| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
कदाचित्स ऋषिश्रेष्ठो ह्यत्रिर्ब्रह्मविदां वरः ॥ जागृतश्च जलं देहि प्रत्युवाच प्रियामिति ॥ १ ॥
कदाचिद् सः ऋषि-श्रेष्ठः हि अत्रिः ब्रह्म-विदाम् वरः ॥ जागृतः च जलम् देहि प्रत्युवाच प्रियाम् इति ॥ १ ॥
kadācid saḥ ṛṣi-śreṣṭhaḥ hi atriḥ brahma-vidām varaḥ .. jāgṛtaḥ ca jalam dehi pratyuvāca priyām iti .. 1 ..
सापि साध्वी त्ववश्यं च गृहीत्वाथ कमण्डलुम् ॥ जगाम विपिने तत्र जलं मे नीयते कुतः ॥ २॥
सा अपि साध्वी तु अवश्यम् च गृहीत्वा अथ कमण्डलुम् ॥ जगाम विपिने तत्र जलम् मे नीयते कुतस् ॥ २॥
sā api sādhvī tu avaśyam ca gṛhītvā atha kamaṇḍalum .. jagāma vipine tatra jalam me nīyate kutas .. 2..
किं करोमि क्व गच्छामि कुतो नीयेत वै जलम्॥इति विस्मयमापन्ना तां गंगां हि ददर्श सा॥ ३ ॥
किम् करोमि क्व गच्छामि कुतस् नीयेत वै जलम्॥इति विस्मयम् आपन्ना ताम् गंगाम् हि ददर्श सा॥ ३ ॥
kim karomi kva gacchāmi kutas nīyeta vai jalam..iti vismayam āpannā tām gaṃgām hi dadarśa sā.. 3 ..
तामनुव्रजती यावत् साब्रवीच्च सदा हि ताम् ॥ गंगा सरिद्वरा देवी बिभ्रती सुन्दरां तनुम्॥४॥
ताम् अनुव्रजती यावत् सा ब्रवीत् च सदा हि ताम् ॥ गंगा सरित्-वरा देवी बिभ्रती सुन्दराम् तनुम्॥४॥
tām anuvrajatī yāvat sā bravīt ca sadā hi tām .. gaṃgā sarit-varā devī bibhratī sundarām tanum..4..
गंगोवाच ।।
प्रसन्नास्मि च ते देवि कुत्र यासि वदाधुना॥धन्या त्वं सुभगे सत्यं तवाज्ञां च करोम्यहम् ॥ ५॥
प्रसन्ना अस्मि च ते देवि कुत्र यासि वद अधुना॥धन्या त्वम् सुभगे सत्यम् तव आज्ञाम् च करोमि अहम् ॥ ५॥
prasannā asmi ca te devi kutra yāsi vada adhunā..dhanyā tvam subhage satyam tava ājñām ca karomi aham .. 5..
सूत उवाच।।
तद्वचश्च तदा श्रुत्वा ऋषिपत्नी तपस्विनी॥प्रत्युवाच वचः प्रीत्या स्वयं सुचकिता द्विजाः ॥ ६ ॥
तत् वचः च तदा श्रुत्वा ऋषि-पत्नी तपस्विनी॥प्रत्युवाच वचः प्रीत्या स्वयम् सु चकिताः द्विजाः ॥ ६ ॥
tat vacaḥ ca tadā śrutvā ṛṣi-patnī tapasvinī..pratyuvāca vacaḥ prītyā svayam su cakitāḥ dvijāḥ .. 6 ..
अनसूयोवाच ।।
का त्वं कमलपत्राक्षि कुतो वा त्वं समागता ॥ तथ्यं ब्रूहि कृपां कृत्वा साध्वी सुप्रवदा सती॥७॥
का त्वम् कमल-पत्र-अक्षि कुतस् वा त्वम् समागता ॥ तथ्यम् ब्रूहि कृपाम् कृत्वा साध्वी सु प्रवदा सती॥७॥
kā tvam kamala-patra-akṣi kutas vā tvam samāgatā .. tathyam brūhi kṛpām kṛtvā sādhvī su pravadā satī..7..
सूत उवाच।।
इत्युक्ते च तया तत्र मुनिपत्न्या मुनीश्वराः॥सरिद्वरा दिव्यरूपा गंगा वाक्यमथाब्रवीत्॥८॥
इति उक्ते च तया तत्र मुनि-पत्न्या मुनि-ईश्वराः॥सरित्-वरा दिव्य-रूपा गंगा वाक्यम् अथ अब्रवीत्॥८॥
iti ukte ca tayā tatra muni-patnyā muni-īśvarāḥ..sarit-varā divya-rūpā gaṃgā vākyam atha abravīt..8..
