| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
शिवोऽपि च गणैस्सार्द्धं जगाम हितकाम्यया ॥ स्वभक्तनिकटं गुप्तस्तस्थौ रक्षार्थमादरात् ॥ १ ॥
शिवः अपि च गणैः सार्द्धम् जगाम हित-काम्यया ॥ स्व-भक्त-निकटम् गुप्तः तस्थौ रक्षा-अर्थम् आदरात् ॥ १ ॥
śivaḥ api ca gaṇaiḥ sārddham jagāma hita-kāmyayā .. sva-bhakta-nikaṭam guptaḥ tasthau rakṣā-artham ādarāt .. 1 ..
एतस्मिन्नन्तरे तत्र कामरूपेश्वरेण च ॥ अत्यंतं ध्यानमारब्धं पार्थिवस्य पुरस्तदा ॥ २ ॥
एतस्मिन् अन्तरे तत्र कामरूप-ईश्वरेण च ॥ अत्यंतम् ध्यानम् आरब्धम् पार्थिवस्य पुरस् तदा ॥ २ ॥
etasmin antare tatra kāmarūpa-īśvareṇa ca .. atyaṃtam dhyānam ārabdham pārthivasya puras tadā .. 2 ..
केनचित्तत्र गत्वा च राक्षसाय निवेदितम् ॥ राजा किंचित्करोत्येवं त्वदर्थं ह्याभिचारिकम्॥३॥
केनचिद् तत्र गत्वा च राक्षसाय निवेदितम् ॥ राजा किंचिद् करोति एवम् त्वद्-अर्थम् हि आभिचारिकम्॥३॥
kenacid tatra gatvā ca rākṣasāya niveditam .. rājā kiṃcid karoti evam tvad-artham hi ābhicārikam..3..
सूत उवाच ।।
राक्षसस्स च तच्छुत्वा क्रुद्धस्तद्धननेच्छया ॥ गृहीत्वा करवालं च जगाम नृपतिं प्रति ॥ ४ ॥
राक्षसः स च तत् शुत्वा क्रुद्धः तद्-हनन-इच्छया ॥ गृहीत्वा करवालम् च जगाम नृपतिम् प्रति ॥ ४ ॥
rākṣasaḥ sa ca tat śutvā kruddhaḥ tad-hanana-icchayā .. gṛhītvā karavālam ca jagāma nṛpatim prati .. 4 ..
तद्दृष्ट्वा राक्षसस्तत्र पार्थिवादि स्थितं च यत् ॥ तदर्थं तत्स्वरूपं च दृष्ट्वा किंचित्करोत्यसौ ॥ ५ ॥
तत् दृष्ट्वा राक्षसः तत्र पार्थिव-आदि स्थितम् च यत् ॥ तद्-अर्थम् तद्-स्वरूपम् च दृष्ट्वा किंचिद् करोति असौ ॥ ५ ॥
tat dṛṣṭvā rākṣasaḥ tatra pārthiva-ādi sthitam ca yat .. tad-artham tad-svarūpam ca dṛṣṭvā kiṃcid karoti asau .. 5 ..
अत एनं बलादद्य हन्मि सोपस्करं नृपम् ॥ विचार्येति महाक्रुद्धो राक्षसः प्राह तं नृपम् ॥ ६ ॥
अतस् एनम् बलात् अद्य हन्मि स उपस्करम् नृपम् ॥ विचार्य इति महा-क्रुद्धः राक्षसः प्राह तम् नृपम् ॥ ६ ॥
atas enam balāt adya hanmi sa upaskaram nṛpam .. vicārya iti mahā-kruddhaḥ rākṣasaḥ prāha tam nṛpam .. 6 ..
भीम उवाच ।।
रेरे पार्थिव दुष्टात्मन्क्रियते किं त्वयाधुना ॥ सत्यं वद न हन्यां त्वामन्यथा हन्मि निश्चितम् ॥ ७॥
रे रे पार्थिव दुष्ट-आत्मन् क्रियते किम् त्वया अधुना ॥ सत्यम् वद न हन्याम् त्वाम् अन्यथा हन्मि निश्चितम् ॥ ७॥
re re pārthiva duṣṭa-ātman kriyate kim tvayā adhunā .. satyam vada na hanyām tvām anyathā hanmi niścitam .. 7..
