| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अतःपरं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ॥ विश्वेश्वरस्य माहात्म्यं महापातकनाशनम् ॥ १॥
अतस् परम् प्रवक्ष्यामि श्रूयताम् ऋषि-सत्तमाः ॥ विश्वेश्वरस्य माहात्म्यम् महा-पातक-नाशनम् ॥ १॥
atas param pravakṣyāmi śrūyatām ṛṣi-sattamāḥ .. viśveśvarasya māhātmyam mahā-pātaka-nāśanam .. 1..
यदिदं दृश्यते किंचिज्जगत्यां वस्तुमात्रकम्॥चिदानन्द स्वरूपं च निर्विकारं सनातनम् ॥ २ ॥
यत् इदम् दृश्यते किंचिद् जगत्याम् वस्तु-मात्रकम्॥चिदानन्द स्वरूपम् च निर्विकारम् सनातनम् ॥ २ ॥
yat idam dṛśyate kiṃcid jagatyām vastu-mātrakam..cidānanda svarūpam ca nirvikāram sanātanam .. 2 ..
तस्यैव कैवल्यरतेर्द्वितीयेच्छा ततोभवत् ॥ स एव सगुणो जातश्शिव इत्यभिधीयते ॥ ३॥
तस्य एव कैवल्य-रतेः द्वितीया इच्छा ततस् भवत् ॥ सः एव स गुणः जातः शिवः इति अभिधीयते ॥ ३॥
tasya eva kaivalya-rateḥ dvitīyā icchā tatas bhavat .. saḥ eva sa guṇaḥ jātaḥ śivaḥ iti abhidhīyate .. 3..
स एव हि द्विधा जातः पुंस्त्रीरूपप्रभेदतः ॥ यः पुमान्स शिवः ख्यातः स्त्रीशक्तिस्सा हि कथ्यते ॥ ४ ॥
सः एव हि द्विधा जातः पुम् स्त्री-रूप-प्रभेदतः ॥ यः पुमान् स शिवः ख्यातः स्त्री-शक्तिः सा हि कथ्यते ॥ ४ ॥
saḥ eva hi dvidhā jātaḥ pum strī-rūpa-prabhedataḥ .. yaḥ pumān sa śivaḥ khyātaḥ strī-śaktiḥ sā hi kathyate .. 4 ..
चिदानन्देस्वरूपाभ्यां पुरुषावपि निर्मितौ ॥ ५ ॥
पुरुषौ अपि निर्मितौ ॥ ५ ॥
puruṣau api nirmitau .. 5 ..
अदृष्टाभ्यां तदा ताभ्यां स्वभावान्मुनिसत्तमाः ॥ तावदृष्ट्वा तदा तौ च स्वमातृपितरौ द्विजाः ॥ ६॥
अदृष्टाभ्याम् तदा ताभ्याम् स्वभावात् मुनि-सत्तमाः ॥ तौ अ दृष्ट्वा तदा तौ च स्व-मातृ-पितरौ द्विजाः ॥ ६॥
adṛṣṭābhyām tadā tābhyām svabhāvāt muni-sattamāḥ .. tau a dṛṣṭvā tadā tau ca sva-mātṛ-pitarau dvijāḥ .. 6..
महासंशयमापन्नौ प्रकृतिः पुरुषश्च तौ ॥ तदा वाणी समुत्पन्ना निर्गुणात्परमात्मनः ॥ तपश्चैव प्रकर्तव्यं ततस्सृष्टिरनुत्तमा ॥ ७॥
महा-संशयम् आपन्नौ प्रकृतिः पुरुषः च तौ ॥ तदा वाणी समुत्पन्ना निर्गुणात् परमात्मनः ॥ तपः च एव प्रकर्तव्यम् ततस् सृष्टिः अनुत्तमा ॥ ७॥
mahā-saṃśayam āpannau prakṛtiḥ puruṣaḥ ca tau .. tadā vāṇī samutpannā nirguṇāt paramātmanaḥ .. tapaḥ ca eva prakartavyam tatas sṛṣṭiḥ anuttamā .. 7..
