| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ॥ यच्छ्रावयसि नस्तात महेश्वरकथां शुभाम् ॥ १ ॥
धन्यः असि कृतकृत्यः असि जीवितम् सफलम् तव ॥ यत् श्रावयसि नः तात महेश्वर-कथाम् शुभाम् ॥ १ ॥
dhanyaḥ asi kṛtakṛtyaḥ asi jīvitam saphalam tava .. yat śrāvayasi naḥ tāta maheśvara-kathām śubhām .. 1 ..
बहुभिश्चर्षिभि स्सूत श्रुतं यद्यपि वस्तु सत् ॥ सन्देहो न मतोऽस्माकं तदेतत्कथयामि ते ॥ २॥
बहुभिः च ऋषिभिः सूत श्रुतम् यदि अपि वस्तु सत् ॥ सन्देहः न मतः अस्माकम् तत् एतत् कथयामि ते ॥ २॥
bahubhiḥ ca ṛṣibhiḥ sūta śrutam yadi api vastu sat .. sandehaḥ na mataḥ asmākam tat etat kathayāmi te .. 2..
केन व्रतेन सन्तुष्टः शिवो यच्छति सत्सुखम् ॥ कुशलश्शिवकृत्ये त्वं तस्मात्पृच्छामहे वयम् ॥ ३ ॥
केन व्रतेन सन्तुष्टः शिवः यच्छति सत्-सुखम् ॥ कुशलः शिव-कृत्ये त्वम् तस्मात् पृच्छामहे वयम् ॥ ३ ॥
kena vratena santuṣṭaḥ śivaḥ yacchati sat-sukham .. kuśalaḥ śiva-kṛtye tvam tasmāt pṛcchāmahe vayam .. 3 ..
भुक्तिर्मुक्तिश्च लभ्येत भक्तैर्येन व्रतेन वै ॥ तद्वद त्वं विशेषेण व्यासशिष्य नमोऽस्तु ते ॥ ४॥
भुक्तिः मुक्तिः च लभ्येत भक्तैः येन व्रतेन वै ॥ तत् वद त्वम् विशेषेण व्यास-शिष्य नमः अस्तु ते ॥ ४॥
bhuktiḥ muktiḥ ca labhyeta bhaktaiḥ yena vratena vai .. tat vada tvam viśeṣeṇa vyāsa-śiṣya namaḥ astu te .. 4..
सूत उवाच ।।
सम्यक्पृष्टमृषिश्रेष्ठा भवद्भिः करुणात्मभिः ॥ स्मृत्वा शिवपदांभोजं कथयामि यथाश्रुतम् ॥ ५ ॥
सम्यक् पृष्टम् ऋषि-श्रेष्ठाः भवद्भिः करुण-आत्मभिः ॥ स्मृत्वा शिव-पद-अंभोजम् कथयामि यथाश्रुतम् ॥ ५ ॥
samyak pṛṣṭam ṛṣi-śreṣṭhāḥ bhavadbhiḥ karuṇa-ātmabhiḥ .. smṛtvā śiva-pada-aṃbhojam kathayāmi yathāśrutam .. 5 ..
यथा भवद्भिः पृच्छेत तथा पृष्टं हि वेधसा ॥ हरिणा शिवया चैव तथा वै शंकरं प्रति ॥ ६ ॥
यथा भवद्भिः पृच्छेत तथा पृष्टम् हि वेधसा ॥ हरिणा शिवया च एव तथा वै शंकरम् प्रति ॥ ६ ॥
yathā bhavadbhiḥ pṛccheta tathā pṛṣṭam hi vedhasā .. hariṇā śivayā ca eva tathā vai śaṃkaram prati .. 6 ..
कस्मिंश्चित्समये तैस्तु पृष्टं च परमात्मने ॥ केन व्रतेन सन्तुष्टो भुक्तिं मुक्तिं च यच्छसि ॥ ७ ॥
कस्मिंश्चिद् समये तैः तु पृष्टम् च परमात्मने ॥ केन व्रतेन सन्तुष्टः भुक्तिम् मुक्तिम् च यच्छसि ॥ ७ ॥
kasmiṃścid samaye taiḥ tu pṛṣṭam ca paramātmane .. kena vratena santuṣṭaḥ bhuktim muktim ca yacchasi .. 7 ..
इति पृष्टस्तदा तैस्तु हरिणा तेन वै तदा ॥ तदहं कथयाम्यद्य शृण्वतां पापहारकम् ॥ ८
इति पृष्टः तदा तैः तु हरिणा तेन वै तदा ॥ तत् अहम् कथयामि अद्य शृण्वताम् पाप-हारकम् ॥ ८
iti pṛṣṭaḥ tadā taiḥ tu hariṇā tena vai tadā .. tat aham kathayāmi adya śṛṇvatām pāpa-hārakam .. 8
।। शिव उवाच ।।
भूरि व्रतानि मे सन्ति भुक्तिमुक्तिप्रदानि च ॥ मुख्यानि तत्र ज्ञेयानि दशसंख्यानि तानि वै ॥ ९ ॥
भूरि व्रतानि मे सन्ति भुक्ति-मुक्ति-प्रदानि च ॥ मुख्यानि तत्र ज्ञेयानि दश-संख्यानि तानि वै ॥ ९ ॥
bhūri vratāni me santi bhukti-mukti-pradāni ca .. mukhyāni tatra jñeyāni daśa-saṃkhyāni tāni vai .. 9 ..
दश शैवव्रतान्याहुर्जाबालश्रुतिपारगाः ॥ तानि व्रतानि यत्नेन कार्याण्येव द्विजैस्सदा ॥ 4.38.१० ॥
दश शैव-व्रतानि आहुः जाबाल-श्रुति-पारगाः ॥ तानि व्रतानि यत्नेन कार्याणि एव द्विजैः सदा ॥ ४।३८।१० ॥
daśa śaiva-vratāni āhuḥ jābāla-śruti-pāragāḥ .. tāni vratāni yatnena kāryāṇi eva dvijaiḥ sadā .. 4.38.10 ..
प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् ॥ कालाष्टम्यां विशेषेण हरे त्याज्यं हि भोजनम् ॥ ११ ॥
प्रति अष्टम्याम् प्रयत्नेन कर्तव्यम् नक्तभोजनम् ॥ कालाष्टम्याम् विशेषेण हरे त्याज्यम् हि भोजनम् ॥ ११ ॥
prati aṣṭamyām prayatnena kartavyam naktabhojanam .. kālāṣṭamyām viśeṣeṇa hare tyājyam hi bhojanam .. 11 ..