सूत उवाच ।।
इति श्रुत्वा वचस्तस्य कामरूपेश्वरश्च सः ॥ मनसीति चिचिन्ताशु शिवविश्वासपूरितः ॥ ८ ॥
इति श्रुत्वा वचः तस्य कामरूप-ईश्वरः च सः ॥ मनसि इति चिचिन्त आशु शिव-विश्वास-पूरितः ॥ ८ ॥
iti śrutvā vacaḥ tasya kāmarūpa-īśvaraḥ ca saḥ .. manasi iti cicinta āśu śiva-viśvāsa-pūritaḥ .. 8 ..
भविष्यं यद्भवत्येव नास्ति तस्य निवर्तकः ॥ प्रारब्धाधीनमेवात्र प्रारब्धस्स शिवः स्मृतः ॥ ९ ॥
भविष्यम् यत् भवति एव न अस्ति तस्य निवर्तकः ॥ प्रारब्ध-अधीनम् एव अत्र प्रारब्धः स शिवः स्मृतः ॥ ९ ॥
bhaviṣyam yat bhavati eva na asti tasya nivartakaḥ .. prārabdha-adhīnam eva atra prārabdhaḥ sa śivaḥ smṛtaḥ .. 9 ..
कृपालुश्शंकरश्चात्र पार्थिवे वर्तते ध्रुवम् ॥ मदर्थं न करोतीह कुतः कोयं च राक्षसः ॥ 4.21.१० ॥
कृपालुः शंकरः च अत्र पार्थिवे वर्तते ध्रुवम् ॥ मद्-अर्थम् न करोति इह कुतस् कोयम् च राक्षसः ॥ ४।२१।१० ॥
kṛpāluḥ śaṃkaraḥ ca atra pārthive vartate dhruvam .. mad-artham na karoti iha kutas koyam ca rākṣasaḥ .. 4.21.10 ..
स्वानुरूपां प्रतिज्ञां स सत्यं चैव करिष्यति ॥ सत्यप्रतिज्ञो भगवाञ्छिवश्चेति श्रुतौ श्रुतः ॥ ११ ॥
स्व-अनुरूपाम् प्रतिज्ञाम् स सत्यम् च एव करिष्यति ॥ सत्य-प्रतिज्ञः भगवान् शिवः च इति श्रुतौ श्रुतः ॥ ११ ॥
sva-anurūpām pratijñām sa satyam ca eva kariṣyati .. satya-pratijñaḥ bhagavān śivaḥ ca iti śrutau śrutaḥ .. 11 ..
मम भक्तं यदा कश्चित्पीडयत्यतिदारुणः ॥ तदाहं तस्य रक्षार्थं दुष्टं हन्मि न संशयः ॥ १२ ॥
मम भक्तम् यदा कश्चिद् पीडयति अति दारुणः ॥ तदा अहम् तस्य रक्षा-अर्थम् दुष्टम् हन्मि न संशयः ॥ १२ ॥
mama bhaktam yadā kaścid pīḍayati ati dāruṇaḥ .. tadā aham tasya rakṣā-artham duṣṭam hanmi na saṃśayaḥ .. 12 ..
एवं धैर्य्यं समालंब्य ध्यात्वा देवं च शंकरम् ॥ प्रार्थयामास सद्भक्त्या मनसैव रसेश्वरः ॥ १३ ॥
एवम् धैर्यम् समालंब्य ध्यात्वा देवम् च शंकरम् ॥ प्रार्थयामास सत्-भक्त्या मनसा एव रसेश्वरः ॥ १३ ॥
evam dhairyam samālaṃbya dhyātvā devam ca śaṃkaram .. prārthayāmāsa sat-bhaktyā manasā eva raseśvaraḥ .. 13 ..
त्वदीयोऽस्मि महाराज यथेच्छसि तथा कुरु ॥ सत्यं च वचनं ह्यत्र ब्रवीमि कुरु मे हितम् ॥ १४ ॥
त्वदीयः अस्मि महा-राज यथा इच्छसि तथा कुरु ॥ सत्यम् च वचनम् हि अत्र ब्रवीमि कुरु मे हितम् ॥ १४ ॥
tvadīyaḥ asmi mahā-rāja yathā icchasi tathā kuru .. satyam ca vacanam hi atra bravīmi kuru me hitam .. 14 ..