प्रकृतिपुरुषाबूचतुः ।।
तपसस्तु स्थलंनास्ति कुत्रावाभ्यां प्रभोऽधुना॥स्थित्वा तपः प्रकर्तव्यं तव शासनतश्शिव ॥ ८ ॥
तपसः तु स्थलम् ना अस्ति कुत्र आवाभ्याम् प्रभो अधुना॥स्थित्वा तपः प्रकर्तव्यम् तव शासनतः शिव ॥ ८ ॥
tapasaḥ tu sthalam nā asti kutra āvābhyām prabho adhunā..sthitvā tapaḥ prakartavyam tava śāsanataḥ śiva .. 8 ..
ततश्च तेजसस्सारं पंचक्रोशात्मकं शुभम्॥सर्वोपकरणैर्युक्तं सुंदरं नगरं तथा॥९॥
ततस् च तेजसः सारम् पंचक्रोश-आत्मकम् शुभम्॥सर्व-उपकरणैः युक्तम् सुंदरम् नगरम् तथा॥९॥
tatas ca tejasaḥ sāram paṃcakrośa-ātmakam śubham..sarva-upakaraṇaiḥ yuktam suṃdaram nagaram tathā..9..
निर्माय प्रेषितं तत्स्वं निर्गुणेन शिवेन च॥अंतरिक्षे स्थितं तच्च पुरुषस्य समीपतः॥4.22.१०॥
निर्माय प्रेषितम् तत् स्वम् निर्गुणेन शिवेन च॥अंतरिक्षे स्थितम् तत् च पुरुषस्य समीपतस्॥४।२२।१०॥
nirmāya preṣitam tat svam nirguṇena śivena ca..aṃtarikṣe sthitam tat ca puruṣasya samīpatas..4.22.10..
तदधिष्ठाय हरिणा सृष्टिकामनया ततः ॥ बहुकालं तपस्तप्तं तद्ध्यानमवलंब्य च॥११॥
तत् अधिष्ठाय हरिणा सृष्टि-कामनया ततस् ॥ बहुकालम् तपः तप्तम् तद्-ध्यानम् अवलंब्य च॥११॥
tat adhiṣṭhāya hariṇā sṛṣṭi-kāmanayā tatas .. bahukālam tapaḥ taptam tad-dhyānam avalaṃbya ca..11..
श्रमेण जलधारश्च विविधाश्चाभवंस्तदा ॥ ताभिर्व्याप्तं च तच्छून्यं नान्यत्किंचिददृश्यत ॥ १२॥
श्रमेण जलधारः च विविधाः च अभवन् तदा ॥ ताभिः व्याप्तम् च तत् शून्यम् न अन्यत् किंचिद् अदृश्यत ॥ १२॥
śrameṇa jaladhāraḥ ca vividhāḥ ca abhavan tadā .. tābhiḥ vyāptam ca tat śūnyam na anyat kiṃcid adṛśyata .. 12..
ततश्च विष्णुना दृष्टं किमेतद्दृश्यतेऽद्भुतम्॥इत्याश्चर्यं तदा दृष्ट्वा शिरसः कम्पनं कृतम् ॥ १३ ॥
ततस् च विष्णुना दृष्टम् किम् एतत् दृश्यते अद्भुतम्॥इति आश्चर्यम् तदा दृष्ट्वा शिरसः कम्पनम् कृतम् ॥ १३ ॥
tatas ca viṣṇunā dṛṣṭam kim etat dṛśyate adbhutam..iti āścaryam tadā dṛṣṭvā śirasaḥ kampanam kṛtam .. 13 ..
ततश्च पतितः कर्णान्मणिश्च पुरतः प्रभो ॥ तद्बभूव महत्तीर्थं नामतो मणिकर्णिका॥१४॥
ततस् च पतितः कर्णात् मणिः च पुरतस् प्रभो ॥ तत् बभूव महत् तीर्थम् नामतः मणिकर्णिका॥१४॥
tatas ca patitaḥ karṇāt maṇiḥ ca puratas prabho .. tat babhūva mahat tīrtham nāmataḥ maṇikarṇikā..14..
