| |
|

This overlay will guide you through the buttons:

।। ऋषय ऊचुः ।।
सूतसूत महाभाग ज्ञानवानसि सुव्रत ॥ पुनरेव शिवस्य वै चरितं ब्रूहि विस्तरात् ॥ १ ॥
सूत-सूत महाभाग ज्ञानवान् असि सुव्रत ॥ पुनर् एव शिवस्य वै चरितम् ब्रूहि विस्तरात् ॥ १ ॥
sūta-sūta mahābhāga jñānavān asi suvrata .. punar eva śivasya vai caritam brūhi vistarāt .. 1 ..
पुरातनाश्च राजान ऋषयो देवतास्तथा॥आराधनञ्च तस्यैव चकुर्देववरस्य हि ॥ २ ॥
पुरातनाः च राजानः ऋषयः देवताः तथा॥आराधनञ्च च तस्य एव चकुः देव-वरस्य हि ॥ २ ॥
purātanāḥ ca rājānaḥ ṛṣayaḥ devatāḥ tathā..ārādhanañca ca tasya eva cakuḥ deva-varasya hi .. 2 ..
सूत उवाच।।
साधु पृष्टमृषिश्रेष्ठाः श्रूयतां कथयामि वः ॥ ।चरित्रं शांकरं रम्यं शृण्वतां भुक्तिमुक्तिदम् ॥ ३ ॥
साधु पृष्टम् ऋषि-श्रेष्ठाः श्रूयताम् कथयामि वः ॥ ।चरित्रम् शांकरम् रम्यम् शृण्वताम् भुक्ति-मुक्ति-दम् ॥ ३ ॥
sādhu pṛṣṭam ṛṣi-śreṣṭhāḥ śrūyatām kathayāmi vaḥ .. .caritram śāṃkaram ramyam śṛṇvatām bhukti-mukti-dam .. 3 ..
एतदेव पुरा पृष्टो नारदेन पितामहः ॥ प्रत्युवाच प्रसन्नात्मा नारदं मुनिसत्तमम् ॥ । ४ ॥
एतत् एव पुरा पृष्टः नारदेन पितामहः ॥ प्रत्युवाच प्रसन्न-आत्मा नारदम् मुनि-सत्तमम् ॥ । ४ ॥
etat eva purā pṛṣṭaḥ nāradena pitāmahaḥ .. pratyuvāca prasanna-ātmā nāradam muni-sattamam .. . 4 ..
ब्रह्मोवाच ।।
शृणु नारद सुप्रीत्या शांकरं चरितं वरम्॥प्रवक्ष्यामि भवत्स्नेहान्महापातकनाशनम् ॥ ५॥
शृणु नारद सु प्रीत्या शांकरम् चरितम् वरम्॥प्रवक्ष्यामि भवत्-स्नेहात् महापातक-नाशनम् ॥ ५॥
śṛṇu nārada su prītyā śāṃkaram caritam varam..pravakṣyāmi bhavat-snehāt mahāpātaka-nāśanam .. 5..
रमया सहितो विष्णुश्शिवपूजां चकार ह ॥ कृपया परमेशस्य सर्वान्कामानवाप हि ॥ ६ ॥
रमया सहितः विष्णुः शिव-पूजाम् चकार ह ॥ कृपया परमेशस्य सर्वान् कामान् अवाप हि ॥ ६ ॥
ramayā sahitaḥ viṣṇuḥ śiva-pūjām cakāra ha .. kṛpayā parameśasya sarvān kāmān avāpa hi .. 6 ..
अहं पितामहश्चापि शिवपूजनकारकः ॥ तस्यैव कृपया तात विश्वसृष्टिकरस्सदा ॥ ७ ॥
अहम् पितामहः च अपि शिव-पूजन-कारकः ॥ तस्य एव कृपया तात विश्व-सृष्टि-करः सदा ॥ ७ ॥
aham pitāmahaḥ ca api śiva-pūjana-kārakaḥ .. tasya eva kṛpayā tāta viśva-sṛṣṭi-karaḥ sadā .. 7 ..