गंगोवाच।।
स्वामिनः सेवनं दृष्ट्वा शिवस्य च परात्मनः ॥ साध्वि धर्मं च ते दृष्ट्वा स्थितास्मि तव सन्निधौ ॥ ९॥
स्वामिनः सेवनम् दृष्ट्वा शिवस्य च परात्मनः ॥ साध्वि धर्मम् च ते दृष्ट्वा स्थिता अस्मि तव सन्निधौ ॥ ९॥
svāminaḥ sevanam dṛṣṭvā śivasya ca parātmanaḥ .. sādhvi dharmam ca te dṛṣṭvā sthitā asmi tava sannidhau .. 9..
अहं गंगा समायाता भजनात्ते शुचिस्मिते॥वशीभूता ह्यहं जाता यदिच्छसि वृणीष्व तत् ॥ 4.4.१०॥
अहम् गंगा समायाता भजनात् ते शुचि-स्मिते॥वशीभूता हि अहम् जाता यत् इच्छसि वृणीष्व तत् ॥ ४।४।१०॥
aham gaṃgā samāyātā bhajanāt te śuci-smite..vaśībhūtā hi aham jātā yat icchasi vṛṇīṣva tat .. 4.4.10..
सूत उवाच।।
इत्युक्ते गंगया साध्वी नमस्कृत्य पुरः स्थिता ॥ उवाचेति जलं देहि चेत्प्रसन्ना ममाऽधुना ॥ ११॥
इति उक्ते गंगया साध्वी नमस्कृत्य पुरस् स्थिता ॥ उवाच इति जलम् देहि चेद् प्रसन्ना मम अ अधुना ॥ ११॥
iti ukte gaṃgayā sādhvī namaskṛtya puras sthitā .. uvāca iti jalam dehi ced prasannā mama a adhunā .. 11..
इत्येतद्वचनं श्रुत्वा गर्तं कुर्ष्विति साऽब्रवीत् ।शीघ्रं चायाच्च तत्कृत्वा स्थिता तत्क्षणमात्रतः ॥ १२॥
इति एतत् वचनम् श्रुत्वा गर्तम् कुर्षु इति सा अब्रवीत् ।शीघ्रम् च अयात् च तत् कृत्वा स्थिता तद्-क्षण-मात्रतः ॥ १२॥
iti etat vacanam śrutvā gartam kurṣu iti sā abravīt .śīghram ca ayāt ca tat kṛtvā sthitā tad-kṣaṇa-mātrataḥ .. 12..
तत्र सा च प्रविष्टा च जलरूपमभूत्तदा ॥ आश्चर्य्यं परमं गत्वा गृहीतं च जलं तया ॥ १३ ॥
तत्र सा च प्रविष्टा च जल-रूपम् अभूत् तदा ॥ आश्चर्य्यम् परमम् गत्वा गृहीतम् च जलम् तया ॥ १३ ॥
tatra sā ca praviṣṭā ca jala-rūpam abhūt tadā .. āścaryyam paramam gatvā gṛhītam ca jalam tayā .. 13 ..
उवाच वचनं चैतल्लोकानां सुखहेतवे ॥ अनसूया मुनेः पत्नी दिव्यरूपां सरिद्वराम् ॥ १४ ॥
उवाच वचनम् च एतत् लोकानाम् सुख-हेतवे ॥ अनसूया मुनेः पत्नी दिव्य-रूपाम् सरित्-वराम् ॥ १४ ॥
uvāca vacanam ca etat lokānām sukha-hetave .. anasūyā muneḥ patnī divya-rūpām sarit-varām .. 14 ..
अनसूयोवाच ।।
यदि त्वं सुप्रसन्ना मे वर्तसे च कृपामयि ॥ स्थातव्यं च त्वया तावन्मत्स्वामी यावदा व्रजेत् ॥ १५॥
यदि त्वम् सु प्रसन्ना मे वर्तसे च कृपा-मयि ॥ स्थातव्यम् च त्वया तावत् मद्-स्वामी यावदा व्रजेत् ॥ १५॥
yadi tvam su prasannā me vartase ca kṛpā-mayi .. sthātavyam ca tvayā tāvat mad-svāmī yāvadā vrajet .. 15..
सूत उवाच ।।
इति श्रुत्वानसूयाया वचनं सुखदं सताम्॥गंगोवाच प्रसन्नाति ह्यत्रेर्दास्यसि मेऽनघे ॥ १६॥
इति श्रुत्वा अनसूयायाः वचनम् सुख-दम् सताम्॥गंगा उवाच प्रसन्ना अति हि अत्रेः दास्यसि मे अनघे ॥ १६॥
iti śrutvā anasūyāyāḥ vacanam sukha-dam satām..gaṃgā uvāca prasannā ati hi atreḥ dāsyasi me anaghe .. 16..
