| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
अतः परं प्रवक्ष्यामि माहात्म्यं भैमशंकरम् ॥ यस्य श्रवणमात्रेण सर्वाभीष्टं लभेन्नरः ॥ १ ॥
अतस् परम् प्रवक्ष्यामि माहात्म्यम् भैम-शंकरम् ॥ यस्य श्रवण-मात्रेण सर्व-अभीष्टम् लभेत् नरः ॥ १ ॥
atas param pravakṣyāmi māhātmyam bhaima-śaṃkaram .. yasya śravaṇa-mātreṇa sarva-abhīṣṭam labhet naraḥ .. 1 ..
कामरूपाभिधे देशे शंकरो लोककाम्यया ॥ अवतीर्णः स्वयं साक्षात्कल्याणसुखभाजनम् ॥ २ ॥
कामरूप-अभिधे देशे शंकरः लोक-काम्यया ॥ अवतीर्णः स्वयम् साक्षात् कल्याण-सुख-भाजनम् ॥ २ ॥
kāmarūpa-abhidhe deśe śaṃkaraḥ loka-kāmyayā .. avatīrṇaḥ svayam sākṣāt kalyāṇa-sukha-bhājanam .. 2 ..
यदर्थमवतीर्णोसौ शंकरो लोकशंकरः॥शृणुतादरतस्तच्च कथयामि मुनीश्वराः॥३॥
यद्-अर्थम् अवतीर्णः असौ शंकरः लोक-शंकरः॥शृणुत आदरतः तत् च कथयामि मुनि-ईश्वराः॥३॥
yad-artham avatīrṇaḥ asau śaṃkaraḥ loka-śaṃkaraḥ..śṛṇuta ādarataḥ tat ca kathayāmi muni-īśvarāḥ..3..
भीमोनाम महोवीर्यो राक्षसोऽभूत्पुरा द्विजाः॥दुःखदस्सर्वभूतानां धर्मध्वंसकरस्सदा॥४॥
भीमः नाम महा-वीर्यः राक्षसः अभूत् पुरा द्विजाः॥दुःख-दः सर्व-भूतानाम् धर्म-ध्वंस-करः सदा॥४॥
bhīmaḥ nāma mahā-vīryaḥ rākṣasaḥ abhūt purā dvijāḥ..duḥkha-daḥ sarva-bhūtānām dharma-dhvaṃsa-karaḥ sadā..4..
कुंभकर्णात्समुत्पन्नः कर्कट्यां सुमहाबलः॥सह्ये च पर्वते सोऽपि मात्रा वासं चकार ह॥५॥
कुंभकर्णात् समुत्पन्नः कर्कट्याम् सु महा-बलः॥सह्ये च पर्वते सः अपि मात्रा वासम् चकार ह॥५॥
kuṃbhakarṇāt samutpannaḥ karkaṭyām su mahā-balaḥ..sahye ca parvate saḥ api mātrā vāsam cakāra ha..5..
कुंभकर्णे च रामेण हते लोकभयंकरे॥राक्षसी पुत्रसंयुक्ता सह्येऽतिष्ठत्स्वयं तदा॥६॥
कुंभकर्णे च रामेण हते लोक-भयंकरे॥राक्षसी पुत्र-संयुक्ता सह्ये अतिष्ठत् स्वयम् तदा॥६॥
kuṃbhakarṇe ca rāmeṇa hate loka-bhayaṃkare..rākṣasī putra-saṃyuktā sahye atiṣṭhat svayam tadā..6..
स बाल एकदा भीमः कर्कटीं मातरं द्विजाः॥पप्रच्छ च खलो लोकदुःखदो भीमविक्रमः॥७॥
स बालः एकदा भीमः कर्कटीम् मातरम् द्विजाः॥पप्रच्छ च खलः लोक-दुःख-दः भीम-विक्रमः॥७॥
sa bālaḥ ekadā bhīmaḥ karkaṭīm mātaram dvijāḥ..papraccha ca khalaḥ loka-duḥkha-daḥ bhīma-vikramaḥ..7..
भीम उवाच।।
मातर्मे कः पिता कुत्र कथं वैकाकिनी स्थिता॥ज्ञातुमिच्छामि तत्सर्वं यथार्थं त्वं वदाधुना ॥ ८ ॥
मातर् मे कः पिता कुत्र कथम् वा एकाकिनी स्थिता॥ज्ञातुम् इच्छामि तत् सर्वम् यथार्थम् त्वम् वद अधुना ॥ ८ ॥
mātar me kaḥ pitā kutra katham vā ekākinī sthitā..jñātum icchāmi tat sarvam yathārtham tvam vada adhunā .. 8 ..
सूत उवाच ।।
एवं पृष्टा तदा तेन पुत्रेण राक्षसी च सा॥उवाच पुत्रं सा दुष्टा श्रूयतां कथयाम्यहम् ॥ ९ ॥
एवम् पृष्टा तदा तेन पुत्रेण राक्षसी च सा॥उवाच पुत्रम् सा दुष्टा श्रूयताम् कथयामि अहम् ॥ ९ ॥
evam pṛṣṭā tadā tena putreṇa rākṣasī ca sā..uvāca putram sā duṣṭā śrūyatām kathayāmi aham .. 9 ..