एवं मनसि स ध्यात्वा सत्यपाशेन मंत्रितः ॥ प्राह सत्यं वचो राजा राक्षसं चावमानयन् ॥ १५ ॥
एवम् मनसि स ध्यात्वा सत्य-पाशेन मंत्रितः ॥ प्राह सत्यम् वचः राजा राक्षसम् च अवमानयन् ॥ १५ ॥
evam manasi sa dhyātvā satya-pāśena maṃtritaḥ .. prāha satyam vacaḥ rājā rākṣasam ca avamānayan .. 15 ..
नृप उवाच ।।
भजामि शंकरं देवं स्वभक्तपरिपालकम् ॥ चराचराणां सर्वेषामीश्वरं निर्विकारकम् ॥ १६ ॥
भजामि शंकरम् देवम् स्व-भक्त-परिपालकम् ॥ चराचराणाम् सर्वेषाम् ईश्वरम् निर्विकारकम् ॥ १६ ॥
bhajāmi śaṃkaram devam sva-bhakta-paripālakam .. carācarāṇām sarveṣām īśvaram nirvikārakam .. 16 ..
सूत उवाच ।।
इति तस्य वचः श्रुत्वा कामरूपेश्वरस्य सः ॥ क्रोधेन प्रचलद्गात्रो भीमो वचनमब्रवीत् ॥ १७ ॥
इति तस्य वचः श्रुत्वा कामरूप-ईश्वरस्य सः ॥ क्रोधेन प्रचलत्-गात्रः भीमः वचनम् अब्रवीत् ॥ १७ ॥
iti tasya vacaḥ śrutvā kāmarūpa-īśvarasya saḥ .. krodhena pracalat-gātraḥ bhīmaḥ vacanam abravīt .. 17 ..
।। भीम उवाच ।।
शंकरस्ते मया ज्ञातः किं करिष्यति वै मम ॥ यो मे पितृव्यकेनैव स्थापितः किंकरो यथा ॥ १८ ॥
शंकरः ते मया ज्ञातः किम् करिष्यति वै मम ॥ यः मे पितृव्यकेन एव स्थापितः किंकरः यथा ॥ १८ ॥
śaṃkaraḥ te mayā jñātaḥ kim kariṣyati vai mama .. yaḥ me pitṛvyakena eva sthāpitaḥ kiṃkaraḥ yathā .. 18 ..
तद्बलं हि समाश्रित्य विजेतुं त्वं समीहसे ॥ तर्हि त्वया जितं सर्वं नात्र कार्या विचारणा ॥ १९ ॥
तत् बलम् हि समाश्रित्य विजेतुम् त्वम् समीहसे ॥ तर्हि त्वया जितम् सर्वम् न अत्र कार्या विचारणा ॥ १९ ॥
tat balam hi samāśritya vijetum tvam samīhase .. tarhi tvayā jitam sarvam na atra kāryā vicāraṇā .. 19 ..
यावन्मया न दृष्टो हि शंकरस्त्वत्प्रपालकः ॥ तावत्त्वं स्वामिनं मत्वा सेवसे नान्यथा क्वचित् ॥ 4.21.२० ॥
यावत् मया न दृष्टः हि शंकरः त्वद्-प्रपालकः ॥ तावत् त्वम् स्वामिनम् मत्वा सेवसे ना अन्यथा क्वचिद् ॥ ४।२१।२० ॥
yāvat mayā na dṛṣṭaḥ hi śaṃkaraḥ tvad-prapālakaḥ .. tāvat tvam svāminam matvā sevase nā anyathā kvacid .. 4.21.20 ..
मया दृष्टे च तत्सर्वं स्फुटं स्यात्सर्वथा नृप ॥ तस्मात्त्वं वै शिवस्येदं रूपं दूरतरं कुरु ॥ २१ ॥
मया दृष्टे च तत् सर्वम् स्फुटम् स्यात् सर्वथा नृप ॥ तस्मात् त्वम् वै शिवस्य इदम् रूपम् दूरतरम् कुरु ॥ २१ ॥
mayā dṛṣṭe ca tat sarvam sphuṭam syāt sarvathā nṛpa .. tasmāt tvam vai śivasya idam rūpam dūrataram kuru .. 21 ..
