| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
ब्रह्मपुर्यां चित्रकूटं लिंगं मत्तगजेन्द्रकम् ॥ ब्रह्मणा स्थापितं पूर्वं सर्वकामसमृद्धिदम् ॥ १ ॥
ब्रह्मपुर्याम् चित्रकूटम् लिंगम् मत्तगजेन्द्रकम् ॥ ब्रह्मणा स्थापितम् पूर्वम् सर्व-काम-समृद्धि-दम् ॥ १ ॥
brahmapuryām citrakūṭam liṃgam mattagajendrakam .. brahmaṇā sthāpitam pūrvam sarva-kāma-samṛddhi-dam .. 1 ..
तत्पूर्वदिशि कोटीशं लिंगं सर्ववरप्रदम् ॥ गोदावर्य्याः पश्चिमे तल्लिंगं पशुपतिनामकम् ॥ २ ॥
तद्-पूर्व-दिशि कोटीशम् लिंगम् सर्व-वर-प्रदम् ॥ गोदावर्य्याः पश्चिमे तत् लिंगम् पशुपति-नामकम् ॥ २ ॥
tad-pūrva-diśi koṭīśam liṃgam sarva-vara-pradam .. godāvaryyāḥ paścime tat liṃgam paśupati-nāmakam .. 2 ..
दक्षिणस्यां दिशि कश्चिदत्रीश्वर इति स्वयम् ॥ लोकानामुपकारार्थमनसूयासुखाय च ॥ ३ ॥
दक्षिणस्याम् दिशि कश्चिद् अत्रि-ईश्वरः इति स्वयम् ॥ लोकानाम् उपकार-अर्थम् अनसूया-सुखाय च ॥ ३ ॥
dakṣiṇasyām diśi kaścid atri-īśvaraḥ iti svayam .. lokānām upakāra-artham anasūyā-sukhāya ca .. 3 ..
प्रादुर्भूतः स्वयं देवो ह्यनावृष्ट्यामजीवयत् ॥ स एव शंकरः साक्षादंशेन स्वयमेव हि ॥ ४ ॥
प्रादुर्भूतः स्वयम् देवः हि अनावृष्ट्याम् अजीवयत् ॥ सः एव शंकरः साक्षात् अंशेन स्वयम् एव हि ॥ ४ ॥
prādurbhūtaḥ svayam devaḥ hi anāvṛṣṭyām ajīvayat .. saḥ eva śaṃkaraḥ sākṣāt aṃśena svayam eva hi .. 4 ..
ऋषय ऊचुः ।।
उत्पन्नः परमो दिव्यस्तत्त्वं कथय सुव्रत ॥ ५ ॥
उत्पन्नः परमः दिव्यः तत्त्वम् कथय सुव्रत ॥ ५ ॥
utpannaḥ paramaḥ divyaḥ tattvam kathaya suvrata .. 5 ..
सूत उवाच।।
साधु पृष्ठमृषिश्रेष्ठाः कथयामि कथां शुभाम् ॥ यां कथां सततं श्रुत्वा पातकैर्मुच्यते ध्रुवम् ॥ ६॥
साधु पृष्ठम् ऋषि-श्रेष्ठाः कथयामि कथाम् शुभाम् ॥ याम् कथाम् सततम् श्रुत्वा पातकैः मुच्यते ध्रुवम् ॥ ६॥
sādhu pṛṣṭham ṛṣi-śreṣṭhāḥ kathayāmi kathām śubhām .. yām kathām satatam śrutvā pātakaiḥ mucyate dhruvam .. 6..
दक्षिणस्यां दिशि महत् कामदं नाम यद्वनम् ॥ चित्रकूटसमीपेस्ति तपसां हितदं सताम् ॥ ७॥
दक्षिणस्याम् दिशि महत् काम-दम् नाम यत् वनम् ॥ चित्रकूट-समीपे अस्ति तपसाम् हित-दम् सताम् ॥ ७॥
dakṣiṇasyām diśi mahat kāma-dam nāma yat vanam .. citrakūṭa-samīpe asti tapasām hita-dam satām .. 7..
तत्र च ब्रह्मणः पुत्रो ह्यत्रिनामा ऋषिः स्वयम् ॥ तपस्तेपेऽति कठिनमनसूयासमन्वितः ॥ ८ ॥
तत्र च ब्रह्मणः पुत्रः हि अत्रि-नामा ऋषिः स्वयम् ॥ तपः तेपे अति कठिनम् अनसूया-समन्वितः ॥ ८ ॥
tatra ca brahmaṇaḥ putraḥ hi atri-nāmā ṛṣiḥ svayam .. tapaḥ tepe ati kaṭhinam anasūyā-samanvitaḥ .. 8 ..