कर्कट्युवाच ।।
पिता ते कुम्भकर्णश्च रावणानुज एव च ॥ रामेण मारितस्सोयं भ्रात्रा सह महाबलः ॥ 4.20.१० ॥
पिता ते कुम्भकर्णः च रावण-अनुजः एव च ॥ रामेण मारितः सः उयम् भ्रात्रा सह महा-बलः ॥ ४।२०।१० ॥
pitā te kumbhakarṇaḥ ca rāvaṇa-anujaḥ eva ca .. rāmeṇa māritaḥ saḥ uyam bhrātrā saha mahā-balaḥ .. 4.20.10 ..
अत्रागतः कदाचिद्वै कुम्भकर्णस्य राक्षसः ॥ मद्भोगं कृतवांस्तात प्रसह्य बलवान्पुरा ॥ ११॥
अत्रा आगतः कदाचिद् वै कुम्भकर्णस्य राक्षसः ॥ मद्-भोगम् कृतवान् तात प्रसह्य बलवान् पुरा ॥ ११॥
atrā āgataḥ kadācid vai kumbhakarṇasya rākṣasaḥ .. mad-bhogam kṛtavān tāta prasahya balavān purā .. 11..
लंकां स गतवान्मां च त्यक्त्वात्रैव महाबलः ॥ मया न दृष्ट्वा सा लंका ह्यत्रैव निवसाम्यहम् ॥ १२ ॥
लंकाम् स गतवान् माम् च त्यक्त्वा अत्रा एव महा-बलः ॥ मया न दृष्ट्वा सा लंका हि अत्र एव निवसामि अहम् ॥ १२ ॥
laṃkām sa gatavān mām ca tyaktvā atrā eva mahā-balaḥ .. mayā na dṛṣṭvā sā laṃkā hi atra eva nivasāmi aham .. 12 ..
पिता मे कर्कटो नाम माता मे पुष्कसी मता ॥ भर्ता मम विराधो हि रामेण निहतः पुरा ॥ १३ ॥
पिता मे कर्कटः नाम माता मे पुष्कसी मता ॥ भर्ता मम विराधः हि रामेण निहतः पुरा ॥ १३ ॥
pitā me karkaṭaḥ nāma mātā me puṣkasī matā .. bhartā mama virādhaḥ hi rāmeṇa nihataḥ purā .. 13 ..
पित्रोः पार्श्वे स्थिता चाहं निहते स्वामिनि प्रिये ॥ पितरौ मे मृतौ चात्र ऋषिणा भस्मसात्कृतौ ॥ १४ ॥
पित्रोः पार्श्वे स्थिता च अहम् निहते स्वामिनि प्रिये ॥ पितरौ मे मृतौ च अत्र ऋषिणा भस्मसात्कृतौ ॥ १४ ॥
pitroḥ pārśve sthitā ca aham nihate svāmini priye .. pitarau me mṛtau ca atra ṛṣiṇā bhasmasātkṛtau .. 14 ..
भक्षणार्थं गतौ तत्र कुद्धेन सुमहात्मना॥सुतीक्ष्णेन सुतपसाऽगस्त्यशिष्येण वै तदा॥१५॥
भक्षण-अर्थम् गतौ तत्र कुद्धेन सु महात्मना॥सुतीक्ष्णेन सु तपसा अगस्त्य-शिष्येण वै तदा॥१५॥
bhakṣaṇa-artham gatau tatra kuddhena su mahātmanā..sutīkṣṇena su tapasā agastya-śiṣyeṇa vai tadā..15..
साऽहमेकाकिनी जाता दुःखिता पर्वते पुरा॥निवसामि स्म दुःखार्ता निरालंबा निराश्रया॥१६॥
सा अहम् एकाकिनी जाता दुःखिता पर्वते पुरा॥निवसामि स्म दुःख-आर्ता निरालंबा निराश्रया॥१६॥
sā aham ekākinī jātā duḥkhitā parvate purā..nivasāmi sma duḥkha-ārtā nirālaṃbā nirāśrayā..16..
एतस्मिन्समये ह्यत्र राक्षसो रावणानुजः॥आगत्य कृतवान्संगं मां विहाय गतो हि सः॥१७॥
एतस्मिन् समये हि अत्र राक्षसः रावण-अनुजः॥आगत्य कृतवान् संगम् माम् विहाय गतः हि सः॥१७॥
etasmin samaye hi atra rākṣasaḥ rāvaṇa-anujaḥ..āgatya kṛtavān saṃgam mām vihāya gataḥ hi saḥ..17..
ततस्त्वं च समुत्पन्नो महाबलपराक्रमः॥अवलंब्य पुनस्त्वां च कालक्षेपं करोम्यहम्॥१७॥
ततस् त्वम् च समुत्पन्नः महा-बल-पराक्रमः॥अवलंब्य पुनर् त्वाम् च कालक्षेपम् करोमि अहम्॥१७॥
tatas tvam ca samutpannaḥ mahā-bala-parākramaḥ..avalaṃbya punar tvām ca kālakṣepam karomi aham..17..