अन्यथा हि भयं तेऽद्य भविष्यति न संशयः ॥ स्वामिनस्ते करं तीक्ष्णं दास्येऽहं भीमविक्रमः ॥ २२ ॥
अन्यथा हि भयम् ते अद्य भविष्यति न संशयः ॥ स्वामिनः ते करम् तीक्ष्णम् दास्ये अहम् भीम-विक्रमः ॥ २२ ॥
anyathā hi bhayam te adya bhaviṣyati na saṃśayaḥ .. svāminaḥ te karam tīkṣṇam dāsye aham bhīma-vikramaḥ .. 22 ..
।। सूत उवाच ।।
इति तद्वचनं श्रुत्वा कामरूपेश्वरो नृपः ॥ दृढं शंकरविश्वासो द्रुतं वाक्यमुवाच तम् ॥ २३॥
इति तत् वचनम् श्रुत्वा कामरूप-ईश्वरः नृपः ॥ दृढम् शंकर-विश्वासः द्रुतम् वाक्यम् उवाच तम् ॥ २३॥
iti tat vacanam śrutvā kāmarūpa-īśvaraḥ nṛpaḥ .. dṛḍham śaṃkara-viśvāsaḥ drutam vākyam uvāca tam .. 23..
राजोवाच ।।
अहं च पामरो दुष्टो न मोक्ष्ये शंकरं पुनः ॥ सर्वोत्कृष्टश्च मे स्वामी न मां मुंचति कर्हिचित् ॥ २४॥
अहम् च पामरः दुष्टः न मोक्ष्ये शंकरम् पुनर् ॥ सर्व-उत्कृष्टः च मे स्वामी न माम् मुंचति कर्हिचित् ॥ २४॥
aham ca pāmaraḥ duṣṭaḥ na mokṣye śaṃkaram punar .. sarva-utkṛṣṭaḥ ca me svāmī na mām muṃcati karhicit .. 24..
सूत उवाच ।।
एवं वचस्तदा श्रुत्वा तस्य राज्ञश्शिवात्मनः ॥ तं प्रहस्य द्रुतं भीमो भूपतिं राक्षसोऽब्रवीत् ॥ २५ ॥
एवम् वचः तदा श्रुत्वा तस्य राज्ञः शिव-आत्मनः ॥ तम् प्रहस्य द्रुतम् भीमः भूपतिम् राक्षसः अब्रवीत् ॥ २५ ॥
evam vacaḥ tadā śrutvā tasya rājñaḥ śiva-ātmanaḥ .. tam prahasya drutam bhīmaḥ bhūpatim rākṣasaḥ abravīt .. 25 ..
।। भीम उवाच ।।
मत्तो भिक्षयते नित्यं स किं जानाति स्वाकृतिम् ॥ योगिनां का च निष्ठा वै भक्तानां प्रतिपालने ॥ २६॥
मत्तः भिक्षयते नित्यम् स किम् जानाति सु आकृतिम् ॥ योगिनाम् का च निष्ठा वै भक्तानाम् प्रतिपालने ॥ २६॥
mattaḥ bhikṣayate nityam sa kim jānāti su ākṛtim .. yoginām kā ca niṣṭhā vai bhaktānām pratipālane .. 26..
इति कृत्वा मतिं त्वं च दूरतो भव सर्वथा॥अहं च तव स स्वामी युद्धं वै करवावहे ॥ २७ ॥
इति कृत्वा मतिम् त्वम् च दूरतस् भव सर्वथा॥अहम् च तव स स्वामी युद्धम् वै करवावहे ॥ २७ ॥
iti kṛtvā matim tvam ca dūratas bhava sarvathā..aham ca tava sa svāmī yuddham vai karavāvahe .. 27 ..