जलौघे प्लाव्यमाना सा पंचक्रोशी यदाभवत ॥ निर्गुणेन शिवेनाशु त्रिशूलेन धृता तदा ॥ १५ ॥
जल-ओघे प्लाव्यमाना सा पंचक्रोशी यदा अभवत ॥ निर्गुणेन शिवेन आशु त्रिशूलेन धृता तदा ॥ १५ ॥
jala-oghe plāvyamānā sā paṃcakrośī yadā abhavata .. nirguṇena śivena āśu triśūlena dhṛtā tadā .. 15 ..
विष्णुस्तत्रैव सुष्वाप प्रकृत्या स्वस्त्रिया सह ॥ तन्नाभिकमलाज्जातो ब्रह्मा शंकरशासनात् ॥ १६ ॥
विष्णुः तत्र एव सुष्वाप प्रकृत्या स्व-स्त्रिया सह ॥ तद्-नाभि-कमलात् जातः ब्रह्मा शंकर-शासनात् ॥ १६ ॥
viṣṇuḥ tatra eva suṣvāpa prakṛtyā sva-striyā saha .. tad-nābhi-kamalāt jātaḥ brahmā śaṃkara-śāsanāt .. 16 ..
शिवाज्ञां स समासाद्य सृष्टिचक्रेऽद्भुता तदा ॥ चतुर्द्दशमिता लोका ब्रह्मांडे यत्र निर्मिताः ॥ १७॥
शिव-आज्ञाम् स समासाद्य सृष्टि-चक्रे अद्भुता तदा ॥ चतुर्द्दश-मिताः लोकाः ब्रह्मांडे यत्र निर्मिताः ॥ १७॥
śiva-ājñām sa samāsādya sṛṣṭi-cakre adbhutā tadā .. caturddaśa-mitāḥ lokāḥ brahmāṃḍe yatra nirmitāḥ .. 17..
योजनानां च पंचाशत्कोटिसंख्याप्रमाणतः॥ब्रह्मांडस्यैव विस्तारो मुनिभिः परिकीर्तितः॥१८॥
योजनानाम् च पंचाशत्-कोटि-संख्या-प्रमाणतः॥ब्रह्मांडस्य एव विस्तारः मुनिभिः परिकीर्तितः॥१८॥
yojanānām ca paṃcāśat-koṭi-saṃkhyā-pramāṇataḥ..brahmāṃḍasya eva vistāraḥ munibhiḥ parikīrtitaḥ..18..
ब्रह्मांडे कर्मणा बद्धा प्राणिनो मां कथं पुनः ॥ प्राप्स्यंतीति विचिन्त्यैतत्पंचक्रोशी विमोचिता ॥ १९ ॥
ब्रह्मांडे कर्मणा बद्धा प्राणिनः माम् कथम् पुनर् ॥ प्राप्स्यंति इति विचिन्त्य एतत् पंचक्रोशी विमोचिता ॥ १९ ॥
brahmāṃḍe karmaṇā baddhā prāṇinaḥ mām katham punar .. prāpsyaṃti iti vicintya etat paṃcakrośī vimocitā .. 19 ..
इयं च शुभदा लोके कर्म नाशकरी मता ॥ मोक्षप्रकाशिका काशी ज्ञानदा मम सुप्रिया ॥ 4.22.२०॥
इयम् च शुभ-दा लोके कर्म नाश-करी मता ॥ ॥ ४।२२।२०॥
iyam ca śubha-dā loke karma nāśa-karī matā .. .. 4.22.20..