सूत उवाच।।
इति श्रुत्वा वचस्तस्या भीमो भीमपराक्रमः॥कुद्धश्च चिंतयामास किं करोमि हरिं प्रति॥१९॥
इति श्रुत्वा वचः तस्याः भीमः भीम-पराक्रमः॥कुद्धः च चिंतयामास किम् करोमि हरिम् प्रति॥१९॥
iti śrutvā vacaḥ tasyāḥ bhīmaḥ bhīma-parākramaḥ..kuddhaḥ ca ciṃtayāmāsa kim karomi harim prati..19..
पितानेन हतो मे हि तथा मातामहो ह्यपि॥विराधश्च हतोऽनेन दुःखं बहुतरं कृतम्॥4.20.२० ॥
पिता अनेन हतः मे हि तथा मातामहः हि अपि॥विराधः च हतः अनेन दुःखम् बहुतरम् कृतम्॥४।२०।२० ॥
pitā anena hataḥ me hi tathā mātāmahaḥ hi api..virādhaḥ ca hataḥ anena duḥkham bahutaram kṛtam..4.20.20 ..
तत्पुत्रोहं भवेयं चेद्धरिं तं पीडयाम्यहम्॥इति कृत्वा मतिं भीमस्तपस्तप्तुं महद्ययौ॥२१॥
तद्-पुत्रः ऊहम् भवेयम् चेद् हरिम् तम् पीडयामि अहम्॥इति कृत्वा मतिम् भीमः तपः तप्तुम् महत् ययौ॥२१॥
tad-putraḥ ūham bhaveyam ced harim tam pīḍayāmi aham..iti kṛtvā matim bhīmaḥ tapaḥ taptum mahat yayau..21..
ब्रह्माणां च समुद्दिश्य वर्षाणां च सहस्रकम् ॥ मनसा ध्यानमाश्रित्य तपश्चक्रे महत्तदा॥२२॥
ब्रह्माणाम् च समुद्दिश्य वर्षाणाम् च सहस्रकम् ॥ मनसा ध्यानम् आश्रित्य तपः चक्रे महत् तदा॥२२॥
brahmāṇām ca samuddiśya varṣāṇām ca sahasrakam .. manasā dhyānam āśritya tapaḥ cakre mahat tadā..22..
ऊर्ध्वबाहुश्चैकपादस्सूर्य्ये दृष्टिं दधत्पुरा॥संस्थितस्स बभूवाथ भीमो राक्षसपुत्रकः ॥ २३॥
ऊर्ध्वबाहुः च एक-पादः सूर्ये दृष्टिम् दधत् पुरा॥संस्थितः स बभूव अथ भीमः राक्षस-पुत्रकः ॥ २३॥
ūrdhvabāhuḥ ca eka-pādaḥ sūrye dṛṣṭim dadhat purā..saṃsthitaḥ sa babhūva atha bhīmaḥ rākṣasa-putrakaḥ .. 23..
शिरसस्तस्य संजातं तेजः परमदारुणम् ॥ तेन दग्धास्तदा देवा ब्रह्माणं शरणं ययुः ॥ २४ ॥
शिरसः तस्य संजातम् तेजः परम-दारुणम् ॥ तेन दग्धाः तदा देवाः ब्रह्माणम् शरणम् ययुः ॥ २४ ॥
śirasaḥ tasya saṃjātam tejaḥ parama-dāruṇam .. tena dagdhāḥ tadā devāḥ brahmāṇam śaraṇam yayuḥ .. 24 ..
प्रणम्य वेधसं भक्त्या तुष्टुवुर्विविधैः स्तवैः ॥ दुःखं निवेदयांचकुर्ब्रह्मणे ते सवासवाः ॥ २५ ॥
प्रणम्य वेधसम् भक्त्या तुष्टुवुः विविधैः स्तवैः ॥ दुःखम् निवेदयांचकुः ब्रह्मणे ते स वासवाः ॥ २५ ॥
praṇamya vedhasam bhaktyā tuṣṭuvuḥ vividhaiḥ stavaiḥ .. duḥkham nivedayāṃcakuḥ brahmaṇe te sa vāsavāḥ .. 25 ..
देवा ऊचुः ।।
ब्रह्मन्वै रक्षसस्तेजो लोकान्पीडितुमुद्यतम् ॥ यत्प्रार्थ्यते च दुष्टेन तत्त्वं देहि वरं विधे ॥ २६॥
ब्रह्मन् वै रक्षसः तेजः लोकान् पीडितुम् उद्यतम् ॥ यत् प्रार्थ्यते च दुष्टेन तत् त्वम् देहि वरम् विधे ॥ २६॥
brahman vai rakṣasaḥ tejaḥ lokān pīḍitum udyatam .. yat prārthyate ca duṣṭena tat tvam dehi varam vidhe .. 26..