सूत उवाच ।।
इत्युक्तस्य नृपश्रेष्ठश्शंभुभक्तो दृढव्रतः ॥ प्रत्युवाचाभयो भीमं दुःखदं जगतां सदा ॥ २८ ॥
इति उक्तस्य नृप-श्रेष्ठः शंभु-भक्तः दृढ-व्रतः ॥ प्रत्युवाच अभयः भीमम् दुःख-दम् जगताम् सदा ॥ २८ ॥
iti uktasya nṛpa-śreṣṭhaḥ śaṃbhu-bhaktaḥ dṛḍha-vrataḥ .. pratyuvāca abhayaḥ bhīmam duḥkha-dam jagatām sadā .. 28 ..
राजोवाच ।।
शृणु राक्षस दुष्टात्मन्मया कर्तुं न शक्यते ॥ त्वया विक्रियते तर्हि कुतस्त्वं शक्तिमानसि ॥ २९ ॥
शृणु राक्षस दुष्ट-आत्मन् मया कर्तुम् न शक्यते ॥ त्वया विक्रियते तर्हि कुतस् त्वम् शक्तिमान् असि ॥ २९ ॥
śṛṇu rākṣasa duṣṭa-ātman mayā kartum na śakyate .. tvayā vikriyate tarhi kutas tvam śaktimān asi .. 29 ..
सूत उवाच ।।
इत्युक्तस्सैन्यमादाय राजानं परिभर्त्स्य तम् ॥ करालं करवालं च पार्थिवे प्राक्षिपत्तदा ॥ 4.21.३० ॥
इति उक्तः सैन्यम् आदाय राजानम् परिभर्त्स्य तम् ॥ करालम् करवालम् च पार्थिवे प्राक्षिपत् तदा ॥ ४।२१।३० ॥
iti uktaḥ sainyam ādāya rājānam paribhartsya tam .. karālam karavālam ca pārthive prākṣipat tadā .. 4.21.30 ..
पश्य त्वं स्वामिनोऽद्यैव बलं भक्तसुखावहम् ॥ इत्युवाच विहस्यैव राक्षसैस्स महाबलः ॥ ३१ ॥
पश्य त्वम् स्वामिनः अद्य एव बलम् भक्त-सुख-आवहम् ॥ इति उवाच विहस्य एव राक्षसैः स महा-बलः ॥ ३१ ॥
paśya tvam svāminaḥ adya eva balam bhakta-sukha-āvaham .. iti uvāca vihasya eva rākṣasaiḥ sa mahā-balaḥ .. 31 ..
करवालः पार्थिवं च यावत्स्पृशति नो द्विजाः ॥ यावच्च पार्थिवात्तस्मादाविरासीत्स्वयं हरः ॥ ३२ ॥
करवालः पार्थिवम् च यावत् स्पृशति नः द्विजाः ॥ यावत् च पार्थिवात् तस्मात् आविरासीत् स्वयम् हरः ॥ ३२ ॥
karavālaḥ pārthivam ca yāvat spṛśati naḥ dvijāḥ .. yāvat ca pārthivāt tasmāt āvirāsīt svayam haraḥ .. 32 ..
पश्य भीमेश्वरोहं च रक्षार्थं प्रकटोऽभवम् ॥ मम पूर्वव्रतं ह्येतद्रक्ष्यो भक्तो मया सदा ॥ ३३ ॥
पश्य भीमेश्वर-ऊहम् च रक्षा-अर्थम् प्रकटः अभवम् ॥ मम पूर्व-व्रतम् हि एतत् रक्ष्यः भक्तः मया सदा ॥ ३३ ॥
paśya bhīmeśvara-ūham ca rakṣā-artham prakaṭaḥ abhavam .. mama pūrva-vratam hi etat rakṣyaḥ bhaktaḥ mayā sadā .. 33 ..
एतस्मात्पश्य मे शीघ्रं बलं भक्तसुखावहम् ॥ इत्युक्त्वा स पिनाकेन करवालो द्विधा कृतः ॥ ३४ ॥
एतस्मात् पश्य मे शीघ्रम् बलम् भक्त-सुख-आवहम् ॥ इति उक्त्वा स पिनाकेन करवालः द्विधा कृतः ॥ ३४ ॥
etasmāt paśya me śīghram balam bhakta-sukha-āvaham .. iti uktvā sa pinākena karavālaḥ dvidhā kṛtaḥ .. 34 ..