पूर्वं कदाचित्तत्रैव ह्यनावृष्टिरभून्मुने ॥ दुःखदा प्राणिनां दैवाद्विकटा शतवार्षिकी ॥ ९।
पूर्वम् कदाचिद् तत्र एव हि अनावृष्टिः अभूत् मुने ॥ दुःख-दा प्राणिनाम् दैवात् विकटा शत-वार्षिकी ॥ ९।
pūrvam kadācid tatra eva hi anāvṛṣṭiḥ abhūt mune .. duḥkha-dā prāṇinām daivāt vikaṭā śata-vārṣikī .. 9.
वृक्षाश्शुष्कास्तदा सर्वे पल्लवानि फलानि च ॥ नित्यार्थं न जलं क्वापि दृष्टमासीन्मुनीश्वराः॥ 4.3.१०॥
वृक्षाः शुष्काः तदा सर्वे पल्लवानि फलानि च ॥ नित्य-अर्थम् न जलम् क्वापि दृष्टम् आसीत् मुनि-ईश्वराः॥ ४।३।१०॥
vṛkṣāḥ śuṣkāḥ tadā sarve pallavāni phalāni ca .. nitya-artham na jalam kvāpi dṛṣṭam āsīt muni-īśvarāḥ.. 4.3.10..
आर्द्रीभावो न लभ्येत खरा वाता दिशो दश ॥ हाहाकारो महानासीत्पृथिव्यां दुःखदोऽति हि ॥ ११॥
आर्द्रीभावः न लभ्येत खराः वाताः दिशः दश ॥ हाहाकारः महान् आसीत् पृथिव्याम् दुःख-दः अति हि ॥ ११॥
ārdrībhāvaḥ na labhyeta kharāḥ vātāḥ diśaḥ daśa .. hāhākāraḥ mahān āsīt pṛthivyām duḥkha-daḥ ati hi .. 11..
संवर्तं चैव भूतानां दृष्ट्वात्रि गृहिणी प्रिया ॥ साध्वी चैवाब्रवीदत्रिं मया दुःखं न सह्यते॥१२॥
संवर्तम् च एव भूतानाम् दृष्ट्वा अत्रि गृहिणी प्रिया ॥ साध्वी च एव अब्रवीत् अत्रिम् मया दुःखम् न सह्यते॥१२॥
saṃvartam ca eva bhūtānām dṛṣṭvā atri gṛhiṇī priyā .. sādhvī ca eva abravīt atrim mayā duḥkham na sahyate..12..
समाधौ च विलीनोभूदासने संस्थितः स्वयम् ॥ प्राणायामं त्रिरावृत्त्या कृत्वा मुनिवरस्तदा ॥ १३॥
समाधौ च संस्थितः स्वयम् ॥ प्राणायामम् त्रिस् आवृत्त्या कृत्वा मुनि-वरः तदा ॥ १३॥
samādhau ca saṃsthitaḥ svayam .. prāṇāyāmam tris āvṛttyā kṛtvā muni-varaḥ tadā .. 13..
ध्यायति स्म परं ज्योतिरात्मस्थमात्मना च सः ॥ अत्रिर्मुनिवरो ज्ञानी शंकरं निर्विकारकम् ॥ १४ ॥
ध्यायति स्म परम् ज्योतिः आत्म-स्थम् आत्मना च सः ॥ अत्रिः मुनि-वरः ज्ञानी शंकरम् निर्विकारकम् ॥ १४ ॥
dhyāyati sma param jyotiḥ ātma-stham ātmanā ca saḥ .. atriḥ muni-varaḥ jñānī śaṃkaram nirvikārakam .. 14 ..
स्वामिनि ध्यानलीने च शिष्यास्ते दूरतो गताः ॥ अन्नं विना तदा ते तु मुक्त्वा तं स्वगुरुं मुनिम्॥१५॥
स्वामिनि ध्यान-लीने च शिष्याः ते दूरतस् गताः ॥ अन्नम् विना तदा ते तु मुक्त्वा तम् स्व-गुरुम् मुनिम्॥१५॥
svāmini dhyāna-līne ca śiṣyāḥ te dūratas gatāḥ .. annam vinā tadā te tu muktvā tam sva-gurum munim..15..
एकाकिनी तदा जाता सानसूया पतिव्रता ॥ १६ ॥
एकाकिनी तदा जाता सा अनसूया पतिव्रता ॥ १६ ॥
ekākinī tadā jātā sā anasūyā pativratā .. 16 ..