नोचेदद्य वयं दग्धास्तीव्रतत्तेजसा पुनः ॥ यास्यामस्संक्षयं सर्वे तस्मात्तं देहि प्रार्थितम् ॥ २७ ॥
नो चेद् अद्य वयम् दग्धाः तीव्र-तद्-तेजसा पुनर् ॥ यास्यामः संक्षयम् सर्वे तस्मात् तम् देहि प्रार्थितम् ॥ २७ ॥
no ced adya vayam dagdhāḥ tīvra-tad-tejasā punar .. yāsyāmaḥ saṃkṣayam sarve tasmāt tam dehi prārthitam .. 27 ..
सूत उवाच ।।
इति तेषां वचश्श्रुत्वा ब्रह्मा लोकपितामहः ॥ जगाम च वरं दातुं वचनं चेदमब्रवीत् ॥ २८ ॥
इति तेषाम् वचः श्रुत्वा ब्रह्मा लोकपितामहः ॥ जगाम च वरम् दातुम् वचनम् च इदम् अब्रवीत् ॥ २८ ॥
iti teṣām vacaḥ śrutvā brahmā lokapitāmahaḥ .. jagāma ca varam dātum vacanam ca idam abravīt .. 28 ..
ब्रह्मोवाच ।।
प्रसन्नोऽस्मि वरं ब्रूहि यत्ते मनसि वर्तते ॥ इति श्रुत्वा विधेर्वाक्यमब्रवीद्राक्षसो हि सः ॥ २९ ॥
प्रसन्नः अस्मि वरम् ब्रूहि यत् ते मनसि वर्तते ॥ इति श्रुत्वा विधेः वाक्यम् अब्रवीत् राक्षसः हि सः ॥ २९ ॥
prasannaḥ asmi varam brūhi yat te manasi vartate .. iti śrutvā vidheḥ vākyam abravīt rākṣasaḥ hi saḥ .. 29 ..
भीम उवाच ।।
यदि प्रसन्नो देवेश यदि देयो वर स्त्वया ॥ अतुलं च बलं मेऽद्य देहि त्वं कमलासन ॥ 4.20.३० ॥
यदि प्रसन्नः देवेश यदि देयः वरः त्वया ॥ अतुलम् च बलम् मे अद्य देहि त्वम् कमलासन ॥ ४।२०।३० ॥
yadi prasannaḥ deveśa yadi deyaḥ varaḥ tvayā .. atulam ca balam me adya dehi tvam kamalāsana .. 4.20.30 ..
सूत उवाच ।।
इत्युक्त्वा तु नमश्चक्रे ब्रह्मणे स हि राक्षसः ॥ ब्रह्मा चापि तदा तस्मै वरं दत्त्वा गृहं ययौ॥३१॥
इति उक्त्वा तु नमः चक्रे ब्रह्मणे स हि राक्षसः ॥ ब्रह्मा च अपि तदा तस्मै वरम् दत्त्वा गृहम् ययौ॥३१॥
iti uktvā tu namaḥ cakre brahmaṇe sa hi rākṣasaḥ .. brahmā ca api tadā tasmai varam dattvā gṛham yayau..31..
राक्षसो गृहमागत्य ब्रह्माप्तातिबलस्तदा ॥ मातरं प्रणिपत्याशु स भीमः प्राह गर्ववान्॥३२॥
राक्षसः गृहम् आगत्य ब्रह्म-आप्त-अतिबलः तदा ॥ मातरम् प्रणिपत्य आशु स भीमः प्राह गर्ववान्॥३२॥
rākṣasaḥ gṛham āgatya brahma-āpta-atibalaḥ tadā .. mātaram praṇipatya āśu sa bhīmaḥ prāha garvavān..32..
भीम उवाच ।।
पश्य मातर्बलं मेऽद्य करोमि प्रलयं महत् ॥ देवानां शक्रमुख्यानां हरेर्वै तत्सहायिनः ॥ ३३ ॥
पश्य मातर् बलम् मे अद्य करोमि प्रलयम् महत् ॥ देवानाम् शक्र-मुख्यानाम् हरेः वै तद्-सहायिनः ॥ ३३ ॥
paśya mātar balam me adya karomi pralayam mahat .. devānām śakra-mukhyānām hareḥ vai tad-sahāyinaḥ .. 33 ..
सूत उवाच ।।
इत्युक्त्वा प्रथमं भीमो जिग्ये देवान्सवासवान् ॥ स्थानान्निस्सारयामास स्वात्स्वात्तान्भीमविक्रमः ॥ ३४ ॥
इति उक्त्वा प्रथमम् भीमः जिग्ये देवान् स वासवान् ॥ स्थानात् निस्सारयामास स्वात् स्वात् तान् भीम-विक्रमः ॥ ३४ ॥
iti uktvā prathamam bhīmaḥ jigye devān sa vāsavān .. sthānāt nissārayāmāsa svāt svāt tān bhīma-vikramaḥ .. 34 ..
ततो जिग्ये हरिं युद्धे प्रार्थितं निर्जरैरपि ॥ ततो जेतुं रसां दैत्यः प्रारंभं कृतवान्मुदा ॥ ३५ ॥
ततस् जिग्ये हरिम् युद्धे प्रार्थितम् निर्जरैः अपि ॥ ततस् जेतुम् रसाम् दैत्यः प्रारंभम् कृतवान् मुदा ॥ ३५ ॥
tatas jigye harim yuddhe prārthitam nirjaraiḥ api .. tatas jetum rasām daityaḥ prāraṃbham kṛtavān mudā .. 35 ..
