| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
एवं वाराणसी पुण्या यदि सूत महापुरी ॥ तत्प्रभावं वदास्माकमविमुक्तस्य च प्रभो ॥ १ ॥
एवम् वाराणसी पुण्या यदि सूत महा-पुरी ॥ तद्-प्रभावम् वद अस्माकम् अविमुक्तस्य च प्रभो ॥ १ ॥
evam vārāṇasī puṇyā yadi sūta mahā-purī .. tad-prabhāvam vada asmākam avimuktasya ca prabho .. 1 ..
सूत उवाच।।
वक्ष्ये संक्षेपतस्सम्यग्वाराणस्यास्सुशोभनम् ॥ विश्वेश्वरस्य माहात्म्यं श्रूयतां च मुनीश्वराः ॥ २॥
वक्ष्ये संक्षेपतः सम्यक् वाराणस्याः सु शोभनम् ॥ विश्वेश्वरस्य माहात्म्यम् श्रूयताम् च मुनि-ईश्वराः ॥ २॥
vakṣye saṃkṣepataḥ samyak vārāṇasyāḥ su śobhanam .. viśveśvarasya māhātmyam śrūyatām ca muni-īśvarāḥ .. 2..
कदाचित्पार्वती देवी शङ्करं परया मुदा ॥ लोककामनयापृच्छन्माहात्म्यमविमुक्तयोः ॥ ३॥
कदाचिद् पार्वती देवी शङ्करम् परया मुदा ॥ लोक-कामनया अपृच्छत् माहात्म्यम् अविमुक्तयोः ॥ ३॥
kadācid pārvatī devī śaṅkaram parayā mudā .. loka-kāmanayā apṛcchat māhātmyam avimuktayoḥ .. 3..
पार्वत्युवाच ।।
अस्य क्षेत्रस्य माहात्म्यं वक्तुमर्हस्य शेषतः ॥ ममोपरि कृपां कृत्वा लोकानां हितकाम्यया ॥ ४ ॥
अस्य क्षेत्रस्य माहात्म्यम् वक्तुम् अर्हस्य शेषतस् ॥ मम उपरि कृपाम् कृत्वा लोकानाम् हित-काम्यया ॥ ४ ॥
asya kṣetrasya māhātmyam vaktum arhasya śeṣatas .. mama upari kṛpām kṛtvā lokānām hita-kāmyayā .. 4 ..
सूत उवाच ।।
देव्यास्तद्वचनं श्रुत्वा देवदेवो जगत्प्रभुः॥प्रत्युवाच भवानीं तां जीवानां प्रियहेतवे ॥ ५॥
देव्याः तत् वचनम् श्रुत्वा देवदेवः जगत्प्रभुः॥प्रत्युवाच भवानीम् ताम् जीवानाम् प्रिय-हेतवे ॥ ५॥
devyāḥ tat vacanam śrutvā devadevaḥ jagatprabhuḥ..pratyuvāca bhavānīm tām jīvānām priya-hetave .. 5..
परमेश्वर उवाच।।
साधु पृष्टं त्वया भद्रे लोकानां सुखदं शुभम् ॥ कथयामि यथार्थं वै महा त्म्यमविमुक्तयोः ॥ ६॥
साधु पृष्टम् त्वया भद्रे लोकानाम् सुख-दम् शुभम् ॥ कथयामि यथार्थम् वै महा-आत्म्यम् अविमुक्तयोः ॥ ६॥
sādhu pṛṣṭam tvayā bhadre lokānām sukha-dam śubham .. kathayāmi yathārtham vai mahā-ātmyam avimuktayoḥ .. 6..
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम॥सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वथा ॥ ७॥
इदम् गुह्यतमम् क्षेत्रम् सदा वाराणसी मम॥सर्वेषाम् एव जंतूनाम् हेतुः मोक्षस्य सर्वथा ॥ ७॥
idam guhyatamam kṣetram sadā vārāṇasī mama..sarveṣām eva jaṃtūnām hetuḥ mokṣasya sarvathā .. 7..