शिवपूजाकरा नित्यं मत्पुत्राः परमर्षयः ॥ अन्ये च ऋषयो ये ते शिवपूजनकारकाः ॥ ८ ॥ ॥
शिव-पूजा-कराः नित्यम् मद्-पुत्राः परम-ऋषयः ॥ अन्ये च ऋषयः ये ते शिव-पूजन-कारकाः ॥ ८ ॥ ॥
śiva-pūjā-karāḥ nityam mad-putrāḥ parama-ṛṣayaḥ .. anye ca ṛṣayaḥ ye te śiva-pūjana-kārakāḥ .. 8 .. ..
नारद त्वं विशेषेण शिवपूजनकारकः ॥ सप्तर्षयो वसिष्ठाद्याः शिवपूजनकारकाः॥९॥
नारद त्वम् विशेषेण शिव-पूजन-कारकः ॥ सप्तर्षयः वसिष्ठ-आद्याः शिव-पूजन-कारकाः॥९॥
nārada tvam viśeṣeṇa śiva-pūjana-kārakaḥ .. saptarṣayaḥ vasiṣṭha-ādyāḥ śiva-pūjana-kārakāḥ..9..
अरुंधती मदासाध्वी लोपामुद्रा तथैव च ॥ अहल्या गौतमस्त्री च शिवपूजनकारिकाः॥4.37.१०॥
अरुंधती मदासाध्वी लोपामुद्रा तथा एव च ॥ अहल्या गौतम-स्त्री च शिव-पूजन-कारिकाः॥४।३७।१०॥
aruṃdhatī madāsādhvī lopāmudrā tathā eva ca .. ahalyā gautama-strī ca śiva-pūjana-kārikāḥ..4.37.10..
दुर्वासाः कौशिकश्शक्तिर्दधीचो गौतमस्तथा ॥ कणादो भार्गवो जीवो वैशंपायन एव च ॥ ११॥
दुर्वासाः कौशिकः शक्तिः दधीचः गौतमः तथा ॥ कणादः भार्गवः जीवः वैशंपायनः एव च ॥ ११॥
durvāsāḥ kauśikaḥ śaktiḥ dadhīcaḥ gautamaḥ tathā .. kaṇādaḥ bhārgavaḥ jīvaḥ vaiśaṃpāyanaḥ eva ca .. 11..
एते च मुनयस्सर्वे शिवपूजाकरा मताः॥तथा पराशरो व्यासश्शिवपूजारतस्सदा ॥ १२॥
एते च मुनयः सर्वे शिव-पूजा-कराः मताः॥तथा पराशरः व्यासः शिव-पूजा-रतः सदा ॥ १२॥
ete ca munayaḥ sarve śiva-pūjā-karāḥ matāḥ..tathā parāśaraḥ vyāsaḥ śiva-pūjā-rataḥ sadā .. 12..
उपमन्युर्महाभक्तश्शिवस्य परमात्मनः ॥ याज्ञवल्क्यो महाशैवो जैमिनिर्गर्ग एव च ॥ १३॥
उपमन्युः महा-भक्तः शिवस्य परमात्मनः ॥ याज्ञवल्क्यः महा-शैवः जैमिनिः गर्गः एव च ॥ १३॥
upamanyuḥ mahā-bhaktaḥ śivasya paramātmanaḥ .. yājñavalkyaḥ mahā-śaivaḥ jaiminiḥ gargaḥ eva ca .. 13..
शुकश्च शौनकाद्याश्च शङ्करस्य प्रपूजकाः ॥ अन्येऽपि बहवस्सन्ति मुनयो मुनिसत्तमाः ॥ १४॥
शुकः च शौनक-आद्याः च शङ्करस्य प्रपूजकाः ॥ अन्ये अपि बहवः सन्ति मुनयः मुनि-सत्तमाः ॥ १४॥
śukaḥ ca śaunaka-ādyāḥ ca śaṅkarasya prapūjakāḥ .. anye api bahavaḥ santi munayaḥ muni-sattamāḥ .. 14..