सिषेवे सा च सततं तं मुदा मुनिसत्तमम् ॥ पार्थिवं सुन्दरं कृत्वा मंत्रेण विधि पूर्वकम् ॥ १७ ॥
सिषेवे सा च सततम् तम् मुदा मुनि-सत्तमम् ॥ पार्थिवम् सुन्दरम् कृत्वा मंत्रेण विधि-पूर्वकम् ॥ १७ ॥
siṣeve sā ca satatam tam mudā muni-sattamam .. pārthivam sundaram kṛtvā maṃtreṇa vidhi-pūrvakam .. 17 ..
मानसैरुपचारैश्च पूजयामास शंकरम्॥तुष्टाव शंकरं भक्त्या संसेवित्वा मुहुर्मुहुः ॥ १८ ॥
मानसैः उपचारैः च पूजयामास शंकरम्॥तुष्टाव शंकरम् भक्त्या संसेवित्वा मुहुर् मुहुर् ॥ १८ ॥
mānasaiḥ upacāraiḥ ca pūjayāmāsa śaṃkaram..tuṣṭāva śaṃkaram bhaktyā saṃsevitvā muhur muhur .. 18 ..
बद्धाञ्जलिपुटा भूत्वा प्रक्रम्य स्वामिनं शिवम् ॥ दण्डवत्प्रणिपातेन प्रतिप्रक्रमणं तदा ॥ १९॥
बद्धाञ्जलि-पुटाः भूत्वा प्रक्रम्य स्वामिनम् शिवम् ॥ दण्ड-वत् प्रणिपातेन प्रतिप्रक्रमणम् तदा ॥ १९॥
baddhāñjali-puṭāḥ bhūtvā prakramya svāminam śivam .. daṇḍa-vat praṇipātena pratiprakramaṇam tadā .. 19..
चकार सुचरित्रा सानसूया मुनिकामिनी ॥ दैत्याश्च दानवाः सर्वे दृष्ट्वा तु सुन्दरीं तदा ॥ 4.3.२०॥
चकार सु चरित्रा सा अनसूया मुनि-कामिनी ॥ दैत्याः च दानवाः सर्वे दृष्ट्वा तु सुन्दरीम् तदा ॥ ४।३।२०॥
cakāra su caritrā sā anasūyā muni-kāminī .. daityāḥ ca dānavāḥ sarve dṛṣṭvā tu sundarīm tadā .. 4.3.20..
विह्वलाश्चाभवंस्तत्र तेजसा दूरतः स्थिताः॥अग्निं दृष्ट्वा यथा दूरे वर्तन्ते तद्वदेव हि॥२१॥
विह्वलाः च अभवन् तत्र तेजसा दूरतस् स्थिताः॥अग्निम् दृष्ट्वा यथा दूरे वर्तन्ते तद्वत् एव हि॥२१॥
vihvalāḥ ca abhavan tatra tejasā dūratas sthitāḥ..agnim dṛṣṭvā yathā dūre vartante tadvat eva hi..21..
तथैनां च तदा दृष्ट्वा नायान्तीह समीपगाः ॥ अत्रेश्च तपसश्चैवानसूया शिवसेवनम् ॥ २२॥
तथा एनाम् च तदा दृष्ट्वा न आयान्ति इह समीप-गाः ॥ अत्रेः च तपसः च एव अनसूया शिव-सेवनम् ॥ २२॥
tathā enām ca tadā dṛṣṭvā na āyānti iha samīpa-gāḥ .. atreḥ ca tapasaḥ ca eva anasūyā śiva-sevanam .. 22..
विशिष्यते स्म विप्रेन्द्रा मनोवाक्कायसंस्कृतम।तावत्कालं तु सा देवी परिचर्यां चकार ह ॥ २३॥
विशिष्यते स्म विप्र-इन्द्राः।तावत्कालम् तु सा देवी परिचर्याम् चकार ह ॥ २३॥
viśiṣyate sma vipra-indrāḥ.tāvatkālam tu sā devī paricaryām cakāra ha .. 23..
यावत्कालं मुनिवरः प्राणायामपरायणः ॥ तौ दम्पती तदा तत्र स्वस्व कार्यपरायणौ ॥ २४ ॥
यावत्कालम् मुनि-वरः प्राणायाम-परायणः ॥ तौ दम्पती तदा तत्र स्व-स्व-कार्य-परायणौ ॥ २४ ॥
yāvatkālam muni-varaḥ prāṇāyāma-parāyaṇaḥ .. tau dampatī tadā tatra sva-sva-kārya-parāyaṇau .. 24 ..