अस्मिन्सिद्धास्सदा क्षेत्रे मदीयं व्रतमाश्रिताः ॥ नानालिंगधरा नित्यं मम लोकाभिकांक्षिणः ॥ ८ ॥
अस्मिन् सिद्धाः सदा क्षेत्रे मदीयम् व्रतम् आश्रिताः ॥ नाना लिंग-धराः नित्यम् मम लोक-अभिकांक्षिणः ॥ ८ ॥
asmin siddhāḥ sadā kṣetre madīyam vratam āśritāḥ .. nānā liṃga-dharāḥ nityam mama loka-abhikāṃkṣiṇaḥ .. 8 ..
अभ्यस्यंति महायोगं जितात्मानो जितेन्द्रियाः ॥ परं पाशुपतं श्रौतं भुक्तिमुक्तिफलप्रदम्॥९॥
अभ्यस्यंति महा-योगम् जित-आत्मानः जित-इन्द्रियाः ॥ ॥९॥
abhyasyaṃti mahā-yogam jita-ātmānaḥ jita-indriyāḥ .. ..9..
रोचते मे सदा वासो वाराणस्यां महेश्वरि॥हेतुना येन सर्वाणि विहाय शृणु तद्ध्रुवम्॥4.23.१०॥
रोचते मे सदा वासः वाराणस्याम् महेश्वरि॥हेतुना येन सर्वाणि विहाय शृणु तत् ध्रुवम्॥४।२३।१०॥
rocate me sadā vāsaḥ vārāṇasyām maheśvari..hetunā yena sarvāṇi vihāya śṛṇu tat dhruvam..4.23.10..
यो मे भक्तश्च विज्ञानी तावुभौ मुक्तिभागिनौ ॥ तीर्थापेक्षा च न तयोर्विहिता विहिते समौ ॥ ११ ॥
यः मे भक्तः च विज्ञानी तौ उभौ मुक्ति-भागिनौ ॥ तीर्थ-अपेक्षा च न तयोः विहिता विहिते समौ ॥ ११ ॥
yaḥ me bhaktaḥ ca vijñānī tau ubhau mukti-bhāginau .. tīrtha-apekṣā ca na tayoḥ vihitā vihite samau .. 11 ..
जीवन्मुक्तौ तु तौ ज्ञेयौ यत्रकुत्रापि वै मृतौ ॥ प्राप्नुतो मोक्षमाश्वेव मयोक्तं निश्चितं वचः ॥ १२ ॥
जीवन्मुक्तौ तु तौ ज्ञेयौ यत्र कुत्र अपि वै मृतौ ॥ प्राप्नुतः मोक्षम् आशु एव मया उक्तम् निश्चितम् वचः ॥ १२ ॥
jīvanmuktau tu tau jñeyau yatra kutra api vai mṛtau .. prāpnutaḥ mokṣam āśu eva mayā uktam niścitam vacaḥ .. 12 ..
अत्र तीर्थे विशेषोस्त्यविमुक्ताख्ये परोत्तमे ॥ श्रूयतां तत्त्वया देवि परशक्ते सुचित्तया॥१३॥
अत्र तीर्थे विशेषः उस्ति अविमुक्त-आख्ये पर-उत्तमे ॥ श्रूयताम् तत् त्वया देवि पर-शक्ते सु चित्तया॥१३॥
atra tīrthe viśeṣaḥ usti avimukta-ākhye para-uttame .. śrūyatām tat tvayā devi para-śakte su cittayā..13..
सर्वे वर्णा आश्रमाश्च बालयौवनवार्द्धकाः ॥ अस्यां पुर्यां मृताश्चेत्त्स्युर्मुक्ता एव न संशयः ॥ १४॥
सर्वे वर्णाः आश्रमाः च बाल-यौवन-वार्द्धकाः ॥ अस्याम् पुर्याम् मृताः चेद् त्स्युः मुक्ताः एव न संशयः ॥ १४॥
sarve varṇāḥ āśramāḥ ca bāla-yauvana-vārddhakāḥ .. asyām puryām mṛtāḥ ced tsyuḥ muktāḥ eva na saṃśayaḥ .. 14..