अविमुक्तं स्वयं लिंगं स्थापितं परमात्मना॥न कदाचित्त्वया त्याज्यमिदं क्षेत्रं ममांशक ॥ २१॥
अविमुक्तम् स्वयम् लिंगम् स्थापितम् परमात्मना॥न कदाचिद् त्वया त्याज्यम् इदम् क्षेत्रम् मम अंशक ॥ २१॥
avimuktam svayam liṃgam sthāpitam paramātmanā..na kadācid tvayā tyājyam idam kṣetram mama aṃśaka .. 21..
इत्युक्त्वा च त्रिशूलात्स्वादवतार्य्य हरस्स्वयम् ॥ मोचयामास भुवने मर्त्यलोके हि काशिकाम् ॥ २२ ॥
इति उक्त्वा च त्रिशूलात् स्वात् अवतार्य हरः स्वयम् ॥ मोचयामास भुवने मर्त्य-लोके हि काशिकाम् ॥ २२ ॥
iti uktvā ca triśūlāt svāt avatārya haraḥ svayam .. mocayāmāsa bhuvane martya-loke hi kāśikām .. 22 ..
ब्रह्मणश्च दिने सा हि न विनश्यति निश्चितम् ॥ तदा शिवस्त्रिशूलेन दधाति मुनयश्च ताम् ॥ २३॥
ब्रह्मणः च दिने सा हि न विनश्यति निश्चितम् ॥ तदा शिवः त्रिशूलेन दधाति मुनयः च ताम् ॥ २३॥
brahmaṇaḥ ca dine sā hi na vinaśyati niścitam .. tadā śivaḥ triśūlena dadhāti munayaḥ ca tām .. 23..
पुनश्च ब्रह्मणा सृष्टौ कृतायां स्थाप्यते द्विजाः ॥ कर्मणा कर्षणाच्चैव काशीति परिपठ्यते॥२४॥
पुनर् च ब्रह्मणा सृष्टौ कृतायाम् स्थाप्यते द्विजाः ॥ कर्मणा कर्षणात् च एव का अशीति परिपठ्यते॥२४॥
punar ca brahmaṇā sṛṣṭau kṛtāyām sthāpyate dvijāḥ .. karmaṇā karṣaṇāt ca eva kā aśīti paripaṭhyate..24..
अविमुक्तेश्वरं लिंगं काश्यां तिष्ठति सर्वदा॥मुक्तिदातृ च लोकानां महापातकिनामपि ॥ २५ ॥
अविमुक्तेश्वरम् लिंगम् काश्याम् तिष्ठति सर्वदा॥मुक्ति-दातृ च लोकानाम् महापातकिनाम् अपि ॥ २५ ॥
avimukteśvaram liṃgam kāśyām tiṣṭhati sarvadā..mukti-dātṛ ca lokānām mahāpātakinām api .. 25 ..
अन्यत्र प्राप्यते मुक्तिस्सारूप्यादिर्मुनीश्वराः ॥ अत्रैव प्राप्यते जीवैः सायुज्या मुक्तिरुत्तमा ॥ २६ ॥
अन्यत्र प्राप्यते मुक्तिः सारूप्य-आदिः मुनि-ईश्वराः ॥ अत्रा एव प्राप्यते जीवैः सायुज्या मुक्तिः उत्तमा ॥ २६ ॥
anyatra prāpyate muktiḥ sārūpya-ādiḥ muni-īśvarāḥ .. atrā eva prāpyate jīvaiḥ sāyujyā muktiḥ uttamā .. 26 ..
येषां क्वापि गतिर्नास्ति तेषां वाराणसी पुरी॥पंचक्रोशी महापुण्या हत्याकोटिविनाशनी ॥ २७॥
येषाम् क्वापि गतिः न अस्ति तेषाम् वाराणसी पुरी॥पंचक्रोशी महा-पुण्या हत्या-कोटि-विनाशनी ॥ २७॥
yeṣām kvāpi gatiḥ na asti teṣām vārāṇasī purī..paṃcakrośī mahā-puṇyā hatyā-koṭi-vināśanī .. 27..