एकादश्यां सितायां तु त्याज्यं विष्णो हि भोजनम् ॥ असितायां तु भोक्तव्यं नक्तमभ्यर्च्य मां हरे ॥ १२ ॥
एकादश्याम् सितायाम् तु त्याज्यम् विष्णो हि भोजनम् ॥ असितायाम् तु भोक्तव्यम् नक्तम् अभ्यर्च्य माम् हरे ॥ १२ ॥
ekādaśyām sitāyām tu tyājyam viṣṇo hi bhojanam .. asitāyām tu bhoktavyam naktam abhyarcya mām hare .. 12 ..
त्रयोदश्यां सितायां तु कर्तव्यं निशि भोजनम् ॥ असितायां तु भूतायां तत्र कार्यं शिवव्रतैः ॥ १३॥
त्रयोदश्याम् सितायाम् तु कर्तव्यम् निशि भोजनम् ॥ असितायाम् तु भूतायाम् तत्र कार्यम् शिव-व्रतैः ॥ १३॥
trayodaśyām sitāyām tu kartavyam niśi bhojanam .. asitāyām tu bhūtāyām tatra kāryam śiva-vrataiḥ .. 13..
निशि यत्नेन कर्तव्यं भोजनं सोमवासरे ॥ उभयोः पक्षयोर्विष्णो सर्वस्मिञ्छिव तत्परैः ॥ १४॥
निशि यत्नेन कर्तव्यम् भोजनम् सोम-वासरे ॥ उभयोः पक्षयोः विष्णो सर्वस्मिन् शिव तद्-परैः ॥ १४॥
niśi yatnena kartavyam bhojanam soma-vāsare .. ubhayoḥ pakṣayoḥ viṣṇo sarvasmin śiva tad-paraiḥ .. 14..
व्रतेष्वेतेषु सर्वेषु शैवा भोज्याः प्रयत्नतः ॥ यथाशक्ति द्विजश्रेष्ठा व्रतसंपूर्तिहेतवे ॥ १५॥
व्रतेषु एतेषु सर्वेषु शैवाः भोज्याः प्रयत्नतः ॥ यथाशक्ति द्विजश्रेष्ठाः व्रत-संपूर्ति-हेतवे ॥ १५॥
vrateṣu eteṣu sarveṣu śaivāḥ bhojyāḥ prayatnataḥ .. yathāśakti dvijaśreṣṭhāḥ vrata-saṃpūrti-hetave .. 15..
व्रतान्येतानि नियमात्कर्तव्यानि द्विजन्मभिः ॥ व्रतान्येतानि तु त्यक्त्वा जायन्ते तस्करा द्विजाः ॥ १६ ॥
व्रतानि एतानि नियमात् कर्तव्यानि द्विजन्मभिः ॥ व्रतानि एतानि तु त्यक्त्वा जायन्ते तस्कराः द्विजाः ॥ १६ ॥
vratāni etāni niyamāt kartavyāni dvijanmabhiḥ .. vratāni etāni tu tyaktvā jāyante taskarāḥ dvijāḥ .. 16 ..
मुक्तिमार्गप्रवीणैश्च कर्तव्यं नियमादिति ॥ मुक्तेस्तु प्रापकं चैव चतुष्टयमुदाहृतम् ॥ १७ ॥
मुक्ति-मार्ग-प्रवीणैः च कर्तव्यम् नियमात् इति ॥ मुक्तेः तु प्रापकम् च एव चतुष्टयम् उदाहृतम् ॥ १७ ॥
mukti-mārga-pravīṇaiḥ ca kartavyam niyamāt iti .. mukteḥ tu prāpakam ca eva catuṣṭayam udāhṛtam .. 17 ..
शिवार्चनं रुद्रजपं उपवासश्शिवालये ॥ वाराणस्यां च मरणं मुक्तिरेषा सनातनी ॥ १८ ॥
शिव-अर्चनम् रुद्र-जपम् उपवासः शिवालये ॥ वाराणस्याम् च मरणम् मुक्तिः एषा सनातनी ॥ १८ ॥
śiva-arcanam rudra-japam upavāsaḥ śivālaye .. vārāṇasyām ca maraṇam muktiḥ eṣā sanātanī .. 18 ..
अष्टमी सोमवारे च कृष्णपक्षे चतुर्दशी॥शिवतुष्टिकरं चैतन्नात्र कार्या विचारणा॥१९॥
अष्टमी सोमवारे च कृष्ण-पक्षे चतुर्दशी॥शिव-तुष्टि-करम् च एतत् न अत्र कार्या विचारणा॥१९॥
aṣṭamī somavāre ca kṛṣṇa-pakṣe caturdaśī..śiva-tuṣṭi-karam ca etat na atra kāryā vicāraṇā..19..
चतुर्ष्वपि बलिष्ठं हि शिवरात्रिव्रतं हरे॥तस्मात्तदेव कर्तव्यं भुक्तिमुक्तिफलेप्सुभिः॥4.38.२०॥
चतुर्षु अपि बलिष्ठम् हि शिवरात्रि-व्रतम् हरे॥तस्मात् तत् एव कर्तव्यम् भुक्ति-मुक्ति-फल-ईप्सुभिः॥४।३८।२०॥
caturṣu api baliṣṭham hi śivarātri-vratam hare..tasmāt tat eva kartavyam bhukti-mukti-phala-īpsubhiḥ..4.38.20..
एतस्माच्च मतादन्यन्नास्ति नृणां हितावहम्॥एतद्व्रतन्तु सर्वेषां धर्मसाधनमुत्तमम्॥२१॥
एतस्मात् च मतात् अन्यत् ना अस्ति नृणाम् हित-आवहम्॥एतत् व्रतम् तु सर्वेषाम् धर्म-साधनम् उत्तमम्॥२१॥
etasmāt ca matāt anyat nā asti nṛṇām hita-āvaham..etat vratam tu sarveṣām dharma-sādhanam uttamam..21..
निष्कामानां सकामानां सर्वेषां च नृणान्तथा॥वर्णानामाश्रमाणां च स्त्रीबालानां तथा हरे ॥ २२॥
निष्कामानाम् स कामानाम् सर्वेषाम् च नृणाम् तथा॥वर्णानाम् आश्रमाणाम् च स्त्री-बालानाम् तथा हरे ॥ २२॥
niṣkāmānām sa kāmānām sarveṣām ca nṛṇām tathā..varṇānām āśramāṇām ca strī-bālānām tathā hare .. 22..