अशुचिश्च शुचिर्वापि कन्या परिणता तथा ॥ विधवा वाथ वा वंध्या रजोदोषयुतापि वा ॥ १५॥
अशुचिः च शुचिः वा अपि कन्या परिणता तथा ॥ विधवा वा अथ वा वंध्या रजः-दोष-युता अपि वा ॥ १५॥
aśuciḥ ca śuciḥ vā api kanyā pariṇatā tathā .. vidhavā vā atha vā vaṃdhyā rajaḥ-doṣa-yutā api vā .. 15..
प्रसूता संस्कृता कापि यादृशी तादृशी द्विजाः ॥ अत्र क्षेत्रे मृता चेत्स्यान्मोक्षभाङ् नात्र संशयः ॥ १६॥
प्रसूता संस्कृता का अपि यादृशी तादृशी द्विजाः ॥ अत्र क्षेत्रे मृता चेद् स्यात् मोक्ष-भाज् न अत्र संशयः ॥ १६॥
prasūtā saṃskṛtā kā api yādṛśī tādṛśī dvijāḥ .. atra kṣetre mṛtā ced syāt mokṣa-bhāj na atra saṃśayaḥ .. 16..
स्वेदजश्चांडजो वापि द्युद्भिज्जोऽथ जरायुजः ।मृतो मोक्षमवाप्नोति यथात्र न तथा क्वचित् ॥ १७॥
स्वेद-जः च अंड-जः वा अपि द्युत्-भिद्-जः अथ जरायु-जः ।मृतः मोक्षम् अवाप्नोति यथा अत्र न तथा क्वचिद् ॥ १७॥
sveda-jaḥ ca aṃḍa-jaḥ vā api dyut-bhid-jaḥ atha jarāyu-jaḥ .mṛtaḥ mokṣam avāpnoti yathā atra na tathā kvacid .. 17..
ज्ञानापेक्षा न चात्रैव भत्तयपेक्षा न वै पुनः ॥ कर्मापेक्षा न देव्यत्र दानापेक्षा न चैव हि ॥ १८ ॥
ज्ञान-अपेक्षा न च अत्र एव न वै पुनर् ॥ कर्म-अपेक्षा न देवि अत्र दान-अपेक्षा न च एव हि ॥ १८ ॥
jñāna-apekṣā na ca atra eva na vai punar .. karma-apekṣā na devi atra dāna-apekṣā na ca eva hi .. 18 ..
संस्कृत्यपेक्षा नैवात्र ध्यानापेक्षा न कर्हिचित् ॥ नामापेक्षार्चनापेक्षा सुजातीनां तथात्र न ॥ १९ ॥
संस्कृति-अपेक्षा न एव अत्र ध्यान-अपेक्षा न कर्हिचित् ॥ नाम-अपेक्षा अर्चन-अपेक्षा सु जातीनाम् तथा अत्र न ॥ १९ ॥
saṃskṛti-apekṣā na eva atra dhyāna-apekṣā na karhicit .. nāma-apekṣā arcana-apekṣā su jātīnām tathā atra na .. 19 ..
मम क्षेत्रे मोक्षदे हि यो वा वसति मानवः ॥ यथा तथा मृतः स्याच्चेन्मोक्षमाप्नोति निश्चितम् ॥ 4.23.२० ॥
मम क्षेत्रे मोक्ष-दे हि यः वा वसति मानवः ॥ यथा तथा मृतः स्यात् चेद् मोक्षम् आप्नोति निश्चितम् ॥ ४।२३।२० ॥
mama kṣetre mokṣa-de hi yaḥ vā vasati mānavaḥ .. yathā tathā mṛtaḥ syāt ced mokṣam āpnoti niścitam .. 4.23.20 ..
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं प्रिये ॥ ब्रह्मादयोऽपि जानंति माहात्म्यं नास्य पार्वति ॥ २१ ॥
एतत् मम पुरम् दिव्यम् गुह्यात् गुह्यतरम् प्रिये ॥ ब्रह्म-आदयः अपि जानंति माहात्म्यम् न अस्य पार्वति ॥ २१ ॥
etat mama puram divyam guhyāt guhyataram priye .. brahma-ādayaḥ api jānaṃti māhātmyam na asya pārvati .. 21 ..