अदितिर्देवमाता च नित्यं प्रीत्या चकार ह ॥ पार्थिवीं शैवपूजां वै सवधूः प्रेमतत्परा॥१५॥
अदितिः देव-माता च नित्यम् प्रीत्या चकार ह ॥ पार्थिवीम् शैव-पूजाम् वै स वधूः प्रेम-तत्परा॥१५॥
aditiḥ deva-mātā ca nityam prītyā cakāra ha .. pārthivīm śaiva-pūjām vai sa vadhūḥ prema-tatparā..15..
शक्रादयो लोकपाला वसवश्च सुरास्तथा ॥ महाराजिकदेवाश्च साध्याश्च शिवपूजकाः ॥ १६॥
शक्र-आदयः लोकपालाः वसवः च सुराः तथा ॥ महाराजिक-देवाः च साध्याः च शिव-पूजकाः ॥ १६॥
śakra-ādayaḥ lokapālāḥ vasavaḥ ca surāḥ tathā .. mahārājika-devāḥ ca sādhyāḥ ca śiva-pūjakāḥ .. 16..
गन्धर्वा किन्नराद्याश्चोपसुराश्शिवपूजकाः ॥ तथाऽसुरा महात्मानश्शिवपूजाकरा मताः ॥ १७॥
गन्धर्वा किन्नर-आद्याः च उपसुराः शिव-पूजकाः ॥ तथा असुराः महात्मानः शिव-पूजा-कराः मताः ॥ १७॥
gandharvā kinnara-ādyāḥ ca upasurāḥ śiva-pūjakāḥ .. tathā asurāḥ mahātmānaḥ śiva-pūjā-karāḥ matāḥ .. 17..
हिरण्यकशिपुर्देत्यस्सानुजत्ससुतो मुने॥शिवपूजाकरो नित्यं विरोचनबली तथा॥१८॥
मुने॥शिव-पूजा-करः नित्यम् विरोचन-बली तथा॥१८॥
mune..śiva-pūjā-karaḥ nityam virocana-balī tathā..18..
महाशैव स्मृतो बाणो हिरण्याक्षसुतास्तथा॥वृषपर्वा दनुस्तात दानवाः शिवपूजकाः ॥ १९ ॥
स्मृतः बाणः हिरण्याक्ष-सुताः तथा॥वृषपर्वा दनुः तात दानवाः शिव-पूजकाः ॥ १९ ॥
smṛtaḥ bāṇaḥ hiraṇyākṣa-sutāḥ tathā..vṛṣaparvā danuḥ tāta dānavāḥ śiva-pūjakāḥ .. 19 ..
शेषश्च वासुकिश्चैव तक्षकश्च तथा परे ॥ शिवभक्ता महानागा गरुडाद्याश्च पक्षिणः ॥ 4.37.२०॥
शेषः च वासुकिः च एव तक्षकः च तथा परे ॥ शिव-भक्ताः महा-नागाः गरुड-आद्याः च पक्षिणः ॥ ४।३७।२०॥
śeṣaḥ ca vāsukiḥ ca eva takṣakaḥ ca tathā pare .. śiva-bhaktāḥ mahā-nāgāḥ garuḍa-ādyāḥ ca pakṣiṇaḥ .. 4.37.20..
सूर्यचन्द्रावुभौ देवौ पृथ्व्यां वंशप्रवर्त्तकौ॥शिवसेवारतौ नित्यं सवंश्यौ तौ मुनीश्वर ॥ २१॥
सूर्य-चन्द्रौ उभौ देवौ पृथ्व्याम् वंश-प्रवर्त्तकौ॥शिव-सेवा-रतौ नित्यम् स वंश्यौ तौ मुनि-ईश्वर ॥ २१॥
sūrya-candrau ubhau devau pṛthvyām vaṃśa-pravarttakau..śiva-sevā-ratau nityam sa vaṃśyau tau muni-īśvara .. 21..
मनवश्च तथा चक्रुस्स्वायंभुवपुरस्सराः ॥ शिवपूजां विशेषेण शिववेषधरा मुने ॥ २२ ॥
मनवः च तथा चक्रुः स्वायंभुव-पुरस्सराः ॥ शिव-पूजाम् विशेषेण शिव-वेष-धराः मुने ॥ २२ ॥
manavaḥ ca tathā cakruḥ svāyaṃbhuva-purassarāḥ .. śiva-pūjām viśeṣeṇa śiva-veṣa-dharāḥ mune .. 22 ..