इत्युक्ते च तया तत्र ह्यनपायि कृतन्तथा ॥ स्वामिने तज्जलं दिव्यं दत्त्वा तत्पुरतः स्थिता ॥ १७ ॥
इति उक्ते च तया तत्र हि अनपायि कृतम् तथा ॥ स्वामिने तत् जलम् दिव्यम् दत्त्वा तद्-पुरतस् स्थिता ॥ १७ ॥
iti ukte ca tayā tatra hi anapāyi kṛtam tathā .. svāmine tat jalam divyam dattvā tad-puratas sthitā .. 17 ..
स ऋषिश्चापि सुप्रीत्या स्वाचम्य विधिपूर्वकम् ॥ पपौ दिव्यं जलं तच्च पीत्वा सुखमवाप ह ॥ १८ ॥
सः ऋषिः च अपि सु प्रीत्या सु आचम्य विधि-पूर्वकम् ॥ पपौ दिव्यम् जलम् तत् च पीत्वा सुखम् अवाप ह ॥ १८ ॥
saḥ ṛṣiḥ ca api su prītyā su ācamya vidhi-pūrvakam .. papau divyam jalam tat ca pītvā sukham avāpa ha .. 18 ..
अहो नित्यं जलं यच्च पीयते तज्जलं न हि ॥ विचार्येति च तेनाशु परितश्चावलोकितम् ॥ १९॥
अहो नित्यम् जलम् यत् च पीयते तत् जलम् न हि ॥ विचार्य इति च तेन आशु परितस् च अवलोकितम् ॥ १९॥
aho nityam jalam yat ca pīyate tat jalam na hi .. vicārya iti ca tena āśu paritas ca avalokitam .. 19..
शुष्कान्वृक्षान्समालोक्य दिशो रूक्षतरास्तथा॥उवाच तामृषिश्रेष्ठो न जातं वर्षणं पुनः ॥ 4.4.२०॥
शुष्कान् वृक्षान् समालोक्य दिशः रूक्षतराः तथा॥उवाच ताम् ऋषि-श्रेष्ठः न जातम् वर्षणम् पुनर् ॥ ४।४।२०॥
śuṣkān vṛkṣān samālokya diśaḥ rūkṣatarāḥ tathā..uvāca tām ṛṣi-śreṣṭhaḥ na jātam varṣaṇam punar .. 4.4.20..
तदुक्तं तत्समाकर्ण्य नेतिनेति प्रियान्तदा ॥ तामुवाच पुनः सोऽपि जलं नीतं कुतस्त्वया ॥ २१ ॥
तत् उक्तम् तत् समाकर्ण्य न इति न इति प्रिय-अन्तदा ॥ ताम् उवाच पुनर् सः अपि जलम् नीतम् कुतस् त्वया ॥ २१ ॥
tat uktam tat samākarṇya na iti na iti priya-antadā .. tām uvāca punar saḥ api jalam nītam kutas tvayā .. 21 ..
इत्युक्ते तु तदा तेन विस्मयं परमं गता ॥ अनसूया स्वमनसि सचिन्ता तु मुनीश्वराः ॥ २२ ॥
इति उक्ते तु तदा तेन विस्मयम् परमम् गता ॥ अनसूया स्व-मनसि स चिन्ता तु मुनि-ईश्वराः ॥ २२ ॥
iti ukte tu tadā tena vismayam paramam gatā .. anasūyā sva-manasi sa cintā tu muni-īśvarāḥ .. 22 ..
निवेद्यते मया चेद्वै तदोत्कर्षो भवेन्मम ॥ निवेद्यते यदा नैव व्रतभङ्गो भवेन्मम ॥ २३॥
निवेद्यते मया चेद् वै तदा उत्कर्षः भवेत् मम ॥ निवेद्यते यदा ना एव व्रत-भङ्गः भवेत् मम ॥ २३॥
nivedyate mayā ced vai tadā utkarṣaḥ bhavet mama .. nivedyate yadā nā eva vrata-bhaṅgaḥ bhavet mama .. 23..
नोभयं च तथा स्याद्वै निवेद्यं तत्तथा मम ॥ इति यावद्विचार्येत तावत्पृष्टा पुनः पुनः ॥ २४ ॥
ना उभयम् च तथा स्यात् वै निवेद्यम् तत् तथा मम ॥ इति यावत् विचार्येत तावत् पृष्टा पुनर् पुनर् ॥ २४ ॥
nā ubhayam ca tathā syāt vai nivedyam tat tathā mama .. iti yāvat vicāryeta tāvat pṛṣṭā punar punar .. 24 ..