अमरा मरणं सर्वे वांछतीह परे च के ॥ भुक्तिमुक्तिप्रदा चैषा सर्वदा शंकरप्रिया ॥ २८ ॥
अमराः मरणम् सर्वे वांछति इह परे च के ॥ भुक्ति-मुक्ति-प्रदा च एषा सर्वदा शंकर-प्रिया ॥ २८ ॥
amarāḥ maraṇam sarve vāṃchati iha pare ca ke .. bhukti-mukti-pradā ca eṣā sarvadā śaṃkara-priyā .. 28 ..
ब्रह्मा च श्लाघते चामूं विष्णुस्सिद्धाश्च योगिनः ॥ मुनयश्च तथैवान्ये त्रिलोकस्था जनाः सदा॥२९॥
ब्रह्मा च श्लाघते च अमूम् विष्णुः सिद्धाः च योगिनः ॥ मुनयः च तथा एव अन्ये त्रिलोक-स्थाः जनाः सदा॥२९॥
brahmā ca ślāghate ca amūm viṣṇuḥ siddhāḥ ca yoginaḥ .. munayaḥ ca tathā eva anye triloka-sthāḥ janāḥ sadā..29..
काश्याश्च महिमानं वै वक्तुं वर्षशतैरपि॥शक्नोम्यहं न सर्वं हि यथाशक्ति ब्रुवे ततः ॥ 4.22.३० ॥
काश्याः च महिमानम् वै वक्तुम् वर्ष-शतैः अपि॥शक्नोमि अहम् न सर्वम् हि यथाशक्ति ब्रुवे ततस् ॥ ४।२२।३० ॥
kāśyāḥ ca mahimānam vai vaktum varṣa-śataiḥ api..śaknomi aham na sarvam hi yathāśakti bruve tatas .. 4.22.30 ..
कैलासस्य पतिर्यो वै ह्यंतस्सत्त्वो बहिस्तमाः ॥ कालाग्निर्नामतः ख्यातो निर्गुणो गुणवान्भवः ॥
कैलासस्य पतिः यः वै हि अंतर् सत्त्वः बहिस्तमाः ॥ कालाग्निः नामतः ख्यातः निर्गुणः गुणवान् भवः ॥
kailāsasya patiḥ yaḥ vai hi aṃtar sattvaḥ bahistamāḥ .. kālāgniḥ nāmataḥ khyātaḥ nirguṇaḥ guṇavān bhavaḥ ..
।। रुद्र उवाच ।।
विश्वेश्वर महेशान त्वदीयोऽस्मि न संशयः ॥ कृपां कुरु महादेव मयि त्वं साम्ब आत्मजे ॥ ३२ ॥
विश्वेश्वर महेशान त्वदीयः अस्मि न संशयः ॥ कृपाम् कुरु महादेव मयि त्वम् स अम्बे आत्मजे ॥ ३२ ॥
viśveśvara maheśāna tvadīyaḥ asmi na saṃśayaḥ .. kṛpām kuru mahādeva mayi tvam sa ambe ātmaje .. 32 ..
स्थातव्यं च सदात्रैव लोकानां हितकाम्यया ॥ तारयस्व जगन्नाथ प्रार्थयामि जगत्पते ॥ ३३॥
स्थातव्यम् च सदा अत्रा एव लोकानाम् हित-काम्यया ॥ तारयस्व जगन्नाथ प्रार्थयामि जगत्पते ॥ ३३॥
sthātavyam ca sadā atrā eva lokānām hita-kāmyayā .. tārayasva jagannātha prārthayāmi jagatpate .. 33..
सूत उवाच।।
अविमुक्तेऽपि दान्तात्मा तं संप्रार्थ्य पुनः पुनः ॥ नेत्राश्रूणि प्रमुच्यैव प्रीतः प्रोवाच शंकरम् ॥ ३४॥
अविमुक्ते अपि दान्त-आत्मा तम् संप्रार्थ्य पुनर् पुनर् ॥ नेत्र-अश्रूणि प्रमुच्य एव प्रीतः प्रोवाच शंकरम् ॥ ३४॥
avimukte api dānta-ātmā tam saṃprārthya punar punar .. netra-aśrūṇi pramucya eva prītaḥ provāca śaṃkaram .. 34..