प्रियव्रतश्च तत्पुत्रास्तथा चोत्तानपात्सुतः ॥ तद्वंशाश्चैव राजानश्शिवपूजनकारकाः ॥ २३ ॥
प्रियव्रतः च तद्-पुत्राः तथा च उत्तानपात्-सुतः ॥ तद्-वंशाः च एव राजानः शिव-पूजन-कारकाः ॥ २३ ॥
priyavrataḥ ca tad-putrāḥ tathā ca uttānapāt-sutaḥ .. tad-vaṃśāḥ ca eva rājānaḥ śiva-pūjana-kārakāḥ .. 23 ..
ध्रुवश्च ऋषभश्चैव भरतो नव योगिनः ॥ तद्भ्रातरः परे चापि शिवपूजनकारकाः॥२४॥
ध्रुवः च ऋषभः च एव भरतः नव योगिनः ॥ तद्-भ्रातरः परे च अपि शिव-पूजन-कारकाः॥२४॥
dhruvaḥ ca ṛṣabhaḥ ca eva bharataḥ nava yoginaḥ .. tad-bhrātaraḥ pare ca api śiva-pūjana-kārakāḥ..24..
वैवस्वतसुतास्तार्क्ष्य इक्ष्वाकुप्रमुखा नृपाः॥शिवपूजारतात्मानः सर्वदा सुखभोगिनः ॥ २५॥
वैवस्वत-सुताः तार्क्ष्यः इक्ष्वाकु-प्रमुखाः नृपाः॥शिव-पूजा-रत-आत्मानः सर्वदा सुख-भोगिनः ॥ २५॥
vaivasvata-sutāḥ tārkṣyaḥ ikṣvāku-pramukhāḥ nṛpāḥ..śiva-pūjā-rata-ātmānaḥ sarvadā sukha-bhoginaḥ .. 25..
ककुत्स्थश्चापि मांधाता सगरश्शैवसत्तमः॥मुचुकुन्दो हरिश्चन्द्रः कल्माषांघ्रिस्तथैव च॥२६॥
ककुत्स्थः च अपि मांधाता सगरः शैव-सत्तमः॥मुचुकुन्दः हरिश्चन्द्रः कल्माषांघ्रिः तथा एव च॥२६॥
kakutsthaḥ ca api māṃdhātā sagaraḥ śaiva-sattamaḥ..mucukundaḥ hariścandraḥ kalmāṣāṃghriḥ tathā eva ca..26..
भगीरथादयो भूपा बहवो नृपसत्तमाः॥शिवपूजाकरा ज्ञेयाः शिववेषविधायिनः ॥ २७॥
भगीरथ-आदयः भूपाः बहवः नृप-सत्तमाः॥शिव-पूजा-कराः ज्ञेयाः शिव-वेष-विधायिनः ॥ २७॥
bhagīratha-ādayaḥ bhūpāḥ bahavaḥ nṛpa-sattamāḥ..śiva-pūjā-karāḥ jñeyāḥ śiva-veṣa-vidhāyinaḥ .. 27..
खट्वांगश्च महाराजो देवसाहाय्यकारकः ॥ विधितः पार्थिवीम्मूर्तिं शिवस्यापूजयत्सदा ॥ २८॥
खट्वांगः च महा-राजः देव-साहाय्य-कारकः ॥ विधितः पार्थिवीम् मूर्तिम् शिवस्य अपूजयत् सदा ॥ २८॥
khaṭvāṃgaḥ ca mahā-rājaḥ deva-sāhāyya-kārakaḥ .. vidhitaḥ pārthivīm mūrtim śivasya apūjayat sadā .. 28..