अथानुग्रहतः शंभोः प्राप्तबुद्धिः पतिव्रता ॥ उवाच श्रूयतां स्वामिन्यज्जातं कथयामि ते ॥ २५॥
अथ अनुग्रहतः शंभोः प्राप्त-बुद्धिः पतिव्रता ॥ उवाच श्रूयताम् स्वामिन् यत् जातम् कथयामि ते ॥ २५॥
atha anugrahataḥ śaṃbhoḥ prāpta-buddhiḥ pativratā .. uvāca śrūyatām svāmin yat jātam kathayāmi te .. 25..
अनसूयोवाच ।।
शंकरस्य प्रतापाच्च तवैव सुकृतैस्तथा ॥ गंगा समागतात्रैव तदीयं सलिलन्त्विदम् ॥ २६ ॥
शंकरस्य प्रतापात् च तव एव सुकृतैः तथा ॥ गंगा समागता अत्रा एव तदीयम् सलिलम् तु इदम् ॥ २६ ॥
śaṃkarasya pratāpāt ca tava eva sukṛtaiḥ tathā .. gaṃgā samāgatā atrā eva tadīyam salilam tu idam .. 26 ..
सूत उवाच ।।
एवं वचस्तदा श्रुत्वा मुनिर्विस्मयमानसः ॥ प्रियामुवाच सुप्रीत्या शंकरं मनसा स्मरन्॥ २७ ॥
एवम् वचः तदा श्रुत्वा मुनिः विस्मय-मानसः ॥ प्रियाम् उवाच सु प्रीत्या शंकरम् मनसा स्मरन्॥ २७ ॥
evam vacaḥ tadā śrutvā muniḥ vismaya-mānasaḥ .. priyām uvāca su prītyā śaṃkaram manasā smaran.. 27 ..
अत्रिरुवाच ।।
प्रिये सुन्दरि त्वं सत्यमथ वाचं व्यलीककाम् ॥ ब्रवीषि च यथार्थं त्वं न मन्ये दुर्लभन्त्विदम् ॥ २८ ॥
प्रिये सुन्दरि त्वम् सत्यम् अथ वाचम् व्यलीककाम् ॥ ब्रवीषि च यथार्थम् त्वम् न मन्ये दुर्लभन्तु इदम् ॥ २८ ॥
priye sundari tvam satyam atha vācam vyalīkakām .. bravīṣi ca yathārtham tvam na manye durlabhantu idam .. 28 ..
असाध्यं योगिभिर्यच्च देवैरपि सदा शुभे ॥ तच्चैवाद्य कथं जातं विस्मयः परमो मम ॥ २९ ॥
असाध्यम् योगिभिः यत् च देवैः अपि सदा शुभे ॥ तत् च एव अद्य कथम् जातम् विस्मयः परमः मम ॥ २९ ॥
asādhyam yogibhiḥ yat ca devaiḥ api sadā śubhe .. tat ca eva adya katham jātam vismayaḥ paramaḥ mama .. 29 ..
यद्येवं दृश्यते चेद्वै तन्मयेहं न चान्यथा ॥ इति तद्वचनं श्रुत्वा प्रत्युवाच पतिप्रिया ॥ 4.4.३० ॥
यदि एवम् दृश्यते चेद् वै तत् मया इहम् न च अन्यथा ॥ इति तत् वचनम् श्रुत्वा प्रत्युवाच पतिप्रिया ॥ ४।४।३० ॥
yadi evam dṛśyate ced vai tat mayā iham na ca anyathā .. iti tat vacanam śrutvā pratyuvāca patipriyā .. 4.4.30 ..
अनसूयोवाच ।।
आगम्यतां मया सार्द्धं त्वया नाथ महामुने ॥ सरिद्वराया गंगाया द्रष्टुमिच्छा भवेद्यदि ॥ ३१ ॥
आगम्यताम् मया सार्द्धम् त्वया नाथ महा-मुने ॥ सरिद्वरायाः गंगायाः द्रष्टुम् इच्छा भवेत् यदि ॥ ३१ ॥
āgamyatām mayā sārddham tvayā nātha mahā-mune .. saridvarāyāḥ gaṃgāyāḥ draṣṭum icchā bhavet yadi .. 31 ..