पुरा सुदक्षिणां तत्र कामरूपेश्वरं प्रभुम् ॥ जेतुं गतस्ततस्तेन युद्धमासीद्भयंकरम् ॥ ३६ ॥
पुरा सुदक्षिणाम् तत्र कामरूप-ईश्वरम् प्रभुम् ॥ जेतुम् गतः ततस् तेन युद्धम् आसीत् भयंकरम् ॥ ३६ ॥
purā sudakṣiṇām tatra kāmarūpa-īśvaram prabhum .. jetum gataḥ tatas tena yuddham āsīt bhayaṃkaram .. 36 ..
भीमोऽथ तं महाराजं प्रभावाद्ब्रह्मणोऽसुरः ॥ जिग्ये वरप्रभावेण महावीरं शिवाश्रयम्॥३७॥
भीमः अथ तम् महा-राजम् प्रभावात् ब्रह्मणः असुरः ॥ जिग्ये वर-प्रभावेण महा-वीरम् शिव-आश्रयम्॥३७॥
bhīmaḥ atha tam mahā-rājam prabhāvāt brahmaṇaḥ asuraḥ .. jigye vara-prabhāveṇa mahā-vīram śiva-āśrayam..37..
स हि जित्वा ततस्तं च कामरूपेश्वरं प्रभुम् ॥ बबंध ताडयामास भीमो भीमपराक्रमः ॥ ३८ ॥
स हि जित्वा ततस् तम् च कामरूप-ईश्वरम् प्रभुम् ॥ बबंध ताडयामास भीमः भीम-पराक्रमः ॥ ३८ ॥
sa hi jitvā tatas tam ca kāmarūpa-īśvaram prabhum .. babaṃdha tāḍayāmāsa bhīmaḥ bhīma-parākramaḥ .. 38 ..
गृहीतं तस्य सर्वस्वं राज्यं सोपस्करं द्विजाः ॥ तेन भीमेन दुष्टेन शिवदासस्य भूपतेः ॥ ३९ ॥
गृहीतम् तस्य सर्व-स्वम् राज्यम् स उपस्करम् द्विजाः ॥ तेन भीमेन दुष्टेन शिवदासस्य भूपतेः ॥ ३९ ॥
gṛhītam tasya sarva-svam rājyam sa upaskaram dvijāḥ .. tena bhīmena duṣṭena śivadāsasya bhūpateḥ .. 39 ..
राजा चापि सुधर्मिष्ठः प्रियधर्मो हरप्रियः ॥ गृहीतो निगडैस्तेन ह्येकांते स्थापितश्च सः ॥ 4.20.४० ॥
राजा च अपि सुधर्मिष्ठः प्रिय-धर्मः हर-प्रियः ॥ गृहीतः निगडैः तेन हि एकांते स्थापितः च सः ॥ ४।२०।४० ॥
rājā ca api sudharmiṣṭhaḥ priya-dharmaḥ hara-priyaḥ .. gṛhītaḥ nigaḍaiḥ tena hi ekāṃte sthāpitaḥ ca saḥ .. 4.20.40 ..
तत्र तेन तदा कृत्वा पार्थिवीं मूर्तिमुत्तमाम् ॥ भजनं च शिवस्यैव प्रारब्धी प्रियकाम्यया ॥ ४१ ॥
तत्र तेन तदा कृत्वा पार्थिवीम् मूर्तिम् उत्तमाम् ॥ भजनम् च शिवस्य एव प्रारब्धी प्रिय-काम्यया ॥ ४१ ॥
tatra tena tadā kṛtvā pārthivīm mūrtim uttamām .. bhajanam ca śivasya eva prārabdhī priya-kāmyayā .. 41 ..
गंगायास्तवनं तेन बहुधा च तदा कृतम् ॥ मानसं स्नानकर्मादि कृत्वा शंकरपूजनम् ॥ ४२ ॥
गंगायाः स्तवनम् तेन बहुधा च तदा कृतम् ॥ मानसम् स्नान-कर्म-आदि कृत्वा शंकर-पूजनम् ॥ ४२ ॥
gaṃgāyāḥ stavanam tena bahudhā ca tadā kṛtam .. mānasam snāna-karma-ādi kṛtvā śaṃkara-pūjanam .. 42 ..
पार्थिवेन विधानेन चकार नृपसत्तमः ॥ तद्ध्यानं च यथा स्याद्वै कृत्वा च विधिपूर्वकम् ॥ ४३ ॥
पार्थिवेन विधानेन चकार नृप-सत्तमः ॥ तद्-ध्यानम् च यथा स्यात् वै कृत्वा च विधि-पूर्वकम् ॥ ४३ ॥
pārthivena vidhānena cakāra nṛpa-sattamaḥ .. tad-dhyānam ca yathā syāt vai kṛtvā ca vidhi-pūrvakam .. 43 ..