तत्पुत्रो हि दिलीपश्च शिवपूजनकृत्सदा ॥ रघुस्तत्तनयः शैवः सुप्रीत्याः शिवपूजकः ॥ २९ ॥
तद्-पुत्रः हि दिलीपः च शिव-पूजन-कृत् सदा ॥ रघुः तद्-तनयः शैवः सुप्रीत्याः शिव-पूजकः ॥ २९ ॥
tad-putraḥ hi dilīpaḥ ca śiva-pūjana-kṛt sadā .. raghuḥ tad-tanayaḥ śaivaḥ suprītyāḥ śiva-pūjakaḥ .. 29 ..
अजश्शिवार्चकस्तस्य तनयो धर्मयुद्धकृत् ॥ जातो दशरथो भूयो महाराजो विशेषतः ॥ 4.37.३०॥
अजः शिव-अर्चकः तस्य तनयः धर्म-युद्ध-कृत् ॥ जातः दशरथः भूयस् महा-राजः विशेषतः ॥ ४।३७।३०॥
ajaḥ śiva-arcakaḥ tasya tanayaḥ dharma-yuddha-kṛt .. jātaḥ daśarathaḥ bhūyas mahā-rājaḥ viśeṣataḥ .. 4.37.30..
पुत्रार्थे पार्थिवी मूर्त्ति शैवी दशरथो हि सः ॥ समानर्च विशेषेण वसि ष्ठस्याज्ञया मुनेः ॥ ३१॥
पुत्र-अर्थे पार्थिवी शैवी दशरथः हि सः ॥ समान-ऋच-विशेषेण मुनेः ॥ ३१॥
putra-arthe pārthivī śaivī daśarathaḥ hi saḥ .. samāna-ṛca-viśeṣeṇa muneḥ .. 31..
पुत्रेष्टिं च चकारासौ पार्थिवो भवभक्तिमान्॥ऋष्यशृङ्गमुनेराज्ञां संप्राप्य नृपसत्तमः ॥ ३२ ॥
पुत्र-इष्टिम् च चकार असौ पार्थिवः भव-भक्तिमान्॥ऋष्यशृङ्ग-मुनेः आज्ञाम् संप्राप्य नृप-सत्तमः ॥ ३२ ॥
putra-iṣṭim ca cakāra asau pārthivaḥ bhava-bhaktimān..ṛṣyaśṛṅga-muneḥ ājñām saṃprāpya nṛpa-sattamaḥ .. 32 ..
कौसल्या तत्प्रिया मूर्त्ति पार्थिवीं शांकरीं मुदा ॥ ऋष्यशृंगसमादिष्टा समानर्च सुताप्तये ॥ ३३॥
कौसल्या तद्-प्रिया पार्थिवीम् शांकरीम् मुदा ॥ ऋष्यशृंग-समादिष्टा समानर्च सुत-आप्तये ॥ ३३॥
kausalyā tad-priyā pārthivīm śāṃkarīm mudā .. ṛṣyaśṛṃga-samādiṣṭā samānarca suta-āptaye .. 33..
सुमित्रा च शिवं प्रीत्या कैकेयी नृपवल्लभा॥पूजयामास सत्पुत्रप्राप्तये मुनिसत्तम ॥ ३४ ॥
सुमित्रा च शिवम् प्रीत्या कैकेयी नृप-वल्लभा॥पूजयामास सत्-पुत्र-प्राप्तये मुनि-सत्तम ॥ ३४ ॥
sumitrā ca śivam prītyā kaikeyī nṛpa-vallabhā..pūjayāmāsa sat-putra-prāptaye muni-sattama .. 34 ..
शिवप्रसादतस्ता वै पुत्रान्प्रापुश्शुभंकरान् ॥ महाप्रतापिनो वीरान्सन्मार्गनिरतान्मुने ॥ ३५॥
शिव-प्रसादतः ताः वै पुत्रान् प्रापुः शुभंकरान् ॥ महा-प्रतापिनः वीरान् सत्-मार्ग-निरतान् मुने ॥ ३५॥
śiva-prasādataḥ tāḥ vai putrān prāpuḥ śubhaṃkarān .. mahā-pratāpinaḥ vīrān sat-mārga-niratān mune .. 35..