पुनश्चैव त्रिशूलं स्वं चिक्षिपे तेन रक्षसा ॥ तच्छूलं शतधा नीतमपि दुष्टस्य शंभुना ॥ ३५ ॥
पुनर् च एव त्रिशूलम् स्वम् चिक्षिपे तेन रक्षसा ॥ तत् शूलम् शतधा नीतम् अपि दुष्टस्य शंभुना ॥ ३५ ॥
punar ca eva triśūlam svam cikṣipe tena rakṣasā .. tat śūlam śatadhā nītam api duṣṭasya śaṃbhunā .. 35 ..
पुनश्शक्तिश्च निःक्षिप्ता तेन शंभूपरि द्विजाः ॥ शंभुना सापि बाणैस्स्वैर्लक्षधा च कृता द्रुतम् ॥ ३६ ॥
पुनर् शक्तिः च निःक्षिप्ता तेन शंभु-उपरि द्विजाः ॥ शंभुना सा अपि बाणैः स्वैः लक्षधा च कृता द्रुतम् ॥ ३६ ॥
punar śaktiḥ ca niḥkṣiptā tena śaṃbhu-upari dvijāḥ .. śaṃbhunā sā api bāṇaiḥ svaiḥ lakṣadhā ca kṛtā drutam .. 36 ..
पट्टिशश्च ततस्तेन निःक्षिप्तो हि शिवोपरि ॥ शिवेन स त्रिशूलेन तिलशश्च कृतं क्षणात् ॥ ३७॥
पट्टिशः च ततस् तेन निःक्षिप्तः हि शिव-उपरि ॥ शिवेन स त्रिशूलेन तिलशस् च कृतम् क्षणात् ॥ ३७॥
paṭṭiśaḥ ca tatas tena niḥkṣiptaḥ hi śiva-upari .. śivena sa triśūlena tilaśas ca kṛtam kṣaṇāt .. 37..
ततश्शिवगणानां च राक्षसानां परस्परम् ॥ युद्धमासीत्तदा घोरं पश्यतां दुःखकावहम् ॥ ३८॥
ततस् शिव-गणानाम् च राक्षसानाम् परस्परम् ॥ युद्धम् आसीत् तदा घोरम् पश्यताम् दुःखक-आवहम् ॥ ३८॥
tatas śiva-gaṇānām ca rākṣasānām parasparam .. yuddham āsīt tadā ghoram paśyatām duḥkhaka-āvaham .. 38..
ततश्च पृथिवी सर्वा व्याकुला चाभवत्क्षणात् ॥ समुद्राश्च तदा सर्वे चुक्षुभुस्समहीधराः ॥ ३९ ॥
ततस् च पृथिवी सर्वा व्याकुला च अभवत् क्षणात् ॥ समुद्राः च तदा सर्वे चुक्षुभुः स महीधराः ॥ ३९ ॥
tatas ca pṛthivī sarvā vyākulā ca abhavat kṣaṇāt .. samudrāḥ ca tadā sarve cukṣubhuḥ sa mahīdharāḥ .. 39 ..
देवाश्च ऋषयस्सर्वे बभूवुर्विकला अति ॥ ऊचुः परस्परं चेति व्यर्थं वै प्रार्थितश्शिवः ॥ 4.21.४० ॥
देवाः च ऋषयः सर्वे बभूवुः विकलाः अति ॥ ऊचुः परस्परम् च इति व्यर्थम् वै प्रार्थितः शिवः ॥ ४।२१।४० ॥
devāḥ ca ṛṣayaḥ sarve babhūvuḥ vikalāḥ ati .. ūcuḥ parasparam ca iti vyartham vai prārthitaḥ śivaḥ .. 4.21.40 ..
नारदश्च समागत्य शंकरं दुःखदाहकम् ॥ प्रार्थयामास तत्रैव सांजलिर्नतमस्तकः ॥ ४१ ॥
नारदः च समागत्य शंकरम् दुःख-दाहकम् ॥ प्रार्थयामास तत्र एव स अंजलिः नत-मस्तकः ॥ ४१ ॥
nāradaḥ ca samāgatya śaṃkaram duḥkha-dāhakam .. prārthayāmāsa tatra eva sa aṃjaliḥ nata-mastakaḥ .. 41 ..