महत्क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ॥ सर्वेभ्यो नैमिषादिभ्यः परं मोक्षप्रदं मृते ॥ २२ ॥
महत् क्षेत्रम् इदम् तस्मात् अविमुक्तम् इति स्मृतम् ॥ सर्वेभ्यः नैमिष-आदिभ्यः परम् मोक्ष-प्रदम् मृते ॥ २२ ॥
mahat kṣetram idam tasmāt avimuktam iti smṛtam .. sarvebhyaḥ naimiṣa-ādibhyaḥ param mokṣa-pradam mṛte .. 22 ..
धर्मस्योपनिषत्सत्यं मोक्षस्योपनिषत्समम् ॥ क्षेत्रतीर्थोपनिषदमविमुक्तं विदुर्बुधाः ॥ २३ ॥
धर्मस्य उपनिषद्-सत्यम् मोक्षस्य उपनिषद्-समम् ॥ क्षेत्र-तीर्थ-उपनिषदम् अविमुक्तम् विदुः बुधाः ॥ २३ ॥
dharmasya upaniṣad-satyam mokṣasya upaniṣad-samam .. kṣetra-tīrtha-upaniṣadam avimuktam viduḥ budhāḥ .. 23 ..
कामं भुंजन्स्वपन्क्रीडन्कुर्वन्हि विविधाः क्रियाः ॥ अविमुक्ते त्यजन्प्राणाञ्जंतुर्मोक्षाय कल्पते ॥ २४ ॥
कामम् भुंजन् स्वपन् क्रीडन् कुर्वन् हि विविधाः क्रियाः ॥ अविमुक्ते त्यजन् प्राणान् जंतुः मोक्षाय कल्पते ॥ २४ ॥
kāmam bhuṃjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ .. avimukte tyajan prāṇān jaṃtuḥ mokṣāya kalpate .. 24 ..
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ॥ न च क्रतुसहस्रत्वं स्वर्गे काशीं पुरीं विना ॥ २५ ॥
कृत्वा पाप-सहस्राणि पिशाच-त्वम् वरम् नृणाम् ॥ न च क्रतु-सहस्र-त्वम् स्वर्गे काशीम् पुरीम् विना ॥ २५ ॥
kṛtvā pāpa-sahasrāṇi piśāca-tvam varam nṛṇām .. na ca kratu-sahasra-tvam svarge kāśīm purīm vinā .. 25 ..
तस्मात्सर्वप्रयत्नेन सेव्यते काशिका पुरी ॥ अव्यक्तलिंगं मुनिभिर्ध्यायते च सदाशिवः ॥ २६ ॥
तस्मात् सर्व-प्रयत्नेन सेव्यते काशिका पुरी ॥ अव्यक्त-लिंगम् मुनिभिः ध्यायते च सदाशिवः ॥ २६ ॥
tasmāt sarva-prayatnena sevyate kāśikā purī .. avyakta-liṃgam munibhiḥ dhyāyate ca sadāśivaḥ .. 26 ..
यद्यत्फलं समुद्दिश्य तपन्त्यत्र नरः प्रिये ॥ तेभ्यश्चाहं प्रय च्छामि सम्यक्तत्तत्फलं धुवम्॥२७॥
यत् यत् फलम् समुद्दिश्य तपन्ति अत्र नरः प्रिये ॥ तेभ्यः च अहम् प्रयच्छामि सम्यक् तत् तत् फलम्॥२७॥
yat yat phalam samuddiśya tapanti atra naraḥ priye .. tebhyaḥ ca aham prayacchāmi samyak tat tat phalam..27..
सायुज्यमात्मनः पश्चादीप्सितं स्थानमेव च॥न कुतश्चित्कर्मबंधस्त्यजतामत्र वै तनुम्॥२८॥
सायुज्यम् आत्मनः पश्चात् ईप्सितम् स्थानम् एव च॥न कुतश्चिद् कर्म-बंधः त्यजताम् अत्र वै तनुम्॥२८॥
sāyujyam ātmanaḥ paścāt īpsitam sthānam eva ca..na kutaścid karma-baṃdhaḥ tyajatām atra vai tanum..28..