ततः शिवाज्ञया तस्मात्तासु राज्ञस्स्वयं हरिः ॥ चतुर्भिश्चैव रूपैश्चाविर्बभूव नृपात्मजः ॥ ३६ ॥
ततस् शिव-आज्ञया तस्मात् तासु राज्ञः स्वयम् हरिः ॥ चतुर्भिः च एव रूपैः च आविर्बभूव नृप-आत्मजः ॥ ३६ ॥
tatas śiva-ājñayā tasmāt tāsu rājñaḥ svayam hariḥ .. caturbhiḥ ca eva rūpaiḥ ca āvirbabhūva nṛpa-ātmajaḥ .. 36 ..
कौसल्यायाः सुतो राम सुमित्रायाश्च लक्ष्मण ॥ शत्रुघ्नश्चैव कैकेय्या भरतश्चेति सुव्रताः ॥ ३७॥
कौसल्यायाः सुतः राम सुमित्रायाः च लक्ष्मण ॥ शत्रुघ्नः च एव कैकेय्याः भरतः च इति सुव्रताः ॥ ३७॥
kausalyāyāḥ sutaḥ rāma sumitrāyāḥ ca lakṣmaṇa .. śatrughnaḥ ca eva kaikeyyāḥ bharataḥ ca iti suvratāḥ .. 37..
रामस्ससहजो नित्यं पार्थिवं समपूजयत् ॥ भस्म रुद्राक्षधारी च विरजागममास्थितः ॥ ३८ ॥
रामः स सहजः नित्यम् पार्थिवम् समपूजयत् ॥ भस्म रुद्राक्ष-धारी च विरजा-गमम् आस्थितः ॥ ३८ ॥
rāmaḥ sa sahajaḥ nityam pārthivam samapūjayat .. bhasma rudrākṣa-dhārī ca virajā-gamam āsthitaḥ .. 38 ..
तद्वंशे ये समुत्पन्ना राजानः सानुगा मुने ॥ ते सर्वे पार्थिवं लिंगं शिवस्य समपूजयन् ॥ ३९॥
तद्-वंशे ये समुत्पन्नाः राजानः स अनुगाः मुने ॥ ते सर्वे पार्थिवम् लिंगम् शिवस्य समपूजयन् ॥ ३९॥
tad-vaṃśe ye samutpannāḥ rājānaḥ sa anugāḥ mune .. te sarve pārthivam liṃgam śivasya samapūjayan .. 39..
सुद्युम्नश्च महाराजश्शैवो मुनिसुतो मुने ॥ शिवशापात्प्रियाहेतोरभून्नारी ससेवकः ॥ 4.37.४०॥
सुद्युम्नः च महा-राजः शैवः मुनि-सुतः मुने ॥ शिव-शापात् प्रिया-हेतोः अभूत् नारी स सेवकः ॥ ४।३७।४०॥
sudyumnaḥ ca mahā-rājaḥ śaivaḥ muni-sutaḥ mune .. śiva-śāpāt priyā-hetoḥ abhūt nārī sa sevakaḥ .. 4.37.40..
पार्थिवेशसमर्चातः पुनस्सोऽभूत्पुमान्वरः ॥ मासं स्त्री पुरुषो मासमेवं स्त्रीत्वं न्यवर्त्तत ॥ ४१ ॥
पार्थिव-ईश-समर्चातः पुनर् सः अभूत् पुमान् वरः ॥ मासम् स्त्री पुरुषः मासम् एवम् स्त्री-त्वम् न्यवर्त्तत ॥ ४१ ॥
pārthiva-īśa-samarcātaḥ punar saḥ abhūt pumān varaḥ .. māsam strī puruṣaḥ māsam evam strī-tvam nyavarttata .. 41 ..
ततो राज्यं परित्यज्य शिवधर्मपरायणः ॥ शिववेषधरो भक्त्या दुर्लभं मोक्षमाप्तवान् ॥ ४२॥
ततस् राज्यम् परित्यज्य शिव-धर्म-परायणः ॥ शिव-वेष-धरः भक्त्या दुर्लभम् मोक्षम् आप्तवान् ॥ ४२॥
tatas rājyam parityajya śiva-dharma-parāyaṇaḥ .. śiva-veṣa-dharaḥ bhaktyā durlabham mokṣam āptavān .. 42..