संस्थितौ मुनिशार्दूल नान्यः कश्चित्परः स्थितः ॥ एवं जातं तदा काले ह्यत्रिश्च ऋषिसत्तमः ॥ २५॥
संस्थितौ मुनि-शार्दूल ना अन्यः कश्चिद् परः स्थितः ॥ एवम् जातम् तदा काले हि अत्रिः च ऋषि-सत्तमः ॥ २५॥
saṃsthitau muni-śārdūla nā anyaḥ kaścid paraḥ sthitaḥ .. evam jātam tadā kāle hi atriḥ ca ṛṣi-sattamaḥ .. 25..
ध्याने च परमे लीनो न व्यबुध्यत किंचन ॥ अनसूयापि सा साध्वी स्वामिनं वै शिवं तथा ॥ २६ ॥
ध्याने च परमे लीनः न व्यबुध्यत किंचन ॥ अनसूया अपि सा साध्वी स्वामिनम् वै शिवम् तथा ॥ २६ ॥
dhyāne ca parame līnaḥ na vyabudhyata kiṃcana .. anasūyā api sā sādhvī svāminam vai śivam tathā .. 26 ..
नान्यत्परं किंचिज्जानीते स्म च सा सती ॥ तस्यैव तपसा सर्वे तस्याश्च भजनेन च ॥ २७॥
न अन्यत् परम् किंचिद् जानीते स्म च सा सती ॥ तस्य एव तपसा सर्वे तस्याः च भजनेन च ॥ २७॥
na anyat param kiṃcid jānīte sma ca sā satī .. tasya eva tapasā sarve tasyāḥ ca bhajanena ca .. 27..
देवाश्च ऋषयश्चैव गंगाद्यास्सरितस्तथा॥दर्शनार्थं तयोः सर्वाः परे प्रीत्या समाययुः ॥ २८ ॥
देवाः च ऋषयः च एव गंगा-आद्याः सरितः तथा॥दर्शन-अर्थम् तयोः सर्वाः परे प्रीत्या समाययुः ॥ २८ ॥
devāḥ ca ṛṣayaḥ ca eva gaṃgā-ādyāḥ saritaḥ tathā..darśana-artham tayoḥ sarvāḥ pare prītyā samāyayuḥ .. 28 ..
दृष्ट्वा च तत्तपस्सेवां विस्मयं परमं ययुः ॥ तयोस्तदद्भुतं दृष्ट्वा समूचुर्भजनं वरम् ॥ २९॥
दृष्ट्वा च तद्-तपः-सेवाम् विस्मयम् परमम् ययुः ॥ तयोः तत् अद्भुतम् दृष्ट्वा समूचुः भजनम् वरम् ॥ २९॥
dṛṣṭvā ca tad-tapaḥ-sevām vismayam paramam yayuḥ .. tayoḥ tat adbhutam dṛṣṭvā samūcuḥ bhajanam varam .. 29..
उभयोः किं विशिष्टं च तपसो भजनस्य च ॥ अत्रेश्चैव तपः प्रोक्तमनसूयानुसेवनम् ॥ 4.3.३०॥
उभयोः किम् विशिष्टम् च तपसः भजनस्य च ॥ अत्रेः च एव तपः प्रोक्तम् अनसूया-अनुसेवनम् ॥ ४।३।३०॥
ubhayoḥ kim viśiṣṭam ca tapasaḥ bhajanasya ca .. atreḥ ca eva tapaḥ proktam anasūyā-anusevanam .. 4.3.30..
तत्सर्वमुभयोर्दृष्ट्वा समूचुर्भजनं वरम्॥पूर्वैश्च ऋषिभिश्चैव दुष्करं तु तपः कृतम् ॥ ३१ ॥
तत् सर्वम् उभयोः दृष्ट्वा समूचुः भजनम् वरम्॥पूर्वैः च ऋषिभिः च एव दुष्करम् तु तपः कृतम् ॥ ३१ ॥
tat sarvam ubhayoḥ dṛṣṭvā samūcuḥ bhajanam varam..pūrvaiḥ ca ṛṣibhiḥ ca eva duṣkaram tu tapaḥ kṛtam .. 31 ..
एतादृशं तु केनापि क्व कृतं नैतदब्रुवन् ॥ धन्योऽयं च मुनिर्धन्या तथेयमनसूयिका ॥ ३२ ॥
एतादृशम् तु केन अपि क्व कृतम् न एतत् अब्रुवन् ॥ धन्यः अयम् च मुनिः धन्या तथा इयम् अनसूयिका ॥ ३२ ॥
etādṛśam tu kena api kva kṛtam na etat abruvan .. dhanyaḥ ayam ca muniḥ dhanyā tathā iyam anasūyikā .. 32 ..