ब्रह्मा देवर्षिभिस्सार्द्धं विष्णुर्वापि दिवाकरः ॥ उपासते महात्मानस्सर्वे मामिह चापरे ॥ २९ ॥
ब्रह्मा देवर्षिभिः सार्द्धम् विष्णुः वा अपि दिवाकरः ॥ उपासते महात्मानः सर्वे माम् इह च अपरे ॥ २९ ॥
brahmā devarṣibhiḥ sārddham viṣṇuḥ vā api divākaraḥ .. upāsate mahātmānaḥ sarve mām iha ca apare .. 29 ..
विषयासक्तचित्तोऽपि त्यक्त धर्मरुचिर्नरः ॥ इह क्षेत्रे मृतो यो वै संसारं न पुनर्विशेत् ॥ 4.23.३० ॥
विषय-आसक्त-चित्तः अपि धर्म-रुचिः नरः ॥ इह क्षेत्रे मृतः यः वै संसारम् न पुनर् विशेत् ॥ ४।२३।३० ॥
viṣaya-āsakta-cittaḥ api dharma-ruciḥ naraḥ .. iha kṣetre mṛtaḥ yaḥ vai saṃsāram na punar viśet .. 4.23.30 ..
किं पुनर्निर्ममा धीरासत्त्वस्था दंभवर्जिताः ॥ कृतिनश्च निरारंभास्सर्वे ते मयि भाविताः ॥ ३१ ॥
किम् पुनर् निर्ममाः धीर-असत्त्व-स्थाः दंभ-वर्जिताः ॥ कृतिनः च निरारंभाः सर्वे ते मयि भाविताः ॥ ३१ ॥
kim punar nirmamāḥ dhīra-asattva-sthāḥ daṃbha-varjitāḥ .. kṛtinaḥ ca nirāraṃbhāḥ sarve te mayi bhāvitāḥ .. 31 ..
जन्मांतरसहस्रेषु जन्म योगी समाप्नुयात् ॥ तदिहैव परं मोक्षं मरणादधिगच्छति ॥ ३२ ॥
जन्म-अंतर-सहस्रेषु जन्म योगी समाप्नुयात् ॥ तत् इह एव परम् मोक्षम् मरणात् अधिगच्छति ॥ ३२ ॥
janma-aṃtara-sahasreṣu janma yogī samāpnuyāt .. tat iha eva param mokṣam maraṇāt adhigacchati .. 32 ..
अत्र लिंगान्यनेकानि भक्तैस्संस्थापितानि हि ॥ सर्वकामप्रदानीह मोक्षदानि च पार्वति ॥ ३३ ॥
अत्र लिंगानि अनेकानि भक्तैः संस्थापितानि हि ॥ सर्व-काम-प्रदानि इह मोक्ष-दानि च पार्वति ॥ ३३ ॥
atra liṃgāni anekāni bhaktaiḥ saṃsthāpitāni hi .. sarva-kāma-pradāni iha mokṣa-dāni ca pārvati .. 33 ..
पंचक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ॥ समंताच्च तथा जंतोर्मृतिकालेऽमृतप्रदम् ॥ ३४ ॥
पंचक्रोशम् चतुर्-दिक्षु क्षेत्रम् एतत् प्रकीर्तितम् ॥ समंतात् च तथा जंतोः मृति-काले अमृत-प्रदम् ॥ ३४ ॥
paṃcakrośam catur-dikṣu kṣetram etat prakīrtitam .. samaṃtāt ca tathā jaṃtoḥ mṛti-kāle amṛta-pradam .. 34 ..
अपापश्च मृतो यो वै सद्यो मोक्षं समश्नुते ॥ सपापश्च मृतौ यस्स्यात्कायव्यूहान्समश्नुते ॥ ३५ ॥
अपापः च मृतः यः वै सद्यस् मोक्षम् समश्नुते ॥ स पापः च मृतौ यः स्यात् काय-व्यूहान् समश्नुते ॥ ३५ ॥
apāpaḥ ca mṛtaḥ yaḥ vai sadyas mokṣam samaśnute .. sa pāpaḥ ca mṛtau yaḥ syāt kāya-vyūhān samaśnute .. 35 ..