सूत उवाच ।।
इत्युक्त्वा तु समादाय पतिं तं सा पतिव्रता ॥ गता द्रुतं शिवं स्मृत्वा यत्र गंगा सरिद्वरा॥३२॥
इति उक्त्वा तु समादाय पतिम् तम् सा पतिव्रता ॥ गताः द्रुतम् शिवम् स्मृत्वा यत्र गंगा सरित्-वरा॥३२॥
iti uktvā tu samādāya patim tam sā pativratā .. gatāḥ drutam śivam smṛtvā yatra gaṃgā sarit-varā..32..
दर्शयामास तां तत्र गंगां पत्ये पतिव्रता ॥ गर्ते च संस्थितां तत्र स्वयं दिव्यस्वरूपिणीम् ॥ ३३॥
दर्शयामास ताम् तत्र गंगाम् पत्ये पतिव्रता ॥ गर्ते च संस्थिताम् तत्र स्वयम् दिव्य-स्वरूपिणीम् ॥ ३३॥
darśayāmāsa tām tatra gaṃgām patye pativratā .. garte ca saṃsthitām tatra svayam divya-svarūpiṇīm .. 33..
तत्र गत्वा ऋषिश्रेष्ठो गर्तं च जलपूरितम् ॥ आकण्ठं सुन्दरं दृष्ट्वा धन्येयमिति चाब्रवीत् ॥ ३४॥
तत्र गत्वा ऋषि-श्रेष्ठः गर्तम् च जल-पूरितम् ॥ आकण्ठम् सुन्दरम् दृष्ट्वा धन्या इयम् इति च अब्रवीत् ॥ ३४॥
tatra gatvā ṛṣi-śreṣṭhaḥ gartam ca jala-pūritam .. ākaṇṭham sundaram dṛṣṭvā dhanyā iyam iti ca abravīt .. 34..
किं मदीयं तपश्चैव किमन्येषां पुनस्तदा ॥ इत्युक्तो मुनिशार्दूलो भक्त्या तुष्टाव तां तदा ॥ ३५॥
किम् मदीयम् तपः च एव किम् अन्येषाम् पुनर् तदा ॥ इति उक्तः मुनि-शार्दूलः भक्त्या तुष्टाव ताम् तदा ॥ ३५॥
kim madīyam tapaḥ ca eva kim anyeṣām punar tadā .. iti uktaḥ muni-śārdūlaḥ bhaktyā tuṣṭāva tām tadā .. 35..
ततो हि स मुनिस्तत्र सुस्नातः सुभगे जले ॥ आचम्य पुनरेवात्र स्तुतिं चक्रे पुनः पुनः ॥ ३६ ॥
ततस् हि स मुनिः तत्र सु स्नातः सुभगे जले ॥ आचम्य पुनर् एव अत्र स्तुतिम् चक्रे पुनर् पुनर् ॥ ३६ ॥
tatas hi sa muniḥ tatra su snātaḥ subhage jale .. ācamya punar eva atra stutim cakre punar punar .. 36 ..
अनसूयापि संस्नाता सुन्दरे तज्जले तदा ॥ नित्यं चक्रे मुनिः कर्म सानसूयापि सुव्रता ॥ ३७॥
अनसूया अपि संस्नाता सुन्दरे तद्-जले तदा ॥ नित्यम् चक्रे मुनिः कर्म सा अनसूया अपि सुव्रता ॥ ३७॥
anasūyā api saṃsnātā sundare tad-jale tadā .. nityam cakre muniḥ karma sā anasūyā api suvratā .. 37..
ततस्सोवाच तां गंगा गम्यते स्वस्थलं मया ॥ इत्युक्ते च पुनः साध्वी तामुवाच सरिद्वराम् ॥ ३८॥
ततस् सा उवाच ताम् गंगा गम्यते स्व-स्थलम् मया ॥ इति उक्ते च पुनर् साध्वी ताम् उवाच सरिद्वराम् ॥ ३८॥
tatas sā uvāca tām gaṃgā gamyate sva-sthalam mayā .. iti ukte ca punar sādhvī tām uvāca saridvarām .. 38..
अनसूयोवाच ।।
यदि प्रसन्ना देवेशि यद्यस्ति च कृपा मयि ॥ त्वया स्थेयं निश्चलत्वादस्मिन्देवि तपोवने ॥ ३९ ॥
यदि प्रसन्ना देवेशि यदि अस्ति च कृपा मयि ॥ त्वया स्थेयम् निश्चल-त्वात् अस्मिन् देवि तपः-वने ॥ ३९ ॥
yadi prasannā deveśi yadi asti ca kṛpā mayi .. tvayā stheyam niścala-tvāt asmin devi tapaḥ-vane .. 39 ..