प्रणिपातैस्तथा स्तोत्रैर्मुद्रासन पुरस्सरम् ॥ कृत्वा हि सकलं तच्च स भेजे शंकरं मुदा ॥ ४४ ॥
प्रणिपातैः तथा स्तोत्रैः मुद्रा-आसन पुरस्सरम् ॥ कृत्वा हि सकलम् तत् च स भेजे शंकरम् मुदा ॥ ४४ ॥
praṇipātaiḥ tathā stotraiḥ mudrā-āsana purassaram .. kṛtvā hi sakalam tat ca sa bheje śaṃkaram mudā .. 44 ..
पंचाक्षरमयीं विद्यां जजाप प्रणवान्विताम् ॥ नान्यत्कार्यं स वै कर्तुं लब्धवानन्तरं तदा ॥ ४५ ॥
पंचाक्षर-मयीम् विद्याम् जजाप प्रणव-अन्विताम् ॥ न अन्यत् कार्यम् स वै कर्तुम् लब्धवान् अन्तरम् तदा ॥ ४५ ॥
paṃcākṣara-mayīm vidyām jajāpa praṇava-anvitām .. na anyat kāryam sa vai kartum labdhavān antaram tadā .. 45 ..
तत्पत्नी च तदा साध्वी दक्षिणा नाम विश्रुता ॥ निधानं पार्थिवं प्रीत्या चकार नृपवल्लभा ॥ ४६ ॥
तद्-पत्नी च तदा साध्वी दक्षिणा नाम विश्रुता ॥ निधानम् पार्थिवम् प्रीत्या चकार नृप-वल्लभा ॥ ४६ ॥
tad-patnī ca tadā sādhvī dakṣiṇā nāma viśrutā .. nidhānam pārthivam prītyā cakāra nṛpa-vallabhā .. 46 ..
दंपती त्वेकभावेन शंकरं भक्तशंकरम् ॥ भेजाते तत्र तौ नित्यं शिवाराधनतत्परौ ॥ ४७ ॥
दंपती तु एक-भावेन शंकरम् भक्त-शंकरम् ॥ भेजाते तत्र तौ नित्यम् शिव-आराधन-तत्परौ ॥ ४७ ॥
daṃpatī tu eka-bhāvena śaṃkaram bhakta-śaṃkaram .. bhejāte tatra tau nityam śiva-ārādhana-tatparau .. 47 ..
राक्षसो यज्ञकर्मादि वरदर्प विमोहितः ॥ लोपयामास तत्सर्वं मह्यं वै दीयतामिति ॥ ४८॥
राक्षसः यज्ञ-कर्म-आदि वर-दर्प विमोहितः ॥ लोपयामास तत् सर्वम् मह्यम् वै दीयताम् इति ॥ ४८॥
rākṣasaḥ yajña-karma-ādi vara-darpa vimohitaḥ .. lopayāmāsa tat sarvam mahyam vai dīyatām iti .. 48..
बहुसैन्यसमायुक्तो राक्षसानां दुरात्मनाम ॥ चकार वसुधां सर्वां स्ववशे चर्षिसत्तमाः ॥ ४९ ॥
बहु-सैन्य-समायुक्तः राक्षसानाम् दुरात्मनाम ॥ चकार वसुधाम् सर्वाम् स्व-वशे च ऋषि-सत्तमाः ॥ ४९ ॥
bahu-sainya-samāyuktaḥ rākṣasānām durātmanāma .. cakāra vasudhām sarvām sva-vaśe ca ṛṣi-sattamāḥ .. 49 ..
वेदधर्मं शास्त्रधर्मं स्मृतिधर्मं पुराणजम् ॥ लोपयित्वा च तत्सर्वं बुभुजे स्वयमूर्जितः ॥ 4.20.५० ॥
वेद-धर्मम् शास्त्र-धर्मम् स्मृति-धर्मम् पुराण-जम् ॥ लोपयित्वा च तत् सर्वम् बुभुजे स्वयम् ऊर्जितः ॥ ४।२०।५० ॥
veda-dharmam śāstra-dharmam smṛti-dharmam purāṇa-jam .. lopayitvā ca tat sarvam bubhuje svayam ūrjitaḥ .. 4.20.50 ..
देवाश्च पीडितास्तेन सशक्रा ऋषयस्तथा ॥ अत्यन्तं दुःखमापन्ना लोकान्निस्सारिता द्विजाः ॥ ५१ ॥
देवाः च पीडिताः तेन स शक्राः ऋषयः तथा ॥ अत्यन्तम् दुःखम् आपन्नाः लोकात् निस्सारिताः द्विजाः ॥ ५१ ॥
devāḥ ca pīḍitāḥ tena sa śakrāḥ ṛṣayaḥ tathā .. atyantam duḥkham āpannāḥ lokāt nissāritāḥ dvijāḥ .. 51 ..