यातनां सोनुभूयैव पश्चान्मोक्षमवाप्नुयात् ॥ पातकं योऽविमुक्ताख्ये क्षेत्रेऽस्मिन्कुरुते ध्रुवम् ॥ ३६ ॥
यातनाम् सः उनुभूय एव पश्चात् मोक्षम् अवाप्नुयात् ॥ पातकम् यः अविमुक्त-आख्ये क्षेत्रे अस्मिन् कुरुते ध्रुवम् ॥ ३६ ॥
yātanām saḥ unubhūya eva paścāt mokṣam avāpnuyāt .. pātakam yaḥ avimukta-ākhye kṣetre asmin kurute dhruvam .. 36 ..
भैरवीं यातनां प्राप्य वर्षाणामयुते पुनः ॥ ततो मोक्षमवाप्नोति भुक्त्वा पापं च सुन्दरि ॥ ॥ ३७ ॥
भैरवीम् यातनाम् प्राप्य वर्षाणाम् अयुते पुनर् ॥ ततस् मोक्षम् अवाप्नोति भुक्त्वा पापम् च सुन्दरि ॥ ॥ ३७ ॥
bhairavīm yātanām prāpya varṣāṇām ayute punar .. tatas mokṣam avāpnoti bhuktvā pāpam ca sundari .. .. 37 ..
इति ते च समाख्याता पापाचारे च या गतिः ॥ एवं ज्ञात्वा नरस्सम्यक्सेवयेदविमुक्तकम् ॥ ३८ ॥
इति ते च समाख्याता पाप-आचारे च या गतिः ॥ एवम् ज्ञात्वा नरः सम्यक् सेवयेत् अविमुक्तकम् ॥ ३८ ॥
iti te ca samākhyātā pāpa-ācāre ca yā gatiḥ .. evam jñātvā naraḥ samyak sevayet avimuktakam .. 38 ..
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ३९ ॥
कृत-कर्म-क्षयः न अस्ति कल्प-कोटि-शतैः अपि ॥ अवश्यम् एव भोक्तव्यम् कृतम् कर्म शुभ-अशुभम् ॥ ३९ ॥
kṛta-karma-kṣayaḥ na asti kalpa-koṭi-śataiḥ api .. avaśyam eva bhoktavyam kṛtam karma śubha-aśubham .. 39 ..
केवलं चाशुभं कर्म नरकाय भवेदिह ॥ शुभं स्वर्गाय जायेत द्वाभ्यां मानुष्यमीरितम् ॥ 4.23.४० ॥
केवलम् च अशुभम् कर्म नरकाय भवेत् इह ॥ शुभम् स्वर्गाय जायेत द्वाभ्याम् मानुष्यम् ईरितम् ॥ ४।२३।४० ॥
kevalam ca aśubham karma narakāya bhavet iha .. śubham svargāya jāyeta dvābhyām mānuṣyam īritam .. 4.23.40 ..
जन्म सम्यगसम्यक् च न्यूनाधिक्ये भवेदिह ॥ उभयोश्च क्षयो मुक्तिर्भवेत्सत्यं हि पार्वति ॥ ४१ ॥
janma samyagasamyak ca nyūnādhikye bhavediha || ubhayośca kṣayo muktirbhavetsatyaṃ hi pārvati || 41 ||
janma samyagasamyak ca nyūnādhikye bhavediha || ubhayośca kṣayo muktirbhavetsatyaṃ hi pārvati || 41 ||
कर्म च त्रिविधं प्रोक्तं कर्मकाण्डे महेश्वरि ॥ संचितं क्रियमाणं च प्रारब्धं चेति बंधकृत् ॥ ४२ ॥
karma ca trividhaṃ proktaṃ karmakāṇḍe maheśvari || saṃcitaṃ kriyamāṇaṃ ca prārabdhaṃ ceti baṃdhakṛt || 42 ||
karma ca trividhaṃ proktaṃ karmakāṇḍe maheśvari || saṃcitaṃ kriyamāṇaṃ ca prārabdhaṃ ceti baṃdhakṛt || 42 ||
पूर्वजन्मसमुद्भूतं संचितं समुदाहृतम् ॥ भुज्यते च शरीरेण प्रारब्धं परिकीर्तितम् ॥ ४३ ॥
pūrvajanmasamudbhūtaṃ saṃcitaṃ samudāhṛtam || bhujyate ca śarīreṇa prārabdhaṃ parikīrtitam || 43 ||
pūrvajanmasamudbhūtaṃ saṃcitaṃ samudāhṛtam || bhujyate ca śarīreṇa prārabdhaṃ parikīrtitam || 43 ||