दासानां दासिकानां च देवादीनां तथैव च॥शरीरिणां च सर्वेषां हितमेतद्व्रतं वरम् ॥ २३॥
दासानाम् दासिकानाम् च देव-आदीनाम् तथा एव च॥शरीरिणाम् च सर्वेषाम् हितम् एतत् व्रतम् वरम् ॥ २३॥
dāsānām dāsikānām ca deva-ādīnām tathā eva ca..śarīriṇām ca sarveṣām hitam etat vratam varam .. 23..
माघस्य ह्यसिते पक्षे विशिष्टा सातिकीर्तिता ॥ निशीथव्यापिनी ग्राह्या हत्याकोटिविनाशिनी ॥ २४॥
माघस्य हि असिते पक्षे विशिष्टा सा अतिकीर्तिता ॥ ॥ २४॥
māghasya hi asite pakṣe viśiṣṭā sā atikīrtitā .. .. 24..
तद्दिने चैव यत्कार्यं प्रातरारभ्य केशव ॥ श्रूयतान्तन्मनो दत्त्वा सुप्रीत्या कथयामि ते ॥ २५ ॥
तद्-दिने च एव यत् कार्यम् प्रातर् आरभ्य केशव ॥ श्रूयताम् तत् मनः दत्त्वा सु प्रीत्या कथयामि ते ॥ २५ ॥
tad-dine ca eva yat kāryam prātar ārabhya keśava .. śrūyatām tat manaḥ dattvā su prītyā kathayāmi te .. 25 ..
प्रातरुत्थाय मेधावी परमानन्दसंयुतः ॥ समाचरेन्नित्यकृत्यं स्नानादिकमतन्द्रितः ॥ २६ ॥
प्रातर् उत्थाय मेधावी परम-आनन्द-संयुतः ॥ समाचरेत् नित्यकृत्यम् स्नान-आदिकम् अतन्द्रितः ॥ २६ ॥
prātar utthāya medhāvī parama-ānanda-saṃyutaḥ .. samācaret nityakṛtyam snāna-ādikam atandritaḥ .. 26 ..
शिवालये ततो गत्वा पूजयित्वा यथाविधि ॥ नमस्कृत्य शिवं पश्चात्संकल्पं सम्यगाचरेत् ॥ २७ ॥
शिवालये ततस् गत्वा पूजयित्वा यथाविधि ॥ नमस्कृत्य शिवम् पश्चात् संकल्पम् सम्यक् आचरेत् ॥ २७ ॥
śivālaye tatas gatvā pūjayitvā yathāvidhi .. namaskṛtya śivam paścāt saṃkalpam samyak ācaret .. 27 ..
देवदेव महादेव नीलकण्ठ नमोऽस्तु ते ॥ कर्तुमिच्छाम्यहं देव शिवरात्रिव्रतं तव ॥ २८ ॥
देवदेव महादेव नीलकण्ठ नमः अस्तु ते ॥ कर्तुम् इच्छामि अहम् देव शिवरात्रि-व्रतम् तव ॥ २८ ॥
devadeva mahādeva nīlakaṇṭha namaḥ astu te .. kartum icchāmi aham deva śivarātri-vratam tava .. 28 ..
तव प्रभावाद्देवेश निर्विघ्नेन भवेदिति ॥ कामाद्याः शत्रवो मां वै पीडां कुर्वन्तु नैव हि॥२९॥
तव प्रभावात् देवेश निर्विघ्नेन भवेत् इति ॥ काम-आद्याः शत्रवः माम् वै पीडाम् कुर्वन्तु ना एव हि॥२९॥
tava prabhāvāt deveśa nirvighnena bhavet iti .. kāma-ādyāḥ śatravaḥ mām vai pīḍām kurvantu nā eva hi..29..
एवं संकल्पमास्थाय पूजाद्रव्यं समाहरेत्॥सुस्थले चैव यल्लिंगं प्रसिद्धं चागमेषु वै॥4.38.३०॥
एवम् संकल्पम् आस्थाय पूजा-द्रव्यम् समाहरेत्॥सुस्थले च एव यत् लिंगम् प्रसिद्धम् च आगमेषु वै॥४।३८।३०॥
evam saṃkalpam āsthāya pūjā-dravyam samāharet..susthale ca eva yat liṃgam prasiddham ca āgameṣu vai..4.38.30..
रात्रौ तत्र स्वयं गत्वा संपाद्य विधिमुत्तमम्॥शिवस्य दक्षिणे भागे पश्चिमे वा स्थले शुभे
रात्रौ तत्र स्वयम् गत्वा संपाद्य विधिम् उत्तमम्॥शिवस्य दक्षिणे भागे पश्चिमे वा स्थले शुभे
rātrau tatra svayam gatvā saṃpādya vidhim uttamam..śivasya dakṣiṇe bhāge paścime vā sthale śubhe
निधाय चैव तद्द्रव्यं पूजार्थं शिवसन्निधौ ॥ पुनः स्नायात्तदा तत्र विधिपूर्वं नरोत्तमः ॥ ३२ ॥
निधाय च एव तत् द्रव्यम् पूजा-अर्थम् शिव-सन्निधौ ॥ पुनर् स्नायात् तदा तत्र विधि-पूर्वम् नरोत्तमः ॥ ३२ ॥
nidhāya ca eva tat dravyam pūjā-artham śiva-sannidhau .. punar snāyāt tadā tatra vidhi-pūrvam narottamaḥ .. 32 ..
परिधाय शुभं वस्त्रमन्तर्वासश्शुभन्तथा॥आचम्य च त्रिवारं हि पूजारंभं समाचरेत् ॥ ३३॥
परिधाय शुभम् वस्त्रम् अन्तर्वासः शुभन् तथा॥आचम्य च त्रि-वारम् हि पूजा-आरंभम् समाचरेत् ॥ ३३॥
paridhāya śubham vastram antarvāsaḥ śubhan tathā..ācamya ca tri-vāram hi pūjā-āraṃbham samācaret .. 33..
यस्य मंत्रस्य यद्द्रव्यं तेन पूजां समाचरेत्॥अमंत्रकं न कर्तव्यं पूजनं तु हरस्य च ॥ ३४॥
यस्य मंत्रस्य यत् द्रव्यम् तेन पूजाम् समाचरेत्॥अमंत्रकम् न कर्तव्यम् पूजनम् तु हरस्य च ॥ ३४॥
yasya maṃtrasya yat dravyam tena pūjām samācaret..amaṃtrakam na kartavyam pūjanam tu harasya ca .. 34..