ते ततो विकलास्सर्वे सवासवसुरर्षयः ॥ ब्रह्मविष्णू पुरोधाय शंकरं शरणं ययुः ॥ ५२ ॥
ते ततस् विकलाः सर्वे स वासव-सुर-ऋषयः ॥ ब्रह्म-विष्णू पुरोधाय शंकरम् शरणम् ययुः ॥ ५२ ॥
te tatas vikalāḥ sarve sa vāsava-sura-ṛṣayaḥ .. brahma-viṣṇū purodhāya śaṃkaram śaraṇam yayuḥ .. 52 ..
स्तुत्वा स्तोत्रैरनेकैश्च शंकरं लोक शंकरम् ॥ प्रसन्नं कृतवंतस्ते महाकोश्यास्तटे शुभे ॥ ५३ ॥
स्तुत्वा स्तोत्रैः अनेकैः च शंकरम् लोक शंकरम् ॥ प्रसन्नम् कृतवंतः ते महाकोश्याः तटे शुभे ॥ ५३ ॥
stutvā stotraiḥ anekaiḥ ca śaṃkaram loka śaṃkaram .. prasannam kṛtavaṃtaḥ te mahākośyāḥ taṭe śubhe .. 53 ..
कृत्वा च पार्थिवीं मूर्तिं पूजयित्वा विधानतः ॥ तुष्टुवुर्विविधैः स्तोत्रैर्नमस्कारादिभिः क्रमात् ॥ ५४ ॥
कृत्वा च पार्थिवीम् मूर्तिम् पूजयित्वा विधानतः ॥ तुष्टुवुः विविधैः स्तोत्रैः नमस्कार-आदिभिः क्रमात् ॥ ५४ ॥
kṛtvā ca pārthivīm mūrtim pūjayitvā vidhānataḥ .. tuṣṭuvuḥ vividhaiḥ stotraiḥ namaskāra-ādibhiḥ kramāt .. 54 ..
एवं स्तुतस्तदा शंभुर्देवानां स्तवनादिभिः ॥ सुप्रसन्नतरो भूत्वा तान्सुरानिदमब्रवीत् ॥ ५५ ॥
एवम् स्तुतः तदा शंभुः देवानाम् स्तवन-आदिभिः ॥ सुप्रसन्नतरः भूत्वा तान् सुरान् इदम् अब्रवीत् ॥ ५५ ॥
evam stutaḥ tadā śaṃbhuḥ devānām stavana-ādibhiḥ .. suprasannataraḥ bhūtvā tān surān idam abravīt .. 55 ..
शिव उवाच ।।
हे हरे हे विधे देवा ऋषयश्चाखिला अहम् ॥ प्रसन्नोस्मि वरं ब्रूत किं कार्यं करवाणि वः ॥ ५६ ॥
हे हरे हे विधे देवाः ऋषयः च अखिलाः अहम् ॥ प्रसन्नः अस्मि वरम् ब्रूत किम् कार्यम् करवाणि वः ॥ ५६ ॥
he hare he vidhe devāḥ ṛṣayaḥ ca akhilāḥ aham .. prasannaḥ asmi varam brūta kim kāryam karavāṇi vaḥ .. 56 ..
सूत उवाच ।।
इत्युक्ते च तदा तेन शिवेन वचने द्विजाः ॥ सुप्रणम्य करौ बद्ध्वा देवः ऊचुश्शिवं तदा ॥ ५७ ॥
इति उक्ते च तदा तेन शिवेन वचने द्विजाः ॥ सु प्रणम्य करौ बद्ध्वा देवः ऊचुः शिवम् तदा ॥ ५७ ॥
iti ukte ca tadā tena śivena vacane dvijāḥ .. su praṇamya karau baddhvā devaḥ ūcuḥ śivam tadā .. 57 ..
देवा ऊचुः ।।
सर्वं जानासि देवेश सर्वेषां मनसि स्थितम् ॥ अन्तर्यामी च सर्वस्य नाज्ञातं विद्यते तव ॥ ५८ ॥
सर्वम् जानासि देवेश सर्वेषाम् मनसि स्थितम् ॥ अन्तर्यामी च सर्वस्य न अज्ञातम् विद्यते तव ॥ ५८ ॥
sarvam jānāsi deveśa sarveṣām manasi sthitam .. antaryāmī ca sarvasya na ajñātam vidyate tava .. 58 ..
तथापि श्रूयतां नाथ स्वदुःखं ब्रूमहे वयम् ॥ त्वदाज्ञया महादेव कृपादृष्ट्या विलोकय ॥ ५९ ॥
तथा अपि श्रूयताम् नाथ स्व-दुःखम् ब्रूमहे वयम् ॥ त्वद्-आज्ञया महादेव कृपा-दृष्ट्या विलोकय ॥ ५९ ॥
tathā api śrūyatām nātha sva-duḥkham brūmahe vayam .. tvad-ājñayā mahādeva kṛpā-dṛṣṭyā vilokaya .. 59 ..
राक्षसः कर्कटीपुत्रः कुंभकर्णोद्भवो बली ॥ पीडयत्यनिशं देवान्ब्रह्मदत्तवरोर्जितः ॥ 4.20.६० ॥
॥ पीडयति अनिशम् देवान् ब्रह्म-दत्त-वर-ऊर्जितः ॥ ४।२०।६० ॥
.. pīḍayati aniśam devān brahma-datta-vara-ūrjitaḥ .. 4.20.60 ..