महतां च स्वभावश्च नांगीकृत्य परित्यजेत्॥इत्युक्ता च करौ बद्ध्वा तां तुष्टाव पुनःपुनः॥4.4.४०॥
महताम् च स्वभावः च न अंगीकृत्य परित्यजेत्॥इति उक्ता च करौ बद्ध्वा ताम् तुष्टाव पुनर् पुनर्॥४।४।४०॥
mahatām ca svabhāvaḥ ca na aṃgīkṛtya parityajet..iti uktā ca karau baddhvā tām tuṣṭāva punar punar..4.4.40..
ऋषिश्चापि तथोवाच त्वया स्थेयं सरिद्वरे ॥ सानुकूला भव त्वं हि सनाथान्देवि नः कुरु ॥ ४१ ॥
ऋषिः च अपि तथा उवाच त्वया स्थेयम् सरिद्वरे ॥ स अनुकूला भव त्वम् हि स नाथान् देवि नः कुरु ॥ ४१ ॥
ṛṣiḥ ca api tathā uvāca tvayā stheyam saridvare .. sa anukūlā bhava tvam hi sa nāthān devi naḥ kuru .. 41 ..
तदीयं तद्वचः श्रुत्वा रम्यं गंगा सरिद्वरा ॥ प्रसन्नमानसा गंगाऽनसूयां वाक्यमब्रवीत् ॥ ४२ ॥
तदीयम् तत् वचः श्रुत्वा रम्यम् गंगा सरित्-वरा ॥ प्रसन्न-मानसा गंगा अनसूयाम् वाक्यम् अब्रवीत् ॥ ४२ ॥
tadīyam tat vacaḥ śrutvā ramyam gaṃgā sarit-varā .. prasanna-mānasā gaṃgā anasūyām vākyam abravīt .. 42 ..
गंगोवाच ।।
शंकरार्चनसंभूतफलं वर्षस्य यच्छसि ॥ स्वामिनश्च तदा स्थास्ये देवानामुपकारणात। ॥ ४३॥
शंकर-अर्चन-संभूत-फलम् वर्षस्य यच्छसि ॥ स्वामिनः च तदा स्थास्ये देवानाम् उपकारणात्। ॥ ४३॥
śaṃkara-arcana-saṃbhūta-phalam varṣasya yacchasi .. svāminaḥ ca tadā sthāsye devānām upakāraṇāt. .. 43..
तथा दानैर्न मे तुष्टिस्तीर्थस्नानैस्तथा च वै ॥ यज्ञैस्तथाथ वा योगैर्यथा पातिव्रतेन च ॥ ४४ ॥
तथा दानैः न मे तुष्टिः तीर्थ-स्नानैः तथा च वै ॥ यज्ञैः तथा अथ वा योगैः यथा पातिव्रतेन च ॥ ४४ ॥
tathā dānaiḥ na me tuṣṭiḥ tīrtha-snānaiḥ tathā ca vai .. yajñaiḥ tathā atha vā yogaiḥ yathā pātivratena ca .. 44 ..
पतिव्रतां यथा दृष्ट्वा मनसः प्रीणनं भवेत् ॥ तथा नान्यैरुपायैश्च सत्यं मे व्याहृतं सति ॥ ४५॥
पतिव्रताम् यथा दृष्ट्वा मनसः प्रीणनम् भवेत् ॥ तथा ना अन्यैः उपायैः च सत्यम् मे व्याहृतम् सति ॥ ४५॥
pativratām yathā dṛṣṭvā manasaḥ prīṇanam bhavet .. tathā nā anyaiḥ upāyaiḥ ca satyam me vyāhṛtam sati .. 45..
पतिव्रतां स्त्रियं दृष्ट्वा पापनाशो भवेन्मम ॥ शुद्धा जाता विशेषेण गौरीतुल्या पतिव्रता ॥ ४६ ॥
पतिव्रताम् स्त्रियम् दृष्ट्वा पाप-नाशः भवेत् मम ॥ शुद्धा जाता विशेषेण गौरी-तुल्या पतिव्रता ॥ ४६ ॥
pativratām striyam dṛṣṭvā pāpa-nāśaḥ bhavet mama .. śuddhā jātā viśeṣeṇa gaurī-tulyā pativratā .. 46 ..
तस्माच्च यदि लोकस्य हिताय तत्प्रयच्छसि ॥ तर्ह्यहं स्थिरतां यास्ये यदि कल्याणमिच्छसि । ४७ ॥
तस्मात् च यदि लोकस्य हिताय तत् प्रयच्छसि ॥ तर्हि अहम् स्थिरताम् यास्ये यदि कल्याणम् इच्छसि । ४७ ॥
tasmāt ca yadi lokasya hitāya tat prayacchasi .. tarhi aham sthiratām yāsye yadi kalyāṇam icchasi . 47 ..
