्तेश्वरः इति स्मृतः॥२८॥
yogeśvaraḥ ca vikhyātaḥ vaidyanātheśvaraḥ tathā .. koṭīśvaraḥ ca vijñeyaḥ sapteśvaraḥ iti smṛtaḥ..28..
भद्रेश्वरश्च विख्यातो भद्रनामा हरः स्वयम्॥चण्डीश्वरस्तथा प्रोक्तः संगमेश्वर एव च॥२९॥
भद्रेश्वरः च विख्यातः भद्र-नामा हरः स्वयम्॥चण्डीश्वरः तथा प्रोक्तः संगमेश्वरः एव च॥२९॥
bhadreśvaraḥ ca vikhyātaḥ bhadra-nāmā haraḥ svayam..caṇḍīśvaraḥ tathā proktaḥ saṃgameśvaraḥ eva ca..29..
पूर्वस्यां दिशि जातानि शिवलिंगानि यानि च॥सामान्यान्यपि चान्यानि तानीह कथितानि ते॥4.2.३०॥
पूर्वस्याम् दिशि जातानि शिव-लिंगानि यानि च॥सामान्यानि अपि च अन्यानि तानि इह कथितानि ते॥४।२।३०॥
pūrvasyām diśi jātāni śiva-liṃgāni yāni ca..sāmānyāni api ca anyāni tāni iha kathitāni te..4.2.30..
दक्षिणस्यां दिशि तथा शिवलिंगानि यानि च॥संजातानि मुनिश्रेष्ठ तानि ते कथयाम्यहम् ॥ ३१ ॥
दक्षिणस्याम् दिशि तथा शिव-लिंगानि यानि च॥संजातानि मुनि-श्रेष्ठ तानि ते कथयामि अहम् ॥ ३१ ॥
dakṣiṇasyām diśi tathā śiva-liṃgāni yāni ca..saṃjātāni muni-śreṣṭha tāni te kathayāmi aham .. 31 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् शिवलिंगमाहात्म्यवर्णनम् नाम द्वितीयः अध्यायः ॥ २॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām śivaliṃgamāhātmyavarṇanam nāma dvitīyaḥ adhyāyaḥ .. 2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In