तमिमं जहि भीमाह्वं राक्षसं दुःखदायकम् ॥ कृपां कुरु महेशान विलंबं न कुरु प्रभो ॥ ६१ ॥
तम् इमम् जहि भीम-आह्वम् राक्षसम् दुःख-दायकम् ॥ कृपाम् कुरु महेशान विलंबम् न कुरु प्रभो ॥ ६१ ॥
tam imam jahi bhīma-āhvam rākṣasam duḥkha-dāyakam .. kṛpām kuru maheśāna vilaṃbam na kuru prabho .. 61 ..
सूत उवाच ।।
इत्युक्तस्तु सुरैस्सर्वैश्शंभुवें भक्तवत्सलः ॥ वधं तस्य करिष्यामीत्युक्त्वा देवांस्ततोऽब्रवीत् ॥ ६२ ॥
इति उक्तः तु सुरैः सर्वैः शंभुवेम् भक्त-वत्सलः ॥ वधम् तस्य करिष्यामि इति उक्त्वा देवान् ततस् अब्रवीत् ॥ ६२ ॥
iti uktaḥ tu suraiḥ sarvaiḥ śaṃbhuvem bhakta-vatsalaḥ .. vadham tasya kariṣyāmi iti uktvā devān tatas abravīt .. 62 ..
शंभुरुवाच ।।
कामरूपेश्वरो राजा मदीयो भक्त उत्तमः ॥ तस्मै ब्रूतेति वै देवाः कार्य्यं शीघ्रं भविष्यति ॥ ६३ ॥
कामरूप-ईश्वरः राजा मदीयः भक्तः उत्तमः ॥ तस्मै ब्रूत इति वै देवाः कार्य्यम् शीघ्रम् भविष्यति ॥ ६३ ॥
kāmarūpa-īśvaraḥ rājā madīyaḥ bhaktaḥ uttamaḥ .. tasmai brūta iti vai devāḥ kāryyam śīghram bhaviṣyati .. 63 ..
सुदक्षिण महाराज काम रूपेश्वर प्रभो ॥ मद्भक्तस्त्वं विशेषेण कुरु मद्भजनं रतेः ॥ ६४ ॥
सुदक्षिण महा-राज काम-रूप-ईश्वर प्रभो ॥ मद्-भक्तः त्वम् विशेषेण कुरु मद्-भजनम् रतेः ॥ ६४ ॥
sudakṣiṇa mahā-rāja kāma-rūpa-īśvara prabho .. mad-bhaktaḥ tvam viśeṣeṇa kuru mad-bhajanam rateḥ .. 64 ..
दैत्यं भीमाह्वयं दुष्टं ब्रह्मप्राप्तवरोर्जितम् ॥ हनिष्यामि न संदेहस्त्वत्तिरस्कारकारिणम् ॥ ६५ ॥
दैत्यम् भीम-आह्वयम् दुष्टम् ब्रह्म-प्राप्त-वर-ऊर्जितम् ॥ हनिष्यामि न संदेहः त्वद्-तिरस्कार-कारिणम् ॥ ६५ ॥
daityam bhīma-āhvayam duṣṭam brahma-prāpta-vara-ūrjitam .. haniṣyāmi na saṃdehaḥ tvad-tiraskāra-kāriṇam .. 65 ..
।। सूत उवाच ।।
अथ ते निर्जरास्सर्वे तत्र गत्वा मुदान्विताः ॥ तस्मै महानृपायोचुर्यदुक्तं शंभुना च तत् ॥ ६६ ॥
अथ ते निर्जराः सर्वे तत्र गत्वा मुदा अन्विताः ॥ तस्मै महा-नृपाय ऊचुः यत् उक्तम् शंभुना च तत् ॥ ६६ ॥
atha te nirjarāḥ sarve tatra gatvā mudā anvitāḥ .. tasmai mahā-nṛpāya ūcuḥ yat uktam śaṃbhunā ca tat .. 66 ..
तमित्युक्त्वा च वै देवा आनंदं परमं गताः ॥ महर्षयश्च ते सर्वे ययुश्शीप्रं निजाश्रमान् ॥ ६७ ॥
तम् इति उक्त्वा च वै देवाः आनंदम् परमम् गताः ॥ महा-ऋषयः च ते सर्वे ययुः शीप्रम् निज-आश्रमान् ॥ ६७ ॥
tam iti uktvā ca vai devāḥ ānaṃdam paramam gatāḥ .. mahā-ṛṣayaḥ ca te sarve yayuḥ śīpram nija-āśramān .. 67 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिगमाहात्म्ये भीमासुरकृतोपद्रववर्णनं नाम विंशोऽध्यायः ॥ २० ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् भीमेश्वरज्योतिः-लिग-माहात्म्ये भीमासुरकृतोपद्रववर्णनम् नाम विंशः अध्यायः ॥ २० ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām bhīmeśvarajyotiḥ-liga-māhātmye bhīmāsurakṛtopadravavarṇanam nāma viṃśaḥ adhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In