गीतैर्वाद्यैस्तथा नृत्यैर्भक्तिभावसमन्वितः ॥ पूजनं प्रथमे यामे कृत्वा मंत्रं जपेद्बुधः ॥ ३५॥
गीतैः वाद्यैः तथा नृत्यैः भक्ति-भाव-समन्वितः ॥ पूजनम् प्रथमे यामे कृत्वा मंत्रम् जपेत् बुधः ॥ ३५॥
gītaiḥ vādyaiḥ tathā nṛtyaiḥ bhakti-bhāva-samanvitaḥ .. pūjanam prathame yāme kṛtvā maṃtram japet budhaḥ .. 35..
पार्थिवं च तदा श्रेष्ठं विदध्यान्मंत्रवान्यदि ॥ कृतनित्यक्रियः पश्चात्पार्थिवं च समर्चयेत् ॥ ३६॥
पार्थिवम् च तदा श्रेष्ठम् विदध्यात् मंत्रवान् यदि ॥ कृत-नित्यक्रियः पश्चात् पार्थिवम् च समर्चयेत् ॥ ३६॥
pārthivam ca tadā śreṣṭham vidadhyāt maṃtravān yadi .. kṛta-nityakriyaḥ paścāt pārthivam ca samarcayet .. 36..
प्रथमं पार्थिवं कृत्वा पश्चात्स्थापनमाचरेत् ॥ स्तोत्रैर्नानाविधैर्देवं तोषयेद्वृषभध्वजम् ॥ ३७॥
प्रथमम् पार्थिवम् कृत्वा पश्चात् स्थापनम् आचरेत् ॥ स्तोत्रैः नानाविधैः देवम् तोषयेत् वृषभध्वजम् ॥ ३७॥
prathamam pārthivam kṛtvā paścāt sthāpanam ācaret .. stotraiḥ nānāvidhaiḥ devam toṣayet vṛṣabhadhvajam .. 37..
माहात्म्यं व्रतसंभूतं पठितव्यं सुधीमता ॥ श्रोतव्यं भक्तवर्येण व्रतसम्पूर्तिकाम्यया ॥ ३८॥
माहात्म्यम् व्रत-संभूतम् पठितव्यम् सु धीमता ॥ श्रोतव्यम् भक्त-वर्येण व्रत-सम्पूर्ति-काम्यया ॥ ३८॥
māhātmyam vrata-saṃbhūtam paṭhitavyam su dhīmatā .. śrotavyam bhakta-varyeṇa vrata-sampūrti-kāmyayā .. 38..
चतुर्ष्वपि च यामेषु मूर्तीनां च चतुष्टयम् ॥ कृत्वावाहनपूर्वं हि विसर्गावधि वै क्रमात् ॥ ३९ ॥
चतुर्षु अपि च यामेषु मूर्तीनाम् च चतुष्टयम् ॥ कृत्वा आवाहन-पूर्वम् हि विसर्ग-अवधि वै क्रमात् ॥ ३९ ॥
caturṣu api ca yāmeṣu mūrtīnām ca catuṣṭayam .. kṛtvā āvāhana-pūrvam hi visarga-avadhi vai kramāt .. 39 ..
कार्यं जागरणं प्रीत्या महोत्सव समन्वितम् ॥ प्रातः स्नात्वा पुनस्तत्र स्थापयेत्पूजयेच्छिवम् ॥ 4.38.४०॥
कार्यम् जागरणम् प्रीत्या महा-उत्सव-समन्वितम् ॥ प्रातर् स्नात्वा पुनर् तत्र स्थापयेत् पूजयेत् शिवम् ॥ ४।३८।४०॥
kāryam jāgaraṇam prītyā mahā-utsava-samanvitam .. prātar snātvā punar tatra sthāpayet pūjayet śivam .. 4.38.40..
ततः संप्रार्थयेच्छंभुं नतस्कन्धः कृताञ्जलिः ॥ कृतसम्पूर्ण व्रतको नत्वा तं च पुनः पुनः ॥ ४१ ॥
ततस् संप्रार्थयेत् शंभुम् नत-स्कन्धः कृताञ्जलिः ॥ कृत-सम्पूर्ण व्रतकः नत्वा तम् च पुनर् पुनर् ॥ ४१ ॥
tatas saṃprārthayet śaṃbhum nata-skandhaḥ kṛtāñjaliḥ .. kṛta-sampūrṇa vratakaḥ natvā tam ca punar punar .. 41 ..
नियमो यो महादेव कृतश्चैव त्वदाज्ञया ॥ विसृज्यते मया स्वामिन्व्रतं जातमनुत्तमम् ॥ ४२ ॥
नियमः यः महादेव कृतः च एव त्वद्-आज्ञया ॥ विसृज्यते मया स्वामिन् व्रतम् जातम् अनुत्तमम् ॥ ४२ ॥
niyamaḥ yaḥ mahādeva kṛtaḥ ca eva tvad-ājñayā .. visṛjyate mayā svāmin vratam jātam anuttamam .. 42 ..
व्रतेनानेन देवेश यथाशक्तिकृतेन च ॥ सन्तुष्टो भव शर्वाद्य कृपां कुरु ममोपरि ॥ ४३ ॥
व्रतेन अनेन देवेश यथाशक्ति कृतेन च ॥ सन्तुष्टः भव शर्व अद्य कृपाम् कुरु मम उपरि ॥ ४३ ॥
vratena anena deveśa yathāśakti kṛtena ca .. santuṣṭaḥ bhava śarva adya kṛpām kuru mama upari .. 43 ..
पुष्पाञ्जलिं शिवे दत्त्वा दद्याद्दानं यथाविधि ॥ नमस्कृत्य शिवायैव नियमं तं विसर्जयेत् ॥ ४४॥
पुष्प-अञ्जलिम् शिवे दत्त्वा दद्यात् दानम् यथाविधि ॥ नमस्कृत्य शिवाय एव नियमम् तम् विसर्जयेत् ॥ ४४॥
puṣpa-añjalim śive dattvā dadyāt dānam yathāvidhi .. namaskṛtya śivāya eva niyamam tam visarjayet .. 44..
यथाशक्ति द्विजाञ्छैवान्यतिनश्च विशेषतः ॥ भोजयित्वा सुसन्तोष्य स्वयं भोजनमाचरेत् ॥ ४५ ॥
यथाशक्ति द्विजान् शैव-अन्यतिनः च विशेषतः ॥ भोजयित्वा सु सन्तोष्य स्वयम् भोजनम् आचरेत् ॥ ४५ ॥
yathāśakti dvijān śaiva-anyatinaḥ ca viśeṣataḥ .. bhojayitvā su santoṣya svayam bhojanam ācaret .. 45 ..