यदैताभ्यां परप्रीत्या क्रियते सुतपः पुनः ॥ एतादृशं शुभं चैतत्तपो दुष्करमुत्तमम् ॥ ३३ ॥
यदा एताभ्याम् पर-प्रीत्या क्रियते सु तपः पुनर् ॥ एतादृशम् शुभम् च एतत् तपः दुष्करम् उत्तमम् ॥ ३३ ॥
yadā etābhyām para-prītyā kriyate su tapaḥ punar .. etādṛśam śubham ca etat tapaḥ duṣkaram uttamam .. 33 ..
त्रिलोक्यां क्रियते केन साम्प्रतं ज्ञायते न हि ॥ तयोरेव प्रशंसां च कृत्वा ते तु यथागतम्॥३४॥
त्रिलोक्याम् क्रियते केन साम्प्रतम् ज्ञायते न हि ॥ तयोः एव प्रशंसाम् च कृत्वा ते तु यथागतम्॥३४॥
trilokyām kriyate kena sāmpratam jñāyate na hi .. tayoḥ eva praśaṃsām ca kṛtvā te tu yathāgatam..34..
गतास्ते च तदा तत्र गंगा न गिरिशं विना।गंगा मद्भजनप्रीता साध्वी धर्मविमोहिता ॥ ३५॥
गताः ते च तदा तत्र गंगा न गिरिशम् विना।गंगा मद्-भजन-प्रीता साध्वी धर्म-विमोहिता ॥ ३५॥
gatāḥ te ca tadā tatra gaṃgā na giriśam vinā.gaṃgā mad-bhajana-prītā sādhvī dharma-vimohitā .. 35..
कृत्वोपकारमेतस्या गमिष्यामीत्युवाच सा॥शिवोऽपि ध्यानसम्बद्धो मुनेरत्रेर्मुनीश्वराः ॥ ३६॥
कृत्वा उपकारम् एतस्याः गमिष्यामि इति उवाच सा॥शिवः अपि ध्यान-सम्बद्धः मुनेः अत्रेः मुनि-ईश्वराः ॥ ३६॥
kṛtvā upakāram etasyāḥ gamiṣyāmi iti uvāca sā..śivaḥ api dhyāna-sambaddhaḥ muneḥ atreḥ muni-īśvarāḥ .. 36..
पूर्णांशेन स्थितस्तत्र कैलासं तं जगाम ह॥पंचाशच्च तथा चात्र चत्वारि ऋषिसत्तमाः ॥ ३७॥
पूर्ण-अंशेन स्थितः तत्र कैलासम् तम् जगाम ह॥पंचाशत् च तथा च अत्र चत्वारि ऋषि-सत्तमाः ॥ ३७॥
pūrṇa-aṃśena sthitaḥ tatra kailāsam tam jagāma ha..paṃcāśat ca tathā ca atra catvāri ṛṣi-sattamāḥ .. 37..
वर्षाणि च गतान्यासन्वृष्टिर्नैवाभवत्तदा ॥ यावच्चाप्यत्रिणा ह्येवं तपसा ध्यानमाश्रितम् ॥ ३८ ॥
वर्षाणि च गतानि आसन् वृष्टिः न एव अभवत् तदा ॥ यावत् च अपि अत्रिणा हि एवम् तपसा ध्यानम् आश्रितम् ॥ ३८ ॥
varṣāṇi ca gatāni āsan vṛṣṭiḥ na eva abhavat tadā .. yāvat ca api atriṇā hi evam tapasā dhyānam āśritam .. 38 ..
अनसूया तदा नैव गृह्णामीतीषणा कृता ॥ एवं च क्रियमाणे हि मुनिना तपसि स्थिते ॥ अनसूयासुभजने यज्जातं श्रूयतामिति॥३९॥
अनसूया तदा ना एव गृह्णामि इति इषणा कृता ॥ एवम् च क्रियमाणे हि मुनिना तपसि स्थिते ॥ अनसूया-सुभ-जने यत् जातम् श्रूयताम् इति॥३९॥
anasūyā tadā nā eva gṛhṇāmi iti iṣaṇā kṛtā .. evam ca kriyamāṇe hi muninā tapasi sthite .. anasūyā-subha-jane yat jātam śrūyatām iti..39..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं नाम तृतीयो ऽध्यायः ॥ ३ ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् अनसूयात्रितपोवर्णनम् नाम तृतीयः अध्यायः ॥ ३ ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām anasūyātritapovarṇanam nāma tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In