नारद उवाच ।।
क्षम्यतां क्षम्यतां नाथ त्वया विभ्रमकारक ॥ तृणेकश्च कुठारो वै हन्यतां शीघ्रमेव हि ॥ ४२ ॥
क्षम्यताम् क्षम्यताम् नाथ त्वया विभ्रम-कारक ॥ तृण-इकः च कुठारः वै हन्यताम् शीघ्रम् एव हि ॥ ४२ ॥
kṣamyatām kṣamyatām nātha tvayā vibhrama-kāraka .. tṛṇa-ikaḥ ca kuṭhāraḥ vai hanyatām śīghram eva hi .. 42 ..
इति संप्रार्थितश्शंभुः सर्वान्रक्षोगणान्प्रभुः ॥ हुंकारेणैव चास्त्रेण भस्मसात्कृतवांस्तदा ॥ ४३ ॥
इति संप्रार्थितः शंभुः सर्वान् रक्षः-गणान् प्रभुः ॥ हुंकारेण एव च अस्त्रेण भस्मसात्कृतवान् तदा ॥ ४३ ॥
iti saṃprārthitaḥ śaṃbhuḥ sarvān rakṣaḥ-gaṇān prabhuḥ .. huṃkāreṇa eva ca astreṇa bhasmasātkṛtavān tadā .. 43 ..
सर्वे ते राक्षसा दग्धाः शंकरेण क्षणं मुने ॥ बभूवुस्तत्र सर्वेषां देवानां पश्यताद्भुतम्॥४४॥
सर्वे ते राक्षसाः दग्धाः शंकरेण क्षणम् मुने ॥ बभूवुः तत्र सर्वेषाम् देवानाम् पश्यत अद्भुतम्॥४४॥
sarve te rākṣasāḥ dagdhāḥ śaṃkareṇa kṣaṇam mune .. babhūvuḥ tatra sarveṣām devānām paśyata adbhutam..44..
दावानलगतो वह्निर्यथा च वनमादहेत् ॥ तथा शिवेन क्रुद्धेन राक्षसानां बलं क्षणात्॥४५॥
दाव-अनल-गतः वह्निः यथा च वनम् आदहेत् ॥ तथा शिवेन क्रुद्धेन राक्षसानाम् बलम् क्षणात्॥४५॥
dāva-anala-gataḥ vahniḥ yathā ca vanam ādahet .. tathā śivena kruddhena rākṣasānām balam kṣaṇāt..45..
भीमस्यैव च किं भस्म न ज्ञातं केनचित्तदा ॥ परिवारयुतो दग्धो नाम न श्रूयते क्वचित् ॥ ४६ ॥
भीमस्य एव च किम् भस्म न ज्ञातम् केनचिद् तदा ॥ परिवार-युतः दग्धः नाम न श्रूयते क्वचिद् ॥ ४६ ॥
bhīmasya eva ca kim bhasma na jñātam kenacid tadā .. parivāra-yutaḥ dagdhaḥ nāma na śrūyate kvacid .. 46 ..
ततश्शिवस्य कृपया शांतिं प्राप्ता मुनीश्वराः ॥ देवास्सर्वे च शक्राद्यास्स्वास्थ्यं प्रापाखिलं जगत् ॥ ४७॥
ततस् शिवस्य कृपया शांतिम् प्राप्ताः मुनि-ईश्वराः ॥ देवाः सर्वे च शक्र-आद्याः स्वास्थ्यम् प्राप अखिलम् जगत् ॥ ४७॥
tatas śivasya kṛpayā śāṃtim prāptāḥ muni-īśvarāḥ .. devāḥ sarve ca śakra-ādyāḥ svāsthyam prāpa akhilam jagat .. 47..
क्रोधज्वाला महेशस्य निस्ससार वनाद्वनम् ॥ राक्षसानां च तद्भस्म सर्वं व्याप्तं वनेऽखिलम् ॥ ४८ ॥
क्रोध-ज्वाला महेशस्य निस्ससार वनात् वनम् ॥ राक्षसानाम् च तत् भस्म सर्वम् व्याप्तम् वने अखिलम् ॥ ४८ ॥
krodha-jvālā maheśasya nissasāra vanāt vanam .. rākṣasānām ca tat bhasma sarvam vyāptam vane akhilam .. 48 ..