जन्मना यच्च क्रियते कर्म सांप्रतम् ॥ शुभाशुभं च देवेशि क्रियमाणं विदुर्बुधाः ॥ ४४ ॥
janmanā yacca kriyate karma sāṃpratam || śubhāśubhaṃ ca deveśi kriyamāṇaṃ vidurbudhāḥ || 44 ||
janmanā yacca kriyate karma sāṃpratam || śubhāśubhaṃ ca deveśi kriyamāṇaṃ vidurbudhāḥ || 44 ||
प्रारब्धकर्मणो भोगात्क्षयश्चैव चान्यथा ॥ उपायेन द्वयोर्नाशः कर्मणोः पूजनादिना ॥ ४५ ॥
prārabdhakarmaṇo bhogātkṣayaścaiva cānyathā || upāyena dvayornāśaḥ karmaṇoḥ pūjanādinā || 45 ||
prārabdhakarmaṇo bhogātkṣayaścaiva cānyathā || upāyena dvayornāśaḥ karmaṇoḥ pūjanādinā || 45 ||
सर्वेषां कर्मणां नाशो नास्ति काशीं पुरीं विना ॥ सर्वं च सुलभं तीर्थं दुर्ल्लभा काशिका पुरी ॥ ४६॥
sarveṣāṃ karmaṇāṃ nāśo nāsti kāśīṃ purīṃ vinā || sarvaṃ ca sulabhaṃ tīrthaṃ durllabhā kāśikā purī || 46||
sarveṣāṃ karmaṇāṃ nāśo nāsti kāśīṃ purīṃ vinā || sarvaṃ ca sulabhaṃ tīrthaṃ durllabhā kāśikā purī || 46||
पूर्वजन्मकृतं चेद्वै काशीदर्शनमादरात् ॥ तदा काशीं च संप्राप्य लभेन्मृत्युं न चान्यथा ॥ ४७॥
pūrvajanmakṛtaṃ cedvai kāśīdarśanamādarāt || tadā kāśīṃ ca saṃprāpya labhenmṛtyuṃ na cānyathā || 47||
pūrvajanmakṛtaṃ cedvai kāśīdarśanamādarāt || tadā kāśīṃ ca saṃprāpya labhenmṛtyuṃ na cānyathā || 47||
काशीं प्राप्य नरो यस्तु गंगायां स्नानमाचरेत् ॥ तदा च क्रियमाणस्य संचितस्यापि संक्षयः ॥ ४८ ॥
kāśīṃ prāpya naro yastu gaṃgāyāṃ snānamācaret || tadā ca kriyamāṇasya saṃcitasyāpi saṃkṣayaḥ || 48 ||
kāśīṃ prāpya naro yastu gaṃgāyāṃ snānamācaret || tadā ca kriyamāṇasya saṃcitasyāpi saṃkṣayaḥ || 48 ||
प्रारब्धं न विना भोगो नश्य तीति सुनिश्चितम् ॥ मृतिश्च तस्य संजाता तदा तस्य क्षयो भवेत् ॥ ४९ ॥
prārabdhaṃ na vinā bhogo naśya tīti suniścitam || mṛtiśca tasya saṃjātā tadā tasya kṣayo bhavet || 49 ||
prārabdhaṃ na vinā bhogo naśya tīti suniścitam || mṛtiśca tasya saṃjātā tadā tasya kṣayo bhavet || 49 ||
पूर्वं चैव कृता काशी पश्चात्पापं समाचरेत् ॥ तद्बीजेन बलवता नीयते काशिका पुनः ॥ 4.23.५०॥
pūrvaṃ caiva kṛtā kāśī paścātpāpaṃ samācaret || tadbījena balavatā nīyate kāśikā punaḥ || 4.23.50||
pūrvaṃ caiva kṛtā kāśī paścātpāpaṃ samācaret || tadbījena balavatā nīyate kāśikā punaḥ || 4.23.50||
तदा सर्वाणि पापानि भस्मसाच्च भवंति हि ॥ तस्मात्काशीं नरस्सेवेत्कर्मनिर्मूलनीं ध्रुवम् ॥ ॥ ५१॥
tadā sarvāṇi pāpāni bhasmasācca bhavaṃti hi || tasmātkāśīṃ narassevetkarmanirmūlanīṃ dhruvam || || 51||