यामेयामे यथा पूजा कार्या भक्तवरैर्हरे ॥ शिवरात्रौ विशेषेण तामहं कथयामि ते ॥ ।४६॥
यामेयामे यथा पूजा कार्या भक्त-वरैः हरे ॥ शिवरात्रौ विशेषेण ताम् अहम् कथयामि ते ॥ ।४६॥
yāmeyāme yathā pūjā kāryā bhakta-varaiḥ hare .. śivarātrau viśeṣeṇa tām aham kathayāmi te .. .46..
प्रथमे चैव यामे च स्थापितं पार्थिवं हरे ॥ पूजयेत्परया भक्त्या सूपचारैरनेकशः ॥ ४७ ॥
प्रथमे च एव यामे च स्थापितम् पार्थिवम् हरे ॥ पूजयेत् परया भक्त्या सु उपचारैः अनेकशस् ॥ ४७ ॥
prathame ca eva yāme ca sthāpitam pārthivam hare .. pūjayet parayā bhaktyā su upacāraiḥ anekaśas .. 47 ..
पंचद्रव्यैश्च प्रथमं पूजनीयो हरस्सदा ॥ तस्य तस्य च मन्त्रेण पृथग्द्रव्यं समर्पयेत् ॥ ४८॥
पंच-द्रव्यैः च प्रथमम् पूजनीयः हरः सदा ॥ तस्य तस्य च मन्त्रेण पृथक् द्रव्यम् समर्पयेत् ॥ ४८॥
paṃca-dravyaiḥ ca prathamam pūjanīyaḥ haraḥ sadā .. tasya tasya ca mantreṇa pṛthak dravyam samarpayet .. 48..
तच्च द्रव्यं समर्प्यैव जलधारां ददेत वै ॥ पश्चाच्च जलधाराभिर्द्रव्याणुत्तारयेद्बुधः ॥ ४९ ॥
तत् च द्रव्यम् समर्प्य एव जल-धाराम् ददेत वै ॥ पश्चात् च जल-धाराभिः द्रव्याणि उत्तारयेत् बुधः ॥ ४९ ॥
tat ca dravyam samarpya eva jala-dhārām dadeta vai .. paścāt ca jala-dhārābhiḥ dravyāṇi uttārayet budhaḥ .. 49 ..
शतमष्टोत्तरं मन्त्रं पठित्वा जलधारया ॥ पूजयेच्च शिवं तत्र निर्गुणं गुणरूपिणम् ॥ 4.38.५० ॥
शतम् अष्ट-उत्तरम् मन्त्रम् पठित्वा जल-धारया ॥ पूजयेत् च शिवम् तत्र निर्गुणम् गुण-रूपिणम् ॥ ४।३८।५० ॥
śatam aṣṭa-uttaram mantram paṭhitvā jala-dhārayā .. pūjayet ca śivam tatra nirguṇam guṇa-rūpiṇam .. 4.38.50 ..
गुरुदत्तेन मंत्रेण पूजयेद्वृषभध्जम्॥अन्यथा नाममंत्रेण पूजयेद्वै सदाशिवम् ॥ ५१॥
गुरु-दत्तेन मंत्रेण पूजयेत् वृषभध्जम्॥अन्यथा नाम-मंत्रेण पूजयेत् वै सदाशिवम् ॥ ५१॥
guru-dattena maṃtreṇa pūjayet vṛṣabhadhjam..anyathā nāma-maṃtreṇa pūjayet vai sadāśivam .. 51..
चन्दनेन विचित्रेण तण्डुलैश्चाप्यखण्डितैः ॥ कृष्णैश्चैव तिलैः पूजा कार्या शंभोः परात्मनः ॥ ५२॥
चन्दनेन विचित्रेण तण्डुलैः च अपि अखण्डितैः ॥ कृष्णैः च एव तिलैः पूजा कार्या शंभोः परात्मनः ॥ ५२॥
candanena vicitreṇa taṇḍulaiḥ ca api akhaṇḍitaiḥ .. kṛṣṇaiḥ ca eva tilaiḥ pūjā kāryā śaṃbhoḥ parātmanaḥ .. 52..
पुष्पैश्च शतपत्रैश्च करवीरैस्तथा पुनः ॥ अष्टभिर्नाममंत्रैश्चार्पयेत्पुष्पाणि शंकरे ॥ ५३ ॥
पुष्पैः च शतपत्रैः च करवीरैः तथा पुनर् ॥ अष्टभिः नाम-मंत्रैः च अर्पयेत् पुष्पाणि शंकरे ॥ ५३ ॥
puṣpaiḥ ca śatapatraiḥ ca karavīraiḥ tathā punar .. aṣṭabhiḥ nāma-maṃtraiḥ ca arpayet puṣpāṇi śaṃkare .. 53 ..
भवः शर्वस्तथा रुद्रः पुनः पशुपतिस्तथा ॥ उग्रो महांस्तथा भीम ईशान इति तानि वै ॥ ५४ ॥
भवः शर्वः तथा रुद्रः पुनर् पशुपतिः तथा ॥ उग्रः महान् तथा भीमः ईशानः इति तानि वै ॥ ५४ ॥
bhavaḥ śarvaḥ tathā rudraḥ punar paśupatiḥ tathā .. ugraḥ mahān tathā bhīmaḥ īśānaḥ iti tāni vai .. 54 ..
श्रीपूर्वैश्च चतुर्थ्यंतैर्नामभिः पूजयेच्छिवम् ॥ पश्चाद्धूपं च दीपं च नैवेद्यं च ततः परम् ॥ ५५ ॥
श्री-पूर्वैः च चतुर्थी-अंतैः नामभिः पूजयेत् शिवम् ॥ पश्चात् धूपम् च दीपम् च नैवेद्यम् च ततस् परम् ॥ ५५ ॥
śrī-pūrvaiḥ ca caturthī-aṃtaiḥ nāmabhiḥ pūjayet śivam .. paścāt dhūpam ca dīpam ca naivedyam ca tatas param .. 55 ..
आद्ये यामे च नैवेद्यं पक्वान्नं कारयेद्बुधः ॥ अर्घं च श्रीफलं दत्त्वा ताम्बूलं च निवेदयेत् ॥ ५६ ॥
आद्ये यामे च नैवेद्यम् पक्व-अन्नम् कारयेत् बुधः ॥ अर्घम् च श्रीफलम् दत्त्वा ताम्बूलम् च निवेदयेत् ॥ ५६ ॥
ādye yāme ca naivedyam pakva-annam kārayet budhaḥ .. argham ca śrīphalam dattvā tāmbūlam ca nivedayet .. 56 ..