ततश्चौषधयो जाता नानाकार्यकरास्तथा ॥ रूपान्तरं ततो नॄणां भवेद्वेषांतरं तथा ॥ ४९॥
ततस् च ओषधयः जाताः नाना कार्य-कराः तथा ॥ रूप-अन्तरम् ततस् नॄणाम् भवेत् वेष-अन्तरम् तथा ॥ ४९॥
tatas ca oṣadhayaḥ jātāḥ nānā kārya-karāḥ tathā .. rūpa-antaram tatas nṝṇām bhavet veṣa-antaram tathā .. 49..
भूतप्रेतपिशाचादि दूरतश्च ततो व्रजेत् ॥ तन्न कार्यं च यच्चैव ततो न भवति द्विजाः ॥ 4.21.५० ॥
भूत-प्रेत-पिशाच-आदि दूरतस् च ततस् व्रजेत् ॥ तत् न कार्यम् च यत् च एव ततस् न भवति द्विजाः ॥ ४।२१।५० ॥
bhūta-preta-piśāca-ādi dūratas ca tatas vrajet .. tat na kāryam ca yat ca eva tatas na bhavati dvijāḥ .. 4.21.50 ..
ततः प्रार्थितश्शम्भुर्मुनिभिश्च विशेषतः ॥ स्थातव्यं स्वामिना ह्यत्र लोकानां सुखहेतवे ॥ ५१ ॥
ततस् प्रार्थितः शम्भुः मुनिभिः च विशेषतः ॥ स्थातव्यम् स्वामिना हि अत्र लोकानाम् सुख-हेतवे ॥ ५१ ॥
tatas prārthitaḥ śambhuḥ munibhiḥ ca viśeṣataḥ .. sthātavyam svāminā hi atra lokānām sukha-hetave .. 51 ..
अयं वै कुत्सितो देश अयोध्यालोकदुःखदः ॥ भवंतं च तदा दृष्ट्वा कल्याणं संभविष्यति ॥ ५२ ॥
अयम् वै कुत्सितः देशः अयोध्या-लोक-दुःख-दः ॥ भवन्तम् च तदा दृष्ट्वा कल्याणम् संभविष्यति ॥ ५२ ॥
ayam vai kutsitaḥ deśaḥ ayodhyā-loka-duḥkha-daḥ .. bhavantam ca tadā dṛṣṭvā kalyāṇam saṃbhaviṣyati .. 52 ..
भीमशंकरनामा त्वं भविता सर्वसाधकः ॥ एतल्लिंगं सदा पूज्यं सर्वापद्विनिवारकम् ॥ ५३ ॥
भीम-शंकर-नामा त्वम् भविता सर्व-साधकः ॥ एतत् लिंगम् सदा पूज्यम् सर्व-आपद्-विनिवारकम् ॥ ५३ ॥
bhīma-śaṃkara-nāmā tvam bhavitā sarva-sādhakaḥ .. etat liṃgam sadā pūjyam sarva-āpad-vinivārakam .. 53 ..
इत्येवं प्रार्थितश्शम्भुर्लोकानां हितकारकः ॥ तत्रैवास्थितवान्प्रीत्या स्वतन्त्रो भक्तवत्सलः ॥ ५४॥
इति एवम् प्रार्थितः शम्भुः लोकानाम् हित-कारकः ॥ तत्र एव आस्थितवान् प्रीत्या स्वतन्त्रः भक्त-वत्सलः ॥ ५४॥
iti evam prārthitaḥ śambhuḥ lokānām hita-kārakaḥ .. tatra eva āsthitavān prītyā svatantraḥ bhakta-vatsalaḥ .. 54..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं नामैकविंशोऽध्यायः ॥ २१॥
इति श्री-शिवमहापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् भीमेश्वरज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनम् नाम एकविंशः अध्यायः ॥ २१॥
iti śrī-śivamahāpurāṇe caturthyām koṭirudrasaṃhitāyām bhīmeśvarajyotirliṅgotpattimāhātmyavarṇanam nāma ekaviṃśaḥ adhyāyaḥ .. 21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In