सूत उवाच ।।
इत्येवं वचनं श्रुत्वाऽनसूया सा पतिव्रता ॥ गंगायै प्रददौ पुण्यं सर्वं तद्वर्षसंभवम् ॥ ४८ ॥
इति एवम् वचनम् श्रुत्वा अनसूया सा पतिव्रता ॥ गंगायै प्रददौ पुण्यम् सर्वम् तत् वर्ष-संभवम् ॥ ४८ ॥
iti evam vacanam śrutvā anasūyā sā pativratā .. gaṃgāyai pradadau puṇyam sarvam tat varṣa-saṃbhavam .. 48 ..
महतां च स्वभावो हि परेषां हितमावहेत् ॥ सुवर्णं चन्दनं चेक्षुरसस्तत्र निदर्शनम् ॥ ४९ ॥
महताम् च स्वभावः हि परेषाम् हितम् आवहेत् ॥ सुवर्णम् चन्दनम् च इक्षु-रसः तत्र निदर्शनम् ॥ ४९ ॥
mahatām ca svabhāvaḥ hi pareṣām hitam āvahet .. suvarṇam candanam ca ikṣu-rasaḥ tatra nidarśanam .. 49 ..
एतद्दृष्ट्वानसूयं तत्कर्म पातिव्रतं महत् ॥ प्रसन्नोभून्महादेवः पार्थिवादाविराशु वै ॥ 4.4.५० ॥
एतत् दृष्ट्वा अनसूयम् तत् कर्म पातिव्रतम् महत् ॥ प्रसन्नः उभूत् महादेवः पार्थिवात् आविराशु वै ॥ ४।४।५० ॥
etat dṛṣṭvā anasūyam tat karma pātivratam mahat .. prasannaḥ ubhūt mahādevaḥ pārthivāt āvirāśu vai .. 4.4.50 ..
शंभुरुवाच ।।
दृष्ट्वा ते कर्म साध्व्येतत् प्रसन्नोऽस्मि पतिव्रते ॥ वरं ब्रूहि प्रिये मत्तो यतः प्रियतरासि मे॥ ५१ ॥
दृष्ट्वा ते कर्म साधो एतत् प्रसन्नः अस्मि पतिव्रते ॥ वरम् ब्रूहि प्रिये मत्तः यतस् प्रियतरा असि मे॥ ५१ ॥
dṛṣṭvā te karma sādho etat prasannaḥ asmi pativrate .. varam brūhi priye mattaḥ yatas priyatarā asi me.. 51 ..
अथ तौ दम्पती शंभुमभूतां सुन्दराकृतिम् ॥ पञ्चवक्त्रादिसंयुक्तं हरं प्रेक्ष्य सुविस्मितौ ॥ ५२ ॥
अथ तौ दम्पती शंभुम् अभूताम् सुन्दर-आकृतिम् ॥ पञ्चवक्त्र-आदि-संयुक्तम् हरम् प्रेक्ष्य सु विस्मितौ ॥ ५२ ॥
atha tau dampatī śaṃbhum abhūtām sundara-ākṛtim .. pañcavaktra-ādi-saṃyuktam haram prekṣya su vismitau .. 52 ..
नत्वा स्तुत्वा करौ बद्ध्वा महाभक्तिसमन्वितौ ॥ अवोचेतां समभ्यर्च्य शंकरं लोकशंकरम् ॥ ५३ ॥
नत्वा स्तुत्वा करौ बद्ध्वा महा-भक्ति-समन्वितौ ॥ अवोचेताम् समभ्यर्च्य शंकरम् लोक-शंकरम् ॥ ५३ ॥
natvā stutvā karau baddhvā mahā-bhakti-samanvitau .. avocetām samabhyarcya śaṃkaram loka-śaṃkaram .. 53 ..
दम्पती ऊचतुः ।।
यदि प्रसन्नो देवेश प्रसन्ना जगदम्बिका ॥ अस्मिंस्तपोवने तिष्ठ लोकानां सुखदो भव ॥ ५४ ॥
यदि प्रसन्नः देवेश प्रसन्ना जगदम्बिका ॥ अस्मिन् तपः-वने तिष्ठ लोकानाम् सुख-दः भव ॥ ५४ ॥
yadi prasannaḥ deveśa prasannā jagadambikā .. asmin tapaḥ-vane tiṣṭha lokānām sukha-daḥ bhava .. 54 ..