नमस्कारं ततो ध्यानं जपः प्रोक्तो गुरोर्मनोः ॥ अन्यथा पंचवर्णेन तोषयेत्तेन शंकरम् ॥ ५७ ॥
नमस्कारम् ततस् ध्यानम् जपः प्रोक्तः गुरोः मनोः ॥ अन्यथा पंच-वर्णेन तोषयेत् तेन शंकरम् ॥ ५७ ॥
namaskāram tatas dhyānam japaḥ proktaḥ guroḥ manoḥ .. anyathā paṃca-varṇena toṣayet tena śaṃkaram .. 57 ..
धेनुमुद्रां प्रदर्श्याथ सुजलैस्तर्पणं चरेत् ॥ पंचब्राह्मणभोजं च कल्पयेद्वै यथाबलम् ॥ ५८ ॥
धेनुमुद्राम् प्रदर्श्य अथ सु जलैः तर्पणम् चरेत् ॥ पंच-ब्राह्मण-भोजम् च कल्पयेत् वै यथाबलम् ॥ ५८ ॥
dhenumudrām pradarśya atha su jalaiḥ tarpaṇam caret .. paṃca-brāhmaṇa-bhojam ca kalpayet vai yathābalam .. 58 ..
महोत्सवश्च कर्तव्यो यावद्यामो भवेदिह ॥ ततः पूजाफलं तस्मै निवेद्य च विसर्जयेत् ॥ ५९॥
महा-उत्सवः च कर्तव्यः यावत् यामः भवेत् इह ॥ ततस् पूजा-फलम् तस्मै निवेद्य च विसर्जयेत् ॥ ५९॥
mahā-utsavaḥ ca kartavyaḥ yāvat yāmaḥ bhavet iha .. tatas pūjā-phalam tasmai nivedya ca visarjayet .. 59..
पुनर्द्वितीये यामे च संकल्पं सुसमा चरेत् ॥ अथवैकदैव संकल्प्य कुर्यात्पूजां तथाविधाम् ॥ 4.38.६०॥
पुनर् द्वितीये यामे च संकल्पम् सु समा चरेत् ॥ अथवा एकदा एव संकल्प्य कुर्यात् पूजाम् तथाविधाम् ॥ ४।३८।६०॥
punar dvitīye yāme ca saṃkalpam su samā caret .. athavā ekadā eva saṃkalpya kuryāt pūjām tathāvidhām .. 4.38.60..
द्रव्यैः पूर्वैस्तथा पूजां कृत्वा धारां समर्पयेत्॥पूर्वतो द्विगुणं मंत्रं समुच्चार्यार्चयेच्छिवम् ॥ ६१ ॥
द्रव्यैः पूर्वैः तथा पूजाम् कृत्वा धाराम् समर्पयेत्॥पूर्वतस् द्विगुणम् मंत्रम् समुच्चार्य अर्चयेत् शिवम् ॥ ६१ ॥
dravyaiḥ pūrvaiḥ tathā pūjām kṛtvā dhārām samarpayet..pūrvatas dviguṇam maṃtram samuccārya arcayet śivam .. 61 ..
पूर्वैस्तिलयवैश्चाथ कमलैः पूजयेच्छिवम् ॥ बिल्वपत्रैर्विशेषेण पूजयेत्परमेश्वरम् ॥ ६२॥
पूर्वैः तिल-यवैः च अथ कमलैः पूजयेत् शिवम् ॥ बिल्व-पत्रैः विशेषेण पूजयेत् परमेश्वरम् ॥ ६२॥
pūrvaiḥ tila-yavaiḥ ca atha kamalaiḥ pūjayet śivam .. bilva-patraiḥ viśeṣeṇa pūjayet parameśvaram .. 62..
अर्घ्यं च बीजपूरेण नैवेद्यं पायसन्तथा ॥ मंत्रावृत्तिस्तु द्विगुणा पूर्वतोऽपि जनार्दन ॥ ६३ ॥
अर्घ्यम् च बीजपूरेण नैवेद्यम् पायसम् तथा ॥ मंत्र-आवृत्तिः तु द्विगुणा पूर्वतस् अपि जनार्दन ॥ ६३ ॥
arghyam ca bījapūreṇa naivedyam pāyasam tathā .. maṃtra-āvṛttiḥ tu dviguṇā pūrvatas api janārdana .. 63 ..
ततश्च ब्राह्मणानां हि भोज्यो संकल्पमाचरेत् ॥ अन्यत्सर्वं तथा कुर्याद्यावच्च द्वितयावधि ॥ ६४॥
ततस् च ब्राह्मणानाम् हि संकल्पम् आचरेत् ॥ अन्यत् सर्वम् तथा कुर्यात् यावत् च द्वितय-अवधि ॥ ६४॥
tatas ca brāhmaṇānām hi saṃkalpam ācaret .. anyat sarvam tathā kuryāt yāvat ca dvitaya-avadhi .. 64..
यामे प्राप्ते तृतीये च पूर्ववत्पूजनं चरेत्॥यवस्थाने च गोधूमाः पुष्पाण्यर्कभवानि च ॥ ६५॥
यामे प्राप्ते तृतीये च पूर्ववत् पूजनम् चरेत्॥यव-स्थाने च गोधूमाः पुष्पाणि अर्क-भवानि च ॥ ६५॥
yāme prāpte tṛtīye ca pūrvavat pūjanam caret..yava-sthāne ca godhūmāḥ puṣpāṇi arka-bhavāni ca .. 65..
धूपैश्च विविधैस्तत्र दीपैर्नानाविधैरपि ॥ नैवेद्यापूपकैर्विष्णो शाकैर्नानाविधैरपि ॥ ६६ ॥
धूपैः च विविधैः तत्र दीपैः नानाविधैः अपि ॥ नैवेद्य-अपूपकैः विष्णो शाकैः नानाविधैः अपि ॥ ६६ ॥
dhūpaiḥ ca vividhaiḥ tatra dīpaiḥ nānāvidhaiḥ api .. naivedya-apūpakaiḥ viṣṇo śākaiḥ nānāvidhaiḥ api .. 66 ..
कृत्वैव चाथ कर्पूरैरारार्तिक विधिं चरेत ।अर्घ्यं सदाडिमं दद्याद्द्विगुणं जपमाचरेत् ॥ ६७ ॥
कृत्वा एव च अथ कर्पूरैः आरार्तिक विधिम् चरेत ।अर्घ्यम् स दाडिमम् दद्यात् द्विगुणम् जपम् आचरेत् ॥ ६७ ॥
kṛtvā eva ca atha karpūraiḥ ārārtika vidhim careta .arghyam sa dāḍimam dadyāt dviguṇam japam ācaret .. 67 ..