पुरूरवाश्च तत्पुत्रो महाराजस्तु पूजक ॥ शिवस्य देवदेवस्य तत्सुतः शिवपूजकः ॥ ४३ ॥
पुरूरवाः च तद्-पुत्रः महा-राजः तु पूजक ॥ शिवस्य देवदेवस्य तद्-सुतः शिव-पूजकः ॥ ४३ ॥
purūravāḥ ca tad-putraḥ mahā-rājaḥ tu pūjaka .. śivasya devadevasya tad-sutaḥ śiva-pūjakaḥ .. 43 ..
भरतस्तु महापूजां शिवस्यैव सदाकरोत् ॥ नहुषश्च महा शैवः शिवपूजारतो ह्यभूत् ॥ ४४॥
भरतः तु महा-पूजाम् शिवस्य एव सदा अकरोत् ॥ नहुषः च महा शैवः शिव-पूजा-रतः हि अभूत् ॥ ४४॥
bharataḥ tu mahā-pūjām śivasya eva sadā akarot .. nahuṣaḥ ca mahā śaivaḥ śiva-pūjā-rataḥ hi abhūt .. 44..
ययातिः शिवपूजातः सर्वान्कामानवाप्तवान् ॥ अजीजनत्सुतान्पंच शिवधर्मपरायणान् ॥ ४५॥
ययातिः शिव-पूजातः सर्वान् कामान् अवाप्तवान् ॥ अजीजनत् सुतान् पंच शिव-धर्म-परायणान् ॥ ४५॥
yayātiḥ śiva-pūjātaḥ sarvān kāmān avāptavān .. ajījanat sutān paṃca śiva-dharma-parāyaṇān .. 45..
तत्सुता यदुमुख्याश्च पंचापि शिवपूजकाः ॥ शिवपूजाप्रभावेण सर्वान्कामांश्च लेभिरे ॥ ४६ ॥
तद्-सुताः यदु-मुख्याः च पंच अपि शिव-पूजकाः ॥ शिव-पूजा-प्रभावेण सर्वान् कामान् च लेभिरे ॥ ४६ ॥
tad-sutāḥ yadu-mukhyāḥ ca paṃca api śiva-pūjakāḥ .. śiva-pūjā-prabhāveṇa sarvān kāmān ca lebhire .. 46 ..
अन्येऽपि ये महाभागाः समानर्चुश्शिवं हि ते ॥ तद्वंश्या अन्यवंश्याश्च भुक्तिमुक्तिप्रदं मुने॥ ४७ ॥
अन्ये अपि ये महाभागाः समानर्चुः शिवम् हि ते ॥ तद्-वंश्याः अन्य-वंश्याः च भुक्ति-मुक्ति-प्रदम् मुने॥ ४७ ॥
anye api ye mahābhāgāḥ samānarcuḥ śivam hi te .. tad-vaṃśyāḥ anya-vaṃśyāḥ ca bhukti-mukti-pradam mune.. 47 ..
कृष्णेन च कृतं नित्यं बदरीपर्वतोत्तमे ॥ पूजनं तु शिवस्यैव सप्तमासावधि स्वयम् ॥ ४८ ॥
कृष्णेन च कृतम् नित्यम् बदरी-पर्वत-उत्तमे ॥ पूजनम् तु शिवस्य एव सप्त-मास-अवधि स्वयम् ॥ ४८ ॥
kṛṣṇena ca kṛtam nityam badarī-parvata-uttame .. pūjanam tu śivasya eva sapta-māsa-avadhi svayam .. 48 ..
प्रसन्नाद्भगवांस्तस्माद्वरान्दिव्यानने कशः॥सम्प्राप्य च जगत्सर्वं वशेऽनयत शङ्करात् ॥ ४९ ॥
प्रसन्नात् भगवान् तस्मात् वरान् दिव्य-आनने कशः॥सम्प्राप्य च जगत् सर्वम् वशे अनयत शङ्करात् ॥ ४९ ॥
prasannāt bhagavān tasmāt varān divya-ānane kaśaḥ..samprāpya ca jagat sarvam vaśe anayata śaṅkarāt .. 49 ..