tadā sarvāṇi pāpāni bhasmasācca bhavaṃti hi || tasmātkāśīṃ narassevetkarmanirmūlanīṃ dhruvam || || 51||
एकोऽपि ब्राह्मणो येन काश्यां संवासितः प्रिये ॥ काशीवासमवाप्यैव ततो मुक्तिं स विंदति ॥ ५२॥
eko'pi brāhmaṇo yena kāśyāṃ saṃvāsitaḥ priye || kāśīvāsamavāpyaiva tato muktiṃ sa viṃdati || 52||
eko'pi brāhmaṇo yena kāśyāṃ saṃvāsitaḥ priye || kāśīvāsamavāpyaiva tato muktiṃ sa viṃdati || 52||
काश्यां यो वै मृतश्चैव तस्य जन्म पुनर्नहि ॥ समुद्दिश्य प्रयागे च मृतस्य कामनाफले ॥ ५३ ॥
kāśyāṃ yo vai mṛtaścaiva tasya janma punarnahi || samuddiśya prayāge ca mṛtasya kāmanāphale || 53 ||
kāśyāṃ yo vai mṛtaścaiva tasya janma punarnahi || samuddiśya prayāge ca mṛtasya kāmanāphale || 53 ||
संयोगश्च तयोश्चेत्स्यात्काशीजन्यफलं वृथा ॥ यदि न स्यात्तयोर्योगस्तीर्थराजफलं वृथा॥५४॥
saṃyogaśca tayoścetsyātkāśījanyaphalaṃ vṛthā || yadi na syāttayoryogastīrtharājaphalaṃ vṛthā||54||
saṃyogaśca tayoścetsyātkāśījanyaphalaṃ vṛthā || yadi na syāttayoryogastīrtharājaphalaṃ vṛthā||54||
तस्मान्मच्छासनाद्विष्णुस्सृष्टिं साक्षाद्धि नूतनाम् ॥ विधाय मनसोद्दिष्टां तत्सिद्धिं यच्छति ध्रुवम् ॥ ५५ ॥
tasmānmacchāsanādviṣṇussṛṣṭiṃ sākṣāddhi nūtanām || vidhāya manasoddiṣṭāṃ tatsiddhiṃ yacchati dhruvam || 55 ||
tasmānmacchāsanādviṣṇussṛṣṭiṃ sākṣāddhi nūtanām || vidhāya manasoddiṣṭāṃ tatsiddhiṃ yacchati dhruvam || 55 ||
सूत उवाच ।।
इत्यादि बहुमाहात्म्यं काश्यां वै मुनिसत्तमाः ॥ तथा विश्वेश्वरस्यापि भुक्तिमुक्तिप्रदं सताम् ॥ ५६ ॥
ityādi bahumāhātmyaṃ kāśyāṃ vai munisattamāḥ || tathā viśveśvarasyāpi bhuktimuktipradaṃ satām || 56 ||
ityādi bahumāhātmyaṃ kāśyāṃ vai munisattamāḥ || tathā viśveśvarasyāpi bhuktimuktipradaṃ satām || 56 ||
अतः परं प्रवक्ष्यामि माहात्म्यं त्र्यंबकस्य च ॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥ ५७ ॥
ataḥ paraṃ pravakṣyāmi māhātmyaṃ tryaṃbakasya ca || yacchrutvā sarvapāpebhyo mucyate mānavaḥ kṣaṇāt || 57 ||
ataḥ paraṃ pravakṣyāmi māhātmyaṃ tryaṃbakasya ca || yacchrutvā sarvapāpebhyo mucyate mānavaḥ kṣaṇāt || 57 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां काशीविश्वेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनंनामत्रयोविंशोध्याय. ॥ २३॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ kāśīviśveśvarajyotirliṅgamāhātmyavarṇanaṃnāmatrayoviṃśodhyāya. || 23||
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ kāśīviśveśvarajyotirliṅgamāhātmyavarṇanaṃnāmatrayoviṃśodhyāya. || 23||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In