ततश्च ब्रह्मभोजस्य संकल्पं च सदक्षिणम्॥उत्सवं पूर्ववत्कुर्या द्यावद्यामावधिर्भवेत् ॥ ६८ ॥
ततस् च ब्रह्मभोजस्य संकल्पम् च स दक्षिणम्॥उत्सवम् पूर्ववत् कुर्याः द्यावत् याम-अवधिः भवेत् ॥ ६८ ॥
tatas ca brahmabhojasya saṃkalpam ca sa dakṣiṇam..utsavam pūrvavat kuryāḥ dyāvat yāma-avadhiḥ bhavet .. 68 ..
यामे चतुर्थे संप्राते कुर्यात्तस्य विसर्जनम् ॥ प्रयोगादि पुनः कृत्वा पूजां विधिवदाचरेत् ॥ ६९॥
यामे चतुर्थे संप्राते कुर्यात् तस्य विसर्जनम् ॥ प्रयोग-आदि पुनर् कृत्वा पूजाम् विधिवत् आचरेत् ॥ ६९॥
yāme caturthe saṃprāte kuryāt tasya visarjanam .. prayoga-ādi punar kṛtvā pūjām vidhivat ācaret .. 69..
माषैः प्रियंगुभिर्मुद्गैस्सप्तधान्यैस्तथाथवा ॥ शंखीपुष्पैर्बिल्वपत्रैः पूजयेत्परमेश्वरम् ॥ 4.38.७० ॥
माषैः प्रियंगुभिः मुद्गैः सप्तधान्यैः तथा अथवा ॥ शंखी-पुष्पैः बिल्व-पत्रैः पूजयेत् परमेश्वरम् ॥ ४।३८।७० ॥
māṣaiḥ priyaṃgubhiḥ mudgaiḥ saptadhānyaiḥ tathā athavā .. śaṃkhī-puṣpaiḥ bilva-patraiḥ pūjayet parameśvaram .. 4.38.70 ..
नैवेद्यं तत्र दद्याद्वै मधुरैर्विविधैरपि॥अथवा चैव माषान्नैस्तोषयेच्च सदाशिवम् ॥ ७१॥
नैवेद्यम् तत्र दद्यात् वै मधुरैः विविधैः अपि॥अथवा च एव माष-अन्नैः तोषयेत् च सदाशिवम् ॥ ७१॥
naivedyam tatra dadyāt vai madhuraiḥ vividhaiḥ api..athavā ca eva māṣa-annaiḥ toṣayet ca sadāśivam .. 71..
अर्घं दद्यात्कदल्याश्च फलेनैवाथवा हरे ॥ विविधैश्च फलैश्चैव दद्यादर्घ्यं शिवाय च ॥ ७२ ॥
अर्घम् दद्यात् कदल्याः च फलेन एव अथवा हरे ॥ विविधैः च फलैः च एव दद्यात् अर्घ्यम् शिवाय च ॥ ७२ ॥
argham dadyāt kadalyāḥ ca phalena eva athavā hare .. vividhaiḥ ca phalaiḥ ca eva dadyāt arghyam śivāya ca .. 72 ..
पूर्वतो द्विगुणं कुर्यान्मंत्रजापं नरोत्तमः ॥ संकल्पं ब्रह्मभोजस्य यथाशक्ति चरेद्बुधः ॥ ७३॥
पूर्वतस् द्विगुणम् कुर्यात् मंत्र-जापम् नर-उत्तमः ॥ संकल्पम् ब्रह्मभोजस्य यथाशक्ति चरेत् बुधः ॥ ७३॥
pūrvatas dviguṇam kuryāt maṃtra-jāpam nara-uttamaḥ .. saṃkalpam brahmabhojasya yathāśakti caret budhaḥ .. 73..
गीतैर्वाद्यैस्तथा नृत्यैर्नयेत्कालं च भक्तितः ॥ महोत्सवैर्भक्तजनैर्यावत्स्यादरुणोदयः ॥ ७४ ॥
गीतैः वाद्यैः तथा नृत्यैः नयेत् कालम् च भक्तितः ॥ महा-उत्सवैः भक्त-जनैः यावत् स्यात् अरुण-उदयः ॥ ७४ ॥
gītaiḥ vādyaiḥ tathā nṛtyaiḥ nayet kālam ca bhaktitaḥ .. mahā-utsavaiḥ bhakta-janaiḥ yāvat syāt aruṇa-udayaḥ .. 74 ..
उदये च तथा जाते पुनस्स्नात्वार्चयेच्छिवम्॥नानापूजोपहारैश्च स्वाभिषेकमथाचरेत् ॥ ७५॥
उदये च तथा जाते पुनर् स्नात्वा अर्चयेत् शिवम्॥नाना पूजा-उपहारैः च स्व-अभिषेकम् अथ आचरेत् ॥ ७५॥
udaye ca tathā jāte punar snātvā arcayet śivam..nānā pūjā-upahāraiḥ ca sva-abhiṣekam atha ācaret .. 75..
नानाविधानि दानानि भोज्यं च विविधन्तथा ॥ ब्राह्मणानां यतीनां च कर्तव्यं यामसंख्यया ॥ ७६ ॥
नानाविधानि दानानि भोज्यम् च विविधन् तथा ॥ ब्राह्मणानाम् यतीनाम् च कर्तव्यम् याम-संख्यया ॥ ७६ ॥
nānāvidhāni dānāni bhojyam ca vividhan tathā .. brāhmaṇānām yatīnām ca kartavyam yāma-saṃkhyayā .. 76 ..
शंकराय नमस्कृत्य पुष्पाञ्जलिमथाचरेत् ॥ प्रार्थयेत्सुस्तुतिं कृत्वा मन्त्रैरेतैर्विचक्षणः ॥ ७७ ॥
शंकराय नमस्कृत्य पुष्प-अञ्जलिम् अथ आचरेत् ॥ प्रार्थयेत् सु स्तुतिम् कृत्वा मन्त्रैः एतैः विचक्षणः ॥ ७७ ॥
śaṃkarāya namaskṛtya puṣpa-añjalim atha ācaret .. prārthayet su stutim kṛtvā mantraiḥ etaiḥ vicakṣaṇaḥ .. 77 ..
तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ॥ कृपानिधे इति ज्ञात्वा यथा योग्यं तथा कुरु ॥ ७८ ॥
तावकः त्वद्-गत-प्राणः त्वद्-चित्तः अहम् सदा मृड ॥ कृपा-निधे इति ज्ञात्वा यथा योग्यम् तथा कुरु ॥ ७८ ॥
tāvakaḥ tvad-gata-prāṇaḥ tvad-cittaḥ aham sadā mṛḍa .. kṛpā-nidhe iti jñātvā yathā yogyam tathā kuru .. 78 ..
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ॥ कृपानिधित्वाज्ज्ञात्वैव भूतनाथ प्रसीद मे ॥ ७९॥
अज्ञानात् यदि वा ज्ञानात् जप-पूजा-आदिकम् मया ॥ कृपा-निधि-त्वात् ज्ञात्वा एव भूतनाथ प्रसीद मे ॥ ७९॥
ajñānāt yadi vā jñānāt japa-pūjā-ādikam mayā .. kṛpā-nidhi-tvāt jñātvā eva bhūtanātha prasīda me .. 79..
अनेनैवोपवासेन यज्जातं फलमेव च ॥ तेनैव प्रीयतां देवः शंकरः सुखदायकः॥4.38.८०॥
अनेन एव उपवासेन यत् जातम् फलम् एव च ॥ तेन एव प्रीयताम् देवः शंकरः सुख-दायकः॥४।३८।८०॥
anena eva upavāsena yat jātam phalam eva ca .. tena eva prīyatām devaḥ śaṃkaraḥ sukha-dāyakaḥ..4.38.80..
कुले मम महादेव भजनं तेऽस्तु सर्वदा ॥ माभूत्तस्य कुले जन्म यत्र त्वं नहि देवता ॥ ८१॥
कुले मम महादेव भजनम् ते अस्तु सर्वदा ॥ मा अभूत् तस्य कुले जन्म यत्र त्वम् नहि देवता ॥ ८१॥
kule mama mahādeva bhajanam te astu sarvadā .. mā abhūt tasya kule janma yatra tvam nahi devatā .. 81..
पुष्पांजलिं समर्प्यैवं तिलकाशिष एव च॥गृह्णीयाद्ब्राह्मणेभ्यश्च ततश्शंभुं विसर्जयेत् ॥ ८२॥
पुष्प-अंजलिम् समर्प्य एवम् तिलक-आशिषः एव च॥गृह्णीयात् ब्राह्मणेभ्यः च ततस् शंभुम् विसर्जयेत् ॥ ८२॥
puṣpa-aṃjalim samarpya evam tilaka-āśiṣaḥ eva ca..gṛhṇīyāt brāhmaṇebhyaḥ ca tatas śaṃbhum visarjayet .. 82..
एवं व्रतं कृतं येन तस्माद्दूरो हरो न हि ॥ न शक्यते फलं वक्तुं नादेयं विद्यते मम ॥ ८३ ॥
एवम् व्रतम् कृतम् येन तस्मात् दूरः हरः न हि ॥ न शक्यते फलम् वक्तुम् न आदेयम् विद्यते मम ॥ ८३ ॥
evam vratam kṛtam yena tasmāt dūraḥ haraḥ na hi .. na śakyate phalam vaktum na ādeyam vidyate mama .. 83 ..
अनायासतया चेद्वै कृतं व्रतमिदम्परम् ॥ तस्य वै मुक्तिबीजं च जातं नात्र विचारणा ॥ ८४॥
अनायास-तया चेद् वै कृतम् व्रतम् इदम् परम् ॥ तस्य वै मुक्ति-बीजम् च जातम् न अत्र विचारणा ॥ ८४॥
anāyāsa-tayā ced vai kṛtam vratam idam param .. tasya vai mukti-bījam ca jātam na atra vicāraṇā .. 84..
प्रतिमासं व्रतं चैव कर्तव्यं भक्तितो नरैः ॥ उद्यापनविधिं पश्चात्कृत्वा सांगफलं लभेत् ॥ ८५॥
प्रतिमासम् व्रतम् च एव कर्तव्यम् भक्तितः नरैः ॥ उद्यापन-विधिम् पश्चात् कृत्वा स अंग-फलम् लभेत् ॥ ८५॥
pratimāsam vratam ca eva kartavyam bhaktitaḥ naraiḥ .. udyāpana-vidhim paścāt kṛtvā sa aṃga-phalam labhet .. 85..
व्रतस्य करणान्नूनं शिवोऽहं सर्वदुःखहा ॥ दद्मि भुक्तिं च मुक्तिं च सर्वं वै वाञ्छितं फलम् ॥ ८६॥
व्रतस्य करणात् नूनम् शिवः अहम् सर्व-दुःख-हा ॥ दद्मि भुक्तिम् च मुक्तिम् च सर्वम् वै वाञ्छितम् फलम् ॥ ८६॥
vratasya karaṇāt nūnam śivaḥ aham sarva-duḥkha-hā .. dadmi bhuktim ca muktim ca sarvam vai vāñchitam phalam .. 86..
सूत उवाच ।।
इति शिववचनं निशम्य विष्णुर्हिततरमद्भुतमाजगाम धाम ॥ तदनु व्रतमुत्तमं जनेषु समचरदात्महितेषु चैतदेव ॥ ८७ ॥
इति शिव-वचनम् निशम्य विष्णुः हिततरम् अद्भुतम् आजगाम धाम ॥ तदनु व्रतम् उत्तमम् जनेषु समचरत् आत्म-हितेषु च एतत् एव ॥ ८७ ॥
iti śiva-vacanam niśamya viṣṇuḥ hitataram adbhutam ājagāma dhāma .. tadanu vratam uttamam janeṣu samacarat ātma-hiteṣu ca etat eva .. 87 ..
कदाचिन्नारदायाथ शिवरात्रिव्रतन्त्विदम् ॥ भुक्तिमुक्तिप्रदं दिव्यं कथयामास केशवः ॥ ८८ ॥
कदाचिद् नारदाय अथ शिवरात्रि-व्रतन्तु इदम् ॥ भुक्ति-मुक्ति-प्रदम् दिव्यम् कथयामास केशवः ॥ ८८ ॥
kadācid nāradāya atha śivarātri-vratantu idam .. bhukti-mukti-pradam divyam kathayāmāsa keśavaḥ .. 88 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणंनामाष्टत्रिंशोऽध्यायः।३८॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणम् नाम अष्टत्रिंशः अध्यायः।३८॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām vyādheśvaramāhātmye śivarātrivratamahimanirūpaṇam nāma aṣṭatriṃśaḥ adhyāyaḥ.38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In