अविमुक्त उवाच ।।
देवदेव महादेव कालामयसुभेषज॥त्वं त्रिलोकपतिस्सत्यं सेव्यो ब्रह्माच्युतादिभिः ॥ ३५॥
देवदेव महादेव काल-आमय-सु भेषज॥त्वम् त्रि-लोक-पतिः सत्यम् सेव्यः ब्रह्म-अच्युत-आदिभिः ॥ ३५॥
devadeva mahādeva kāla-āmaya-su bheṣaja..tvam tri-loka-patiḥ satyam sevyaḥ brahma-acyuta-ādibhiḥ .. 35..
काश्यां पुर्यां त्वया देव राजधानी प्रगृह्यताम् ॥ मया ध्यानतया स्थेयमचिंत्य सुखहेतवे ॥ ३६॥
काश्याम् पुर्याम् त्वया देव राजधानी प्रगृह्यताम् ॥ मया ध्यान-तया स्थेयम् अ चिंत्य सुख-हेतवे ॥ ३६॥
kāśyām puryām tvayā deva rājadhānī pragṛhyatām .. mayā dhyāna-tayā stheyam a ciṃtya sukha-hetave .. 36..
मुक्तिदाता भवानेव कामदश्च न चापरः ॥ तस्मात्त्वमुपकाराय तिष्ठोमासहितस्सदा ॥ ३७॥
मुक्ति-दाता भवान् एव काम-दः च न च अपरः ॥ तस्मात् त्वम् उपकाराय तिष्ठ उमा-सहितः सदा ॥ ३७॥
mukti-dātā bhavān eva kāma-daḥ ca na ca aparaḥ .. tasmāt tvam upakārāya tiṣṭha umā-sahitaḥ sadā .. 37..
जीवान्भवाब्धेरखिलांस्तारय त्वं सदाशिव ॥ भक्तकार्य्यं कुरु हर प्रार्थयामि पुनःपुनः ॥ ३८ ॥
जीवान् भव-अब्धेः अखिलान् तारय त्वम् सदाशिव ॥ भक्त-कार्य्यम् कुरु हर प्रार्थयामि पुनर् पुनर् ॥ ३८ ॥
jīvān bhava-abdheḥ akhilān tāraya tvam sadāśiva .. bhakta-kāryyam kuru hara prārthayāmi punar punar .. 38 ..
।। सूत उवाच ।।
इत्येवं प्रार्थितस्तेन विश्वनाथेन शंकरः॥लोकानामुपकारार्थं तस्थौ तत्रापि सर्वराट्॥३९॥
इति एवम् प्रार्थितः तेन विश्वनाथेन शंकरः॥लोकानाम् उपकार-अर्थम् तस्थौ तत्र अपि सर्व-राज्॥३९॥
iti evam prārthitaḥ tena viśvanāthena śaṃkaraḥ..lokānām upakāra-artham tasthau tatra api sarva-rāj..39..
यद्दिनं हि समारभ्य हरः काश्यामुपागतः ॥ तदारभ्य च सा काशी सर्वश्रेष्ठतराभवत् ॥ 4.22.४० ॥
यत् दिनम् हि समारभ्य हरः काश्याम् उपागतः ॥ तत् आरभ्य च सा काशी सर्व-श्रेष्ठतरा भवत् ॥ ४।२२।४० ॥
yat dinam hi samārabhya haraḥ kāśyām upāgataḥ .. tat ārabhya ca sā kāśī sarva-śreṣṭhatarā bhavat .. 4.22.40 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विश्वेश्वरमाहात्म्ये काश्यां रुद्रागमनवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् विश्वेश्वरमाहात्म्ये काश्याम् रुद्रागमनवर्णनम् नाम द्वाविंशः अध्यायः ॥ २२ ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām viśveśvaramāhātmye kāśyām rudrāgamanavarṇanam nāma dvāviṃśaḥ adhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In