प्रसन्ना च तदा गंगा प्रसन्नश्च शिवस्तदा ॥ उभौ तौ च स्थितौ तत्र यत्रासीदृषिसत्तमः ॥ ५५ ॥
प्रसन्ना च तदा गंगा प्रसन्नः च शिवः तदा ॥ उभौ तौ च स्थितौ तत्र यत्र आसीत् ऋषि-सत्तमः ॥ ५५ ॥
prasannā ca tadā gaṃgā prasannaḥ ca śivaḥ tadā .. ubhau tau ca sthitau tatra yatra āsīt ṛṣi-sattamaḥ .. 55 ..
अत्रीश्वरश्च नाम्नासीदीश्वरः परदुःखहा ॥ गंगा सापि स्थिता तत्र तदा गर्तेथ मायया ॥ ५६ ॥
अत्रीश्वरः च नाम्ना आसीत् ईश्वरः पर-दुःख-हा ॥ गंगा सा अपि स्थिता तत्र तदा मायया ॥ ५६ ॥
atrīśvaraḥ ca nāmnā āsīt īśvaraḥ para-duḥkha-hā .. gaṃgā sā api sthitā tatra tadā māyayā .. 56 ..
तद्दिनं हि समारभ्य तत्राक्षय्यजलं सदा ॥ हस्तमात्रे हि तद्गर्ते गंगा मन्दाकिनी ह्यभूत् ॥ ५७ ॥
तत् दिनम् हि समारभ्य तत्र अक्षय्य-जलम् सदा ॥ हस्त-मात्रे हि तद्-गर्ते गंगा मन्दाकिनी हि अभूत् ॥ ५७ ॥
tat dinam hi samārabhya tatra akṣayya-jalam sadā .. hasta-mātre hi tad-garte gaṃgā mandākinī hi abhūt .. 57 ..
तत्रैव ऋषयो दिव्याः समाजग्मुस्सहांगनाः ॥ तीर्थात्तीर्थाच्च ते सर्वे ते पुरा निर्गता द्विजाः ॥ ५८ ॥
तत्र एव ऋषयः दिव्याः समाजग्मुः सह अंगनाः ॥ तीर्थात् तीर्थात् च ते सर्वे ते पुरा निर्गताः द्विजाः ॥ ५८ ॥
tatra eva ṛṣayaḥ divyāḥ samājagmuḥ saha aṃganāḥ .. tīrthāt tīrthāt ca te sarve te purā nirgatāḥ dvijāḥ .. 58 ..
यवाश्च व्रीहयश्चैव यज्ञयागपरायणाः ॥ युक्ता ऋषिवरैस्तैश्च होमं चक्रुश्च ते जनाः ॥ ५९ ॥
यवाः च व्रीहयः च एव यज्ञ-याग-परायणाः ॥ युक्ताः ऋषि-वरैः तैः च होमम् चक्रुः च ते जनाः ॥ ५९ ॥
yavāḥ ca vrīhayaḥ ca eva yajña-yāga-parāyaṇāḥ .. yuktāḥ ṛṣi-varaiḥ taiḥ ca homam cakruḥ ca te janāḥ .. 59 ..
कर्मभिस्तैश्च संतुष्टा वृष्टिं चक्रुर्घनास्तदा ॥ आनन्दः परमो लोके बभूवातिमुनीश्वराः॥ 4.4.६० ॥
कर्मभिः तैः च संतुष्टाः वृष्टिम् चक्रुः घनाः तदा ॥ आनन्दः परमः लोके बभूव अति मुनि-ईश्वराः॥ ४।४।६० ॥
karmabhiḥ taiḥ ca saṃtuṣṭāḥ vṛṣṭim cakruḥ ghanāḥ tadā .. ānandaḥ paramaḥ loke babhūva ati muni-īśvarāḥ.. 4.4.60 ..
अत्रीश्वरस्य माहात्म्यमित्युक्तं वः सुखावहम् ॥ भुक्तिमुक्तिप्रदं सर्वकामदं भक्ति वर्द्धनम् ॥ ६१ ॥
अत्रि-ईश्वरस्य माहात्म्यम् इति उक्तम् वः सुख-आवहम् ॥ भुक्ति-मुक्ति-प्रदम् सर्व-काम-दम् भक्ति वर्द्धनम् ॥ ६१ ॥
atri-īśvarasya māhātmyam iti uktam vaḥ sukha-āvaham .. bhukti-mukti-pradam sarva-kāma-dam bhakti varddhanam .. 61 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥
इति श्री-शिवमहापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् अत्रीश्वरमाहात्म्यवर्णनम् नाम चतुर्थः अध्यायः ॥ ४ ॥
iti śrī-śivamahāpurāṇe caturthyām koṭirudrasaṃhitāyām atrīśvaramāhātmyavarṇanam nāma caturthaḥ adhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In