प्रद्युम्नः तत्सुतस्तात शिवपूजाकरस्सदा ॥ अन्ये च कार्ष्णिप्रवरास्साम्बाद्याश्शिवपूजकाः ॥ 4.37.५०
प्रद्युम्नः तद्-सुतः तात शिव-पूजा-करः सदा ॥ अन्ये च कार्ष्णि-प्रवराः साम्ब-आद्याः शिव-पूजकाः ॥ ४।३७।५०
pradyumnaḥ tad-sutaḥ tāta śiva-pūjā-karaḥ sadā .. anye ca kārṣṇi-pravarāḥ sāmba-ādyāḥ śiva-pūjakāḥ .. 4.37.50
जरासंधो महाशैवस्तद्वंश्याश्च नृपास्तथा ॥ निमिश्शैवश्च जनकस्तत्पुत्राश्शिवपूजकाः॥५१॥
जरासंधः महा-शैवः तद्-वंश्याः च नृपाः तथा ॥ निमिः शैवः च जनकः तद्-पुत्राः शिव-पूजकाः॥५१॥
jarāsaṃdhaḥ mahā-śaivaḥ tad-vaṃśyāḥ ca nṛpāḥ tathā .. nimiḥ śaivaḥ ca janakaḥ tad-putrāḥ śiva-pūjakāḥ..51..
नलेन च कृता पूजा वीरसेनसुतेन वै ॥ पूर्वजन्मनि यो भिल्लो वने पान्थसुरक्षकः ॥ ५२ ॥
नलेन च कृता पूजा वीरसेन-सुतेन वै ॥ पूर्व-जन्मनि यः भिल्लः वने पान्थ-सुरक्षकः ॥ ५२ ॥
nalena ca kṛtā pūjā vīrasena-sutena vai .. pūrva-janmani yaḥ bhillaḥ vane pāntha-surakṣakaḥ .. 52 ..
यतिश्च रक्षितस्तेन पुरा हरसमीपतः ॥ स्वयंव्याघ्रादिभी रात्रौ भक्षितश्च मृतो वृषात् ॥ ५३ ॥
यतिः च रक्षितः तेन पुरा हर-समीपतः ॥ स्वयम् व्याघ्र-आदिभिः रात्रौ भक्षितः च मृतः वृषात् ॥ ५३ ॥
yatiḥ ca rakṣitaḥ tena purā hara-samīpataḥ .. svayam vyāghra-ādibhiḥ rātrau bhakṣitaḥ ca mṛtaḥ vṛṣāt .. 53 ..
तेन पुण्यप्रभावेण स भिल्लो हि नलोऽभवत् ॥ चक्रवर्ती महाराजो दमयन्ती प्रियोऽभवत् ॥ ५४ ॥
तेन पुण्य-प्रभावेण स भिल्लः हि नलः अभवत् ॥ चक्रवर्ती महा-राजः दमयन्ती प्रियः अभवत् ॥ ५४ ॥
tena puṇya-prabhāveṇa sa bhillaḥ hi nalaḥ abhavat .. cakravartī mahā-rājaḥ damayantī priyaḥ abhavat .. 54 ..
इति ते कथितं तात यत्पृष्टं भवतानघ ॥ शाङ्करं चरितं दिव्यं किमन्यत्प्रष्टुमिच्छसि ॥ ५५ ॥
इति ते कथितम् तात यत् पृष्टम् भवता अनघ ॥ शाङ्करम् चरितम् दिव्यम् किम् अन्यत् प्रष्टुम् इच्छसि ॥ ५५ ॥
iti te kathitam tāta yat pṛṣṭam bhavatā anagha .. śāṅkaram caritam divyam kim anyat praṣṭum icchasi .. 55 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां देवर्षिनृपशैवत्ववर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसहितायाम् देवर्षिनृपशैवत्ववर्णनम् नाम सप्तत्रिंशः अध्यायः ॥ ३७ ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasahitāyām devarṣinṛpaśaivatvavarṇanam nāma saptatriṃśaḥ adhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In